तस्मै स होवाच

धारक प्रकाशक देवानामन्योन्यं स्पर्धा

उपनिषत्

तस्मै स होवाच । आकाशो ह वा एष देवो वायुरग्निरापः पृथिवीवाङ्मनश्चक्षुः श्रोत्रं च ते प्राकाश्या अभिवदन्ति । वयमेतद् बाणमवष्टभ्य विधारयाम इति ॥ २ ॥

भाष्यम्

वायुरग्निरित्यत्र भूतवायुरुच्यते । प्राणशब्देन प्रधानवायुः ॥ २ ॥

श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका

पूर्वोक्तरीत्या प्राणेन भाव्यम् । तत्कथमित्येवं पृष्टवते तस्मै स होवाच । एष आकाश आकाशाभिमानी देवो ह वै यस्त्वया धारकः पृष्टः । एवं वायुरग्निरित्यादि । अत्रोपलक्षणत्वेन पृथिवी च पृथिवीमात्रा चेत्यादिवक्ष्यमाणाः सर्वेऽपि तत्त्वदेवा ग्राह्याः। तेषु चक्षुरादयः प्रकाशहेतवोऽन्ये स्थितिहेतव इति ज्ञातव्यम्। उक्तमात्रग्रहणे कः पुनरेषां वरिष्ठ इति प्रश्नाननुगुणः परिहारः स्यात् । तत्र वायुशब्दस्य प्रधानाप्रधानवायुसाधारण्यादुभयोरपि वक्तव्यत्वात् कोऽत्राभिप्रेत इति चिन्तायामाह - वायुरिति । भूतप्रकरणत्वादिति भावः । वायाविन्द्र इत्यादाविवात्र प्रधानवायुः किं न स्यात्तस्यापि वक्तव्यत्वादित्यत आह- प्राणशब्देनेति॥ तान् वरिष्ठः प्राण उवाचेत्युत्तरत्र प्रधानवायुः प्राणशब्देन परामृश्यते । यद्यत्रासौ वायुशब्देन प्रकृतो न स्यात् कथं तर्हि प्राणशब्देन परामृश्येत । नह्येवं बाधकमन्तरेण क्वचिदुपलब्धम् । लक्षणयाऽपि तस्य ग्रहणसम्भवादिति भावः । नच वाच्यमुभयोरपि वाचकोऽस्त्विति । उक्तादेव हेतोः । नह्येवं वक्तव्यं सर्वमप्युक्तं स्यात् । येन सकृदुच्चरितस्य शब्दस्यार्थद्वयं प्रतिपद्येमहीति ।

एतेषाञ्च प्राणस्य वरिष्ठत्वावधारणायाऽख्यायिकोच्यतेते प्राकाश्या इत्यादि । त एते धारकाः प्रकाशकाश्च देवाः प्राकाश्याः प्रकाशवन्तः, अभि अभितः उच्चैरिति यावत्, अभिवदन्ति कदाचिदन्योन्यं स्पर्धयैवाभ्यवदन् । किमिति ? वयमेतद् बाणं शरीरमवष्टभ्याऽश्रित्य विधारयामः प्रकाशयामश्चेति । अहमेव स्वातन्त्र्येण देहधारको न त्वमपि धारकः, अहमेव स्वातन्त्र्येण विषयप्रकाशको न त्वमपि प्रकाशक इति यावत् ॥ २ ॥

श्रीवामनपण्डिताचार्यविरचिताषट्प्रश्रभाष्यटीका

आकाशो ह वा एष देवो वायुरग्निराप इत्यादिना वैदर्भिप्रश्नपरिहारः क्रियते । अत्र वायुरिति शब्देन भूतवायुरुच्यते । भूतप्रकरणत्वात्। तान्वरिष्ठः प्राण उवाचेत्यत्र प्राणशब्देन प्रधानवायुः । वरिष्ठ इति विशेषणात् । अत्रेदमाकूतम् । अयमाकाशदेवो वाय्वादीनाञ्चाभिमानिनो ये देवास्ते प्रधानवायुना प्रजानां तत्त्वप्रकाशनाय हि युक्ताः । तथाप्येवं विवदन्ति वयमेवैतासां प्रजानां बाणं शरीरमवष्टभ्य विधारयाम इति । 'ब कामन' इति धातोः कामाणनहेतुत्वात् बाणशब्देन शरीरमुच्यते ॥ २-२ ॥

श्रीवादिराजतीर्थविरचिताषट्प्रश्नभाष्यटीकाप्रकाशिका

'उक्तमात्रग्रहणे' इत्यत्र उक्तमात्रग्रहणे पञ्चदेवतामात्रग्रहणे शब्दादितन्मात्रादेवतानाञ्चाग्रहणे वायोः सर्वदेवोत्तमत्वासिद्ध्या 'कस्स्विद्देव- तानां वरिष्ठः' इति प्रश्नो न स्यात् । 'लक्षणयाऽपि तद्ग्रहणसम्भवात्' इत्यत्र गवां मध्ये कृष्णा गौर्विशिष्टेत्यादाविवोत्कृष्टतया वक्तव्यप्राणस्यापि निर्धार - णीयमध्ये प्रवेशावश्यम्भावादसावावश्यकः । प्राणस्यापि वायुशब्देनोक्तौ वायो- रप्यभिमानित्वाविशेषात्साम्यशङ्का स्यात् । कस्यायं परामर्श इति च न निश्चेतुं शक्यते। तस्मादुपलक्षणयोभयोर्ग्रहणमिति भावः । 'नह्येवं वक्तव्यं सर्वमप्युक्तं स्यात्' इत्यत्र एवं सति मुख्यवाच्यानामेवालाभेन भूतपञ्चकवाचक-पदैरप्य- नुक्तानामपीन्द्रियाभिमानिदेवतानामसङ्ग्रहप्रसङ्गेन प्राणादवरत्वेन वक्तव्यं सर्वमुक्तं न स्याद्धि। अतो लक्षणैवाश्रयणीयेति भावः । 'प्रकाशवन्तः' इत्यत्र प्राकाश्याः वक्ष्यमाणप्रमेयस्य सर्वेषां प्रकाशने योग्या इत्यर्थः । तस्याभिप्रायमाह - उच्चैरिति यावदिति । २-२ ॥

श्रीसत्यप्रज्ञतीर्थविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

- ननु कः पुनरेषां वरिष्ठ इति श्रुतौ धारकाणां प्रकाशकानां देवानां मध्ये को वरिष्ठ इति प्रश्नो न युज्यते । उत्तरत्र परिहारे अयं वरिष्ठ इत्यकथनात् । किन्तु तान् वरिष्ठः प्राण उवाचेति प्राणस्य वरिष्ठत्वमनूद्यत एव । नचासिद्धस्यानुवादो भवतीत्यतः प्रागुक्तरीत्या मुख्यप्राणस्य वरिष्ठत्वे सिद्धवत्कृत्य प्रकारप्रश्न एव । नतु वरिष्ठस्वरूपप्रश्न इति प्रश्नाभिप्रायमाह - एवं वायुरित्यादीति ॥ यस्त्वया धारकः पृष्टः स वायुरग्निरित्यादि योजनीयमित्यर्थः । लक्षणहेतुमुख्यार्थानुपपत्ति दर्शयति- उक्तमात्रग्रहणे इति ॥ कः पुनरेषां वरिष्ठ इति प्रश्नाननुगुणः परिहारः स्यादिति ॥ येषां धारकाणां प्रकाशकानां तत्त्वाभिमानिनां सर्वेषां मध्ये को वा वरिष्ठ इति प्रश्नस्य तान् वरिष्ठः प्राण उवाचेति परिहारोऽननुगुणः स्यात् । उक्तानामाकाशादीनां नवानां देवानां मध्ये मुख्यप्राणस्यानुक्तत्वेन तदपेक्षया वरिष्ठत्वकथनस्यानन्वितत्वात् । तस्मात् प्रश्नप्रतिवचनानुगुण्यायोक्तेषु प्राणोऽवश्यं लक्षणीयः । तथाच किमर्धजरतीयेन प्राणावसितसर्वदेवोत्तमत्वलाभाय लक्षणया वक्ष्यमाणसर्वतत्त्वदेवानां ग्रहणे तु तन्मध्ये मुख्यप्राणस्य वरिष्ठत्वेन कः पुनरेषां वरिष्ठ इति निर्धारणषष्ठ्याः सम्भवेन चतुर्थप्रश्ने वक्ष्यमाणसर्वतत्त्वदेवानां लक्षणया ग्रहणं युक्तमित्यर्थः ।

वायुरग्निरित्यत्र भूतवायुरुच्यत इति मूलहेतोरनुक्त्या न्यूनतेत्यतः मूलाभि- प्रायहेतुमाह - भूतप्रकरणत्वादिति भाव इति ॥ यथाह जैमिनिः 'विशये प्रायदर्शनाद्' इति । वत्समालभेतेत्यत्र आलम्भनं हिंसा उत स्पर्श इति विशये गोदोहनप्रकरणत्वात् स्पर्श एवेति ।

