अत्रैतदेकशतं नाडीनाम्

व्यानस्य नाडीषु सञ्चारः  

उपनिषत्

अत्रैतदेकशतं नाडीनाम् । तासां शतं शतमेकैकस्यां द्वासप्ततिं प्रतिशाखानाडीसहस्राण्यासु व्यानश्चरत्यथैकयोर्ध्वमुदानः पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यामेव मनुष्यलोकम् ॥ ५ ॥

श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका

व्यानस्य प्रवृत्तिं वक्तुमुच्यते - अत्रेत्यादि ॥ अत्र शरीरे । यदेतदेकशत- मेकोत्तरं शतं नाडीनां शिराणां भवति, तासां नाडीनां मध्ये एकैकस्यां नाड्यां शतं शतं प्रतिशाखा नाड्यो भवन्ति । पुनस्तासां च प्रतिशाखा नाड्यो भवन्तीति वक्तव्यम् । एवञ्च सम्भूय प्रतिशरीरं तासां प्रतिशाखानाडीनां सहस्राणि द्वासप्तर्ति जानीयात् । प्रतिशाखानाडीसहस्राणां द्वासप्ततिमिति द्वितीया षष्ठ्यर्थे योजनीया । किञ्चातः ? आसु नाडीषु विविधं नयनात् व्यानो व्यानवायुमधिष्ठाय चरति । अथोदानस्तूदानवायुमधिष्ठायैकया नाड्या सुषुम्नयोर्ध्वगतिश्चरति । स च तत्र चरन् पुण्येन जीवकृतं पुण्यं निमित्तीत्कृत्य पुण्यं स्वर्गादिलोकं नयति । एवं ज्ञानेन मोक्षमिति च द्रष्टव्यम्। अत एवोर्ध्वं नयनादुदानः । पापेन पापं नरकादिकं दुःखबहुलं लोकं नयति । उभाभ्यां समप्रधानाभ्यां पुण्यपापाभ्यां समदुःखसुखं मनुष्यलोकं नयतीति ॥ ५॥

श्रीवामनपण्डिताचार्यविरचिताषट्प्रश्रभाष्यटीका

अथ हृदये नाडीनामेकोत्तरं शतं अस्ति । तासां प्रत्येकं शतं शतं शाखानाड्यः सन्ति । पुनश्चैकैकस्यां द्वासप्ततिं द्वासप्तर्ति प्रतिशाखानाडी- सहस्राणि सन्ति। आसु व्यानश्चरति । 'अथैकया' इत्यादि केनोत्क्रमत इत्यस्य परिहारमाह। अथ हृदयदेशादूर्ध्वभागे गले वर्तमान उदानस्तासां नाडीनामेकया विवक्षित-लोकगमनयोग्यया त्रिविधान्मर्त्यनुत्क्रामयन् त्रीनेव लोकान् नयति ॥ ३-५ ॥

श्रीनिवासतीर्थविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

॥ एवञ्च सम्भूयेति ॥ अत्रैवं नाडीसङ्ख्यासङ्ग्रहप्रकारः । एकोत्तरशतं प्रधाननाड्यो भवन्ति । तत्रैकैकस्यां नाड्यां पुनः शतं शतं नाड्यो वर्तन्ते । एवञ्चैतासां मेलने शतोत्तरदशसहस्रसङ्ख्याका भवन्ति । नन्वेवं चेत् द्वासप्ततिसहस्रसङ्ख्या न लब्धेति चेन्न । पुनस्तासाञ्च प्रतिशाखानाड्यो भवन्तीति वक्तव्यमिति टीकावाक्यानुसारेण द्वासप्ततिसङ्ख्यापूरकनाड्यन्तराणि तत्र द्रष्टव्यानि। कथमिति चेदुच्यते । दशसहस्रनाडीनां मध्ये एकैकस्यां नाड्यां नाडीसप्तकं वर्तते । सति चैवं सप्ततिसहस्रसङ्ख्याका भवन्ति । उर्वरितशत- सङ्ख्याकनाडीनां मध्ये एकैकस्यां नाड्यां विंशतिसङ्ख्याका नाड्यो भवन्ति । एवञ्चैतन्नाडीसहस्रद्वयं जातम् । तस्मात्सर्वासामपि मेलनेऽस्मिन् शरीरे द्वासप्तति- सहस्रसङ्ख्याका नाड्यो भवन्तीति सिद्धम् । नन्वेतदुपरि एवं शङ्का भवति । एकस्मिन् घटे कदलीफलपञ्चकं निक्षिप्तं चेन्निक्षिप्तफलापेक्षया अधिष्ठानभूतो घटः यथा उर्वरितो भवति एवमेकैकस्यां नाड्यामित्युक्तरीत्या अधिष्ठान- नाडीनामुर्वरितत्वात्कथं नाडीनां द्वासप्ततिसहस्रसङ्ख्याकत्वम् । ततोऽप्यधिक- सङ्ख्यालाभादिति ॥ अत्र ब्रूमः । अत्राधिकसङ्ख्या न लभ्यते । कथम् ? इत्थम् । दितिगर्भं पूर्वमेकमभूत् । इन्द्र उदरे प्रविष्टः सन् तद्गर्भं सप्तधा अच्छिनत् । पुनश्चैकैकं सप्तधा अच्छिनत् । तद्गर्भं नवाधिकचत्वारिंशत्संख्याकं जातम् । अत्र यथा अधिष्ठानभूतगर्भसप्तकग्रहणं नास्ति तथात्रापीति द्रष्टव्यम् । यथोक्तं षष्ठस्कन्धे-

