तदेष श्लोकः
पिप्पलादेन स्वोपदेशोपसंहारः- सुकेशादीनामाचार्यप्रशंसा
उपनिषत्
तदेष श्लोकः । अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः । तं वेद्यं पुरुषं वेदयथा मा वो मृत्युः परिव्यथा इति । तान् होवाच । एतावदेवाहमेतत् परं ब्रह्म वेद नातः परमस्तीति । ते हि तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ।। ४॥
इति षष्ठः प्रश्नः इति षट्प्रश्नोपनिषत् समाप्ता
श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका
एवं स पिप्पलादस्तेभ्यस्तत्त्वमुपदिश्य तान् भरद्वाजादीन् प्रत्युवाच किल। एतदुक्तलक्षणम् । परं ब्रह्म अहमेतावदुक्तमात्रमेव वेद । नातः परं मया विदितमस्तीति । अस्मदादयस्तदेकदेशविद एव न त्वपरिमितविद इति भावः ।एवमुपदिष्टास्ते मुनयस्तमाचार्यमर्चयन्तः प्रणामादिना पूजयन्त इदमूचुः। भगवन्, त्वं हि नः पिता निरुपाधिकोपकारकः । कथम् ? यस्त्वमस्माकमस्मानविद्यायाः परं पारं तारयसि अतारयः । को हि नामैवमुपकुर्यादिति । एवमाख्यायिकां समाप्य वेदपुरुषः शिष्यशिक्षार्थमाह- नमः परमऋषिभ्य इति ॥ पिप्पलादादिभ्य इति । द्विर्वचनमादरार्थ इति ॥ ६-४ ॥
छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्
एतदुक्तलक्षणमिति । एतदित्यस्यार्थ उक्तलक्षणमिति । सृष्ट्यादि- कर्तृत्वादिलक्षणमित्यर्थः । एतावदेवाहं वेदेत्यत्र उक्तैवकारव्यावृत्त्यर्थमुक्तम्- नातः परमस्तीति ॥ तच्च ब्रह्म इतः परं नास्त्यतोऽधिकं नास्तीति परिच्छिन्नत्वभ्रान्तिं वारयितुं वेदेत्यनेन लब्धमध्याहरति - विदितमिति ॥ स्वस्याहं वेदेत्युक्तेः समयज्ञानाभावेऽपि अन्येषां ब्रह्मज्ञानं स्यादित्यतस्तदभिप्रायमाह - अस्मदादय इति ॥ आदिशब्देन रमाब्रह्मादयो गृह्यन्ते । 'तातस्तु जनकः पिता' इत्युक्तेः । जनकत्वाभावात्कथं पितृत्वमित्यत उपचारमाश्रित्याह- निरुपाधिकोपकारक इति ॥ द्रव्यदानाद्युपाध्यभावेऽपि उपकारक इत्यर्थः । अस्माकमस्मानिति कर्मणः शेषत्वविवक्षया षष्ठी शेष इति षष्ठीति भावः । शेषत्वं नाम सम्बन्धमात्रम् । पूर्वमेव ज्ञानोपदेशस्य कृतत्वात्तरणस्य वर्तमानत्वाभावात् तारयसीति वर्तमनार्थक- लट्प्रयोगः कथमित्यत आह- तारयस्यतारय इति । वर्तमानसामीप्ये वर्तमान- द्वेति श्रुतौ लट्प्रयोग इति भावः । अविद्यातारकस्य कथं निरुपाधिकोपकारकत्व- मित्यत आह- को हीति ॥ अन्नद्रव्यादिदानोपकारकारिणां तात्कालिकदुःखो- पशामकानां बहुलमुपलम्भादात्यन्तिकसंसारदुःखनिवर्तकानां बहूनामभावादिति भावः।। नमः परमऋषिभ्य इति उत्तरवाक्यं सुकेशादीनामिति भ्रान्तिं वारयितुमाह- एवमिति ॥ वेदद्रष्टुः पुरुषस्य विष्णुरमाब्रह्मादिरूपत्वेन पिप्पलादा-दीनां तन्नचत्वेन तन्नमस्कारायोग्यत्वादाह - शिष्यशिक्षार्थमिति । शिष्याणा- मध्ययनाद्यन्तयोर्गुरुनमस्कारः कर्तव्य इति शिक्षणार्थमिति भावः ॥ ६-४ ॥
ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी
ताम्रपर्णी | आदराद्यर्थ इति ॥ आदिपदेन पूर्वोक्तस्यावधारणञ्च गृह्यते ।। ६-४ ।।
मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी
एतदित्यस्यैव विवरणम् - उक्तलक्षणमिति ॥ सृष्ट्यादि- कर्तृत्वादिलक्षणमित्यर्थः । एतावदेवाहमित्यत्रोक्तैवकारव्यावर्त्यकथनम् ॥ नातः परं मया विदितमस्तीति ॥ अहमेतावद्वेदेत्युक्ते स्वस्य समग्रज्ञाना- भावेऽपि अन्येषां समग्रज्ञानमस्तीति प्राप्तावाह - अस्मदादय इति ॥ आदि- शब्देन रमाब्रह्मादयो गृह्यन्ते । जनकत्वाभावात्कथं पितृत्वमित्यत उपचारमा- श्रित्याह- निरुपाधिकोपकारक इति ॥ अस्माकमस्मानिति ॥ कर्मणः शेषत्वविवक्षया षष्ठी शेष इति षष्ठीति भावः । शेषत्वं नाम सम्बन्धमात्रम् । ननु पूर्वमनेन ज्ञानोपदेशस्य कृतत्वात्तरणस्य वर्तमानत्वाभावात्तारयसीति वर्तमाना- र्थकलट्प्रयोगः कथमित्यत आह- तारयस्यतारय इति ॥ वर्तमानसामीप्ये वर्तमानवद्वेति श्रुतौ लट्प्रयोग इति भावः । अविद्यातारकस्य कथं निरुपाधिकोपकारत्वमित्यत आह- को हीति ॥ अत्र द्रव्यादिनोपकारकाणां तात्कालिकदुःखोपशामकानां बहुलमुपलम्भेऽपि आत्यन्तिकदुःखनिवर्तकानां विरलत्वादिति भावः। नमः परमः ऋषिभ्य इत्युत्तरवाक्यं सुकेशादीनामिति भ्रान्तिं वारयितुमाह- एवमिति ॥ वेदद्रष्टुः पुरुषस्य रमाब्रह्मादिरूपत्वेन पिप्पलादादीनां तन्नीचत्वेन तन्नमस्कारायोग्यत्वादाह - शिष्यशिक्षार्थमिति ॥ शिष्याणामध्ययनाद्यन्तयोर्गुरुनमस्कारः कर्तव्य इति शिक्षार्थमित्यर्थः ॥
श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः
तत्तत्रोक्तार्थे एष वक्ष्यमाणः श्लोकः सम्मतित्वेन भवति । रथनाभौ अरा इव यस्मिन् पुरुषे कलाः प्रतिष्ठिताः तं वेद्यं वेदितव्यं पुरुषं वासुदेवं वेदयथाः जानीध्वम्। ततश्च मृत्युः संसारो वो युष्मान् मा परिव्यथाः मा परिव्यथयतु । पुरुषाज्ञाने संसारव्यथा भवेत् । सा भवतां मा भवत्विति । एवं स पिप्पलादः तत्त्वमुपदिश्य तान् भारद्वाजादीन् प्रत्युवाच । एतदुक्तलक्षणं परं ब्रह्माहमेताव- दुक्तमात्रमेव वेद नातः परं मया विदितमस्ति । अस्मदादयः तदेकदेशविद एव न त्वपरिमितविद इति भावः । एवमुपदिष्टास्ते मुनयस्तमाचार्यमर्चयन्तः प्रणामादिना पूजयन्त इदमूचुः। भगवन्, त्वं हि नः पिता निरुपाधिकोपकारकः । कथम् ? यः त्वमस्माकं अस्मानविद्यायाः परं पारं तारयसि अतारयः । को हि नामैवमुप- कुर्यादिति । एवमाख्यायिकां समाप्य वेदपुरुषः शिष्यशिक्षार्थमाह- नमः परम-ऋषिभ्यः || पिप्पलादादिभ्य इति । द्विर्वचनमादरार्थमित्यशेषमङ्गल-मिति ॥ ६-४ ॥
इति श्रीराघवेन्द्रयतिविरचितः षट्प्रश्नखण्डार्थः
नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका
उक्तार्थे मन्त्रसम्तिमाह — तदेष इति ॥ अराः रथनाभाविव कलाः प्राणाद्याः यस्मिन्परमपुरुषे प्रतिष्ठिताः । तं वेद्यं पुरुषार्थकामैर्ज्ञातव्यम्। पुरुषं वासुदेवं वेदयथा जानीध्वम् । हे शिष्या इति कस्यचिद्वाक्यम्। ततश्च मृत्युः संसाराख्यमृत्युः युष्मान् मा परिव्यथाः मा परिव्यथयत्। परमपुरुषाज्ञाने संसारव्यथा भवेत्। सा भवतां मा भवत्विति । एवं पिप्पलादः तेभ्यो भगवत्तत्त्वं उपदिश्य स्वज्ञातादधिकं माहात्म्यं भगवतोऽस्तीत्युवाचेत्याह वेदपुरुषः- तानिति ॥ पिप्पलादः तान् भारद्वाजादीन् उवाच ह । किमिति ? एतदुक्तलक्षणं परब्रह्म एतावत् उक्तमात्रमेव वेद नातः परं मया विदितमस्ति । अस्मदादयः तदेकदेशविद एव तद्ब्रह्मापरिमितमिति । एवं उपदिष्टाः ते मुनयः तमाचार्य- मर्चयन्तः प्रणामादिना पूजयन्तः इदमूचुः । भगवन् त्वं हि नः पिता निरुपा - धिकोपकारकः । कथम् ? यस्त्वमस्माकं यस्मादविद्यायाः पारं उत्तरतीरं पारयसि । कोहि नामैवमुपकुर्यादिति । एवमाख्यायिकां समाप्य वेदपुरुषः शिष्यशिक्षार्थं प्रवर्तकऋषीन् प्रणमति-नम इति ॥ परमऋषिभ्यः पिप्पलादादिभ्यो नमः । आदराद् द्विरुक्तिः ॥ ६-४ ॥
