मनोकृतेनायात्यस्मिञ्छरीरे

प्राणस्य स्वात्मानं विभज्य पृथगवस्थानम्

उपनिषत्

मनोकृतेनायात्यस्मिञ्छरीरे । यथा सम्राडेवाधिकृतान् विनियुङ्क्त एतान् ग्रामानधितिष्ठस्वैतान् ग्रामानधितिष्ठस्वेत्येवमेवैष प्राण इतरान् प्राणान् पृथक् पृथगेव सन्निधत्ते || ||

भाष्यम्

'विष्णोर्वायुः समुत्पन्नो वायोः सर्वाश्च देवताः ।

प्राणाद्यास्तान्नयन् प्राण आज्ञापयति राजवत् । ३-३

स्वयञ्च पञ्चरूपस्सन् दद्यान्मोक्षादिकं प्रभुः ॥' इति प्रभञ्जने ॥

श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका

द्वितीयप्रश्नस्योत्तरं - मन इति ॥ स चायं प्राणो मनोकृतेन मनः कृतेन, मनः परं ब्रह्म, तत्कृतेन तन्निमित्तेन तत्प्रेरणयेति यावत्, आत्मनः प्रकृतस्य मनोनिमित्तेनेच्छ्येति वा । आयात्यस्मिन् शरीर इति । आत्मानं वेत्यादिप्रश्नोत्तररूपे 'यथा सम्राड्' इत्यादिवाक्ये प्राणादिपञ्चकस्य मुख्यप्राणनियोज्यत्वं ततो भिन्नत्वलिङ्गं प्रतीयते । 'पुण्येन पुण्यं लोकं नयति' इत्यादिमोक्षदातृत्वादिलिङ्गेन तेनाभेदोऽपि । तस्य तन्नियोज्येष्वसम्भवात् । अतो व्यामिश्रमिव प्रतीयमानं वाक्यं समञ्जसीकर्तुम् 'आत्मत एष प्राणो जायते' इति वाक्यार्थसहितैतद्वाक्यार्थे समाख्यास्मृतिमेव पठति - विष्णोरिति । ततश्चैवं योजनीयम्-यत् पृष्टं त्वयाऽऽत्मानं वा प्रविभज्येति तत्रास्ति विवेक्तव्यम् । द्विविधं तावत्प्राणादिपञ्चकम् । एकं मुख्यप्राणाज्जातं, ततोऽतिरिक्तम् । अपरं तदात्मकमिति । तत्र यथा लोके सम्राट् सार्वभौमोऽधिकृतान्नियोगिनो विनियुङ्क्ते । कथम्? त्वमेतान् पाटलीपुत्रादीन् ग्रामानधितिष्ठस्व, तदाधिपत्येन तिष्ठेत्येकम् । अन्यच्च त्वमेतान् कौशाम्बी- प्रभृतीन् ग्रामानधितिष्ठस्वेति । एवमेवैष मुख्यप्राण इतरान् भिन्नानात्मनो जात- त्वादुपचारेणात्मप्रविभागान् प्राणान् वायून् पृथक् पृथगेव स्थानेषु सन्निधत्ते स्थापयति । स्वयञ्च तत्तत्क्रियाप्रवर्तकतया तत्र प्राणादिपञ्चरूपोऽवतिष्ठत इत्याशयः ।। ३-३ ॥

श्रीवामनपण्डिताचार्यविरचिताषट्प्रश्रभाष्यटीका

कथमायात्यस्मिन् शरीर इत्यस्योत्तरमाह - मनोकृतेनेति ॥ 'यन्मनसा न मनुते' इत्यादेर्मनसा गन्तुमशक्यत्वान्मनोकृतः परमात्मा तेन प्रेरित आयात्यस्मिन् शरीरे । यथा सम्राडित्यादेरर्थं 'तान्नयन्प्राण' इत्यादिवाक्यशेषेण व्याख्याति॥ ३-३ ॥

श्रीनिवासतीर्थविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

॥ ततो भिन्नत्वं लिङ्गमिति || मुख्यप्राणाद्भिन्नत्त्वज्ञापकम्। तेन मुख्यप्राणादिभेदोऽपि प्राणादिपञ्चकस्य प्रतीयत इत्यन्वयः। नन्वथापि नियोज्यानामेवास्तु प्रतिपाद्यतेत्यत आह- तस्येति ॥

छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्

द्वितीयप्रश्नस्येति ॥ मुख्यप्राण अस्मिन् शरीरे कथमायातीति द्वितीयप्रश्नस्येत्यर्थः । मनोकृतेनेत्यत्र ककारस्य हश्त्वाभावात् 'हशि च' इत्युत्वाप्राप्तेरुत्वं छान्दसमित्यभिप्रेत्याह- मनः कृतेनेति ॥ मनःशब्दस्य रुत्वेखरसवसानयोः' इति विसर्गे 'कुप्वोः कः पौच' इति जिह्वामूलीयो विसर्गो वेत्यभिप्रेत्याह- मनः कृतेनेति ॥ मनः शब्दस्यान्तःकरणार्थकत्वमभिप्रेत्यापि व्याचष्टेआत्मनः प्रकृतस्येति ॥ पूर्वप्रकृतपरमात्मन इत्यर्थः। इच्छायाः मनोजन्यत्वेन मनोनिमित्तत्वमित्याशयः ॥ ततो भिन्नत्वमिति ॥ ततः मुख्यप्राणात् प्राणादिपञ्चकस्य भिन्नत्वलिङ्गं मुख्यप्राणनियोज्यत्वं प्रतीयते । भेद इति यावत् । मोक्षदत्वलिङ्गेनेति । पुण्यं लोकं नयतीत्यत्र पुण्यलोकशब्देन मुख्यत्वान्मोक्षस्यैव ग्रहणादिति भावः। तेनाभेदोऽपीति । तेन मुख्यप्राणेन तेन मोक्षदत्वलिङ्गेन चेत्यर्थः।स एनान् ब्रह्म गमयति' इति 'विष्णुर्हि दाता मोक्षस्य वायुश्च तदनुज्ञया' इति च विष्ण्वनन्तरं वायोरेव मोक्षदत्ववचनादिति भावः । सन्निधत्ते स्थापयती- त्यर्थः ।। ३-३ ॥

ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

|| मनः परं ब्रह्मेति ॥ 'मननान्मन उद्दिष्टः' इति वचनादिति भावः । प्राचीनटीकायां तु यन्मनसा न मनुते इत्यादेर्मनसा गन्तुमशक्य- त्वान्मनोऽकृतः परमात्मा तेन प्रेरित आयात्यस्मिन् शरीर इति व्याख्यातम् ॥ आत्मनः प्रकृतस्येति ॥ तथाचात्मन इति विभक्तिविपरिणामेन योजनीयमिति भावः ॥ इत्यादिमोक्षदत्वलिङ्गेनेति ॥ इत्यादावुपलक्षणया ज्ञानेन मोक्षमिति च द्रष्टव्यमिति वक्ष्यमाणरीत्या मोक्षदत्वलिङ्गेनेत्यर्थः । यद्वा श्लोके प्राणस्य पञ्चधा विभवनं विज्ञायामृतमश्नुत इति पञ्चधा विभेदज्ञानस्य मोक्षहेतुत्व- लिङ्गेनेत्यर्थः ॥ आत्मनो जातत्वादुपचारेणेति ॥ अन्यथा प्रश्नाननुगुणः परिहारः स्यादिति भावः। एतेन वायोः सर्वाश्च देवताः प्राणाद्या इति भाष्यमुक्तार्थं भवति ।। ३-३ ॥

मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

मनोकृतेनेत्यत्र ककारस्य हश्त्वाभावात् हशि चेत्युत्वाप्राप्तेः उत्वं च्छान्दसमित्यभिप्रेत्याह- मनः कृतेनेति ॥ मनः परं ब्रह्मेति ॥ 'मनना- मन उद्दिष्टः' इति वचनात् 'मनो ब्रह्म' इति श्रुतेश्चेति भावः || आत्मनः प्रकृतस्येति ॥ प्रकृतत्वादात्मन इत्यध्याहार इति भावः ॥ आत्मानं वेत्यादिप्रश्नेति ॥ आत्मानं प्रविभज्य कथं प्रतिष्ठत इति प्रश्नेत्यर्थः ॥ मोक्षदातृत्वेति ॥ पुण्य-लोकशब्देन मुख्यत्वान्मोक्षग्रहणादिति भावः। 'स एनान् ब्रह्म गमयति' 'विष्णुर्हि दाता मोक्षस्य वायुश्च तदनुज्ञया' इत्युक्ते- मोक्षदातृत्वं मुख्यप्राणस्य सर्वप्राणधारको मुख्यप्राण इति ह्युक्तम् । अथ कुत एष प्राणो जायत इत्याद्याश्वलायनप्रश्नस्यात्मत एष प्राणो जायत इत्याद्युत्तरमाह लिङ्गम् ॥ व्यामिश्रमिवेति ॥ विरुद्धार्थमिवेत्यर्थः । आत्मनो जातत्वादुप- चारेणात्मप्रविभागानित्येतत्। के ते विभागा इत्यादिविभागप्रश्नोत्तरम्। भिन्नेषु भागत्वमुपचारेण घटनीयमिति भावः । स्वयं च तत्तत्क्रियेत्यादिकोऽर्थः प्राणः स्वयं प्रतिष्ठत इति श्रुत्या ध्वनित इत्याशयः ॥ ३-३ ॥

अनन्तभट्टविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

प्राणेति || आदिपदेन यथैषेति वाक्योक्तमाहात्म्यं गृह्यते ॥ मन इति ॥ 'मनो ब्रह्म' इति श्रुतेरिति भावः । पुण्यपदस्य ज्ञानोपलक्षणत्वा- मोक्षदत्वादिलिङ्गेनेत्युक्तम् । अधिकृतानित्युक्त्वाऽधितिष्ठस्वेत्येकवचनं कथं युज्यत इत्यत एतान्ग्रामानिति वाक्यं व्याचष्टे - त्वमिति ॥ 'समवप्रविभ्यः स्थः ' इत्यात्मनेपदनियमात्पदव्यत्ययश्छान्दस इत्यभिप्रेत्य तिष्ठेत्युक्तम् ॥ ३-३ ॥