ननु प्राणशब्देन प्रधानवायुरुच्यत इत्युत्तरं भाष्यं व्यर्थम् । तान् वरिष्ठः प्राण उवाचेत्यत्र वरिष्ठत्वविशेषणादेव प्राणशब्दस्य प्रधानवायुपरत्वनिश्चयेन पूर्वत्र वायुशब्द इव इह सन्देहाभावेन प्राणशब्दस्य व्याख्येयत्वात् । तथाचोत्तरभाष्यं व्यर्थमित्याशङ्क्य नेदं शब्दं प्राणशब्दव्याख्यानार्थं प्रवृत्तम् । येनोक्तदोषः स्यात् । किन्तु पूर्वत्र वायुशब्देन भूतायुरुच्यते भूतप्रकरणत्वादित्युक्तम् । तत्र प्रकरण- मुल्लद्द्वय वायुशब्देन प्रधानवायोरेव ग्रहणे बाधकं प्रदर्शयितुमिति भावेन तद्भाष्यमवतारयति- वायाविन्द्र इत्यादाविति || 'भूतेषु तच्छ्रुतेः' इत्यधिकरणे आकाशादिभूतेषु देवानां लयकथनावसरे 'वायाविन्द्रः सोम आदित्ये बृहस्पतिः' इत्युदाहृतवाक्ये इन्द्रादिलयाधिकरणत्वलिङ्गेन भूतप्रकरणं बाधित्वा वायुशब्देन भूतवायुं परित्यज्य यथा मुख्यवायुर्गृह्यते । तद्वदत्रापि भूतप्रकरणं बाधित्वा वायुशब्देन प्रधानवायुः किन्न गृह्यत इत्यर्थ इति रहस्यम् ।

तत्र लिङ्गवदत्र प्रकरणबाधकं किमित्यत आह- तस्यापि वक्तव्यत्वादिति ॥ तस्याप्यवश्यवक्तव्यत्वेनान्यथानुपपत्त्या प्रकरणबाधो युक्त इति भावः । वायुरग्नि- रित्यत्र वायुशब्देन प्रधानवायुग्रहणे बाधकप्रदर्शनपरमुत्तरभाष्यं यथास्यात्तथा योजयति ॥ तान् वरिष्ठ इति || परामृश्यत इति ॥ वरिष्ठः प्राण उवाचेति सिद्धवन्निर्देशेन परामर्श इति ज्ञायते इत्यर्थः ॥ यद्यसाविति । नह्यप्रकृतस्य परामर्शो युज्यत इति पूर्वं वायुशब्देन प्रकृतः प्रधानवायुः प्राणशब्देन परामृश्यत इति वक्तव्यम् । नच तथा युज्यते, कुत इत्यत उक्तम्- यदीति ॥ यद्यसौ प्राणः पूर्ववाक्ये वायुशब्देन प्रकृतः स्यात् कथं तर्हि प्राणशब्देन परामृश्यते । शब्दान्तरेण प्रकृतस्य शब्दान्तरेण परामर्शस्यायुक्तत्वात् । ननु 'आत्मन आकाशः सम्भूतः ' इत्यत्र 'ब्रह्मशब्दोदिते तस्मिन्नात्मशब्दः प्रयुज्य च' इत्यनुव्याख्यानोक्तरीत्या 'ब्रह्मविदाप्नोति परम्' इति ब्रह्मशब्देन प्रकृतस्यात्मशब्देन परामर्शस्य 'स वा एषः' इत्यन्यप्रारम्भादिति भाष्योक्तरीत्या आत्मशब्दोदितस्य पुरुषशब्देन 'स वा एष पुरुषोऽन्नरसमयः' इति परामर्शस्य दर्शनात् । कथं शब्दान्तरेण प्रकृतस्य शब्दान्तरेण परामर्शो नोपलभ्यत इत्यत उक्तम्- न ह्येवं बाधकमन्तरेणेति ॥ एवं शब्दान्तरेण प्रकृतस्य शब्दान्तरेण ग्रहणं बाधकमन्तरेण कुत्रचिदुपलब्धम् । येनात्र वायुशब्देन प्रकृतस्य प्राणशब्देन ग्रहणं युज्यते, बाधकाभावात् । पुरुषादि- शब्दे तु रसशब्देन विशेषणादिकं बाधकमित्यर्थः । नन्वप्रसक्तपरामर्शायोगेन प्रधानयोरपि प्रागवश्यं वक्तव्यत्वं बाधकमित्यत आह- लक्षणयापि तस्य वायोः ग्रहणसम्भवादिति ॥ नचेति ॥ लक्षणापेक्षया मुख्यवृत्तेर्ज्यायस्त्वेन वायुशब्द एव प्रधानाप्रधानयोरुभयोरपि वाय्वोर्वाचकोऽस्त्वित्यर्थः ॥ उक्तादेवेति ॥ नह्येवं बाधकमन्तरेण क्वचिदुपलब्धमित्युक्तादेवेत्यर्थः । ननु यथाकथञ्चिदुपलक्षणापेक्षया मुख्यवृत्तिर्ज्यायसीत्यत आह- नह्येवं वक्तव्यं सर्वमिति ॥ किञ्च कथं सकृदुक्तस्य वायुशब्दस्य अर्थद्वयमङ्गीकृत्य मुख्यप्राणग्रहणेऽप्यत्र वक्तव्यं सर्वतत्त्वाभि- मानिदेवताजातमुक्तं भवति । अतः इतरदेवानां ग्रहणाय लक्षणा अवश्यमङ्गीकार्या । तयैव मुख्यप्राणस्यापि ग्रहणसम्भवे किमर्थं सकृदुक्तस्यार्थद्वयमङ्गीकार्यमिति रहस्यार्थः । अत्र क्वचित्पुस्तके यद्यसौ वायुशब्देन प्रकृतो न स्यादित्यपि पाठो दृश्यते । तत्र पूर्वोत्तरवाक्यानां अलग्नता स्फुटैवेति असाम्प्रदायिकपाठ इति ज्ञेयम् । अत एव क्वचिन्नञः शोधो दृश्यत इति ।

ननु ते धारकाः प्रकाशका देवा वदन्ति अवदन् । प्राकाश्याः प्रकाशवन्तः अभि अभितः इत्यनयोः क्वोपयोगः अर्थविशेषालाभादित्यतः तात्पर्यमाह- उच्चैरिति यावदिति ॥ तस्यापि तात्पर्यम् - स्पर्धयेति ॥ बाणं शरीरमिति ॥ 'शान्तिं निर्वाणपरमाम्' इत्यादौ निर्वाणशब्दस्य प्रकृतशरीरराहित्येन निमित्तेन मोक्षे प्रयोगात् । वबयोरभेदेन बाणशब्दोऽपि शरीरवाचीत्यर्थः । वयमेतत् बाणमिति सामान्येनो-क्तस्य बहुवचनस्य विविच्य इतरप्रतिषेधपूर्वकं तात्पर्यमाह - अहमेव स्वातन्त्र्येणेति ॥

श्रीनिवासतीर्थविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

|| उक्तमात्रेति ॥ सर्वतत्त्वदेवाननुपलभ्य 'एष आकाशः ' इत्युपनिषदुक्तानामेव ग्रहण इत्यर्थः ॥ अननुगुणेति ॥ तत्र सर्वदेवानामुक्ते- रित्याशयः ।। भूतप्रकरणत्वादिति ॥ भूतप्रकरणत्वादित्यनेन भाष्यस्य न्यायगर्भत्वमुपपादितं ज्ञेयम् । तथाच वायुरग्निरित्यत्र वायुशब्देन प्रधानवायुग्रहणं न सम्भवतीति भावः । ननु भूतप्रकरणत्वेऽपि वायाविन्द्र इत्यादौ इन्द्रलयाधि- करणत्वेन यथा वायुशब्देन प्रधानवायुग्रहणमेवं किं न स्यादित्याशङ्कते - वाया- विन्द्र इत्यादाविति ॥ वक्तव्यत्वादिति ॥ सर्वेषां मध्ये वरिष्ठतमत्वनिर्धारणा- र्थमिति भावः । परामृश्यत इति ॥ तथाच पूर्वमपि प्रधानवायुः प्रसक्तः । अप्रकृतस्य परमार्शायोगादिति भावः ॥ यद्यत्रासाविति ॥ असौ प्रधानवायुः । अत्र वायुरग्निरित्यत्र ॥ नह्येवमिति ॥ तत्रान्नरसमयत्वादिबाधकवदत्र तदभावा- दित्यर्थः । नन्वस्त्यत्रापि प्राणशब्देन मुख्यप्राणग्रहणबाधकम् । तथाहि- यदि पूर्वं वायुशब्देन भूतवायुरुच्यते तर्हि मुख्यप्राणस्य पूर्वमप्रकृतत्वात् अत्र प्राणशब्देन कथमप्रकृतमुख्यप्राणस्य परामर्शः । पूर्वप्रकृतस्यैव परामर्शदर्शनादित्यत आह-लक्षणयापीति ॥ तदिति ॥ मुख्यप्राणेत्यर्थः । तथाच पूर्वं 'एष देवो वायुः ' इत्यादौ उपलक्षणेन वक्ष्यमाणा ग्राह्याः । सर्वेऽपि तत्त्वदेवाः इत्युक्तत्वेन प्राणस्यापि तत्र ग्रहणसम्भवेन प्रकृतत्वादत्र प्राणशब्देन युक्तस्तत्परामर्श इत्यर्थः । ननु मुख्यप्राणस्य परामर्शार्थं लक्षणा किमिति कार्या । वायुशब्द एव भूतमुख्य- वायुरूपोभयोरपि वाचकोऽस्त्वित्याशङ्कते - नचेति ॥ कुतो न वाच्यमित्यत आह- उक्तादेवेति ॥ यद्यसौ वायुशब्देन प्रकृतः स्यात्कथं तर्हि प्राणशब्देनं परामृश्यते इत्युक्तादेव हेतोरित्यर्थः । किञ्च वायुशब्द उभयोरपि वाचक इति पक्षमङ्गीकृत्यापि एष आकाश इति वाक्ये कश्चिदेषां वरिष्ठ इति प्रश्नाननुगुण्याय वक्ष्यमाण- सर्वतत्त्वदेवोपलक्षणं तावदावश्यकमेव । लक्षणामकृत्वा वायुशब्देनोभयोर्वाच्यतया ग्रहणेऽपि वक्तव्यं सर्वतत्त्वाभिमानिदेवताजातं न ह्युक्तं भवति । यद्युक्तः स्यात्तर्हि सर्वदेवा उक्ता एको मुख्यप्राण एव नोक्त इति भावेन सकृदुक्तस्य वायुशब्दस्यो- भयवाचकत्वं वाच्यं स्यात् । नह्येवं वक्तव्यं सर्वमुक्तम्। अतस्तदर्थं वायुशब्दस्यो- भयवाचकत्वमङ्गीकृत्यापि सर्वदेवलक्षणाया अवश्यकार्यत्वाल्लक्षणयैव मुख्य- प्राणोऽपि कस्मान्न गृह्यते। तथाच लक्षणया प्राणस्यापि पूर्वप्रकृतत्वात्प्राणशब्दस्य पूर्वप्रकृतपरामर्शकत्वं सम्भवतीत्यभिप्रेत्याह - न ह्येवमित्यादिना ||

