तस्मै स होवाच

षोडशकलानां तदभिमानिनां च उत्पत्तिक्रमः

उपनिषत्

तस्मै स होवाच । इहैवान्तः शरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडशकलाः प्रभवन्तीति । स ईक्षाञ्चक्रे कस्मिन् न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति । स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च ॥ २ ॥

भाष्यम्

'कर्मेति पुष्करः प्रोक्त उषा नामाभिमानिनी । लोकाभिमानी पर्जन्यः स्वाहा वै मन्त्रदेवता ॥ तपोऽभिमानी वह्निश्च वरुणो वीर्यदेवता ॥ अन्नस्य देवता सोमो मनोनामाऽनिरुद्धकः । इन्द्रियेशाश्च सूर्याद्याश्चक्षुराद्यभिमानिनः ॥ रुद्रो वीन्द्रः शेषकामौ मनसस्त्वेव देवताः । श्रद्धेति वायोः पत्नी स्यात्सर्वेषां प्रभवाप्याया ॥ तस्याश्च कारणं प्राणः सर्वेषामुत्तमोत्तमः ॥ तस्यापीशः कारणञ्च वासुदेव: परोऽव्ययः ॥ न तस्य सदृशः कश्चित्कुत एवोत्तमो भवेत् । तं ज्ञात्वा मुच्यते जन्तुर्विदित्वैवं परात्परम्' ।। इति तत्त्वविवेके ॥ 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।

खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥' इति मन्त्रोक्त एव क्रमः । न हीन्द्रियेभ्यो मनः पश्चात् । 'तत्प्राक् श्रुतेश्च' इति भगवद्वचनम् ॥

'विष्णोः प्राणस्ततः श्रद्धा तस्या रुद्रो मनोऽभिधः । तस्मादिन्द्रस्त्विन्द्रियात्मा तस्य सोमोऽन्नदेवता ॥ ततश्च वरुणस्सृष्टस्तस्मादग्निस्ततोऽवरः । आकाशदेवता विघ्नस्ततो वायोः सुतो मरुत् ॥ तस्मादग्निः पावकाख्यः प्रथमोऽग्रेः सुतस्ततः । ततः पर्जन्य उद्भूतः स्वाहा तो मन्त्रदेवता ||

उदात्मको बुधस्तस्या उषा नामात्मिका ततः । ततः शनिः पृथिव्यात्मा कर्मात्मा पुष्करस्ततः ॥ क्रमात्प्रत्यवरा होते मुक्ताः सर्वगुणैरपि । नित्यमुक्तस्ततो विष्णुः प्राणादप्युत्तमोत्तमः ।।' इति च ॥ २ ॥

श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका

एवं पृष्टवते तस्मै स होवाच । वक्ष्यमाणलक्षणैर्विष्णुरेवासौ पुरुष इति सेत्स्यतीत्यभिप्रायेण शिष्टस्य परिहार उच्यते - इहैवेति ॥ हे सोम्य, यस्मिन् पुरुषे एता वक्ष्यमाणाः प्राणाद्याः षोडशसङ्ख्याकाः कलाः सजीवस्य शरीरस्य भागाः प्रभवन्ति । यस्मादुत्पद्यन्ते यस्मिंश्च प्रविष्टा भवन्ति, मुक्ताः सत्यो यमाश्रित्य वर्तन्ते, अनेन षोडशकलत्वं तस्य कथमिति परिहृतं भवति । स पुरुष इहैव शरीरे शरीरस्यान्तरास्ते। नावश्यं तद्दर्शनाय दूरं गन्तव्यमित्यभिप्रायः।यस्मिन्नेताः षोडशकलाः प्रभवन्ति' इत्युक्तं प्रपश्यते - स इत्यादि ॥ स पुरुषः कल्पादौ कलाः सृजानीतीक्षाञ्चक्रे चिन्तितवान् । पुनश्च कस्मिन् पुरुषे शरीरादुत्क्रान्तेऽहमुत्क्रान्तो भविष्यामि ?, कस्मिन्वा तत्र प्रतिष्ठितेऽहमपि प्रतिष्ठास्यामि प्रतिष्ठो भविष्यामि ?, को नु मद्वशीकरणक्षमभक्तिज्ञानादिसम्पन्नः ?, यं निमित्तीकृत्याहं कलाः सृजानि? इत्येवमीक्षित्वा तादृशः प्राण एवेति निश्चित्य स पुरुषः प्राणं जीवकलाभि- मानिनमसृजत् । प्राणात् तं प्राणं निमित्तीकृत्य श्रद्धां जीवस्यास्तिक्यनिष्ठामसृजत्। ततः खं वायुर्ज्योतिरापः पृथिवीत्येतानि शरीरोपादानभूतानि भूतानि इन्द्रियं चक्षुरादि, प्रवृत्तावुपकरणं मनः, प्रधानकारणमन्नं तत्स्थितिकारणम्, तस्माच्चा- न्नादन्नं निमित्तीकृत्य वीर्यं शरीरहेतुभूतम्, तपो जीवस्य ज्ञानादिहेतुतया सुख- साधनम्, मन्त्राः ऋगादिवेदाः सम्यग्ज्ञानादिहेतवः, कर्म पुण्यापुण्यलक्षणं सुखादिनिमित्तम्, लोकाः गोलकाः इन्द्रियाश्रयभूताः, नाम च देवदत्तादिकमित्येताः कलाः पुरुषेण सृष्टा इति ॥