श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः

द्वितीयप्रश्नोत्तरं - मन इति ॥ स चायं प्राणो मनोकृतेन मनः कृतेन मनः परं ब्रह्म तत्कृतेन तन्निमित्तेन तत्प्रेरणयेति यावत्, आत्मनः प्रकृतस्य मनोनिमित्तेनेच्छ्येति वा । आयात्यस्मिञ्छरीर इति । आत्मानं वेत्यादिप्रश्नोत्तरं- यथा सम्राडित्यादि ॥ अस्यैवं योजना । यत् पृष्टं त्वयाऽऽत्मानं वा प्रविभज्येति तत्रास्ति विवेक्तव्यम् । द्विविधं तावत् प्राणादिपञ्चकम् । एकं मुख्यप्रणाज्जातं ततोऽतिरिक्तम्, अपरं तदात्मकमिति । तत्र यथा लोके सम्राट् सार्वभौमोऽधिकृतान् नियोगिनो विनियुङ्क्ते, कथम् ? त्वमेतान् पाटलीपुत्रादीनधितिष्ठस्व तदाधिपत्येन तिष्ठेत्येकम्, अन्यञ्च त्वमेतान् कौशाम्बीप्रभृतीन् ग्रामानधितिष्ठस्वेति एवमेष मुख्यप्राण इतरान् भिन्नानात्मनो जातत्वादुपचारेणाऽत्मप्रविभागान् प्राणान् वायून् पृथक्पृथगेव स्थानेषु सन्निधत्ते संस्थापयति । स्वयञ्च तत्तत्क्रियाप्रवर्तकतया तत्र प्राणादिञ्चरूपोऽवतिष्ठत इत्याशयः ।। ३ - ३॥

नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका

- द्वितीयप्रश्नोत्तरमाह- मन इति ॥ मनोकृतेन मनसः कृतेन सर्वज्ञपरमात्म-प्रेरणया प्रकृतपरमात्मेच्छानिमित्तेन वा प्राणः अस्मिन् शरीरे आयाति । तृतीयप्रश्नोत्तरमाह - यथेति ॥ यथा लोके सम्राट् सार्वभौमो राजा अधिकृतान् नियोगिनो विनियुङ्क्ते । कथं त्वमेतान् पाटलिपुत्रादीन् ग्रमानधितिष्ठस्व तदाधिपत्ये तिष्ठस्वेत्येकम् । अन्यं त्वमेतान् कोशाम्बिप्रभृतीन् ग्रामानधितिष्ठस्वेति । एवमेषः मुख्यप्राणः इतरान् स्वभिन्नान् प्राणापानादि- नामकान् स्वपुत्रान् पृथक्पृथगेव स्थानेषु सन्निधत्ते संस्थापयति। स्वयञ्च तेषु तत्क्रियाप्रवर्तकतया पञ्चरूपोऽवतिष्ठते ।। ३-३ ॥

उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका

शरीरे प्राणः कस्मादायातीत्युक्तस्य प्रतिवचनमाह - मन इति ॥ मनः परं ब्रह्म।मनु अवबोधने' इति धातोः ज्ञानात्मनानेन कृतेन तत्प्रेरणया अस्मिन् शरीरे आयाति प्रवर्तते। प्राण इत्यनुषङ्गः । आत्मानं प्रविभज्येत्युक्तप्रतिवचनं सदृष्टान्तमाह-यथेति ॥ लोके यथा सम्राट् सार्वभौम एव अधिकृतान् स्वसेवकान् परिचारकान् विनियुङ्के। विशेषेण नियोजयति । कथं हे दास त्वं एतान् ग्रामान् मया आज्ञापितान् कतिचित्सङ्ख्याकान् अधितिष्ठस्व । तत्रस्थ अधिकारं कुरु। एवमेव पुनः एवमेव एषः प्राणः मुख्यः इतरान् प्राणान् स्वदासभूतान् तन्नामकानेव स्वयमाविश्य पृथक् पृथगेव स्थानेषु सन्निधत्ते स्थापयति । तत्तत्क्रियाप्रवर्तकत्वेन स्वयं प्राणादिपञ्चरूपो वा तिष्ठते इत्यर्थः । अनेन प्राणादिपञ्चकस्य मुख्यप्राणजातत्वं तदात्मकत्वञ्चोक्तं भवति । तदेतत्-

'विष्णोर्वायुः समुत्पन्नः वायोः सर्वाश्च देवताः ।

प्राणाद्यास्तान्नयन् प्राणः आज्ञापयति राजवत् ॥

स स्वयं पञ्चरूपः सन् दद्यान्मोक्षादिकं

इति भाष्यकाराः अवदन् प्रभुः ॥ ॥ ३-३ ॥