स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते

मुख्यप्राणस्य दिक्पलकनियामकत्वम्

उपनिषत्

स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते । तदेत- दृचाऽभ्युक्तम् । विश्वरूपं करिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् । सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ ६ ॥

श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका

अनेनाशेषजगत्प्रकाशकतया प्रजोत्पत्तिनिमित्तत्वमुक्तम्। न केवलमेतावत्, किं नाम ? स एष आदित्ये स्थितो विश्वरूपः पूर्णरूपोऽदनादग्निः प्राणो वैश्वानरो विश्वनरसम्बन्धी तापनपाचनशोषणादिना सर्वप्रजोत्पत्तिहेतुः सन्नुदयते।आदित्यो हवै प्राणः' इति या प्रसिद्धिः सूचिता सोच्यते - तदेतदिति ॥ यदुक्तं तदेतदृचा विश्वरूपमिति मन्त्रेणाभ्युक्तं स्पष्टमुक्तम् । अतो दृढतरं प्रतिपत्तव्यमिति । विश्वरूपं, कराः रश्मयोऽस्य सन्तीति करी तं करिणम् । जातवेदसं जातस्य सर्वस्य वेदितारम् । परायणं सर्वप्राणिनां परमाश्रयम् । एकं प्रधानम् । ज्योतिः प्रकाशकम्। तपन्तं तपनक्रियां कुर्वन्तम् । उपलक्षणं चैतत् । शोषणादिकं च कुर्वाणमादित्यमण्डलस्थं पुरुषं जानीयात् । किमिति ? सहस्ररश्मिरनन्ततेजाः । शतधाऽनन्तरूपैः। सर्वप्राणिषु वर्तमानो यः प्राण एष प्रजानामुत्पत्तये सूर्ये स्थित्वोदयतीति । तदेतदाह - आदित्यस्थ इति ॥ प्राणान् प्राच्यादीनात्मनि स्वरश्मिषु सन्नयेत् सन्निवेशयतीत्यर्थः । के ते प्राच्यादयः प्राणा इति । तत्तद्दिग्गतप्राणिप्रणयनादिन्द्रादयो दिक्पाला एवेत्याह- प्राच्याः प्राणा इति ॥ तथाशब्दो वक्ष्यमाणदक्षिणादिसमुच्चयार्थः । कथं तेषु बहुवचनमित्यत आह- सभार्या इति । सभार्यैरग्न्यादिभिः कोणपैः सार्धमिन्द्रादय इत्यर्थः । यदध इत्यादौ नैतत्सम्बद्ध्यते, सभार्या इत्येव । अतस्तत्र बहुवचनसम्पादनाय शेषमित्रा- वित्यादिद्वयोरुक्तिः । दिबध्यस्था अपि केचिज्ज्ञातव्याः । एवं चन्द्रमसि स्थिताया देव्या अप्योषधिजननादिद्वारेण प्रजोत्पत्तिनिमित्तत्वमुपपादनीयमिति ॥ ६ ॥