अत्र स प्राणमसृजत, प्राणाच्छ्रद्धामित्यादौ, अन्नाद्वीर्यमिति मध्ये, लोकेषु सृष्टेषु सत्सु नाम चेत्यन्तेऽपि कथनेन पूर्वपूर्वोत्पन्नां कलां निमित्तीकृत्योत्तरोत्तरकला परमेश्वरेण सृष्टेति सूचयति । एतासाञ्च कलानां यथेत्यादिना जीवेन सह मोक्षे पुरुषप्राप्तिरुच्यते। नचासावुपपद्यते । कलानां जडत्वेन मोक्षासम्भवादित्यतोऽत्र कलाशब्देन तदभिमानिदेवता विवक्षिता इति भावेन व्याख्यानरूपां स्मृति- मुदाहरति - कर्मेति ॥ 'इन्द्रियेशाश्च सूर्याद्याः' इत्यस्यैव विवरणम् - चक्षुराद्य- भिमानिन इति । चक्षुषः सूर्यः, श्रोत्रस्य दिश इत्येवं सूर्याद्या यथासङ्ख्यं चक्षुराद्यभिमानिनो नतु सर्वे सर्वेषामिति । ननु रुद्रादयो मनोदेवताः क्वचिच्छूयन्ते । सत्यम्। तेऽपि भवन्तीत्याह - रुद्र इति ॥ 'सर्वेषां प्रभवाप्यया' इत्यनेन पूर्वोत्पन्नानां पश्चादुत्पन्नान् सर्वान् प्रति स्वाम्यमस्तीति सूचितम् । तं ज्ञात्वेत्यनेन अरा इति मन्त्रो व्याख्यातो भवति । अत्र ' स प्राणमसृजत् प्राणाच्छ्रद्धाम्' इत्याद्युक्त्या कलानामुत्पत्तावयं यथोक्त एव क्रम इत्यन्यथाप्रतीतिः स्यात् । तां निवारयति - एतस्मादिति ॥ न कलानामुत्पत्तावयमेव क्रमो ज्ञातव्यः । तथा सत्येतस्मादिति मन्त्रविरोधात् । तत्र मनसोऽनन्तरमिन्द्रियाणां ततो भूतानाञ्च जन्मश्रवणादित्यर्थः । एतद्वाक्यविरोधान्मन्त्र एव किं नान्यथा व्याख्यायत इत्यत आह-नहीति ।। कुतो नेत्यत आह- तदिति ॥ प्रबलविशेषवचनसहकारिणा मन्त्रेण सामान्यवचनस्य बाधो युक्त एवेति भावः ॥ अस्तु तर्हि इन्द्रियमनोजन्मविषये मन्त्रस्यैतद्वाक्य- बाधकत्वम्। अन्यत्र तु यथाश्रुत एव क्रम इत्याशङ्कां परिहर्तुमशेषक्रमं विशेष- वाक्यान्तरेण दर्शयति-- विष्णोरिति ॥ प्राणो जातोऽवरश्चेत्यादि योज्यम् । रुद्र इत्युपलक्षणम्। पूर्ववाक्योक्ताश्च ग्राह्याः । एवमिन्द्र इत्यपि । तेषु च यथायोग्य- मुत्पत्त्यादि । तस्य सकाशात् । वरुणो वीर्यदेवता । ततः सृष्टस्तत उत्पन्नः। अग्निस्तपोऽभिमानी । मरुद्भूतवायुदेवता । पावकाख्यस्तेजोदेवता । ततो मरुदुत्पत्त्यनन्तरम् । तस्मान्मरुतो जातः, पर्जन्यो लोकाभिमानी । न केवलमेते संसारे क्रमवन्तः । किं तर्हि मोक्षेऽपीत्याह- क्रमादिति । यथा प्राणादीनां श्रद्धादिभ्यः उत्तमत्वमात्रं न तथा प्राणाद्विष्णोरित्याह- नित्यमुक्त इति ॥ ततस्तेभ्यः सर्वेभ्यः प्राणादपि। अत्रोक्ता एव भूतदेवताः पूर्ववाक्येऽपि ग्राह्याः ॥ २ ॥

श्रीवादिराजतीर्थविरचिताषट्प्रश्नभाष्यटीकाप्रकाशिका

'सजीवस्य शरीरस्य' इत्यत्र जीवेन सहितं सजीवं, तस्य शरीरस्येत्यर्थः। षोडशकलाः पुरुषायणाः इति समुद्रदृष्टान्तेन मुक्तावपि पुरुषा- श्रितत्वस्य वक्ष्यमाणत्वादत्रापि प्रकृष्टाः मुक्ताः सन्तो भवन्ति । 'भू सत्तायाम् ' इति धातोः । पुरुषे भवन्तीति सप्तम्यर्थो ग्राह्य इति भावेन प्रविष्टा भवन्तीत्युक्तम् ।

'कलानां जडत्वेन' इत्यत्र प्रकरणबाधात्प्राणस्य देवतात्वसिद्धावपि श्रद्धादि - पञ्चदशकलानां जडत्वादिति भावः । श्रद्धां खं वायुरित्यादिश्रुत्युक्तक्रमस्य तारतम्याननुकूलत्वात्यथोक्त एव क्रम इत्यन्यथाप्रतीतिः स्यात्' इत्युक्तम्। ' इति भगवद्वचनम्' इत्यत्र भगवद्वचनं 'तत्प्राक्श्रुतेश्च' इति सूत्रमित्यर्थः । तस्यार्थः- तन्मनः इन्द्रियेभ्यः प्रथममुत्पद्यते । प्राक् प्रागुत्पत्तौ श्रुतिसद्भावात् । 'ततः श्रद्धा' इत्यत्र श्रद्धाभिमानिनी सरस्वती । 'पूर्ववाक्योक्ता' इत्यत्र कामव्यतिरिक्ता रुद्राद्यास्त्रयो ग्राह्या इत्यर्थः । एवमिन्द्र इत्यपि । इन्द्र इति पदं कामस्योपलक्षणमित्यर्थः। तेजोऽभिमानिमूलाग्नेर्ग्रहणे तस्य विनायकादिभ्यो- ऽवरत्वायोगात्पावकाख्यः तेजसो देवता' इत्युक्तम् । एवमबभिमानिवरुणस्यैव ग्रहणे पृथिव्यभिमानिधरायाश्च ग्रहणे तारतम्यविरोधात् 'उदात्मा बुधः’, ‘शनिः पृथिव्यात्मा' इत्युक्तम्। तत्त्वन्यासे मुख्यतत्त्वदेवतानामेव ग्राह्यत्वादग्नेर्वरुणस्य धरायाश्च ग्रहणं कृतमित्यपि द्रष्टव्यम् । लोकाभिमानी लोकपदवाच्यगोलका- भिमानीत्यर्थः॥ २ ॥

श्रीवामनपण्डिताचार्यविरचिताषट्प्रश्रभाष्यटीका

षोडशकलः पुरुषः सर्वेशो विष्णुः स प्राणमसृजतेत्यादिना लोकानां सृष्टिमाह । अथ तासां देवताविशेषं तारतम्यविशेषञ्च प्रपञ्चयति कर्मेत्यादिना तत्त्वविवेकवाक्यशेषेण । पुष्करो वरुणपुत्रः कर्मदेवता । उषा अश्विनोर्भार्या। स्वाहाग्निभार्या। मन्त्रो वाग्व्यवहारः । तप आलोचनम्। 'इन्द्रियेशाश्च सूर्याद्या- श्चक्षुराद्यभिमानिनः' इत्यस्य सोमवायुसूर्याद्याः श्रोत्रत्वक्चक्षुराद्यभिमानिनः । तथाच भागवते-

दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमित्रकाः ॥ इति ॥ सोमवित्तपसूर्याप्पा अश्व्यग्नीन्द्रेन्द्रसूनवः ।।

