अथ हैनं सुकेशा भारद्वाजः पप्रच्छ
अथ षष्ठः प्रश्नः
भारद्वाजस्य षोडशकलाविषयकः प्रश्नः
उपनिषत्
अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन् हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैनं प्रश्नमपृच्छत । षोडशकलं भारद्वाज पुरुषं वेत्थ तं मह्यं ब्रवीहीति । तमहं कुमारमब्रुवं नाहमिमं वेद । यद्यहमिममवेदिष्यं कथं ते नावक्ष्यमिति । समूलो वा एष परिशुष्यति योऽनृतमभिवदति तस्मान्नार्हाम्यनृतं वक्तुम् । स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि कासौ पुरुष इति ॥ १ ॥
श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका
॥ अथ हैनं सुकेशाः ।। प्राक्प्राणादीनां शरीरिणश्च जाग्रत्स्वप्नसुषुप्तिषु परमेश्वराधीनत्वमभिहितम्। नतु मोक्षे । अतः सिंहावलोकन्यायेन मुक्तावपि तेषां भगवदधीनत्वप्रदर्शनार्थ उत्तरो ग्रन्थः । प्रष्टव्यार्थेऽतिशयितबुभुत्सां स्वस्य ज्ञापयितुं पूर्ववृत्तान्तकथनम्। भगवन्, हिरण्यनाभो नामतः कोसलायां भवः कौसल्यो कस्यचिद्राज्ञः पुत्रो मामुपेत्य प्राप्य एनं वक्ष्यमाणं प्रश्नं प्रष्टव्यमर्थमपृच्छतापृच्छत्। हे भारद्वाज, षोडशकलो नाम कश्चित्पुरुषोऽस्तीति सामान्यतो मया श्रुतम्। तं षोडशकलं पुरुषं त्वं वेत्थ ? विशेषतो जानासि किम् ? कोऽसौ पुरुषः ? क्व चाऽऽस्ते ? का नाम षोडशकलाः? कथञ्च तस्य षोडशकलत्वम्? इत्यादि । यदिच जानासि तर्हि मह्यं ब्रूहीति । एवं पृष्टवन्तं तं कुमारं पूर्ववयसि वर्तमानं हिरण्यनाभमहमब्रुवम्। अहमिमं त्वया पृष्टं षोडशकलं पुरुषं न वेद, न जानामि । कुतः ? यद्यहमिमं पुरुषमवेदिष्यं विदितवानभविष्यं, तर्हि कथं कस्माद्योग्याय ते तुभ्यं नावक्ष्यमिति । अतो नाहमिमं वेद। किञ्च यः पुरुषोऽनृतमभिवदति स एषः समूलः परिशुष्यति वै। सर्वात्मना गतसारो भवति । तेनार्जितं समस्तमपि सुकृतं नश्यतीति यावत् । यत एवं तस्माज्ज्ञात्वाऽपि न जानामीत्यनृतं वक्तुं दोषज्ञोऽहं नार्हामि नार्हो भवामीत्येवमनेकप्रकारतः प्रत्यायितः स लज्जया तूष्णीं किमप्यवदन् रथमारुह्य प्रवव्राज । यथाऽऽगतं तथा गतवान्। एवं तदाप्रभृति ज्ञातव्यतया मम हृदि वर्तमानं तं पुरुषं त्वा त्वां पृच्छामि ? किमिति ? असौ षोडशकलः पुरुषः क्वाऽऽस्ते? कश्चासौ षोडशकलः? काश्च ताः कलाः ? कथं चासौ षोडशकलः पुरुषः ? इत्यादीति ॥ १ ॥
श्रीवादिराजतीर्थविरचिताषट्प्रश्नभाष्यटीकाप्रकाशिका
' षोडशकलं पुरुषं वेत्थ ' इत्यत्र प्राणाद्याः षोडशसङ्ख्याकाः कलाः यस्मात्तं षोडशकलमित्यर्थः ॥ १ ॥
श्रीनिवासतीर्थविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी
प्रत्यायितः विश्वासितः ।
छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्