'कृतो मे सप्तधा गर्भ आसन् सप्त कुमारकाः।

तेऽपि चैकैकशो वृक्णाः सप्तधापि न मम्रिरे ॥' इति ॥

नाडीसहस्राणीति द्वितीया नाडीसहस्राणामिति षष्ठ्यर्थे योजनीयेत्यन्वयः । ननु जीवस्मृतं लोकमयं स्मात्प्रापयतीत्यत आह- अत एवेति ॥ तद्विषयकचित्तेन सह मुख्यप्राणं प्रत्यागतत्वादेवेत्यर्थः । ननु तथा आगतत्वेऽपि अयं न प्रयच्छतीत्येवं किन्न स्यादिति चेन्न । 'यं यं वापि' इति स्मृत्य- प्रामाण्यापत्तेरिति भावः ॥ ३-५ ॥

छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्

-प्रतिशरीरमिति ॥ द्वासप्तति द्वासप्ततिमिति वीप्साभिप्रायोऽयम् ॥ प्रतिशाखानाड्य इति ॥ एकैकस्या नाड्या विभागरूपाः शिराः प्रतिशाखानाड्य इत्युच्यन्ते। 'नाडी तु धमनी शिरा' इत्यमरः ॥ द्वितीया षष्ठ्यर्थ इति ।। सहस्राणी- त्यत्रत्यविभक्तिरित्यर्थः ॥ ऊर्ध्वगतिरिति ॥ श्रुतौ विद्यमानस्योर्ध्वशब्दस्यायमर्थः । स्वर्गनरकमनुष्यलोकरूपपरलोकगतिरिति यावत् । तदेव विवृणोति - पुण्येन पुण्यमिति ॥ अयमाशयः । सुषुम्नानाडीस्थहृत्कमलगतोदानः सुषुम्नानाडी- सम्बद्धेडापिङ्गलानाडीभिर्जीवपुण्यं निमित्तीकृत्य जीवं स्वर्गादिशुभलोकं नयति । सुषुम्नासम्बद्धान्यनाडीभिः पापेन निमित्तेन नरकादि नयति । उभाभ्यां भूलोकम् ।अपरोक्षज्ञानं निमित्तीकृत्य साक्षान्मध्यस्थसुषुम्नाविशेषब्रह्मनाड्या जीवं ब्रह्मरन्ध्रेण मोक्षं नयति । तथाचोक्तं द्वितीयस्कन्धभगवते-

'देवयानं पिङ्गलाभिरहान्येति शतायुषा ।

रात्रीरिडाभिः पितॄणां विषुवत्तां सुषुम्नया ॥' इति ॥

अस्यार्थः पिङ्गलाभिर्ब्रह्मनाड्यपेक्षया दक्षिणभागस्थापिङ्गलानामकनाडीभिः शतायुषाकालिकमरणेन । अहानि अहः संज्ञं देवयानं स्वर्गादिमार्गमेति । इडाभि- र्वामभागस्थनाडीभिरिडानामिकाभिः रात्रीः रात्रिसंज्ञं पितॄणां पितृलोकमार्गम् । सुषुम्नया मध्यस्थब्रह्मनाड्या विषुवत्तासंज्ञकं ब्रह्मयानं मोक्षमार्गमित्यर्थः । तथाच तत्रैव तात्पर्ये-