ननु उत्तरत्र प्राणशब्देन परमार्शान्यथाऽनुपपत्त्या यदि पूर्वं प्रधानवायुः प्रकृतः तर्हि वायुशब्देन प्रकृत इति मन्तव्यम् । नच तत्सम्भवति । एकेन शब्देन प्रकृतस्य शब्दान्तरेण परामर्शायोगात् । नच सवा एष पुरुषोऽन्नरसमय इत्यादावान्मशब्देन प्रकृतस्यापि पुरुषशब्देन परामर्शदर्शनादत्रापि तथा सम्भवतीति वाच्यम्। बाधकभावाभावाभ्यां तदुपपत्तेरित्याशङ्क्य भाष्याभिप्रायमाह - यद्यसाविति । असौ प्रधानवायुः अत्र वायुरग्निरित्यत्र लक्षणयापीति ॥ नात्र वायुशब्देन प्रधानवायुः प्रकृतः। येन तादृशी शङ्का स्यात् । किन्तु पृथिवी च पृथिवीमात्रा चेत्यादि वक्ष्यमाणानां देवानां यथा लक्षणया ग्रहणं एवं प्रधानवायोरपि लक्षणया ग्रहणं सम्भवतीत्याशयः।। उभयोरपीति ॥ प्रधानाप्रधानवायोरपि वायुशब्द एव वाचकोऽस्त्वित्यर्थः ॥ उक्तादेव हेतोरिति ॥ भूतप्रकरणत्वादित्युक्तादेव हेतो- रित्यर्थः ॥ एवमिति ॥ एवमपीत्यर्थः । तथाच वायुशब्दस्य उभयवाचकत्वेऽपि वक्तव्यं सर्वं पृथिवी च पृथिवीमात्रा चेत्यादिकं नह्युक्तं स्यादित्यर्थः । प्रतिपद्ये- महीति । तथाच लक्षणाङ्गीकार एव साधुरिति भावः ॥ २-२ ॥

छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्

|| पूर्वोक्तरीत्येति । प्रजापतिना स्वेन सृष्टिकरणकाले प्राणस्य सृष्टौ मुख्यनिमित्तत्वोक्तेरित्यर्थः । एवं वायुरग्निरित्यादीति ॥ यस्त्वया जगद्धारकः पृष्टः स वायुः अग्निरापः पृथिवी तथा प्रकाशहेतुत्वेन यः पृष्टः स वाक् मनश्चक्षुः श्रोत्रं चेति ज्ञेयम्। ननु चतुर्थप्र धारकाणां प्रकाश्यानां च बहूनामित्युक्तत्वा- न्नवानामेवात्र कथमुक्तिरित्यत आह-- अत्रोपलक्षणत्वेनेति ॥ अत्र धारक- प्रकाशकानां सङ्कलय्योक्तेस्तत्र विवेकमाह - तेषु चक्षुराद्या इति ॥ अन्ये पृथिव्यादयः। उपलक्षणप्रयोजनमाह - उक्तमात्रग्रहण इति ॥ प्रश्नाननुगुणः परिहार इति ॥ कति कतरेति पदाभ्यां धारकत्वप्रकाश्यत्वावच्छिन्नानां पृष्टत्वा- च्चतुर्थप्रश्नप्रतिवचनपर्यालोचनया बहूनां धारकप्रकाश्यानां प्रतीतेस्तत्रोक्तपृथिवी- मात्रादिदेवान् विहायात्रोक्तनवमात्रग्रहणे सर्वधारक प्रकाश्यानुक्तेरिति भावः ॥ वायाविन्द्र इत्यादाविवेति ॥ 'नैकस्मिन् दर्शयतो हि' इति सूत्रस्थभाष्योदाहृतायां 'पृथिव्यामृभवो विलीयन्ते वरुणेऽश्विनौ अग्नावग्नयो वायाविन्द्रः सोम आदित्यो बृहस्पतिः' इति श्रुतौ लयप्रकरणादिन्द्रस्य प्रवहे लयासम्भवेन भूतप्रकरणेऽपि मुख्यवायुग्रहणादिति भावः॥ तस्यापि वक्तव्यत्वादिति ॥ मुख्यवायोरपि धारकत्वादिति भावः ॥ प्राणशब्देन परामृश्यत इति ॥ मुख्यप्राणस्य 'आकाशो ह वै एष देवः' इति धारकप्रकाश्यदेवताप्रतिपादकवाक्ये मुख्यप्राणस्यानुक्तौ धारकत्वप्रकाश्यत्वाप्रतीतेः 'तान्वरिष्ठः प्राण उवाच' इत्यत्र धारकप्रकाश्यैर्विवाद- कारणासम्भवेन तत्र प्रतिपादितत्वज्ञापनार्थं अत्र परामृश्यत इत्युक्तम् । तदेवोपपादयति- यद्यसावित्यादिना ॥ ननु वायुशब्देन मुख्यप्राणग्रहणे धारका- दिषु मुख्यप्राणाप्रसक्तेः तान्वरिष्ठः प्राण उवाचेत्यत्र धारकादिभिर्विवादकारणा- सङ्गतेरित्यत आह- लक्षणयापीति ॥ आकाशादिशब्दैरुपलक्षणयेत्यर्थः ॥ उक्तादेव हेतोरिति ॥ वायुशब्देन प्रकृतस्य प्राणशब्देन परामर्शायोगादित्युक्त- हेतोरित्यर्थः। युक्त्यन्तरञ्चाह - नहीति ॥ एवं वायुशब्देन मुख्यप्राणग्रहणेऽपि सर्वं पृथिवीमात्रादिकम्। ननु लक्षणया मुख्यप्राणग्रहणापेक्षया वायुशब्देन मुख्यत्वाद्वचनवृत्त्या मुख्यप्राणग्रहणमुचितमित्यत आह- येनेति ॥ सकृदुच्चरित - शब्दस्य सकृदर्थप्रत्यायकत्वनियमात् । शब्दश्रवणानन्तरं तदर्थसमयस्मरणस्य क्रमिकत्वेन एकदानेकार्थसमयस्मरणानुपपत्तेरिति भावः । त एते धारका इति । अयं तच्छब्दः पूर्वोक्तधारकपरामर्शकः । नतु प्रकाश्यविशेषणमिति भावः । अत एव समुच्चयार्थकचशब्दोऽप्यर्थेनाध्याहृतः । प्रकाश्या इत्यत्र नायं ण्यत्प्रत्ययः। प्रकाशशब्दान्मत्वर्थे यत्प्रत्यय इति भावेनाह - प्रकाशवन्त इति ॥ ज्ञानजनका इत्यर्थः।संसर्गेऽस्ति विवक्षायां भवन्ति मतुबादयः' इत्युक्तेः । जन्यजनक- भावलक्षणसंसर्गोऽत्र विवक्षितः । भूमनिन्दाप्रशंसासु इति मतुबादीनां भूमार्थस्या- प्युक्तेस्तदाश्रित्याह- उच्चैरिति यावदिति ॥ अभिवदतीत्यत्र अभिशब्दस्या- व्ययत्वेनानेकार्थत्वात् स्पर्धार्थकत्वमभिप्रेत्याह- वदन्तीति ॥ लटः 'व्यत्ययो बहुलम्' इति वचनात् अतीतार्थकत्वमिति भावेनाह- अभिवदन्ति कदाचिद- न्योन्यस्पर्धयैवावदन्निति ॥ धारकप्रकाश्यदेवानां स्पर्धयाभिवदनप्रकारमाह- अहमेवेति ॥ २२ ॥

ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

॥ वक्ष्यमाण इति ॥ चतुर्थप्रश्चे 'प्राणश्च धारयितव्यञ्च' इत्यन्तेन वक्ष्यमाणा इत्यर्थः ॥ चक्षुरादय इति ॥ यद्यपि वामनश्चक्षुरिति मनसः प्रथमग्रहणं तथापि चतुर्थप्रश्चे " चक्षुश्च द्रष्टव्यञ्चइत्यत्र चक्षुष आदित्वेन ग्रहणात्तदनुसारेणेयमुक्तिः । यद्यपि वागादिकर्मेन्द्रियाणां द्रव्यादिविषयाणां च न ज्ञानहेतुत्वम् । तथापि तेषां स्थितिहेतुत्वं बोध्यम् । लक्षणाबीजमुख्यार्थानुपपत्तिं दर्शयति- उक्तमात्रेति । अत्रोक्तानां देवानामेव धारकत्वेन प्रकाशकत्वेन च ग्रहणे एषां धारकाणां प्रकाशकानां च को वरिष्ठ इति प्रश्नस्य तान्वरिष्ठः प्राण इति परिहाराऽनुगुणः स्यात् । उक्तेषु तस्याप्रविष्टत्वेन तेषां मध्ये वरिष्ठः प्राण इति वक्तुमशक्यत्वात्। लक्षणया सर्वतत्त्वदेवानां ग्रहणे तन्मध्ये मुख्यप्राणस्य वरिष्ठत्वेन कः पुनरेषां वरिष्ठ इति निर्धारणषष्ठ्याः सम्भवेन तेषां मध्ये प्राणो वरिष्ठ इति परिहारोऽनुगुणः स्यादिति भावः ॥ कोऽत्रेति ॥ न तावदुभयग्रहणं युक्तं सकृदुक्तशब्दस्यार्थद्वयायोगात् । अतः कोऽत्राभिप्रेत इत्यर्थः । प्रवह इत्याद्यनुक्त्वा भूतवायुरिति भूतग्रहणसूचितं हेतुमाह- भूतप्रकरणत्वादिति ॥यद्यपि प्रधानवायुरपि भूताभिमानी तथाप्यल्पाभिमानिप्रकरणत्वान्न महाभि- मान्युपस्थितिरनेनेति भावः ।

ननु तान्वरिष्ठः प्राण इति वरिष्ठत्वविशेषणादेव प्राणस्य प्रधानत्वप्रतीतेर्भाष्यं व्यर्थमित्यतः पूर्वोक्तानुपपत्तिपरिहारकत्वेनाऽवतारयति - वायाविन्द्र इति ॥ 'नैकस्मिन् दर्शयता हि' इति सूत्रोदाहृतश्रुतौ 'पृथिव्यामृभवो वरुणेऽश्विनौ । अग्नावग्नय इति भूतप्रकरणत्वेऽपि वायाविन्द्र सोम आदित्यो बृहस्पतिः' इत्यत्र वायुशब्दस्य प्रकरणबाधेन मुख्यवायुपरत्वात्प्रकृतेऽप्युपपद्यत इति भावः ॥

ननु तत्रेन्द्रलयाधिकरणत्वलक्षणयुक्तिबलेनाल्पभूताभिमानिप्रकरणबाधोऽङ्गीकृतः । यथोक्तमनुव्याख्याने- 'प्रधानवायुस्त्विह वायुनामा भूतेष्विति प्रोक्तगतोऽपि युक्त्या ' ॥ इति ॥

नचात्र बाधकं किञ्चिदस्ति । येन प्रकरणबाध इत्यत उक्तम् - तस्यापीति ॥ परमात्मद्वारतया जगद्धारकत्वेन प्रकाशकत्वेन चावश्यं वक्तव्यत्वात् । अन्यथानुपपत्त्या प्रकरणबाधो युक्त इति भावः । वायुरग्निरित्यत्र प्रधानवायोः प्रस्तुतत्वमङ्गीक्रियत एव । अन्यथा तस्यापि वक्तव्यत्वादिति त्वदुक्तयुक्ति- विरोधात् युक्त्यन्तरस्य सत्वाच्च वायुशब्देन वचनवृत्त्यैव प्रकृतत्वं तु नाङ्गीक्रियते युक्तिविरोधादित्येवं परतया भाष्यं योजयति - तानिति । अत्रैवं योजना । तान्वरिष्ठः प्राण उवाचेत्युत्तरत्र प्रधानवायुः प्राणशब्देन परामृश्यते । यद्यसावत्र वायुरनिरिति वाक्ये प्रकृतो न स्यात्कोऽयं तर्हि प्राणशब्देन परामृश्यते । तेषां मध्ये प्राणो वरिष्ठः स उवाचेत्युक्त्ययोगात् । अतः प्रकृतत्वं तावत्सिद्धम् । यदि चासौ वायुशब्देनैव वचनवृत्त्या प्रकृतः स्यात्तर्हि कथं प्राणशब्देन परामृश्येत। शब्दान्तरेण प्रकृतस्य शब्दान्तरेण परामर्शस्यायुक्तत्वादिति। एवं यद्यसौ वायुशब्देन प्रकृतोऽत्र न स्यादिति नञ्घटितपाठमाश्रित्य नञन्वयेन तदनन्वयेन च द्वेधा व्याख्यातम् । यद्यसौ वायुशब्देन प्रकृतो न स्यादित्येव क्वचित् कोशेषु पाठः । तदा वायुशब्देन मुख्यवायुग्रहणे बाधकप्रदर्शनमात्रपरत्वेन भाष्यं टीकायां व्याख्यातं बोध्यम् । केचित्तु प्रकृतोऽत्र न स्यादिति पाठः साम्प्रदायिकः। अत एव क्वचिन्नञःशोधो दृश्यते इत्याहुः । ननु 'ब्रह्मविदाप्नोति परम्' इति ब्रह्मशब्देन प्रकृतस्यआत्मन आकाशः सम्भूतः' इत्यात्मशब्देन परामर्शो 'ब्रह्मशब्दोदिते तस्मिन्नात्मशब्दं प्रयुज्य च' इत्यनुव्याख्यान एव व्याख्यातः । कथं शब्दान्तरेण प्रकृतस्य शब्दान्तरेण परामर्श इत्यत आह- नहीति । एवं शब्दान्तरेण प्रकृतस्य शब्दान्तरेण ग्रहणं बाधकमन्तरेण क्वचिन्नोपलब्धम् । तत्र तु ब्रह्मणोऽन्यस्य जगत्कर्तृत्वायोगेन ब्रह्मशब्दोदितस्यैवात्मशब्देन परामर्श इति भावः । ननु तस्यापि वक्तव्यत्वयुक्तिबाधेनाप्रसक्तपरामर्शायोगेन च तत्र प्रधानवायोरपि ग्रहणं कार्यमित्यत आह- लक्षणयेति ॥ उभयोः प्रधानाप्रधान- वाय्वोः। लक्षणापेक्षया वचनवृत्तेर्ज्यायस्त्वादिति भावः ॥ उक्तादेवेति ॥ शब्दान्तरेण प्रकृतस्य शब्दान्तरेण परामर्शायोगादित्युक्तादेवेत्यर्थः । चतुर्थप्रश्ने 'प्राणश्च विधारयितव्यं च' इति वक्ष्यमाणस्य प्राणस्य 'पिता त्वं मातरिश्वनः ' इति वक्ष्यमाणप्रकारेण पितापुत्रभावसम्बन्धेन वायुशब्देन लक्षणायां तु वायुपितृत्वेन प्राणतया प्रकृतस्यैव प्राणपदेन परामर्शो युक्त इति भावः । ननु मुख्यस्य वायुशब्देन वचनवृत्त्या ग्रहणे प्राणशब्दपरामर्शानुपपत्तिः। लक्षणया ग्रहणे मुख्यवृत्तित्याग इति दोषसाम्यम् । वस्तुतत्त्वविचारे मुख्यवृत्त्यनुसरणमेव गुण इत्यत आह- नहीति ॥ एवमपि शब्दान्तरेण परामर्शं स हीत्यत्रापि मुख्यवायुमात्रस्य वायुशब्देन ग्रहणेऽपि वक्तव्यं वायुमात्रादिकं सर्वं तत्त्वजातमुक्तं न स्यात्। उक्तं न भवति किल । न सर्वस्यापि वचनवृत्त्या लब्धत्वे मुख्यमात्रस्योर्वरितत्वेन तन्मात्रलाभार्थं मुख्यवृत्तिसम्भवे लक्षणा जघन्येति सकृदुच्चरितशब्दस्य मुख्यामुखार्थद्वयं प्रतिपद्येम । अतस्तदर्थं वाय्वादिशब्दानां वायुमात्रादिलक्षकत्वं स्वीकार्यम् । तथाच मुख्यवृत्तेस्त्यागे विवक्षिते मुख्य- प्राणोऽपि लक्ष्यतामिति भावः । नच वायुशब्देन मुख्यप्राणस्य लक्षणायां सकृदुच्चरितशब्दस्य वृत्तिद्वयविरोधः । वायुमात्रादिलक्षणापक्षेऽपि तौल्यात् । नच तत्र काकेभ्यो दधि रक्षतामित्यत्रैवाजहल्लक्षणाश्रयणं तदावश्यकवक्तव्यत्वो- पाधिना मुख्यस्य लक्ष्यत्वं स्वीकृत्य जहल्लक्षणैव ज्यायसीति। नचैवं लक्षणापेक्षेऽप्यर्थद्वयस्यावकाशः । वायुशब्देनावश्यवक्तव्यत्वोपाधिना एकाव-च्छेदकेन ग्रहणात् ।