श्रीवामनपण्डिताचार्यविरचिताषट्प्रश्रभाष्यटीका

स एष भगवान् विश्वनरस्थः पाचकोऽग्निश्च भवति । स एव प्राणस्थो विश्वरूपे स्थित उदयते प्रजानां प्रकाशते । मामभि मामभि इति प्रतिपुरुषे वर्तमानत्वात् विश्वरूपः सूर्यः । हरिणः स्वच्छवर्णः । जातं जातं वस्तुजातं च वेत्तीति जातवेदाः । 'प्राणो वै जातवेदाः स हि जातानां वेद' इति च श्रुतिः । पराणां ब्रह्मादीनां मुक्तानां वा मुख्याश्रयत्वात्परायणम् । दिवाकरस्तु परम- गतिमार्गत्वात् परायणमित्युक्तः । अत्र पुनः 'विश्वात्मानं परायणम्' इति शाखा- न्तरोक्तगुणानामनुकर्षणार्थं किल विभक्तिव्यत्यासः । सहस्ररश्मिः । अथ तेषु रश्मिषु प्रत्येकं शतधा वर्तमानरश्मिः । रश्मीनां शतशाखत्वात् । अथवा तद्रश्मीनामेव मूलभूता रश्मयः शतमेतेषु शतधा वर्तमानः । प्राणिनां प्रणेतृत्वात् सूर्योऽपि कथञ्चित् प्राणशब्दः । चक्षुरादिप्राणानां प्रणयनान्मुख्यवायुर्मुख्यत एव प्राण उक्तः । तस्यापि प्रणेतृत्वात् विष्णुरेव परममुख्यः प्राण उच्यते । सूरिभि- रीयमानत्वात् सूर्यान्तर्यामित्वाच्च विष्णुरेव प्रधानसूर्यः प्रजानामन्तर्बहिश्च प्रकाशते । 'उद्यन्नु खलु वा आदित्यः सर्वाणि भूतानि प्रणयति । तस्मादेनं प्राण इत्याचक्षते' इत्यत्राप्येत एव गौणमुख्यातिमुख्यतया प्रोच्यन्त इत्यविरोधः । सर्वभूतप्रणयनस्यापि यथायोग्यत्वात् ॥ १-६ ॥

श्रीवादिराजतीर्थविरचिताषट्प्रश्नभाष्यटीकाप्रकाशिका

'अनेन सकलजगत्प्रकाशकतया प्रजोत्पत्तिनिमित्तत्वमुक्तम्' इत्यत्र कृष्यादियोग्यप्रदेशादर्शने कृषिरेव कर्तुं न शक्यते। अतो नरादिस्थिर- जीवसृष्टौ प्रकाशस्योपयोगः । धनधान्यादीनामसङ्ग्रहे ग्रामान्तरगमनाभावे विवाहादिक्रियाऽपि न स्यात् । भोजनादिक्रियाऽपि न स्यात् । एवं चान्नपाना-दीनामसम्भवे प्रजाजननोपयुक्तवीर्यसङ्घहोऽपि न स्यात् । गर्भाधानोपयुक्त- भार्यासहोऽपि न स्यात् । अतश्चराचरात्मकप्रजोत्पादनाय सूर्यादीनां प्रकाशो ऽप्यवश्यं सहकारीति भावः । एवं सूर्यस्योष्णकिरणसम्बन्धाभावेऽङ्कुरादीना- मुपचयोऽपि 'दशवैद्यसमो वह्निर्दशवह्निसमो रविः' इति वचनाज्जनाना- मारोग्यादिकमपि न स्यात् । अतः सौरोष्णप्रकाशस्यान्नपानादीनां पाचनशोषणा- दिनाऽऽरोग्यजनकत्वेनापि प्रजोत्पत्तावुपयोगित्वं द्रष्टव्यमिति ज्ञेयम् ॥ १-६ ॥

श्रीसत्यप्रज्ञतीर्थविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

|| दिङ्नध्यस्था अपि केचिज्ज्ञातव्या इति ॥ अत्र भाष्ये प्रमाणान्तरे च दिवध्याभिमानिनामनुक्तत्वात् केचिज्ज्ञातव्या इत्यनेनोक्तम् ॥ १-६ ॥

श्रीनिवासतीर्थविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

नैतदिति ॥ कोणपैः सार्धमित्येतत् । इत्येवं सम्बद्ध्यत इत्यन्वयः1 तर्हि सभार्यग्रहणे द्वयोरेव प्राप्त्या सभार्याश्चत्वार इति बहुवचनायोग इत्यत आह- अतस्तत्रेति ॥ १-६ ॥

छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्

अभिप्रायमाह - अनेनेति || अत्राशेषशब्देन वैषयिकाशेषस्य विवक्षितत्वान्नातिप्रसङ्गः ॥ प्रजाशब्देन कार्यं गृह्यते । घटाद्युत्पत्ति प्रति सौरालोकस्यापेक्षितत्वात् । विश्वरूप इत्यादेः साक्षात्प्रकृतोपयोगादर्शना- त्प्राणमाहात्म्यप्रतिपादकत्वेनोपयोगं दर्शयति- न केवलमिति ॥ तदेतदिति ॥ कोणपैः सार्धमित्येतदित्यर्थः ॥ केचिदिति ॥ विनायकः विवस्वान्नामसूर्यश्च एतत्पत्न्यौ चेति चत्वार इति सम्प्रदायः ॥ १-६ ॥

ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

तापनपाचनशोषणादिनेत्यादिशब्देन प्रकाशनं गृह्यते ।

तापिनी पाचिनी चैव शोषणी च प्रकाशिनी ।

नैव राजन् रवेः शक्तिः शक्तिर्नारायणस्य च ॥ इति वचनात् ।

|| करा रश्मय इति ॥ प्राचीनटीकायां तु हरिणमिति पठितत्वाद्धरिणः स्वच्छवर्ण इति व्याख्यातम् । द्वितीयान्वयसिद्ध्यर्थं अध्याहरति- जानीया- दिति ॥ प्राचीनटीकायां विभक्तिव्यत्ययेन प्रथमां व्याख्याय 'विश्वात्मानं परायणम्' इति शाखान्तरोक्तगुणानामनुकर्षणार्थं किल विभक्तिव्यत्यास इत्युक्तम् । सभार्याः कोणपैः सार्धमित्युक्तस्येन्द्रयमवरुणसोमाः सभार्याः स्वस्वभार्यासहिताः सभार्यैरग्न्यादिकोणपैः सार्धं दिशि दिशि चत्वार इत्यर्थ- मभिप्रेत्याह- सभार्यैरिति । यद्वा इन्द्राद्याः कोणपैः सार्धं सभार्या दिशि दिशि चत्वार इत्यस्य तात्पर्यमाह - सभार्यैरिति ॥ सभार्या इत्येवेति ॥ यदधो यदूर्ध्वं यदन्तरा दिश इति त्रिषु स्थानेषु सभार्याश्चत्वारो वर्तन्त इत्येवं योज्यम् । तत्र कोणाभावात् कोणपैरिति न संयोज्यम् । तथात्वे अथादित्य उदयन् यदधो विशति । तेन अधस्थान्प्राणान् रश्मिषु सन्निधत्ते इति योजनायां बहुवचनं न सम्भवतीत्यतस्तत्र बहुवचनसम्पादनाय शेषवीन्द्रावित्यादिद्वयोक्तिरित्यर्थः ॥ दिङ्गध्यस्था अपि केचिदिति ॥ अन्तरिक्षस्य दिवध्यत्वात्तस्याकाशात्म- कत्वात्तदभिमानिविघ्नेश इति सम्प्रदायविदः ॥ १-६ ॥

मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

अभिप्रायमाह - अनेनेति ॥ अथादित्य उदयन्नित्यादिनेत्यर्थः । अत्राशेषशब्देन वैवक्षिकाशेषस्य विवक्षितत्वान्नातिप्रसङ्गः । प्रजाशब्देन कार्यं गृह्यते । घटाद्युत्पत्तिं प्रति सौरालोकस्यापेक्षितत्वाद्विश्वरूप इत्यादेरथादित्य इत्यादेरिव प्रकृतोपपादकत्वेनोपयोगादर्शनात्प्राणमाहात्म्यान्तरोपपादकत्वेनो- पयोगं दर्शयति- न केवलमिति ॥ यद्वा सूर्ये स्थितस्य प्रजोत्पत्तिनिमित्तत्व- मुक्त्वा स एष वैश्वानर' इति वाक्येऽग्निस्थस्याप्युच्यत इति प्रतीयतेऽतः पूर्वानुवादेनैतद्वाक्यमवतार्य व्याचष्टे - अनेनेति ॥ सूर्यस्थत्वस्यैव प्रतिज्ञाना- दुदाहरिष्यमाणमन्त्रेऽप्येवमेव प्रतीतेरित्यर्थः । विश्वनरसम्बन्धीत्यस्य विवरणं तापनेत्यादि ॥ जातस्येति ॥ विद्यमानस्येत्यर्थः । 'प्राणो वै जातवेदाः स हि जातानां वेद' इति बृहद्ब्राह्मणवाक्यादेवं निर्वचनम् ॥ उपलक्षणं चैतदिति ॥ 'तापिनी पाचिका चैव शोषिणी च प्रकाशिनी' इत्युक्तत्वादिति भावः । सन्नयेदिति विध्यनुपयोगमाशङ्कयाह- सन्निवेशयतीत्यर्थ इति ॥ के ते प्राच्यादयः प्राणा इतीत्यनन्तरमाकाङ्क्षायामिति शेषः । सभार्या इत्येतत्तृतीया- न्ततया विपरिणम्य कोणपैरित्यनेनापि सम्बद्ध्यते । तथाच दिशि दिशि चत्वार इत्येतदुपपद्यत इत्यभिप्रेत्याह- सभार्यैरग्न्यादिभिः कोणपैरिति ॥ इन्द्रयम- वरुणसोमाः सभार्याः सभार्यैरग्न्यादिकोणपैः सार्धं शेषमित्रौ वीन्द्रकामावित्येते सभार्या दिशि दिशि प्राच्यादिदिक्षु अध ऊर्ध्वं च चत्वारो वर्तन्त इति भाष्यवाक्यार्थः ॥ एतदिति ॥ कोणपैः सार्धमित्येतदित्यर्थः । सभार्या इत्येव यदध इत्यादौ सम्बद्ध्यत इत्यन्वयः ॥ केचिज्ज्ञातव्या इति ॥ अत्र भाष्ये प्रमाणान्तरे च विध्याभिमानिनामनुक्तत्वात्केचिज्ज्ञातव्या इत्येवोक्तमिति केचिदाहुः । विनायकः, विवस्वान्नामा सूर्यः, एतत्पत्न्यौ चेति सम्प्रदाय इत्यपरे ॥ १-६ ॥

अनन्तभट्टविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

सूर्ये स्थितस्य प्रजोत्पत्तिनिमित्तत्वमुक्त्वा स एष वैश्वानर इत्यग्निस्थस्यापि तदुच्यत इति प्रतीयते । अतः पूर्वानुवादेनैतद्वाक्यमवतार्य व्याचष्टे - अनेनेति ॥ सूर्यस्थस्यैव प्रतिज्ञानादुदाहरिष्यमाणमन्त्रेऽप्येवमेव प्रतीतेरित्यर्थः । जातस्येति । विद्यमानस्येत्यर्थः ।प्राणो वै जातवेदाः स हि जातानां वेद' इति बह्वृचब्राह्मणवाक्यादेवं निर्वचनम् ॥ उपलक्षणं चैतदिति ॥तापिनी पाचिका चैव शोषिणी च प्रकाशिनीइत्युक्तेरिति भावः । इन्द्रवरुणसोमाः सभार्याः सन्तः दिशि दिशि प्राच्यादिचतुर्दिक्षु अध ऊर्ध्वं च चत्वारश्चत्वारो वर्तन्त इति भाष्यवाक्यार्थः ॥ १-६ ॥

श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः

न केवलमेतावत् । किं नाम स एष आदित्ये स्थितो विश्वरूपः पूर्णरूप अदनादग्निः प्राणो वैश्वानरो विश्वनरसम्बन्धी तापनपाचनशोषणादिना सर्वप्रजोत्पत्तिहेतुस्सन्नुदयते । 'आदित्यो ह वै प्राणः' इति या प्रसिद्धिः सूचिता सोच्यतेतदेतदिति । यदुक्तं तदेदृचा 'विश्वरूपं' इति मन्त्रेणाभ्युक्तं स्पष्टमुक्तम् । अतो दृढतरं प्रतिपत्तव्यमिति । विश्वरूपं, करा रश्मयोऽस्य सन्तीति करी तं करिणम् । जातवेदसं जातस्य सर्वस्य वेदितारम् । परायणं सर्वप्राणिनां परमाश्रयम् । एकं प्रधानम् । ज्योतिः प्रकाशकम् । तपन्तं तपनक्रियां कुर्वन्तम् । उपलक्षणमेतत्, शोषणादिकञ्च कुर्वाणमदित्यमण्डलस्थं पुरुषं जानीयात् । किमिति ? सहस्र- रश्मिरनन्ततेजाः शतधाऽनन्तरूपैः सर्वप्राणिषु वर्तमानो यः प्राण एष एव प्रजानामुत्पत्तये सूर्ये स्थित्वोदयतीति । एवं चन्द्रमसि स्थिताया देव्या अप्योषधि- जननादिद्वारेण प्रजोत्पत्तिनिमित्तत्वमुपपादनीयमिति ॥ १-६ ॥

नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका

न केवलमेतावत् । किन्नाम स एव आदित्ये स्थितो विश्वरूपः पूर्णरूपः अदनादग्निः वैश्वानरः विश्वनरसम्बन्धी तापनपाचनशोषणादिना सर्वप्रजोत्पत्ति- निमित्तः सन्नुदयते । आदित्यो ह वै प्राण इति या प्रसिद्धिः सूचिता सोच्यते- तदेतदिति ॥ यदुक्तं तदेतदृचाभ्युक्तम् | विश्वरूपम् । कराः रश्मयोऽस्य सन्तीति करी तं करिणम् । जातवेदसं जातस्य सर्वस्य वेदितारम् । परायणं सर्वप्राणानां परमाश्रयं एकं प्रधानम् । ज्योतिः प्रकाशकम् । तपन्तं तपनक्रियां कुर्वन्तम् । उपलक्षणमेतत्। शोषणादिक्रियां कुर्वाणं आदित्यमण्डलस्थं पुरुषं जानीयात् । किमिति ? सहस्ररश्मिः अनन्ततेजाः शतधा अनन्तरूपैः सर्वप्राणिषु वर्तमानः यः प्राणः एष वै प्रजानामुत्पत्तये सूर्यः सूर्ये स्थितः सन् उदयति। एवं चन्द्रमसि स्थिताया देव्या अपि ओषधिजननादिद्वारेण प्रजोत्पत्तिनिमित्तत्वं उपपादनीयम् ॥ १-६ ॥

उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका

न केवलमेतावनस्य महिमा किन्नामान्योऽप्यस्तीत्याह- स एष इति । सः पूर्वोक्तमहिमावान् एषः आदित्यस्थः प्राणः विश्वरूपः सम्पूर्णरूपः । अदना- दग्निः । 'अद भक्षणे' इति धातोः रूपमेतत् । वैश्वानरः विश्वेषां सर्वेषां नराणां अयम्। 'तस्येदमित्यण्' छान्दसत्वाद्विश्वस्य दीर्घः । सर्वजनसम्बन्धितापन- पाचनशोषणादिना प्रजोत्पत्तिहेतुः सन्नित्यर्थः । उदयति उद्गच्छति । न केवलमस्माभिरेतत्कल्पितम्, किन्तु प्रसिद्धं चेत्याह - तदेतदिति ॥ तदेतत् प्राणस्यादित्यस्थत्वेन सर्वकर्तृत्वं ऋचा मन्त्रेणाभ्युक्तं स्पष्टमुक्तम् । अतो न कल्पितमिति भावः । वेदस्य स्वतः प्रमाणत्वेऽपि प्रमेयदाढयर्थं सम्मतिरूपां तां श्रुतिमेवाह - विश्वरूपमिति ॥ विश्वरूपं पूर्णरूपम् । करिणं कराः रश्मयः अस्य सन्तीति करिणम् । जातवेदसं जातस्य सर्वस्य वेदितारम् । परायणं मुख्याश्रयम् । ज्योतिः प्रकाशात्मकम् । एकं मुख्यम् । तपन्तं तपनक्रियावन्तम् । आदित्यस्थत्वेन जानीयादिति शेषः । किमिति ? | सहस्ररश्मिः अनन्ततेजाः शतधा वर्तमान अनन्तरूपैः सर्वप्राणिस्थैः एषः प्राणः सूर्यः सूर्ये स्थितः सन् प्रजानामुत्पत्तय इति शेषः। उदयति भगवत्सकाशाज्जायत इति । अतः प्रसिद्धतरत्वात्सूर्यस्थस्य प्राणस्य सर्वकर्तृत्वं युक्तमिति भावः ॥ १-६ ॥