॥ अथ हैनं सुकेशा भारद्वाजः ॥ शरीरिणश्चेति ॥ शरीराभिमानिनो जीवस्येत्यर्थः । परमेश्वराधीनत्वमभिहितमिति । चतुर्थप्रश्न इति शेषः । ननु प्रश्नमात्रं विहाय पूर्ववृत्तान्तकथनस्य कुत्रोपयोग इत्यत आह- प्रष्टव्यार्थ इति ॥ बुभुत्सां बोद्धुमिच्छाम् । कोसलायां तन्नाम नगर्यां अपृच्छतापृच्छदिति । पृच्छधातोः परस्मैपदित्वाच्छ्रुतौ व्यत्ययेनात्मनेपदमिति भावः । विशेषतो जानसीति ॥ परमात्मज्ञानोपयोगिषोडशकलासहितं पुरुषम् । नतु लिङ्गशरीरान्तर्भूतषोडश- कलामात्रसहितमित्याशयः । मन्त्राणां लिङ्गशरीरानन्तर्भावात् ॥ कोऽसौ पुरुष इत्यादि ॥ यद्यपि सामान्यत एव प्रश्नः कृतस्तथापि प्रतिवचनानुसारेणेदं प्रश्नविवरणं ज्ञेयम् ॥ न वेद जानामीति ॥ 'विदो लटो वा' इति सूत्रेण विद ज्ञान इति धातोः लिटो मिपः णलादेश इति भावः ॥ नार्हसि नार्हो भवामीति ।। तथाच अर्ह इति सूत्रेण योग्यार्थनिपातार्हशब्दादाचारर्थे किपि धातुत्वात् पुनर्लटि रूपमाश्रित्य अर्हवदाचरामीत्यर्थो मनसि निधायार्हो भवामीति प्रतिपदमुक्तमिति भावः । प्रत्यायितः विश्वासं सम्प्रापितः ।। ६-१ ॥
ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी
ताम्रपर्णीय ननु मुक्त्यवस्थायाः तदधीनत्वप्रसङ्गात्सत्यकामप्रश्नाऽनन्तरं वक्तव्यं, व्यवधानं कुतः ? इत्यत उक्तम्- सिंहेति ॥ श्रेष्ठत्वादस्य प्रमेयस्य पश्चान्निरूपणमिति ज्ञापनाय सिंहावलोकनन्यायेनोपसंहारे निरूपणमिति भावः ॥ लज्जित इति ॥ मादृश आगत्या अनभिज्ञं पृष्ठवानिति वा । मन्निमित्तं ब्राह्मणस्य स्वाज्ञानाविष्करणेन चित्तखेदो जात इति वा लज्जित इत्यर्थः । इत्यादीति ॥ अत्रादिपदेन किमेताः समाः उतासमा इत्यादेः संग्रहः ॥ ६-९ ॥
मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी
|| अथ हैनं सुकेशाः ॥ शरीरिणश्चेति ॥ शरीराभिमानिनो जीवस्येत्यर्थः॥ परमेश्वराधीनत्वमभिहितमिति ॥ चतुर्थप्रश्न इति शेषः ॥ सिंहावलोकनन्यायेनेति ॥ अनेनास्य प्रश्नस्य चतुर्थप्रश्नानन्तर्यमेव स्यादिति शङ्का निरस्ता वेदितव्या । ननु प्रश्नमात्रं विहाय पूर्ववृत्तान्तकथनस्य क्वोपयोग इत्यत आह- प्रष्टव्यार्थ इति ॥ बुभुत्सां बोद्धुममिच्छाम् । कोसलायां तन्नामनगर्याम् ।। अपृच्छत अपृच्छदिति ॥ प्रच्छधातोः परस्मैपदित्वात् श्रुतौ व्यत्ययेनात्मनेपदप्रयोग इति भावः ॥ षोडशकलमिति ॥ परमात्मज्ञानो- पयोगिषोडशकलासहितम् । नतु लिङ्गशरीरान्तर्भूतषोडशकलामात्रसहित- मित्याशयः। मन्त्राणां लिङ्गशरीरानन्तर्भावात् ॥ कोऽसौ पुरुष इत्यादि ॥ यद्यपि सामान्यत एव प्रश्नः कृतः । तथापि प्रतिवचनानुसारेणेदं प्रश्नविवरणम् । प्रत्यायितः विश्वासं प्रापितः ॥ पुरुषमिति ॥ परमात्मानमित्यर्थः ॥ ६-१ ॥
गूढकर्तृकाषट्प्रश्नभाष्यटीकाटिप्पणी