दध्युपघातकत्वलक्षणैकावच्छेदकेन काकप्रभृतीनामेकार्थवदिति सङ्क्षेपः ॥

ते प्राकाश्या इत्यत्र तच्छब्देन धारकमात्रपरामर्शो न सम्भवतीत्युभयोरपि परामर्शासम्भवे धारकाणां तच्छब्देन प्रकाशकानां पदान्तरेण ग्रहणायोगाच्च त इत्यस्य प्राकाश्यविशेषणत्वे धारकानुक्तिर्दोषः । प्राकाश्यशब्दस्य प्रकाशविषयप्रजावाचि-त्वेनासङ्गतिश्चेत्यतो व्याचष्टे - त इति ॥ स्पर्धयैवेति ॥ 'ते जानमाना अपि निर्णयाय' इति भगवत्पादोक्तेः स्पर्धाभावेऽपि स्पर्धयैवेति भावः ।। २-२ ॥

मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

ननु कः पुनरेषां वरिष्ठ इति वरिष्ठत्वमनूद्यते नचासिद्धस्यानुवादो भवतीत्यतः प्रागुक्तरीत्या मुख्यप्राणस्य वरिष्ठत्वं सिद्धवत्कृत्य प्रकारप्रश्न एव नतु वरिष्ठस्वरूपप्रश्न इति प्रश्नाभिप्रायमाह - पूर्वोक्तरीत्येति ॥ पूर्वखण्डे मुख्य- प्राणस्याशेषप्रजोत्पत्तौ मुख्यद्वारत्वमुक्तम् । अतः स्थित्यादावपि स एव मुख्यहेतुरिति वाच्यम् । यतो महाराजत्वमिव युवराजत्वमपि अखण्डं लोके दृश्यते । तत्र किम्प्रमाणकं किम्प्रकारकं वा वरिष्ठत्वमिति प्रश्नार्थः । यथाश्रुते प्रश्नस्य सिद्धार्थत्वप्रसङ्गात्परिहाराननुगुण्याच्चेति भावः ॥ एष आकाशा- नीति | आकाश इत्यस्य व्याख्या आकाशाभिमानीति । यस्त्वया धारकः पृष्ट एष आकाशाभिमानी देवो हवा इत्यन्वयः ॥ एवं वायुरग्निरित्यादीति ॥ यस्त्वया धारकः पृष्टः स वायुरग्निरित्यादि । तथा प्रकाशहेतुत्वेन यः पृष्टः स मनश्चक्षुरादीति योजनीयमित्यर्थः । ननु चतुर्थखण्डे धारकाणां प्रकाशकानाञ्च बहूनां वक्ष्यमाणत्वान्नवानामेवात्र कथं कथनमित्यत आह- अनोपलक्षण- त्वेनेति ॥ आकाशादिभूतवाचकशब्दपञ्चकेन पञ्चतन्मात्राः वाक्शब्देन कर्मेन्द्रियाणि तद्विषयाश्च चक्षुः श्रोत्रमनः शब्दैर्ज्ञानेन्द्रियाणि तद्विषयाः तत्र देवा- काशादिसर्वधारको मुख्यप्राणश्चेत्येते सर्वेऽपि तत्त्वदेवा इत्यर्थः । धारकाणां प्रकाशकानाञ्च सङ्कलय्योक्तेस्तत्र विवेकमाह- तेषु चक्षुरादय इति || “चक्षुश्च द्रष्टव्यञ्चइति चक्षुष एवादावुत्तरत्रोक्तेश्चक्षुरादय इत्युक्तम् । अन्ये पृथिव्यादयः । लक्षणाहेतुं मुख्यार्थानुपपत्तिं दर्शयति- उक्तमात्रग्रहण इति ॥ कः पुनरेषां वरिष्ठ इति प्रश्नाननुगुणः परिहारः स्यादिति । एषां धारकाणां प्रकाशकानाञ्च तत्त्वाभिमानिनां सर्वेषां मध्ये को वा वरिष्ठ इति प्रश्नस्य तान्वरिष्ठः प्राण उवाचेति परिहारोऽननुगुणः स्यात् । उक्तानामाकाशादीनां नवानां देवानां मध्ये मुख्यप्राण- स्यानुक्तत्वेन तदपेक्षया वरिष्ठत्वकथनस्यानन्वितत्वात् । तस्मात्प्रश्नप्रतिवचना- नुगुण्यायोक्तेषु प्राणोऽवश्यं लक्षणीयः । तथाच किमर्धजरतीयन्यायेन प्राणावसितसर्वदेवोत्तमत्वलाभाय लक्षणया वक्ष्यमाणसर्वतत्त्वदेवानां ग्रहणे तन्मध्ये मुख्यप्राणस्य वरिष्ठत्वेन कः पुनरेषां वरिष्ठ इति निर्धारणषष्ठ्याः सम्भवेन चतुर्थप्रश्ने वक्ष्यमाणसर्वदेवानां ग्रहणं युक्तमित्यर्थः ॥ तत्रेति ॥ उपलक्षणया सर्वदेवानां ग्रहणे सतीत्यर्थः । ननु यस्य वक्तव्यत्वं स एव गृह्यतामित्यत आह- उभयोरपीति ॥ वचनवृत्त्योभयोर्ग्रहणे वक्ष्यमाणबाधक- प्राप्त्या एकस्यैव वचनवृत्त्या ग्रहणे कर्तव्ये को वा वचनवृत्त्या ग्राह्य इति चिन्तायामित्यर्थः । वायुरग्निरित्यत्र भूतवायुरुच्यत इति मूले हेतोरनुक्त्या न्यूनतेत्यतो मूलाभिप्रेतं हेतुमाह - भूतप्रकरणत्वादिति भाव इति ॥ यथाह जैमिनिः 'विशये प्रायदर्शनात्' इति । वत्समालभेतेत्यत्रालम्भनं हिंसोत स्पर्श इति विशये गोदोहनप्रकरणात्स्पर्श एवेति । ननु प्राणशब्देन प्रधानवायुरुच्यत इत्युत्तरभाष्यं व्यर्थम् । तान्वरिष्ठः प्राण उवाचेत्यत्र वरिष्ठत्वविशेषणादेव प्राण- शब्दस्य प्रधानवायुपरत्वनिश्चयेन पूर्वत्र वायुशब्द इव सन्देहाभावेन प्राण- शब्दस्याव्याख्येयत्वादित्याशङ्क्य नेदं भाष्यं प्राणशब्दस्य व्याख्यानार्थं प्रवृत्तं येनोक्तदोषः स्यात्। किन्तु पूर्वत्र वायुशब्देन भूतवायुरुच्यते भूतप्रकरणत्वा- दित्युक्तम्। तत्र प्रकरणमुल्लङ्घय वायुशब्देन प्रधानवायोरेव ग्रहणे बाधकं दर्शयितुमिति भावेन तद्भाष्यमवतारयति - वायाविन्द्र इत्यादाविवेति ॥ 'भूतेषु तच्छ्रुतेः' इत्यधिकरणे । आकाशादिभूतेषु देवानां लयकथनावसरे 'वायाविन्द्रः सोम आदित्यो बृहस्पतिः' इत्यादिवाक्ये इन्द्रादिलयाधिकरणत्वेन लिङ्गेन भूतप्रकरणं बाधित्वा वायुशब्देन भूतवायुं परित्यज्य यथा मुख्यवायुर्गृह्यते । तद्वत्रापि भूतप्रकरणं बाधित्वा वायुशब्देन प्रधानवायुः किं न गृह्यत इत्यर्थः। ननु भूताभूतसाधारणो यः शब्दो भूतप्रकरणे श्रूयते स भूतपर एव । यः साधारणः शब्दो यत्प्रकरणे पठ्यते स तत्पर इति व्याप्तेः । वायुशब्दस्य प्रधानवायुपरत्वेन व्यभिचारचोदनं न युक्तम् । भूतेषु तच्छ्रुतेरित्येतद्विवरणात्मके 'नैकस्मिन् दर्शयतो हि' इत्यत्र सूत्रे उदाहृतस्यास्य वाक्यस्य भूतपरत्वेन प्रधानवायोरपि भूतत्वस्यैवाङ्गीकर्तव्यत्वात् । अत एव 'प्रधानवायुस्त्विह भूतनामा' इत्याद्यनुव्याख्याने प्रधानवायोर्भूतत्वमुक्तम् । तस्मादत्रापि