'विषुवत्ता ब्रह्मयानो विशेषेण सुखं यतः ।

इडान्नदानात्पितॄणामेवं मार्गाः प्रकीर्तिताः ॥'

इति ब्रह्मतर्कवचनम् । पितॄणामित्यत्र यानमिति शेषः । अनेन एकया सुषुम्नयेत्येतल्लक्षणया पिङ्गलादिनाडीप्रतिपादकमित्युक्तं भवति । तेन सुषुम्नया गतस्य जीवस्य कथं स्वर्गनरकादिप्राप्तिः 'तयोर्ध्वमायन्नमृतत्वमेति' इति श्रुतिविरोधादिति शङ्का निरस्ता वेदितव्या ॥ ३-५ ॥

ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

शिराणां सुषिराणां नाड्योऽपि तद्रूपा इति भावः ॥ तासां नाडीना-मिति । एकां नाडीं परिशेषयित्वा शतानां नाडीनां मध्य इत्यर्थः । 'अथैकयोर्ध्व उदानः' इत्यत्र एकया सुषुम्नयेति व्याख्यास्यमानत्वेन तत्परि- शेषप्रतीतेः । उदानगत्या ब्रह्मनाड्या अथैकयोर्ध्व उदान इति द्वितीयस्कन्धे व्याख्यातत्वाच्च। नचैकयेति उक्ता नाडी एकशतादन्या । तासां शतं शतमेकै- कस्यामित्यत्र तच्छब्देनैकशतनाडीपरामर्श इति वाच्यम् । तर्हि अत्र देहे नाडीनामेकशतमित्युक्त्ययोगात् ।

शतं चैका हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका ।

तयोर्ध्वमायन्नमृतत्वमेति विष्वगन्या उत्क्रमणे भवन्ति ॥

इति श्रुतौ एकशतनाडीनामेव हृदयेऽवस्थानमभिधाय तत्रैकस्याः-

'मूलाधारं समारभ्य त्वा मूर्धानमृजुस्थिता । मध्ये सुषुम्ना विज्ञेया........... ||'
इत्युक्तदिशा सुषुम्नात्वं परापरब्रह्मप्राप्तिलक्षणमुख्यामृतत्वहेतुत्वं चोक्त्वा- ऽन्यासां द्वासप्ततिसहस्रधा विभक्तानां षट्त्रिंशत्सहस्रसङ्ख्याया वामभाग- दक्षिणभागस्थानामिडापिङ्गळानामकानां लोकान्तरप्राप्तिहेतुत्वोक्त्या विरोधाच्च । तस्मात्तासां शतं शतमित्यत्र शतनाडीनामेव परामर्शो, न त्वेकस्याः । सा तु 'सैव पञ्चप्रभेदिनी' इत्युक्तदिशा पञ्चधैव भिन्ना द्वासप्तत्यतिरिक्ता 'द्वासप्ततिसहस्रास्तु नाड्योऽन्यास्तु प्रधानतः' इति तन्त्रसारवचनात् । नन्वेवं यदि शतनाडीमध्ये एकैकस्यां शतशतमुपनाड्यो भवन्ति, तर्ह्ययुतनाड्यो लब्धाः । द्वासप्ततिसहस्रनाडीनां कथं लाभ इत्यत आह- पुनरिति ॥ अयुतसङ्ख्या- नाडीनां मध्ये एकैकस्यां सप्त सप्त प्रतिशाखानाड्यो भवन्ति । पुनस्तास्वेव सहस्रनाडीनां मध्ये एकैकस्याः द्वयमुपनाडीरूपेण भविष्यतीति द्वासप्ततिसहस्र- लाभो ज्ञेयः । गत्यन्तराभावात् । केचित्तु तासां शतं शतमेकैकस्यामित्यत्र एकशतनाडीनां मध्ये एकैकस्यां शतं शतमुपनाड्यो भवन्ति । तथाच शतोत्तरायुतनाड्यो लब्धाः । तत्रायुतनाडीनां मध्ये एकैकस्यां सप्त सप्त उपनाड्यो भवन्ति । शतनाडीनां मध्ये त्वेकैकस्यां विंशतिविंशतिप्रतिशाखा नाड्यो भवन्ति । एवञ्च द्वासप्ततिसहस्रलाभ इति रहस्योऽर्थ इति व्याचक्षते - विविधं नयनादिति ॥ भुक्तान्नस्येति शेषः । सर्वनाडीद्वारेषु विविधं नयनं व्यानकार्यम् । भुक्तान्नस्य यथाशरीरावयवं समीकरणमात्रं समानकार्यमितिभेदः । 'दद्यान्मोक्षा- दिकं प्रभुः' इति भाष्यानुसारेणाह -एवं ज्ञानेनेति ॥ ३-५ ॥

मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

एकशब्दस्य वैयर्थ्यमाशङ्कय व्याख्याति - एकोत्तरशतमिति ॥ ननु एकोत्तरशतनाडीनां मध्ये एकैकस्यां शतसङ्ख्याकोपनाड्यो भवन्तीत्युक्तौ शतोत्तरायुतसङ्ख्याकनाडीनां लाभेऽपि वक्ष्यमाणद्वासप्ततिसहस्रनाडीनां कथं लाभ इत्यत आह- पुनस्तासाञ्चेति ॥ अयुतसङ्ख्याकनाडीनां मध्ये एकैकस्यां सप्त सप्त प्रतिनाड्यः । शतानां नाडीनां मध्ये एकैकस्यां विशितिविंशति- प्रतिशाखानाड्यो भवन्तीति वक्तव्यमित्यर्थः । ततश्च सम्भूय प्रतिशाखानाडीनां

द्वासप्ततिसहस्राणि सम्पद्यन्त इति ज्ञेयम् । प्रतिशरीरमिति द्वासप्तर्ति द्वासप्ततिमिति वीप्साभिप्रायवर्णनम् ॥ द्वितीयेति ॥ नाडीसहस्राणीति द्वितीयेत्यर्थः ॥ षष्ठ्यर्थे योजनीयेति ॥ यद्यपि 'आदशतः संख्याः सङ्ख्येये अतः परं सङ्ख्याने सङ्ख्येये च' इति वचनात् द्वासप्ततिशब्दस्य सङ्ख्येयपरत्वेन नाडीसहस्रशब्दसामाना- धिकरण्यसम्भवाच्छतं ब्राह्मणा इत्यादिवत् द्वासप्ततिं द्वासप्ततिं नाडीरूपसहस्राणि जानीयादिति यथाश्रुतैव योजना सम्भवति नतु षष्ठ्यर्थे द्वितीयेति योजनेति । तथापि युगानामेकसप्ततिमित्यादौ सङ्ख्यायां सङ्ख्याशब्दस्य प्रयोगप्राचुर्या- त्सङ्ख्यावाचित्वमेव स्वीकृत्य विभक्तिविपरिणामेन षष्ठ्यर्थे द्वितीया योजितेति ज्ञेयम् । अथैकयेत्यत्र एकया सहस्रासु प्रधानया नाड्या पुण्यं लोकं नयतीति प्रतीयते । इदं चानुपपन्नम् । सुषुम्नाया मोक्षमार्गत्वादित्यतः चरतीत्यनुकृष्य भिन्नवाक्यतया व्याचष्टेअथेति ॥ पुण्येनेत्यादौ पुण्यादिलोकनयने स्वकृतं पुण्यादिकं निमित्तमुच्यत इत्यन्यथाप्रतीतिनिरासायाह- जीवकृतमिति ॥ निमित्तीकृत्येति || ' कर्तृकरणयोस्तृतीयाया असम्भवाद्धेतौ तृतीयेत्युक्तं भवति एवं ज्ञानेनेति ॥ दद्यान्मोक्षादिकमिति भाष्यादिति भावः । पुण्यपापयो- रन्यतरप्राचुर्येण पुण्यादिलोकप्राप्तेः समप्रधानाभ्यामित्युक्तम् । साधनानुरूप्य- द्योतनाय समदुःखसुखमिति मनुष्यलोकविशेषणम् || ३-५ ॥