तर्हि सत्यकामप्रश्नात्पूर्वमेवायं प्रश्नः स्यादित्यत आह- सिंहेति ॥ कश्चासाविति ॥ कोऽसौ पुरुष इत्युपक्रमानुसारेणेयमुक्तिरिति बोध्यम् । इत्यादीत्यादिपदेन किमेभ्यः समा उतासमा इत्यादेः संग्रहः॥ ६-१॥
श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः
।। अथ हैनं सुकेशा || प्राक्प्राणादीनां शरीरिणश्च जाग्रत्स्वप्नसुषुप्तिषु परमेश्वराधीनत्वमभिहितं, न तु मोक्षे । अतः सिंहावलोकन-न्यायेन मुक्तावपि तेषां भगवदधीनत्वप्रकाशनार्थमुत्तरो ग्रन्थः । प्रष्टव्यार्थेऽति- शयित बुभुत्सां स्वस्य ज्ञापयितुं पूर्ववृत्तान्तकथनम्। भगवन्, हिरण्यनाभो नामतः, कोसलायां भवः कौसल्यः कस्यचिद्राज्ञः पुत्रः मामुपेत्य प्राप्यैनं वक्ष्यमाणं प्रश्नं प्रष्टव्यार्थमपृच्छत । हे भारद्वाज षोडशकलो नाम कश्चित् पुरुषोऽस्तीति सामान्यतो मया श्रुतम्। तं षोडशकलं पुरुषं त्वं वेत्थ विशेषतो जानासि किम् ? कोऽसौ पुरुषः ? क्व चाऽस्ते ? का नाम षोडशकलाः ? कथञ्चैतस्य षोडशकलत्वमित्यादि । यदि च जानासि तर्हि मह्यं ब्रूहीति । एवं पृष्टवन्तं कुमारं पूर्ववयसि वर्तमानं हिरण्यनाभं अहमब्रुवम्। अहमिमं त्वया पृष्टं षोडशकलं पुरुषं न वेद न जानामि।कुतः ? पद्यहमिमं पुरुषमवेदिष्यं विदितवानभविष्यं तर्हि कथं कस्माद्योग्याय ते तुभ्यं नावक्ष्यमित्यतो नाहमिमं वेद ।
किञ्च यः पुरुषः अनृतमभिवदति स एष समूलः परिशुष्यति वै सर्वात्मना गतसारो भवति। तेनार्जितं समस्तमपि सुकृतं नश्यतीति यावत् । यत एवं तस्माज्ज्ञात्वाऽपि न जानामीत्यनृतं वक्तुं दोषज्ञोऽहं नार्हामि नार्हो भवामीत्येव- मनेकप्रकारेण प्रत्यायितः स लज्जया तूष्णीं किमप्यवदन् रथमारुह्य प्रवव्राज यथागतः तथा गतवान्। एवं तदाप्रभृति ज्ञातव्यतया मम हृदि वर्तमानं पुरुषं त्वां पृच्छामि । किमिति ? असौ षोडशकलः पुरुषः क्वाऽस्ते? काश्च ताः कलाः ? कथञ्चासौ षोडशकलः ? इत्यादि ॥ ६-९ ॥
नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका
षष्ठप्रश्नप्रतिवचनमारभते-अथेति ॥ प्राक् प्राणादीनां जाग्रदा-द्यवस्थासु भगवदधीनत्वमुक्तम् । इदानीं मोक्षेऽपि तेषां भगवदधीनत्वं सिंहाव-लोकनन्यायेनाह— भगवन्निति । प्रष्टव्यार्थे अतिशयितबुभुत्सां स्वस्य ज्ञापयितुं पूर्ववृत्तान्तकथनम् । हे भगवन् कोसलायां भवः कौसल्यः हिरण्यनाभो नामतः कश्चिद्राजपुत्रो मामुपेत्यैनं वक्ष्यमाणं प्रश्नं प्रष्टव्यार्थमपृच्छत् । हे भरद्वाज षोडशकलो नाम कश्चित्पुरुषोऽस्तीति सामान्यतो मया श्रुतं तं षोडशकलं पुरुषं वेत्थ विशेषतो जानासि किम् ? । कोऽसौ पुरुषः ? क्व चास्ति? का नाम षोडश- कलाः? कथं तस्य षोडशकलात्वम्? इत्यादि । यदि जानासि तर्हि मह्यं ब्रूहीति । एवं