वायुशब्दस्य भूतपरत्वात्कथं व्यभिचारः । पूर्वं प्रधानवायुव्यावृत्त्यर्थं भूतप्रकरण- त्वादिति हेतूक्तिश्चायुक्तेति चेन्न । भूतप्रकरणे श्रुतो वायुशब्दः 'खं वायुर्ज्योतिरापः ' 'आकाशाद्वायुः' इत्यादौ नियमेनावान्तराभिमानिपर एव दृश्यते । अतोऽत्रापि स एवोच्यते न प्रधानवायुरित्याशयेनोक्तावियमाशङ्को- देतीत्यङ्गीकारात् । नन्वत्र प्रधानवायुपरत्वज्ञापकाभावे सतीति विशेषण- मभिप्रेतम् । वायाविन्द्र इत्यत्र इन्द्रलयाधिकरणत्वं ज्ञापकमस्तीति विशेषणा- भावान्न व्यभिचार इत्यत आह- तस्यापि वक्तव्यत्वादिति ॥ तर्ह्यवश्य- वक्तव्यत्वं मुख्यपरत्वज्ञापकमत्राप्यस्तीति विशेषणासिद्धिरिति भावः । केचित्तु तत्र लिङ्गवदत्र प्रकरणबाधकं किमित्यत आह- तस्यापीति ॥ तस्याप्यवश्य- वक्तव्यत्वान्यथानुपपत्त्या प्रकरणबाधो युक्त इति व्याचक्षते । प्राणशब्देन प्रधान- वायुरित्यत्रोच्यत इत्यनुवृत्तौ सत्यां नैतच्छङ्कापरिहारकमेतद्वाक्यं स्यादतोऽध्या- हृत्य योजयति - तान्वरिष्ठ इति ॥ ततश्चैवं भाष्याशयः । मुख्यप्राणस्य 'आकाशो ह वा एष देवः' इति धारकप्रकाशकदेवप्रतिपादकवाक्येऽनुक्तौ धारकत्वप्रकाशकत्वाप्रसक्तेः 'तान्वरिष्ठः प्राण उवाच' इत्यत्र धारकप्रकाशकै- धरणप्रकाशनविषये विवादकरणासम्भवेन 'कः पुनरेषां वरिष्ठः' इति निर्धारणषष्ठीबलेन च पूर्वोक्त एव प्राणोऽत्र वरिष्ठत्वावधारणाय परामृश्यत इति वाच्यम्। यदि स वायुशब्देनोक्तः स्यान्न तर्हि प्राणशब्देन परामृश्येत । शब्दान्तरेण प्रस्तुतस्य शब्दान्तरेण परामर्शस्य बाधकं विनाऽदर्शनात् । तथाच प्राणशब्देन परामर्शानुपपत्त्या प्रतिहतशक्तिकमवश्यवक्तव्यत्वं वायुशब्दस्य प्रधानवायु- परत्वमवगमयितुं नालमिति । केचित्तु 'वरिष्ठः प्राण उवाच' इति सिद्धवन्निर्देशेनैव परामर्श इति ज्ञायत इत्याहुः ॥ शङ्कते यद्यत्रेति ॥ वायुशब्देनाप्रकृतत्वे तद्वाचकपदान्तराश्रवणात्प्रकृतत्वमेव न स्यात् । तथाचाप्रकृतपरामर्शादर्शना- त्प्राणपदेन परामर्श एव न स्यादिति प्रतितर्कविरुद्धशक्तिस्तर्को न परबाधना- यालमिति भावः। ननु क्वचिद्बुद्धिप्रकृतस्यापि परामर्शो दृश्यते। तत्कथमेतदित्यत आह- नहीति ॥ उत्तरमाह- लक्षणयापीति ॥ नहि शक्त्यैव प्रकृततया भवितव्यमिति नियमः । ' तस्मा एतत्प्रोवाच । अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति' इत्यादौ लक्षणया गृहीतानामपि चक्षुरादीनां परामर्शदर्शनादिति भावः। यद्यत्रासौ वायुशब्देन प्रकृतः स्यादिति नञ्विना कृतपाठः क्वचिद्दृश्यते । तस्यैवं योजना। न ह्यप्रकृतस्य परामर्शो युज्यत इति पूर्वं वायुशब्देन प्रकृतः प्रधानवायुः प्राणशब्देन परामृश्यत इति वक्तव्यम् । नच तथा युज्यते! कुत इत्यत उक्तम्यदीति ॥ यद्यसौ प्राणः अत्र पूर्ववाक्ये वायुशब्देन प्रकृतः स्यात् । कथं तर्हि प्राणशब्देन परामृश्येत । शब्दान्तरेण प्रकृतस्य शब्दान्तरेण परामर्शस्यादर्शनेनायोगात्। ननु 'आत्मन आकाशः सम्भूतः' इत्यत्र 'ब्रह्म- शब्दोदिते तस्मिन्नात्मशब्दं प्रयुज्य च' इत्यनुव्याख्यानोक्तरीत्या 'ब्रह्मविदाप्नोति परम्' इति ब्रह्मशब्देन प्रकृतस्यात्मशब्देन परामर्शस्य 'स वा एषः ' इत्यन्यप्रारम्भादिति भाष्योक्तरीत्या आत्मशब्दोदितस्य पुरुषशब्देन 'स वा एष पुरुषोऽन्नरसमयः' इति परामर्शस्य च दर्शनात् । कथं शब्दान्तरेण प्रकृतस्य शब्दान्तरेण परामर्शो नोपलभ्यत इत्यत उक्तम् ॥ नह्येवं बाधकमन्तरेणेति ॥ एवं शब्दान्तरेण प्रकृतस्य शब्दान्तरेण ग्रहणम् । अग्रहणे बाधकमन्तरेण कुत्रचिदुपलब्धम् । येनात्र वायुशब्देन प्रकृतस्य प्राणशब्देन ग्रहणं युज्येत । अग्रहणेऽपि बाधकाभावात् । आत्मशब्देनापरामर्शे उत्तरवाक्यस्य पूर्ववाक्य- प्रपञ्चकत्वानुपपत्तिरूपबाधकसत्त्वात् ब्रह्मशब्दोदितस्यापि आत्मशब्देन परा- मर्शोऽभ्युपगतः । पुरुषादिशब्दे तु रसशब्देन विशेषणादिकं बाधकमित्यर्थः। नन्वप्रसक्तपरामर्शायोगेन प्रधानवायोरपि प्रागवश्यं वक्तव्यत्वमत्रापि बाधक - मित्यत आह- लक्षणयापीति ॥ तस्य मुख्यवायोः । ग्रहणसम्भवादिति ॥ नन्वेवं वायाविन्द्र इत्यादाविवात्र बाधकाभावाद्भूतप्रकरणत्वेन लिङ्गेन भूतवायुरुच्यतां नाम। तथापि मुख्यवायावपि मुख्यवृत्तिसद्भावात्तां परित्यज्य