यमो दक्षश्चेन्द्रियेशा... ॥ इति चान्यत्र च ॥

इन्द्रसूनुर्यज्ञनामा जयन्त इति चोच्यते ॥

वायोः पत्नी तु खं वायुरित्यादीनां सर्वेषां प्रभवाप्ययस्थानभूता परावरं देव- तारतम्यं तदप्यत्रोक्तमेव हि इत्यत आह-- एतस्माज्जायत इत्यादि ॥ इह तावत्स प्राणमसृजतेत्यारभ्य कलानां स्रष्टा भगवानित्येतदेवोच्यते । न पुनः सृष्टिक्रम 'एतस्माज्जायते प्राण' इत्यादिना मन्त्रवर्णेनोक्त एव हि तासां सृष्टिक्रमो भवति । नहि भूतेन्द्रियसृष्ट्यनन्तरं मनः सृष्टिः । प्रत्युत मनः सृष्ट्यनन्तरमेवे - न्द्रियभूतसृष्टिः । अपरथा ब्रह्मसूत्रविरोधाच्च । अथाप्येनं सृष्टिक्रमं विष्णोः प्राण इत्यादिना तत्त्वविवेकवाक्येन सुव्यक्तं व्याख्याति ॥ ६-२ ॥

श्रीनिवासतीर्थविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

ननु कोऽसौ पुरुष इति प्रश्नस्य विष्णुरिति परिहारो न दृश्यत किन्तु एतदतिरिक्तस्यावशिष्टस्य प्रश्नजातस्यातो भावमाह-वक्ष्यमाणेति ॥ शिष्टस्य कोऽसौ पुरुष इति प्रश्नं विहायावशिष्टस्य क्वचास्तीत्यादि-प्रश्न-जातस्येत्यर्थः ॥ सजीवस्येति ॥ तत्र केचन जीवभागाः केचन शरीरभागा इत्यर्थः । परिहृतमिति ॥ तज्जनकत्वेन तच्छब्दवाच्यत्वमित्यभिप्रायेणेति भावः । ईक्षाञ्चक्रे चिन्तितवानिति । पूर्वं जीवस्य शरीरस्य भागा इत्युक्तम् । जीवस्य भागत्वं नाम तं प्रत्युपकारित्वरूपं तद्दर्शयति- आस्तिक्येति ॥ साक्षा-च्छरीरापादानत्वेन शरीरभागत्वं तद् दर्शयति - ततः खमिति ॥ प्रवृत्ताविति ॥ जीवस्य शरीरस्येति शेषः ॥ तत्स्थितीति ॥ देहस्थितीत्यर्थः । तपआदिकं लोकपर्यन्तं जीवभागः। लोको नाम च शरीरभागः । तदेव दर्शयति - पूर्वेति ॥ अनिरुद्धवीन्द्रशेषकामा इत्यर्थः । इत्यपि उपलक्षणमित्यर्थः । इन्द्रियेशाश्च सूर्याद्या इत्युक्ताः सूर्याद्याश्च ग्राह्याः । नन्विन्द्रसूर्यादीनां सर्वेषां मनोऽभि- मानिरुद्रादेवोत्पत्तिः । किमित्यत आह- तेष्विति ॥ इन्द्रियाभि-मानिष्वि- त्यर्थः॥ भूतवायुदेवतेति ॥ अत्र मुख्याभिमानिप्रवहभिन्न अवान्तरा - -भिमानी कश्चिद् ग्राह्यः । प्रवहग्रहणे तस्य विघ्नोत्तमत्वेन ततोऽवरत्वाद्य-सम्भवादिति ज्ञेयम् । यद्यपि द्वयोः प्रवहतैजसयोरुत्तमत्वात् अन्येषां मरुतां तत्समकक्षत्वात् कश्चित्तदभिमानी न प्रतीयते तथापि तत्समानेष्वपि मध्ये कस्यचित्तदवरत्वम् । एतद्वाक्यानुसारेणैवेन्द्रकामयोरिवेषद् द्रष्टव्यमिति भाति । ननूदाहृतश्रुतेः कथमुप- निषद्व्याख्यानरूपत्वम्। खादिपञ्चभूतदेवानामनुक्तेरित्यत आह- अत्रोक्ता इति।। विघ्नप्रवहपावकपबुधशनैश्चराः । ततश्चोपनिषदि प्राणाच्छ्रद्धाम्, मनः इन्द्रियम्, अन्नम्, वीर्यम्, तपः, खं, वायुः, ज्योतिः, लोकाः, मन्त्राः, आपः, नाम, पृथिवी, कर्म इति क्रम इत्युक्तं भवति ॥ ६-२ ॥

 

छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्

पुरुष इति परमात्मनीत्यर्थः । षोडशकलाः प्रभवन्तीत्यस्य व्याख्या सजीवस्य शरीरस्य जीवसहितशरीरस्य भागा इति । कलाशब्दस्य भागार्थत्वात् । प्रभवन्तीत्यस्य व्याख्यानं उत्पद्यन्त इत्यादि । 'जनिरुत्पत्तिरुद्भवः' इति भूधातोरुत्पत्तौ अमरकोशे प्रयोगात् । कुलालाद् घटो भवतीति प्रयोगाच्चेति भावः । सृष्ट्यादौ कल्पादौ ईक्षाञ्चक्र इत्यन्वयः । जीवस्य मोक्षोपयोगिज्ञानार्थं प्रवृत्त्याद्यर्थञ्च शरीराणि तावदुत्पादनीयानि । अतः शरीरोपयुक्ताः प्राणादिषोडशकलाः सृजानीति ईक्षाञ्चक्र इत्यर्थः । इदं प्राणादिषोडशकलासर्जनं जीवानां शरीरेषु तत्काले पृथक्पृथगेव । नतु महत्त्वादिसृष्टिवत् आदिसृष्टावेव एकवारमिति ज्ञेयम्। प्रतिष्ठितः स्थापितः। यं निमित्तीकृत्य द्वारं कृत्वेत्यर्थः ॥ सृजानीति ॥ सृजधातोरुत्तमपुरुषे मेर्निरिति निरादेशः।। प्राणं जीवकलाभिमानिनमिति || श्वासोच्छ्वास- रूपप्राणानामिकायाः जीवकलाया अभिमानिनं मुख्यप्राणमित्यर्थः । तं निमित्ती- कृत्येति ॥ प्राणादिति कर्मणि पञ्चमीति ल्यब्लोपे कर्मण्यधिकरणे पञ्चमी वाच्येति वार्तिकोक्तेः। निमित्तीकृत्येति ल्यब्लोपनिमित्ता ॥ उपकरणमिति॥ अप्रधान- कारणविशेषम् ॥ अन्नं निमित्तीकृत्येति ॥ अन्नं स्थूलभागरूपं निमित्तीकृत्य अपादानीकृत्य सूक्ष्मभागोपादानकं वीर्यमसृजतेत्यर्थः ॥ सुखसाधनमिति ॥ कृच्छ्रचान्द्रयणादिकमिति शेषः ॥ सूचयतीति ॥ पञ्चम्या ल्यब्लोपनिमित्त- सप्तमीविवक्षणाच्चेति भावः । यथासम्भवमिति ॥ त्वचः प्राणः । जिह्वाया वरुणः । घाणस्यश्विनौ । तथा वाचोऽग्निः । पाण्योर्दक्षः । पादयोर्जयन्तः । पाय्वोर्मित्रः। गुह्येन्द्रियस्य मनुः । एवमित्यर्थः ॥ पूर्वपूर्वोत्पन्नानामिति ॥ ननु तं ज्ञात्वेत्येतस्य व्याख्यानमित्यप्रतीतेराह - तं ज्ञात्वेत्यनेनेति ॥ तत्र मनसोऽनन्तरमिति। उत्तरत्रैतस्मादित्यनुवृत्तेः । प्राणान्मन उत्पन्नम्। मनसो इन्द्रियाण्युत्पन्नानि । तेभ्यः पञ्चमहाभूतान्युत्पन्नानीत्यर्थप्रतीतेः । अत्र लिङ्गम् । 'पूर्वं मनः समुत्पन्नं ततोऽन्येषां समुद्भव' इति प्रमाणम् ।। प्रबलविशेष- वचनसहकारिणेति ॥ निर्णायकत्वेन सूत्रस्य प्राबल्यादिन्द्रियापेक्षया मनसः पूर्वोत्पत्तिकथनेनाविशेषवचनाच्च । तत्सहकृतौ एतस्माज्जायते प्राण इति मन्त्रेणेत्यर्थः । तत्प्राक्श्रुतेश्चेति सूत्रार्थस्तु तत्तु मन इन्द्रियेभ्यः पूर्वमुत्पद्यते ' मनः सर्वेन्द्रियाणि च' इति श्रुतेः । ननु श्रद्धाया मनोमात्रकारणत्वोक्तेः सर्वोत्पत्ति- लयकारणत्वं भाष्ये कथमुच्यत इत्यत आह 'पूर्वं मनः समुत्पन्नं ततोऽन्येषां समुद्भवः' इति स्मृतिवचनाच्चेति ॥ योज्यमिति ॥ वरुणः सृष्ट इत्यत्र विद्यमान- जातशब्दपर्यायः सृष्टशब्दः । तस्मादग्निस्ततोऽवर इत्यत्र विद्यमानावरशब्दश्च तत्र पञ्चम्यन्तात्परो योज्य इति भावः ॥ उपलक्षणमिति ॥ उपलक्षणस्या- जहत्स्वार्थत्वेन कामस्य तारतम्यासम्भवेनात्रागृहीतत्वेऽपि पूर्वोक्ता इति बहुवचनोपपत्तिः ॥ इन्द्र इत्यपीति ॥ उपलक्षणमिति शेषः । कामाहङ्कारिक- प्राणादयोऽपि केचिदिन्द्रियाभिमानिनोऽग्न्याद्या इत्यर्थः । ननु प्रकृतजडचेतना- त्मककलासु मध्ये चेतनानां मन्त्रादेश्चानादित्वेन कथमुत्पत्तिः। साक्षादवरत्वञ्च कथमित्यत आहयथायोग्यमुत्पत्त्यादीति । चेतनेषूत्पत्तिर्देहतः । जडेषु स्वरूपतः । क्वचिदभिमानव्यक्तिः । आदिशब्दात्क्वचित्साक्षात्क्वचित्परम्परयावरत्वं ग्राह्यम् ॥ तस्य सकाशादिति ॥ उत्पत्तौ तस्येत्यनन्वयात् सकाशादित्युक्तम् । वरुणस्याभिमन्यमानानुक्तेराह - वीर्यदेवतेति ॥ सृष्ट इत्यस्योत्पादित इत्यर्थभ्रान्तिं वारयितुमाह- तत उत्पन्न इति ॥ भूतवाय्वभिमान्यहङ्कररूपप्राणस्य गणेशा- दुत्तमत्वेन गणेशजन्यत्वतदवरत्वयोरसम्भवात्। भाष्योक्तं ततो वायोः सुतो मरुदिति तदप्रतीतेर्व्याचष्टे॥ मरुद्भूतवायुदेवतेति ॥ वायोः प्रवहवायोः सुतः मरुत् । मरुन्नामक भूतवायुदेवता अत्र विवक्षित इति भावः। ततः मरुदुत्पत्त्य- नन्तरमिति ॥ पावको जात इत्यन्वयः । क्रमवन्तस्तारतम्यवन्तः ॥ उत्तमत्व- मात्रमिति। शतगुणादिपरिमितोत्तमत्वमित्यर्थः ।। ततस्तेभ्यः सर्वेभ्य इति ॥ ततो नित्यमुक्तत्वात् । अपिशब्दसमुच्चितोऽर्थस्तेभ्य इति ॥ पूर्ववाक्येऽपीति ॥ एतस्माज्जायते प्राण इत्यत्र खं वायुरितिवाक्य इत्यर्थः ॥ ६-२ ॥

ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

।। स प्राणमसृजतेति ॥ विवरणग्रन्थानुसारेण यस्मिन्निति सप्तम्या विपरिणामेनार्थमाह- यस्मादिति । स यथा नद्य इत्यादौ सदृष्टान्तं कलानां भगवदाश्रयत्वाभिधानात्तदनुसारेण यथाश्रुतसप्तम्यर्थमाह- यस्मिं- श्चेति ॥ तत्स्थितिकारणमिति ॥ अन्नसारस्य शरीरावयवोपचायकतया स्थितिकारणत्वेनान्नभागस्य शरीरांशत्वमिति भावः ॥ शरीरहेतुभूतमिति ॥ बीजभूतमित्यर्थः । तथाच पितृभुक्तान्नस्य पुत्रशरीरबीजभूतवीर्यहेतुत्वेनान्ना- ज्जातवीर्यस्य शरीरावयवत्वमिति भावः ॥ ज्ञानादिहेतुतयेति ॥ अन्तः- करणशुद्धिद्वारा ज्ञानादिहेतुतया सुखस्य परम्परया साधनं कायक्लेशसाधनं एकादश्युपवासादिजनितं पुण्यमित्यर्थः । तप आलोचनमिति ॥ प्राचीन- टीकोक्तेर्मननापरनामकं वा ॥ ऋगादिवेदा इति ॥ अन्तःकरणशुद्धिद्वारमन्तरेण युक्त्यनुसन्धानात्मकमीमांसावत्प्रमाणानुग्राहकत्वं वान्तरेण साक्षाज्ज्ञान- कारणीभूता ऋगादि वेदा मन्त्रास्तदुच्चारणशक्तिर्वा । प्राचीनटीकोक्तरीत्या तद्विषयवाग्व्यवहारो वाऽत्र विवक्षितः । अन्यथा वेदानां शरीरभागत्वायोगाच्च ॥ कर्म पुण्येति ॥ ज्ञानादिद्वारमन्तरेण साक्षात्सुखसाधनमपूर्वलक्षणमित्यर्थः ।। नाम देवदत्तादिकमिति । यद्यपि नाम वर्णमालारूपं शरीरावयवं न भवति । तथापि नाम लक्षणाविशेषोपलक्षितत्वेन विशिष्टोत्पादाद्भागत्वं द्रष्टव्यम् । अत एव नामविकल्पे यथा डित्थ इत्यन्यत्रोक्तम् । कर्मेति पुष्करः प्रोक्त इत्यत्र पुष्करो वरुणपुत्रः कर्मदेवतेति प्राचीनटीकायाम् ॥ विवरणमिति ॥ चक्षुराद्यभिमानि- त्वव्यतिरिक्ततदीशत्वाभावादिति भावः ॥ क्वचिदिति । 'वैदिकं गरुडोऽथेन्द्रो यज्ञादिविषयं मनः । शेषोऽसौ पाञ्चरात्रिकः' इत्यादावैतरेयभाष्य इत्यर्थः ॥ स्वाम्यमिति ॥ पूर्वोत्पन्न श्रद्धाया उत्पत्तिलयाधिकरणत्वेन स्वाम्योक्त्या पूर्वोत्पन्नाः सर्वेऽप्यनन्तरजान् प्रति स्वामिन इति सूचित इत्यर्थः । 'विष्णोः प्राणः' इत्यादिप्रकरणेन तस्य वरुणः सृष्ट इत्यस्य सोमाद्वरुणः सृष्ट इत्यन्वयेऽपि, ततो वर आकाशदेवता विघ्न इत्यस्य ततः प्रधानाः आकाशदेवता विघ्नो वर इत्यन्वयेऽपि शिष्टानां विष्णोः प्राणस्ततः श्रद्धेत्यादीनामन्वयो न प्रतीयत इत्यतः सर्वत्र सृष्टो वर इति परयोः सयोजनेनान्वयमाह - प्राणो जातो वरश्चेत्यादि योज्यमिति ॥ पूर्ववाक्योक्ता इति । 'मनोनामानिरुद्धकः । रुद्रो वीन्द्रः शेषकामौ' इति पूर्वोक्ता अपीत्यर्थः । एवमिन्द्र इत्यपीति ॥ इन्द्र- स्त्विन्द्रियात्मेत्येतत् 'इन्द्रियेशाश्च सूर्याद्याः' इत्यस्योपलक्षणमित्यर्थः ॥ तेष्विति ॥ मनोऽभिमानिभ्यो रुद्रवीन्द्रशेषेभ्यः इन्द्रियेश इन्द्रो मनोऽभिमानी कामः तन्मान्येवानिरुद्धः तस्मादिन्द्रियेशाः सूर्याद्या इति यथायोग्यमित्यर्थः । तस्य सोम इति षष्ठ्याः 'सृष्टः वर' इति पदद्वयेनाप्यन्वयायोगात् कथमन्वय इत्यत आह- तस्य सकाशादिति ॥ इन्द्रियमुख्याभिमानीन्द्रसकाशात्सोमो जातो वरश्चेत्यर्थः ॥ ६-२ ॥

मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

|| शिष्टस्येति । उर्वरितस्य कश्चासाविति प्रश्नेतरप्रश्नस्येत्यर्थः । षोडशकला इत्यस्य व्याख्या ॥ सजीवस्य शरीरस्य भागा इति ॥ कलाशब्दस्य भागार्थत्वादिति । अत्र भागशब्देनोपकारकं विवक्षितम् । तेन पृथिव्यादीनां पञ्चानामपि भूतानां ब्रह्माण्डान्तर्विद्यमानानां संसृष्टशब्दशब्दितानां असंसृष्टशब्दशब्दितमहदादिव्यतिरिक्तानां कलात्वम् । तथाहि-भूतानां ताव- च्छरीरोपादानत्वमस्ति ।