अनन्तभट्टविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

।। एवञ्चेति । एकोत्तरशतनाडीनां पृथक्पृथक् शतधा भेदे शतोत्तरदशसहस्रसङ्ख्याकाः नाड्यो भवन्ति । दशसहस्रनाडीनां पृथक् सप्तधा प्रभेदे सप्ततिसहस्राणि भवन्ति । शतस्य तु विंशतिधा प्रविभागे सहस्रद्वयमिति सङ्ख्यासम्भावनाप्रकारः । 'आदशतः सङ्ख्या सङ्ख्ये ये अतः परं सङ्ख्याने सङ्ख्ये ये च' इति वचनात् द्वासप्ततिं प्रतिशाखानाडीसहस्राणीति वाक्यं द्वेधा व्याख्यातम्। अथैकयेत्यत्रैकया सर्वासु प्रधानया नाड्या पुण्यापुण्यलोकं नयतीति प्रतीयते । इदञ्चानुपपन्नम् । सुषुम्नायाः मोक्षमार्गत्वादित्यत-श्चरन्ती- त्यनुकृष्य भिन्नवाक्यतया व्याचष्टे - अथेति ॥ पुण्येनेत्यादौ स्वस्य पुण्यादि - लोकयने स्वकृतं पुण्यादिकं निमित्तमित्यन्यथाप्रतीतिनिरासाय पुण्यं निमित्ती- कृत्येत्यादि ॥ एवं ज्ञानेनेति ॥ दद्यान्मोक्षादिकमिति भाष्यादिति भावः। पुण्य-पापयोरन्यतरप्राचुर्ये पुण्यादिलोकप्राप्तेः समानाभ्यामित्युक्तम् । साधनानुरूप्य- द्योतनाय समदुखसुखमिति मनुष्यलोकविशेषणम् ॥ ३-५ ॥

गूढकर्तृकाषट्प्रश्नभाष्यटीकाटिप्पणी

एकोत्तरशतनाडीनां मध्ये एकनाडीं परिशेषयित्वा शतनाडीनां मध्ये एकैकस्याः शतं शतमुपनाड्यो भवन्तीत्यर्थः । ननु तासां शतं शतमेकै- कस्यामित्यत्र तच्छब्देन प्रकृतैकशतनाडीपरामर्शसम्भवे कुतः शतनाडी- मात्रपरामर्श इति चेन्न । अथैकयोर्ध्वमुदान इत्यत्र एकया सुषुम्नयेति व्याख्यातत्वेन तत्परिशेषप्रतिभानात् । सुषुम्नाया द्वासप्ततिसहस्रप्रवेशापाताच्च । नचेदं नानिष्टम्। 'द्वासप्ततिसहस्रास्तु नाड्योऽन्यास्तु प्रधानतः' इति तन्त्रसारविरोधात्। नच सुषुम्ना एकशतबहिर्भूता । 'शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमापन्नमृतत्वमेति' इति श्रुति- विरोधात् । 'अथैकयोर्ध्व उदान' इत्येतद्गन्थविरोधात् । उदानगत्या ब्रह्मनाड्या । 'अथैकयोर्ध्वमुदान' इति श्रुतेरिति द्वितीयतात्पर्यविरोधाच्च । तथाच शत- नाडीनामेव द्वासप्ततिसहस्रधा विभाग इति । तत्र विवेकः । तत्रैकैकस्यां नाड्यां दशदशोपनाड्यो भवन्तीति वक्तव्यम् । ततश्चैकस्यां दश दश भवन्तीति एकैकस्यां शतं भवन्तीत्ययुता नाड्यो लब्धाः । अन्यथा सहस्रं वा आदित्यस्य रश्मयो आसु नाडीष्वातताः । शतं पञ्चैव सूर्यस्य दक्षिणायनरश्मय इत्याद्य- योगात् । अयुतनाडीमध्ये एकैकस्यां पुनः प्रतिशाखानाड्यो भवन्तीति द्वासप्ततिसहस्रत्वं ज्ञेयम्। विवेकस्तु न ज्ञायते । अयुतनाडीमध्ये एकैकस्यां सप्त सप्त भवन्ति। शतनाडीमध्ये एकैकस्यां विंशतिविंशति भवन्तीति कल्पनायाः निर्मूलत्वात्। सहस्रशनाडीमध्ये एकैकस्यां सप्त सप्तेति सप्तति - सहस्रलाभः । तत्र सहस्रनाडीमध्ये एकैकस्यां सप्त सप्त भवन्तीति द्वासप्तति - सहस्रत्वकल्पनापत्तेः । विविधं नयनादिति। भुक्तान्नस्येति शेषः ।। ३-५ ।।