तस्य प्रकृतत्वलाभाय जघन्यवृत्त्यङ्गीकारो जघन्यः । सुरसरिति निवसतः पुरुषस्य जललाभार्थं कूपखननन्यायसाम्यादित्याशङ्कय परिहरति - नच वाच्यमिति ॥ उक्तादेवेति ॥ वायुशब्देन प्रकृतत्वे प्राणशब्देन न परामृश्येतेत्युक्तादेव हेतोरित्यर्थः । बाधके सति मुख्यं परित्यज्य जघन्यवृत्त्यङ्गीकारो युक्त एव। 'तस्यान्ते सुषिरं सूक्ष्मम्' इत्यत्र सर्वपदवाच्येऽपि ब्रह्मणि सुषिरपदलक्षणाया दृष्टत्वादिति भावः । ननु बाधके सति शब्दान्तरेण प्रस्तुतस्य शब्दान्तरेण परामर्शोऽस्ति । अत्रापि परामर्शान्यथानुपपत्त्या पूर्वप्रकृतत्वे वाच्ये लक्षणया च तदङ्गीकारे वृत्तिद्वयमत्रीकरणीयमिति गौरवमेव बाधकमस्ति । तस्माद्भूते क्लृप्तया शक्त्यैव मुख्योऽप्युच्यत इत्यङ्गीकरणमेव वरमित्याशङ्क्य विपक्षे ततोऽपि गौरवमाह - न ह्येवमिति ॥ वाचकत्वाङ्गीकारेऽपीत्यर्थः । यथा नानार्थेषु गवादिशब्देषु घटत्वपृथिवीत्वादिप्रवृत्तिनिमित्तनानात्वेन शक्तिरपि नाना । तथाभूते वायौ मुख्ये च शक्तिर्भिन्नैवेत्यङ्गीकर्तव्यम् । धारणप्रकाशनहेतुतया क्लृप्ताशेषतत्त्वदेवोपलक्षणं च कार्यम् । एवञ्च वृत्तित्रयमङ्गीकार्यमिति लक्षणा- मनङ्गीकुर्वन् चोरभयाद्धोरमृगाकीर्णं गहनं वनं प्रविष्ट इवापद्यते। तस्मा- द्वक्ष्यमाणतत्तद्देवतात्वावच्छेदेन लक्षणायां तत्र प्राणस्यापि प्रविष्टत्वेन सोऽपि तयैव गृह्यत इति न तदर्थं पुनः प्रयत्नान्तरमिति लक्षणापक्ष एव लाघवमिति भावः ॥ येनेति ॥ सकृदुच्चरितशब्दस्य सकृदेवार्थप्रत्यायकत्वनियमात् । शब्दश्रवणानन्तरं तत्तदर्थशक्तिस्मरणस्य क्रमिकत्वेनैकदा अनेकार्थस्मरणा- नुपपत्तेरिति भावः ॥ एतेषाञ्चेति ॥ वाय्वादीनां देवानां मध्य इत्यर्थः ।। त एते धारका इति ॥ अयं तच्छब्दः पूर्वोक्तधारकपरामर्शकः । नतु प्राकाश्य- विशेषणमिति भावः । अत एव समुच्चायकः चशब्दोऽप्यध्याहृतः। प्राकाश्य- शब्दस्य प्रकाशका इति कथं व्याख्या इत्याशङ्कय ण्यत्प्रत्ययोऽयं प्रकाश- शब्दान्मत्वर्थे इति भावेनाह- प्राकाश्याः प्रकाशवन्त इति ॥ प्रकाशजनका इत्यर्थः।संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः' इत्युक्तेर्जन्यजनकभाव- लक्षणसंसर्गेऽत्र विवक्षित इति भावः । यद्वा त इति तच्छब्दः पूर्वोक्तानां धारकाणां प्रकाशकाञ्चोभयेषां परामर्शक इत्यभिप्रेत्य त एते धारकाः प्रकाशकानाश्च देवा इत्युक्तम् । तर्हि प्राकाश्या इत्यधिकमित्याशङ्कय तच्छब्दोक्तानां तेषां विशेषणमित्यभिप्रेत्य प्राकाश्याः प्रकाशवन्त इति व्याख्यातम् । ननु ते धारकाः प्रकाशकाश्च देवा वदन्ति अवदन्नित्येव वक्तव्ये प्राकाश्याः प्रकाशवन्तः अभि अभित इत्यनयोः क्वोपयोगः । अर्थविशेषा- लाभादित्यतस्तयोस्तात्पर्यमाह - उच्चैरिति यावदित्यादि ॥ लडर्थस्य बाधादवदन्नित्युक्तम्। अभिवदन्तीत्यत्राभिशब्दस्याव्ययत्वेनाने-कार्थत्वमभि- प्रेत्याभि उच्चैरिति यावदित्युक्तमिति केचित् । अत्राभि उच्चैरिति क्वचित्पाठः ॥ बाणं शरीरमिति ॥ 'शान्तिं निर्वाणपरमाम्' इत्यादौ निर्वाणशब्दस्य प्राकृतशरीरराहित्येन निमित्तेन मोक्षे प्रयोगात् वबयोरभेदेन बाणशब्दोऽपि शरीरवाचीत्यर्थः । वयमेतद्वाणमिति सामान्येनोक्तस्य बहुवचनस्य विविच्येतरप्रतिषेधपूर्वकं तात्पर्यमाह - अहमेव स्वातन्त्र्येणेति ॥ २२ ॥

अनन्तभट्टविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

॥ पूर्वोक्तरीत्येति ॥ पूर्वखण्डे प्राणस्याशेषप्रजोत्पत्तौ मुख्यद्वारत्वमुक्तमतः स्थित्यादावपि स एव मुख्यहेतुरिति वाच्यम् । यतो महाराजत्वमिव युवाधीशत्वमप्यखण्डं लोके दृश्यते । तत्र किं प्रमाणं वरिष्ठत्व- मिति प्रश्नाशयः इत्यर्थः । यथाश्रुते प्रश्नस्य सिद्धार्थताप्रसङ्गात्तत्परिहारा- ननुगुण्याच्चेति भावः ॥ अत्रोपलक्षणत्वेनेति ॥ आकाशादिभूतवाचकशब्द- पञ्चकेन पञ्चतन्मात्राः । वाक्शब्देन कर्मेन्द्रियाणि तद्विषयाश्च चक्षुः श्रोत्र- शब्दाभ्यां ज्ञानेन्द्रियाणि तद्विषयाश्च, अन्तःकरणपञ्चकवाचिमनःशब्देन तद्विषया इत्येवं सर्वे तत्त्वदेवा, आकाशादिसर्वधारको मुख्यप्राणश्च चतुर्थखण्डे वक्ष्यमाणा उपलक्ष्यन्त इत्यर्थः । ननूक्तमात्रग्रहणेनैव वाक्यार्थोपपत्तेः किं लक्षणया सर्वदेवताग्रहणेनेत्यतो लक्षणा तावदावश्यकीत्याह- उक्तमात्रेति ॥ उक्तमात्रे ग्रहणे सति तेषु रुद्राण्याः पठितत्वेनैषां मध्ये को वरिष्ठ इति प्रश्नस्येदमुत्तरं न स्यात् । तस्मात्प्रश्नप्रतिवचनानुगुण्यायोक्तेषु प्राणोऽवश्यं लक्षणीयः । तथाच किमर्धजरतीयेन प्रमाणावसितसर्वदेवोत्तमत्वलाभाय सर्वोप- लक्षणमेव हि न्याय्यमित्यर्थः । वायुशब्दस्य भूतवायुवाचकत्वस्य स्फुटत्वा- त्कस्मादयं व्याख्यायत इत्यतस्तद्वीजमाह - तत्र वायुशब्दस्येति ॥ कुत इत्यतो