यत्किञ्चिदिह लोकेऽस्मिन्देहबद्धं विशाम्पते ।

सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः ॥

इति शरीरस्य पाञ्चभौतिकत्वोक्तेः । अतस्तेषां शरीरोपकारकत्वमवश्यं वाच्यम्। उपादानानामुपादेयोपकारकत्वस्य तन्त्वादौ सुप्रसिद्धत्वात् । ततश्च पृथिव्यादीनां भूतानां कलात्वसिद्धिः । एवं जीवस्य शरीरप्रेरकतया श्रद्धा- पदोक्तास्तिक्यनिष्ठायाः यागादिविहितप्रवृत्तिहेतुत्वेन चक्षुरादीन्द्रियस्य प्रवृत्ता- वुपकरणत्वेन मनसः प्रवृत्तौ प्रधानकारणत्वेन अन्नस्य शरीरस्थितिकारणत्वेन वीर्यस्य शरीरहेतुत्वेन तपसो जीवज्ञानादिहेतुतया सुखसाधनत्वेन ऋगादि- वेदरूपाणां मन्त्राणां सम्यग्ज्ञानादिहेतुत्वेन कर्मणः पुण्यापुण्यरूपस्य सुखादिनिमित्तत्वेन लोकशब्दोक्तेन्द्रियाश्रयगोलकानां शरीरावयवत्वेन देवदत्ता - दिनाम्नो व्यवहारहेतुत्वेन सजीवशरीरोपकारकतया कलात्वं बोध्यम् । अत्र किञ्चिज्जीवोपकारकं किञ्चिच्च शरीरोपकारकम् । सर्वथापि सजीवशरीररूप- विशिष्टोपकारकत्वं सर्वेषां समानमिति । कल्पादावीक्षाञ्चक्र इत्यन्वयः । जीवस्य मोक्षोपयोगिज्ञानार्थं प्रवृत्त्याद्यर्थञ्च शरीराणि तावदुत्पादनीयानि। अतः शरीरोप- युक्ताः प्राणादिषोडशकलः सृजानीति ईक्षाञ्चक्र इत्यर्थः । इदं प्राणादिषोडश- कलासर्जनं जीवानां शरीरेषु तत्तत्काले पृथक्पृथगेव । नतु महत्तत्त्वादिसृष्टि-वदादिसृष्टावेकवारमिति ज्ञेयम् । प्रतिष्ठः प्रतिष्ठितः ॥ यं निमित्तीकृत्येति ॥ द्वारीकृत्येत्यर्थः ॥ प्राणं जीवकलाभिमानिनमिति ॥ श्वासनिश्वासरूपप्राण- नामिकायाः कलायाः अभिमानिनं मुख्यप्राणमित्यर्थः । तं प्राणं निमित्ती - कृत्येति ॥ प्राणादिति पञ्चमी कर्मणि ल्यब्लोपे कर्मण्यधिकरणे पञ्चमी वाच्येति वार्तिकोक्तेः। निमित्तीकृत्येत्यनेनाप्रधानकारणत्वोक्तिः ॥ अन्नं निमित्तीकृत्येति ॥ अन्नं स्थूलभागरूपं निमित्तीकृत्य अपादानीकृत्य सूक्ष्मभागोपादानकं वीर्यमित्यर्थः। सुखसाधनमिति ॥ कृच्छ्रचान्द्रयणादिकमिति शेषः ॥ सूचय- न्तीति ॥ पञ्चम्याः ल्यब्लोपनिमित्तत्वस्य विवक्षितत्वात् । सामान्यकारणा- र्थत्वप्रतीतेर्लोकेष्वित्यत्र निमित्तसप्तमीविवक्षणाच्चेति भावः । कर्मेति पुष्करः प्रोक्त इति भाष्ये उषा इति सान्तः शब्दः तदर्थस्त्वश्विनोर्भार्येति । पर्जन्यः द्वादशादित्ये ष्वेकः । स्वाहा अग्नेर्भार्या । अनिरुद्ध एवानिरुद्धकः कामपुत्र इत्यर्थो द्रष्टव्यः॥ इत्यस्यैव विवरणमिति ॥ अतो न पुनरुक्तिरिति भावः ॥ यथासम्भवमिति ॥ त्वचः प्राणः, जिह्वाया वरुणः, घ्राणस्याश्विनौ तथा वाचोऽग्निः, पाण्योर्दक्षः, पादयोर्जयन्तः, पाय्वोर्मित्रः, गुह्येन्द्रियस्य मनुरित्येव- मित्यर्थः। ननु श्रद्धाया वक्ष्यमाणक्रमानुरोधेन मनोमात्रकरणत्वोक्तेः सर्वोत्पत्ति- लयकारणत्वं कथमुच्यते भाष्ये इत्यत आह- पूर्वोत्पन्नानामिति ॥ ननु तं ज्ञात्वेत्येतत्कस्य व्याख्यानमित्यप्रतीतेराह - तं ज्ञात्वेत्यनेनेति ॥ उत्तरत्रोदा- हरिष्यमाणो मन्त्र इत्यर्थः ॥ तत्र मनसोऽनन्तरमिति || उत्तरत्र एतस्मादित्यनुवृत्तेः प्राणान्मन उत्पन्नम् । मनसः इन्द्रियाण्युत्पन्नानि । तेभ्यः पञ्चमहाभूतानीत्यर्थप्रतीतेरित्यर्थः । प्रबलविशेषेति ॥ निर्णायकत्वेन सूत्रस्य प्राबल्यादिन्द्रियापेक्षया मनसः पूर्वोत्पत्तिकथनेन विशेषवचनत्वाच्च तत्सहकृतै- तस्मादिति मन्त्रेणेत्यर्थः। ' तत्प्राक् श्रुतेश्च' इति सूत्रार्थस्तु मन इन्द्रियेभ्यः पूर्वमुत्पद्यते मनः सर्वेन्द्रियाणि च' इति श्रुतेः । 'पूर्वं मनः समुत्पन्नं ततोऽन्येषां समुद्भवः' इति स्मृतिवचनाच्चेति ॥ योज्यमिति ॥ वरुणः सृष्ट इत्यत्र विद्यमानः जातशब्दपर्यायः सृष्टशब्दस्तस्मादग्निस्ततोऽवर इत्यत्र विद्यमानोऽवरशब्दश्च पञ्चम्यन्तात्परो योज्य इति भावः ॥ उपलक्षण - मिति ॥ उपलक्षणस्या-जहत्स्वार्थत्वेन कामस्य ततोऽवरत्वेनात्र ग्रहणासम्भवे ऽपि पूर्वोक्ता इति बहुवचनोपपत्तिः । मनोऽभिमानित्वेन परम्परया अवरत्वेन कामस्यापि ग्रहणाद्वा ॥ इन्द्र इत्यपीति ॥ उपलक्षणमित्यनुवर्तते । कामाहङ्कारिक- प्राणादयोऽपि केचिदिन्द्रियाभिमानिनो ग्राह्या इत्यर्थः । ननु प्रकृतजड- चेतनात्मककालसु मध्ये चेतनानां मन्त्रादेश्चानादित्वेन कथमुत्पत्तिः। कथञ्च साक्षादवरत्वमित्यत आह- यथायोग्यमुत्पत्त्यादीति ॥ चेतनेषूत्पत्तिर्देहतः जडेषु स्वरूपतः क्वचिदभिमानव्यक्तिः । आदिशब्दात्वचित्साक्षात्कचित्पर- म्परयाऽवरत्वं ग्राह्यम् । सकाशादित्यनुक्तौ तस्येत्यस्यानन्वयात्सकाशादि- त्युक्तम्। वरुणस्याभिमन्यमानानुक्तेराह - वीर्यदेवतेति ॥ सृष्ट इत्यस्योत्पादित इत्यर्थत्वे तत इति पञ्चम्यनन्वयादाह - तत उत्पन्न इति ॥ भूतवाय्वभि- मान्याहङ्कारिकप्राणस्य गणेशादुत्तमत्वेन तज्जन्यत्वतदवरत्वयोरसम्भवा- न्निमित्तात्ततो वायोः सुतो मरुदित्युक्तं भाष्ये तदप्रतीतेर्व्याचष्टे - मरुद्भूत- वायुदेवतेति ॥ वायोः प्रवहवायोः सुतो मरुन्मरुन्नामकः भूतवायुदेवतात्र विवक्षित इति भावः । मरुत्पदेनैवाभिमन्यमानं लब्धमित्याशयेन वाह- मरुद्भूतवायुदेवतेति ॥ अस्मिन्पक्षे वायोः प्रवहस्य सुतो भूतवायुदेवतेत्यर्थो ज्ञेयः । तस्मादग्निः पावकाख्य इत्यत्र तत इत्यधिकमित्याशङ्कय तदर्थमाह- ततो मरुदुत्पत्त्यनन्तरमिति ॥ उत्तमत्वमात्रमिति ॥ शतगुणादिपरिमितोत्तमत्व- मित्यर्थः ॥ पूर्ववाक्येऽपीति । एतस्माज्जायते प्राण इति पूर्वोदाहृतवाक्येऽपी- त्यर्थः । अतो न तारतम्यविरोध इति भावः ॥ ६-२ ॥

गूढकर्तृकाषट्प्रश्नभाष्यटीकाटिप्पणी

॥ पूर्ववाक्योक्ता अपीति ॥ 'मनोनामानिरुद्धकः। रुद्रो वीन्द्रः शेषकामौ मनसस्त्वेव देवता:' इति पूर्ववाक्योक्ता अपीत्यर्थः । एवमिन्द्र इत्युपलक्षणम् । इन्द्रियेशाश्च सूर्याद्याश्चक्षुराद्यभिमानिन इति । पूर्ववाक्योक्ता अपीत्यर्थः। ननु मनोभिमानिरुद्रशेषगरुडैरिन्द्रोत्पत्तावपि कथं कामानिरुद्धाभ्या- मुत्पत्तिरवरत्वञ्च । इन्द्रशब्दस्य सूर्याद्युपलक्षणत्वे च सूर्यादीनां इन्द्रसाम्यञ्च स्यादित्यत आहतेष्विति ॥ आदिपदेनावरत्वमुच्यते । अभिमानोत्पत्त्यर्थ- मेवोपलक्षणं कृतमिति भावः ॥ ६-२ ॥