विद्याधीशार्यशिष्येण नरसिंहेन भिक्षुणा ।
रचिता श्रीशसन्तुष्ट्यै षट्प्रश्नार्थप्रकाशिका ॥
इति श्रीनरसिंह भिक्षुविरचिता षट्प्रश्नार्थप्रकाशिका
उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका
स्वतःप्रमाणत्वेऽपि स्फुटमन्त्राश्रयाश्रयीभावो न ज्ञायते प्रत्युत ऐक्यमेव प्रतीयत इत्यतो संवादत्वेन स्फुटं मन्त्रमाह वेदपुरुषः-तदेष श्लोक इति ॥ ततस्तस्मिन् विषये एषः श्लोकः मन्त्रो संवादरूपो अस्तीति शेषः । रथनाभौ अरा धारा इव । कलाः षोडशकलाः यस्मिन् पुरुषे प्रतिष्ठिताः । तदाधारत्वेन स्थिताः इत्यर्थः । तं वेद्यं पुरुषार्थकामैः ज्ञेयम् । पुरुषं वासुदेवाख्यम् । वेदयथा जानीध्वम्। हे शिष्याः । इति कस्यचित् वाक्यम् । वो युष्मान् । मृत्युः संसारः मा परिव्यथाः मा दुःखयतु। परमपुरुषाज्ञानेन संसारव्यथा भवेत् स मा भूदित्यर्थः । तस्मान्मुक्तावपि जीवानां भेदसद्भावात्परमात्मनः सकलजीवोत्तमप्राणनियामकत्वाच्च युज्यते तस्य सर्वोत्तमत्वमिति ॥
एवं पिप्पलादस्तत्त्वमुपदिश्य भारद्वाजादीन् प्रति अत्युत्कर्षपूर्वमुवाच गुरुः । एतमुक्तलक्षणं ब्रह्म अहमेतावदेव उक्तमात्रमेव वेद जानामि । अतः परमुक्तादधिकं या विदितं नास्ति । अस्मदादयो भगवदेकशविदः तत्त्वपरिच्छिन्नमिति भावः । एवं तत्त्वोपदेष्टारं मुनिं ते किं कुर्युरित्यत आह- ते हि तमर्चयन्त इति ॥ भारद्वाजादयः मुनयः तमाचार्यं अर्चयन्तः प्रणामादिना पूजयन्तः सन्तः । ऊचुरिति शेषः । किमिति । हे गुरो त्वं हि त्वमेव नोऽस्माकं पिता निरुपाधिकोपकारकः । यस्मात् । | अस्माकं 'अस्मान् । अविद्यायाः संसारानयनहेतुभूतायाः परं पारं श्रेष्ठतमं उत्तारणे हेतुभूतोपायेन यथा भवति तथा तारयसि अतारयः । यः कश्चित् प्लवेन नदीपारो भवति एवं त्वया गुरुणा वयं संसारार्णवादुद्धारिता इत्यर्थः । तदेतत् ।
'पिता माता तथा भ्राता सर्वे संसारहेतवः ।
गुरुरेकः सदा सेव्यः संसारोद्धरणक्षमः ।।' इति स्मृतिः स्पष्टमाह ।
एवं समापिताख्यायिको भगवान् वेदपुरुषः स्वयमन्तरायविधुरोऽपि शिष्यशिक्षार्थं मङ्गलमाधत्ते - नमः परमऋषिभ्य इति ॥ पिप्पलादादिभ्यः । द्विर्वचनमादरार्थम् । प्रमेयावधारणार्थं वा । अतः सकलगुणगणपूर्णः सर्वदोषविदूरः सर्वोत्तमः सकलजगज्जन्मादिकर्ता स्थाता संहर्ता च नान्योऽस्तीति सकलसच्छास्त्रैः प्रतिपाद्यत इति स्थितम् ॥ ६-४ ॥
षट्प्रश्नोत्तरवाक्यैश्च षट्शत्रुघ्नं मरुत्प्रियम्।
वासुदेवात्मकं कण्ठीरवास्यं नौमि सर्वदा ।।
श्रीवासुदेवजनुषा केशवेन विनिर्मिता ।
षट्प्रश्नपञ्चिका भूयात्प्रीत्यै माधवमध्वयोः ॥
षट्प्रश्नोपनिषद्व्याख्या वरदा मञ्जुलस्वरा ।
यशोवतंसभूपालमानसे मोदतां सदा ॥
श्रीमदुदयगिरिस्थितवासुदेवात्मजकेशवरचिता प्रश्नपञ्चिका समाप्ता ॥