श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः

व्यानस्य प्रवृर्त्ति वक्तुमुच्यतेअत्रेत्यादि । अत्र शरीरे एतदेकशतं एकोत्तरशतं नाडीनां शिराणां भवति । तासां नाडीनां मध्ये एकैकस्यां नाड्यां शतं शतं प्रतिशाखानाड्यो भवन्ति । पुनस्तासां प्रतिशाखानाड्यो भवन्तीति वक्तव्यम् । एवञ्च सम्भूय प्रतिशरीरं तासां प्रतिशाखानाडीनां सहस्राणि द्वासप्तर्ति जानीयात् । प्रतिशाखानाडीसहस्राणां द्वासप्ततिमिति द्वितीया षष्ठ्यर्थे योजनीया । किञ्चातः तः आसु नाडीषु विविधं नयनात् व्यानो व्यानवायुमधिष्ठाय च । अधोदानस्तु उदानवायुमधिष्ठाय एकया नाड्या सुषुम्नयोर्ध्वगतिश्चरति । स च तत्र चरन् पुण्येन जीवकृतं पुण्यं निमित्तीकृत्य पुण्यं स्वर्गादिलोकं नयति, एवं ज्ञानेन मोक्षमिति च द्रष्टव्यम्। अत एवोर्ध्वनयनादुदानः । पापेन पापं नरकादिकं दुःखबहुलं लोकं नयति । उभाम्यां समप्रधानाभ्यां पुण्यपापाभ्यां समदुःखसुखं मनुष्यलोकं नयतीति॥ ३-५ ॥

नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका

व्यानस्य प्रवृत्तिं वक्तुमुपोद्धातमाह - अत्रेति ॥ अत्र शरीरे यदेतदेकशतं एकोत्तरशतं नाडीनां शिराणां भवन्ति । तासां नाडीनां मध्ये एकैकस्यां नाड्यां शतं शतं प्रतिशाखानाड्यो भवन्ति । पुनश्च तासां प्रतिशाखानाड्यो भवन्तीति वक्तव्यम् । एवञ्च सम्भूय प्रतिशरीरे द्वासप्ततिं द्वासप्ततिनाड्यो ज्ञातव्याः । तासु नाडीषु विविधं नयनाद्व्याननामा मुख्यवायुः स्वपुत्रं व्यानवायुमधिष्ठाय चरति । अथोर्ध्वं नयनादुदाननामा मुख्यवायुः स्वपुत्रमुदानवायुमधिष्ठाय एकया सुषुम्नानाड्योर्ध्वगतिश्चरति । स मुख्यवायुरेव उदाननामा सन् तत्पुत्रः । तस्य लोकप्रापकत्वशक्त्यभावात् पुण्येन, जीवकृतपुण्यं निमित्तीकृत्य स्वर्गादिपुण्यं लोकं नयति, ज्ञानेन मोक्षमिति शेषः । पापेन पापं नरकादिकं उभाभ्यां समाभ्यां पुण्यपापाभ्यां समसुखदुःखं मनुष्यलोकं नयति ॥ ३-५ ॥

उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका

व्यानाख्यस्य वायोः प्रवृत्तिमाह- अत्र चेति ॥ अत्र शरीरे एतत् एकशतं एकोत्तरशतं नाडीनां शिराणां भवतीति शेषः । तासां नाडीनां मध्ये एकैकस्यां नाड्यां शतं प्रतिशाखानाड्यः अवान्तरनाड्यो भवन्ति । एवं सम्भूय प्रतिशाखा- नाडीनां सहस्राणि द्वासप्तर्ति जानीयादिति शेषः । द्वासप्ततिसहस्राणि भवन्तीत्यर्थः । किञ्चातः, आसु नाडीषु व्यानः विविधनयनात् व्याननामको प्राणः व्याननामकं वायुमधिष्ठाय चरति । सर्वासां नाडीनां मध्ये याह्येका तस्याः स्वरूपमाह । अथ अनन्तरं उदानः उदाननामकः उदानं वायुमधिष्ठाय एकया नाड्या सुषुम्नया । ऊर्ध्वं, गच्छतीति शेषः । ऊर्ध्वं नयनादुदान इत्यर्थः । स चोदानः पुण्येन पुण्यकर्मणा पुण्यं लोकं स्वर्गलोकं नयति । जीवमिति शेषः । एवं ज्ञानेन मोक्षमिति ज्ञातव्यम् । 'स एनान् ब्रह्म गमयति' इति श्रुतेः । पापेन कर्मणा पापं नरकादिकं नयति । उभाभ्यां पुण्यपापाभ्यां समाभ्यामेव सम सुखदुःखमनुष्यलोकं नयतीति ॥ ३-५ ॥