श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः

एवं पृष्टवते तस्मै स होवाच । वक्ष्यमाणलक्षणः विष्णुरेवासौ पुरुष इति सेत्स्यतीत्यभिप्रायेण शिष्टस्य परिहार उच्यते - इहैवेति । हे सोम्य यस्मिन् पुरुषे एता वक्ष्यमाणाः प्राणाद्याः षोडशसङ्ख्याकाः कलाः सजीवस्य शरीरस्य भागाः प्रभवन्ति यस्मादुत्पद्यन्ते यस्मिंश्च प्रतिष्ठिता मुक्तास्सत्यो यमाश्रित्य वर्तन्ते। अनेन षोडशकलत्वं चैतस्य कथमिति परिहृतं भवति । स पुरुष इहैव शरीरे शरीरस्यैवान्तरास्ते । नावश्यं तद्दर्शनाय दूरं गन्तव्यमित्यभिप्रायः ।

यस्मिन्नेताः षोडशकलाः प्रभवन्तीत्युक्तं प्रपंच्यते - स इत्यादि ॥ स पुरुषः कल्पादौ कलाः सृजामीति ईक्षाञ्चक्रे चिन्तितवान् । पुनश्च कस्मिन् पुरुषे शरीरादु- त्क्रान्तेऽहमुत्क्रान्तो भविष्यामि ? कस्मिन् वा तत्र प्रतिष्ठितेऽहमपि प्रतिष्ठास्यामीति प्रतिष्ठितो भविष्यामि ? को नु मद्वशीकरणक्षमभक्तिज्ञानादिसम्पन्नः ? यं निमित्ती- कृत्याहं कलाः सृजामीत्येवमीक्षित्वा तादृशः प्राण एवेति निश्चित्य स पुरुषः प्राणं जीवकलाभिमानिनमसृजत । प्राणात् तं प्राणं निमित्तीकृत्य श्रद्धां जीवस्य आस्तिक्यनिष्ठाभिमानिनीं भारतीमसृजत् । ततः खं वायुः ज्योतिरापः पृथिवी- त्येतानि शरीरोपादानभूतानि भूतानि तदभिमानिनो विघ्नेशाद्या देवाः, इन्द्रियं चक्षुरादिप्रवृत्तौ उपकरणं सूर्यादिदेवाः, मनः प्रधानकरणं तद्देवाः वीन्द्रशेष- कामानिरुद्धाः, अन्नं तत्स्थितिकारणं तन्मानी सोमः, तस्माच्चान्नात् अन्नं निमित्तीकृत्य वीर्यं शरीरहेतुभूतं तद्देवता वरुणः, तपो जीवस्य ज्ञानादिहेतुतया सुखसाधनं तदभिमानी वह्निः, मन्त्रा ऋगादिवेदाः साक्षाज्ज्ञानादिहेतवः तद्देवता स्वाहा, कर्म पुण्यापुण्यलक्षणं सुखादिनिमित्तं, तदभिमानी पुष्करः, लोकाः गोलकाः इन्द्रियाश्रयभूताः, तद्देवः पर्जन्यः, नाम देवदत्तादिकं तन्मानिनी उषा इत्येताः कलाः पुरुषेण सृष्टा इति ग्राह्यम् ।

अत्र स प्राणमसृजत, प्राणाच्छ्रद्धामित्यादौ, अन्नाद्वीर्यमिति मध्ये लोकेषु सृष्टेषु सत्सु नाम चेत्यन्तेऽपि कथनेन पूर्वपूर्वोत्पन्नाः कलाः निमित्तीकृत्योत्तरोत्तराः कलाः परमेश्वरेण सृष्टा इति सूच्यते । तच्च यथोक्तक्रमेऽनुपपन्नम्। अतो भाष्याद्युक्तदिशा क्रमोऽवगन्तव्यः ॥ ६-२ ।।

नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका

इत्येवं पृष्टवते तस्मै भरद्वाजाय स उवाच । वक्ष्यमाणलक्षणैः विष्णुरेवासौ पुरुष इति सेत्स्यतीत्यभिप्रायेण शिष्टस्य परिहारमाह- इहैवेति || हे सोम्य यस्मिन्पुरुषे एता हि वक्ष्यमाणाः प्राणाद्याः षोडशसङ्ख्याकाः कलाः सजीवस्य शरीरस्य भागाः प्रभवन्ति । यस्मादुत्पद्यन्ते यस्मिंश्च प्रतिष्ठिता भवन्ति। मुक्ता सत्यो यमाश्रित्य वर्तन्ते, अनेन षोडशकलात्वं तस्य तदुत्पादेनेत्युक्तं भवति। स पुरुषः इहैव शरीरे शरीरस्यान्तरेवास्ते नावश्यं तस्य दर्शनार्थं दूरं गन्तव्यम्। यस्मिन्नेताः षोडशकलाः प्रभवन्तीत्युक्तं विवृणोति - स इति ॥ स पुरुषः कल्पादौ कलाः सृजानीति ईक्षाञ्चक्रे चिन्तितवान् । पुनश्च कस्मिन्पुरुषे शरीरादुत्क्रान्ते अहमुत्क्रान्तो भविष्यामि ? कस्मिन्वा प्रतिष्ठित अहमपि प्रतिष्ठास्यामि प्रतिष्ठितो भवामि ? को नु मद्वशीकरणक्षमः भक्तिज्ञानादिसम्पन्नः यं निमित्तीकृत्याहं कलाः सृजामि ? इत्येवमीक्षित्वा तादृशश्च प्राण एवेति निश्चित्य स पुरुषः प्राणं जीवकलाभिमानिनं असृजत । प्राणं निमित्तीकृत्य श्रद्धां जीवस्य श्रद्धां आस्तिक्यबुद्ध्यभिमानिनीं वायुपत्नीं भारतीम्। ततः खं आकाशम्। अत्र सृष्टिकथने तात्पर्यं नतु क्रमे तात्पर्यम् । क्रमस्तु विशेष- प्रमाणादवगन्तव्यः। तथाहि विशेषस्मृतिः ।

विष्णोः प्राणस्ततः श्रद्धा तस्या रुद्रो मनोऽभिधः ।

तस्मादिन्द्रस्त्विन्द्रियात्मा ततः सोमोऽन्नदेवता ॥

ततश्च वरुणः सृष्टः तस्मादग्निस्ततोऽवरः ।

आकाशदेवता विघ्नः ततो वायोः सुतो मरुत् ॥

तस्मादग्निः पावकाख्यः प्रथमोऽग्नेस्सुतस्ततः ।

ततः पर्जन्य उद्भूतः स्वाहातो मन्त्रदेवता ॥

उदात्मको बुधस्तस्य उषा नामात्मिका ततः ।।

ततः शनिः पृथिव्यात्मा कर्मात्मा पुष्करस्ततः ।

क्रमात्प्रत्यवरा एते मुक्ताः सर्वगुणैरपि ॥

नित्यमुक्तस्ततो विष्णुः प्राणादप्युत्तमोत्तमः ॥ इति ॥

प्राणाच्छ्रद्धा, अन्नाद्वीर्यं मन्त्रेषूत्पन्नेषु सत्सु नाम चेति । आदिमध्या-वसानेषूक्तेः पूर्वोत्पन्नकलां निमित्तीकृत्य उत्तरोत्तरकलां स पुरुषो विष्णुः सृजती- त्यवगन्तव्यम्। आकाशादिकलानां जीवेन सह मुक्त्यभिधानादाकाशादिशब्दैः तदभिमानिदेवा ग्राह्याः। जडानां मुक्त्यनुपपत्तेः । अभिमानिनतस्तूक्तप्रमाणोक्ताः तच्छेषवचनान्तरोक्ताश्च। वचनान्तरं तु-