वायुरग्निरिति मूलसूचितं हेतुमाह - भूतेति ॥ ननु प्रथमखण्डमारभ्य सर्वत्र प्राणशब्दस्यासाधारणलिङ्गैः प्रधानवायुपरत्वावगमेन वरिष्ठताविशेषणेन च सन्देहानवकाशात्तद्व्याख्यानमयुक्तमित्यतो नेदं वाक्यं तद्व्याख्यानार्थं प्रवृत्तं किन्तु वायुशब्दव्याख्यानसमर्थनायैवेत्यवतारयति-- वायाविन्द्र इति ॥ ननु भूताभूतसाधारणो यः शब्दो भूतप्रकरणे श्रूयते स भूतपर एव । यः साधारणः शब्दो यत्प्रकरणे पठ्यते स तत्पर एवेति व्याप्तेः । 'पृथिव्यामृभवो विलीयन्ते' इत्यादिना भूतप्रकरणत्वेनावसिते 'वायाविन्द्रः सोम आदित्यो बृहस्पतिः' इति वाक्ये श्रूयमाणवायुशब्दस्य प्रधानवायुपरत्वाद्व्यभिचारो ह्यत्र चोद्यते । नचेयं चोदना युक्ता । 'भूतेषु तच्छ्रुतेः' इति भूतेषु सर्वेषां लयं प्रस्तुत्य तद्विवरणात्मके 'नैकस्मिन्दर्शयतो हि' इति सूत्रे सूत्राहृतमिदं वाक्यम् । तस्मात्प्रधानवायोरपि भूतत्वमेवानीकार्यम् । अत एवोक्तमनुव्याख्याने । 'प्रधानवायुस्त्विह भूतनामा भूतेष्विति प्रोक्तगतोऽपि युक्त्या' इत्यादि । तस्मादत्रापि वायुशब्दस्य भूतपरत्वात्कथं व्यभिचारः। प्रधानवायुव्यावृत्त्यर्थं भूतप्रकरणत्वादिति हेतूक्ति- श्चायुक्तेति चेदुच्यते । भूतप्रकरणे श्रुतो वायुशब्दो नियमेनावान्तराभिमानिपर एव दृश्यते । 'खं वायुर्ज्योतिरापः' 'आकाशाद्वायुः' इत्यादौ । अतोऽत्रापि स एवोच्यते, न प्रधान इत्याशयेनोक्तावियमाशङ्कोदेतीत्यतोऽज्ञानविजृम्भितमेवैत- दूषणाभिधानमिति ॥ नन्वत्र प्रधानवायुपरत्वज्ञापकाभावे सतीति विशेषण- भिप्रेतम् । वायाविन्द्र इत्यत्र इन्द्रियाधिकरणत्वज्ञापकमस्तीति विशेषणाभावान्न व्यभिचार इत्यत आह- तस्यापीति ॥ तर्ह्यवश्यवक्तव्यत्वं मुख्यवायुपरता- ज्ञापकमत्राप्यस्तीति विशेषणसिद्धिरिति भावः । प्राणशब्देन प्रधानवायुरित्य- त्रोच्यत इत्यनुवृत्तौ सत्यां नैतच्छङ्कापरिहारक्षममेतद्वाक्यं स्यादतोऽध्याहृत्य योजयति - तान्वरिष्ठ इति । ततश्चैवं भाष्याशयः । कः पुनरेषां वरिष्ठ इति प्रश्नात्पूर्वोक्त एव प्राणेऽत्र वरिष्ठत्वावधारणाय परामृश्यत इति वाच्यम्। यदि च वायुपदेनोक्तं स्यान्न तर्हि प्राणपदेन परामृश्येत । शब्दान्तरेण प्रस्तुतस्य शब्दान्तरेण परामर्शस्य बाधकं विनाऽदर्शनात् । ततश्च प्राणशब्देन परामर्शा- नुपपत्त्याप्रतिहतशक्तिकमवश्यवक्तव्यत्वं वायुशब्दस्य प्रधानपरत्वमवगमयितुं नालमिति शङ्कते - यद्यत्रेति ॥ वायुशब्दस्य प्रकृतत्वे तद्वाचकपदान्तरा- श्रवणात्प्रकृतत्वमेव तस्य न स्यात् । तथाचाप्रकृतपरामर्शादर्शनात् प्राणपदेन प्रकृतत्वमेव न स्यादिति तर्कादवरुद्धशक्तिस्तर्को न परबाधनायालमिति भावः । ननु क्वचिद्बुद्धिप्रकृतस्यापि परामर्शो दृश्यते तत्कथमित्यत आह- नहीति ॥ उत्तरमाह - लक्षणयेति ॥ नहि शक्त्यैव प्रकृततया भाव्यमिति नियमः । ' तस्मा एतत्प्रोवाच अन्नं प्राणं चश्रुः श्रोत्रं मनो वाचमिति' इत्यादौ लक्षणया गृहीतानामपि चक्षुरादीनां परामर्शदर्शनादिति भावः । यद्यसौ वायुशब्देन प्रकृतः स्यादिति नञ् विनाऽपि क्वचित्पाठः दृश्यते । तदेदं वाक्यमुक्तरीत्या भाष्यतात्पर्यकथनपरमवसेयम् । ननु 'ब्रह्मविदाप्नोति परम्' इति ब्रह्मशब्देन प्रस्तुतस्यतस्माद्वा एतस्मादात्मन आकाशः' इति शब्दान्तरेण परामर्शो दृश्यते। यथोक्तम्–'ब्रह्मशब्दोदिते तस्मिन्नात्मशब्दं प्रयुज्य च' इति। तत्कथमुच्यते वायुशब्देन प्रकृतत्वे प्राणशब्देन परामर्शो न स्यादितीत्याक्षेपपरिहाराय नहीति वाक्यं प्रवृत्तम्। उत्तरवाक्यस्य पूर्ववाक्यप्रपञ्चकत्वेन तत्र गत्यन्तरं नास्ति। न ह्यत्र तथाविधं बाधकं किञ्चिदिति तात्पर्यम् । तर्हि परामर्श एव न स्यादिति बाधकमिति बहिरेवा क्षेपे तत्परिहाराय लक्षणयापीति वाक्यमिति ज्ञेयम् । नन्वेवं वायाविन्द्र इत्यादाविवात्र बाधकाभावाद्भूतप्रकरणत्वेन लिङ्गेन भूतवायुरुच्यतां नाम । तथापि मुख्यवायावपि मुख्यवृत्तिसद्भावात्तां परित्यज्य तस्य प्रकृतबलायातजघन्यवृत्त्यङ्गीकारो जघन्यः । सुरसरिति निवसतः पुरुषस्य जललाभार्थं कूपखननव्यापारसाम्यादित्याशङ्क्य परिहरति - नच वाच्यमिति ॥ वायुशब्देन प्रकृतत्वे प्राणशब्देन न परामृश्यते, उक्तादेव हेतोरित्यर्थः । बाधके सति मुख्यं परित्यज्यापि जघन्याङ्गीकारो युक्त एव । ' तस्यान्ते सुषिरं सूक्ष्मं ' इत्यत्र सर्वपदवाच्येऽपि ब्रह्मणि सुषिरपदलक्षणाया दृष्टत्वादिति भावः । बाधके सति शब्दान्तरेण प्रस्तुतस्य परामर्शोऽप्यस्ति । अत्रापि परामर्शान्यथानुपपत्त्या पूर्वप्रकृतत्वे वाच्ये लक्षणया च तदङ्गीकारे वृत्तिद्वयमङ्गीकरणीयमिति गौरवबाधकमस्ति। तस्माद्भूते क्लृप्तया शक्त्यैव मुख्योऽप्युच्यत इत्यङ्गी- करणमेव वरमित्याशङ्क्य विपक्षे ततोऽपि गौरवमित्याह - नह्येवमिति ॥वाचकत्वाङ्गीकारेऽपीत्यर्थः । यथा नानार्थेषु गवादिशब्देषु धेनुत्वपृथिवीत्वादि- प्रवृत्तिनिमित्तनानात्वेन शक्तिरपि नाना, तथा भूतवायौ मुख्ये च शक्तिर्भिन्नेत्य- श्रीकार्यम् । धारणप्रकाशहेतुतया क्लृप्ताशेषदेवोपलक्षणं च कार्यम् । एवं प्रवृत्तित्रयमत्री कार्यमिति लक्षणामनङ्गीकुर्वन् चोरभयाद्घोरमृगाकीर्णं गहनं प्रविष्ट इवापद्यते । तस्माद्वक्ष्यमाणतत्त्वदेवतात्वावच्छेदेन लक्षणायां तत्र प्रमाणस्यापि पृष्टत्वेन सोऽपि तयैव गृह्यत इति न तदर्थं प्रयत्नान्तरमिति लक्षणापक्ष एव लाघवमिति भावः । प्राकाश्याः प्रकाशहेतव इति व्याख्याने विधारयाम इति वचनमनुपपन्नम् । अतः सर्वसङ्ग्रहाय प्रकाशवन्त इति व्याख्यातम् ॥ २-२ ॥

श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः

पूर्वोक्तरीत्या प्राणेन भाव्यम् । तत्कथमित्येवं पृष्टवते तस्मै स होवाच । एष आकाशाभिमानी देवः ह वै यस्त्वया धारकः पृष्टः एवं वायुः भूतवायुर्देवतेत्यादि । अत्रोपलक्षणत्वेन पृथिवी च पृथिवीमात्रेत्यादिवक्ष्यमाणाः सर्वे मुख्यप्राणसहितास्तत्त्वदेवा ग्राह्याः । तेषु चक्षुरादयः प्रकाशहेतवः, अन्ये स्थितिहेतव इति ज्ञातव्यम् । उक्तमात्रग्रहणे कः पुनरेषां वरिष्ठ इति प्रश्नाननुगुणः परिहारः स्यात् । एतेषां प्राणस्य वरिष्ठत्वावधारणायाऽख्यायिकोच्यते- ते प्राकाश्या इत्यादि । त एते धारकाः प्रकाशकाश्च देवाः प्राकाश्याः प्रकाशवन्तः उच्चैरिति यावत्, अभिवदन्ति कदाचिदन्योन्यं स्पर्धयैवाभ्यवदन् । किमिति ? वयमेतद् बाणं शरीरमवष्टभ्याऽश्रित्य विधारयामः प्रकाशयामश्चेति । अहमेव स्वातन्त्र्येण देहधारको न त्वमिति धारकः, अहमेव स्वातन्त्र्येण विषयप्रकाशको न त्वमिति प्रकाशक इति यावत् ॥ २२ ॥

नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका

पूर्वोक्तरीत्या प्राणेन भवितव्यम् । अन्येषामविद्यमानं वरिष्ठत्वं तस्य कथं इति पृष्टवते तस्मै स होवाच । यस्त्वया धारकः पृष्टः स एष आकाशो ह वै आकाशाभिमानिदेवः प्रसिद्धः एवं वायुरित्याद्युपलक्षणत्वेन वक्ष्यमाणः । अत्र सर्वे तत्त्वदेवा ग्राह्याः। चक्षुरादयः प्रकाशहेतवोऽन्ये स्थितिहेतव इति ज्ञातव्यम्। एतेषाञ्च प्राणस्य वरिष्ठतावधारणायाख्यायिकोच्यते- प्राकाश्या इत्यादि ॥ त एते धारकाः प्रकाशकाश्च देवाः प्राकाश्याः प्रकाशवन्तः अभि उच्चैरिति यावत्। अभिवदन्ति । कदाचिदन्योन्यं स्पर्धया अभ्यवदन्, किमिति ? वयमेत- द्वाणं शरीरमवष्टभ्याश्रित्य धारयामः प्रकाशयामश्चेति । अहमेव स्वातन्त्र्येण देहधारकः न त्वमिति । अहमेव स्वातन्त्र्येण प्रकाशको न त्वमिति ॥ २-२ ॥

उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका

सानन्दमुत्तरमाह गुरुरित्याह वेदपुरुषः - तस्मै इत्यादि ॥ एवं पृष्टवते तस्मै भार्गवाय स ह स्फुटं गुरुरुवाच, किमाह ? एष आकाशो देवः आकाशाभिमानी देवः, वायुः भूतवायुः, भूतप्रकरणत्वात् । अग्निः आपः पृथिवी एवं पञ्च- भूताभिमानिनो देवाः । उपलक्षणम् । सर्वेऽपि तात्त्विकाः । वागभिमानी, मनोभिमानी, चक्षुरभिमानी, श्रोत्राभिमानी च । एते देवाः किं कुर्युरित्यत आह- ते प्राकाश्या इति ॥ आकाशादयः धारकाः चक्षुरादयः प्रकाशकाश्चेत्यर्थः । कथमेतदित्यत आह । अभिवदन्तीति उच्चैः परस्परं स्पर्धया अवदन्नित्यर्थः । किमवदन्निति तत्राह । वयं सर्वे एतद्वाणं शरीरं अवष्टभ्य आश्रित्य धारयामः प्रकाशयामश्चेति। प्रश्नानुसारित्वात् । अहमेव स्वातन्त्र्येण देहधारकः। न त्वम्, अहमेव स्वातन्त्र्येण विषयप्रकाशकः न त्वमिति स्पर्धयाञ्चक्रुरिति भावः ॥ २-२ ॥