पृष्टवन्तं कुमारं पूर्ववयसि विद्यमानं हिरण्यनाभमहमब्रुवम्। किमिति? अहमिमं त्वया पृष्टं षोडशकलं पुरुषं न वेद न जानामि । कुतो यद्यहमिमं पुरुषमवेदिषं विदितवानभविष्यम् । तर्हि कथं कस्माद्योग्याय ते तुभ्यं न वक्ष्यामीत्यतो नाहमिमं वेद । किञ्च यः पुरुषोऽनृतमभिवदति स एषः समूलः परिशुष्यति वै सर्वात्मना गतसारो भवति । तेनार्जितं समस्तमपि सुकृतं नश्यतीति यावत्। अत एव तस्माज्ज्ञात्वाऽपि न जानामीत्यनृतं वक्तुं दोषज्ञोऽहं नार्हामि । इत्येवमनेकप्रकारतः प्रत्यायितः स लज्जया तूष्णीं किमप्यवदन् रथमारुह्य प्रवव्राज यथागतः तथा गतवान् । एवं तदाप्रभृति ज्ञातव्यतया मम हृदि वर्तमानं तं पुरुषं त्वां पृच्छामि । स षोडशकलः पुरुषः क्वास्ति ? कश्चासौ पुरुषः ? इति ॥ ६-१ ॥
उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका
एवं प्राणादीनां सर्वेषां जाग्रत्स्वप्नसुषुप्तिषु भगवदधीनत्वं प्रतिपाद्य मोक्षेऽपि परमात्माधीनत्वं प्रतिपादयति वेदपुरुषः - अथ हैनमिति ॥ अथानन्तरं ह सोत्कर्षम् । सुकेशा भारद्वाजः एनं पप्रच्छ प्रश्नं कृतवान्। प्रष्टव्यार्थेऽतिशयित- बुभुत्सां स्वस्य दर्शयिष्यन् पूर्ववृत्तान्तानुवादपूर्वकं पृच्छति - भगवन्निति ॥ हे भगवन् विद्यैश्वर्यवन् गुरो । हिरण्यनाभः कौसल्यां कोसलायां भवः । हिरण्यनाभ- नामको कस्यचिद्राज्ञः पुत्रः मामुपेत्य प्राप्यैनं वक्ष्यमाणं प्रश्नं प्रष्टव्यार्थमपृच्छत् । किमित्यत आह- हे भारद्वाज षोडशकलो षोडश कलाः अवयवाः यस्येति नाम कश्चित्पुरुषोऽस्तीति सामान्यतो मया श्रुतम् । तं पुरुषं वेत्थ विशेषतो जानासि ? कोऽसौ पुरुषः? क्व चास्ते ? का नाम षोडशकलाः ? इत्यादि जानासि किमिति। यदि त्वं जानासि तं पुरुषं तर्हि मह्यं ब्रूहि इत्येवं पृष्टं कुमारं पूर्ववयसं हिरण्यनाभमब्रुवम् । किमिति । इमं त्वया पृष्टं षोडशकलं पुरुषं न वेद न जानामि । यद्यहमिमं पुरुषमवेदिष्यं विदितवानभविष्यम् । तर्हि कथं कस्मात् ते योग्याय तुभ्यं नावक्ष्यमिति । मिथ्या ब्रवीमीति शङ्कां निरस्यति - समूल इति ॥ यः पुरुषः अनृतं विप्रलम्भरूपं वचनमभिवदति वक्ति। स एषोऽनृतवक्ता पुरुषः समूलः मूलेन सहितः परिशुष्यति शुष्को भवति । तेनार्जितं समस्तमपि पुण्यं नश्यतीत्यर्थः। तस्माद- नृतभाषणे दोषाणां मया ज्ञातत्वादनृतं ज्ञात्वापि न जानामीत्येवंरूपं वक्तुमहं नार्हामि नार्हो भवामीति मयोक्ते, स हिरण्यनाभः तूष्णीं किमप्यवदन् रथमारुह्य प्रव्राज यथागतस्तथा गतवान्। तदाप्रभृति ज्ञातव्यतया हृदि वर्तमानं तं पुरुषं त्वा पृच्छामि । किमिति ? असौ षोडशकलः पुरुषः क्व ? आस्ते इति शेषः । कास्ताः षोडशकलाः? पुरुषश्च कथं षोडशकलः? इति त्वां पृच्छामीति भावः॥ ६-१ ॥