कर्मेति पुष्करः प्रोक्तः  उषा नामाभिमानिनी ।

लोकाभिमानी पर्जन्यः स्वाहा वै मन्त्रदेवता ॥

तपोऽभिमानी वह्निश्च वरुणो वीर्यदेवता ।

अन्नस्य देवता सोमो मनोमान्यनिरुद्धकः ॥

इन्द्रियेशाश्च सूर्याद्याः चक्षुराद्यभिमानिनः ।

रुद्रो वीन्द्रः शेषकामौ मनसस्त्वेव देवताः ॥

श्रद्धेति वायोः पत्नी स्यात्सर्वेषां प्रभवाप्यया ।

तस्याश्च कारणं प्राणः सर्वेषामुत्तमोत्तमः ॥

तस्यापीशः कारणञ्च वासुदेवः परोऽव्ययः ।

न तस्य सदृशः कश्चित् कुत एवोत्तमो भवेत् ॥

तं ज्ञात्वा मुच्यते जन्तुः विदित्वैवं परात्परम् ।। इति तत्त्वविवेके ॥

ततश्चायमर्थः - 'खं वायुर्ज्योतिरापः पृथिवी' इत्येतानि आकाशादिभूतानि शरीरोपादानानि । आकाशाभिमानी विनायकः । वाय्वभिमानी प्रवहः । ज्योति- रभिमानी अग्निः तत्पुत्रः पावकश्च । अबभिमानी वरुणः । पृथिव्यभिमानिभूता धरा । इन्द्रियज्ञानोपकरणं श्रोत्रादि वागादि च । तत्र श्रोत्राभिमानिन्यो दिग्देवताः । त्वगभिमानी प्राणवायुः । चक्षुरभिमानी सूर्यः । जिह्वाभिमानी वरुणः । घ्राणाभिमानिनावश्विनौ । वागभिमानी वह्निः । हस्ताभिमानी दक्षः । पादाभिमानी जयन्तः । पाय्वभिमानी मित्रः । उपस्थाभिमानी स्वायम्भुवो मनुः । ज्ञान- प्रधानोपकरणमनोऽभिमानिनो गरुडशेषरुद्रेन्द्रकामानिरुद्धाः। बुद्ध्यभिमानिन्यः सौपर्णीवारुण्युमाः । अन्नं देहस्थितिकारणं तदभिमानी सोमः । तस्माच्यान्नादन्नं निमित्तीकृत्य वीर्यं शरीरहेतुभूतं तदभिमानी वरुणः । तपः जीवस्य ज्ञानादि- हेतुतया सुखसाधनं तदभिमानी वह्निः । मन्त्राः ऋगादिदेवाः सम्यज्ज्ञानहेतवः तदभिमानी स्वाहा । कर्म सुखदुःखसाधनं कर्मजन्यं पुण्यपापलक्षणमदृष्ट तदभिमानी पुष्करः । लोका इन्द्रियगोलकाः तदभिमानी पर्जन्यः । लोकेषु निमित्तेषु सत्सु नाम व्यवहारोपयोगिभूतइन्द्रादिनाम तदभिमानी उषा अश्विभार्या। यस्मिन्नेताविति प्राणादिकलानां मुक्तानां परमपुरुषाश्रयत्वमुक्तम्॥ ६-२ ॥

उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका

एवं पृष्टवते तस्मै भरद्वाजाय स गुरुः हि आनन्दपूर्वकमुवाच । हे सोम्य सोमपानार्ह । यस्मिन् पुरुषे यस्मात्पुरुषात् । एता वक्ष्यमाणाः प्राणाद्याः षोडशकलाः प्रभवन्ति उत्पद्यन्ते । प्रविष्टाश्च भवन्ति । स पुरुषः इहैव शरीरे अन्तः शरीरान्त- र्भागे । वर्तत इति शेषः । इत्याहेत्यनुषङ्गः । तद्दर्शनार्थं दूरगमनं नापेक्षितमिति भावः षोडशकलाप्रभवत्वमेव विशदयति- स ईक्षाञ्चक्र इति ॥ स पुरुषो भगवान् कल्पादौ सृजामीति ईक्षाञ्चक्रे चिन्तितवान् । वेत्यनन्तरं कस्मिन् पुरुष उत्क्रान्ते गच्छति सति अहं उत्क्रान्तो भविष्यामि तस्माच्छरीराद्गमिष्यामि । कस्मिन्पुरुषे प्रतिष्ठि अहमपि प्रतिष्ठास्यामि प्रतिष्ठितो भवामीति, मद्वशीकरणक्षमो भक्तिज्ञाना- दिसम्पन्नश्च कः स्यादिति चिन्तितवानिति भावः । चिन्तानन्तरं किमकरोदित्यत आह- स प्राणमसृजदिति ॥ स भगवान् परमात्मा प्राणं जीवकलाभिमानिनं मुख्यप्राणं असृजत । प्राणात् श्रद्धां जीवस्यास्तिक्यनिष्ठां तदभिमानिनीं भारतीं असृजत। उत्पादितवान् । खं वायुरित्यादिपञ्चभूतानि तदभिमानिनश्च । इन्द्रियं चक्षुरादि च । तदभिमानी सूर्यश्चेत्यादि । प्रधानेन्द्रियं तदभिमानिनो रुद्रादयश्च । अन्नं तदभिमानी सोमश्च । अन्नाद्वीर्यमन्नं निमित्तीकृत्य शरीरहेतुभूतं तदभिमानी वरुणश्च । तपः ज्ञानादिसाधनभूतं तदभिमानी वह्निश्च । मन्त्राः ऋग्वेदादयः । तदभिमानिनी स्वाहा। कर्म पुण्यपापोपलक्षितसुखादि । तदभिमानी पुष्करः । लोकाः गोलकानीन्द्रियभूतानि । तदभिमानी पर्जन्यः । एवं लोकेषु सृष्टेषु नाम च देवदत्तादिकम् । तदभिमानी उषा च । एवंप्रकारेण स भगवान् सर्वमुत्पादितवान्। देवतोत्पत्तिक्रमस्तु आथर्वणोपनिषदुक्तो ज्ञातव्यः । अत्र क्रमविवक्षेति भावः । क्रमस्तु 'विष्णोः प्राणस्ततः' इति भाष्योक्तो ज्ञातव्यः ॥ ६-२ ॥