तस्मै स होवाचातिप्रश्नान् पृच्छसि ब्रह्मिष्ठोऽसीति

परमात्मतः प्राणस्य प्रजननं शरीरे प्रवेशश्च

उपनिषत्

तस्मै स होवाचातिप्रश्नान् पृच्छसि ब्रह्मिष्ठोऽसीति । तस्मात्तेऽहं ब्रवीमि । आत्मत एष प्राणो जायते । यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम् || ||

भाष्यम्

आत्मतः परमात्मतः ।। २ ।।

श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका

इत्येवं पृष्टवते तस्मै स होवाच । यस्मादेवं त्वमतिप्रश्नानतिशयितान् प्रष्टव्यार्थान् पृच्छसि तस्मात्त्वं ब्रह्मिष्ठो वेदविचारादिमानसि। न ह्यन्यथैवंविधाः प्रश्नांस्सम्भवन्तीति। यस्मात् ब्रह्मिष्ठोऽसि तस्मादहं ते तुभ्यमुत्तरं ब्रवीमीति तं प्रशस्याऽऽद्यप्रश्नोत्तरमुच्यते - आत्मत इति । एष एवं महामाहात्म्योऽपि प्राणः आत्मतो जायते। तत्कथम् ? यथा खल्वेषा च्छाया पुरुषे शरीरे आतता अत्यन्तं शरीराधीना वर्तते एवमेतस्मिन्नात्मन्येतत्सर्वं प्राणादिकमाततम् । प्राणादप्या- ढ्यतमत्वादात्मनस्ततः प्राणस्य जन्म सम्भवत्येवेत्यभिप्रायः । आत्मशब्दस्या- नेकार्थकत्वात्कोऽत्राभिप्रेत इति न ज्ञायते । तस्मादाह - आत्मत इति ॥ नह्यन्यस्य प्राणजनकत्वादिकं सम्भवतीति भावः ॥ ३-२ ॥

श्रीवामनपण्डिताचार्यविरचिताषट्प्रश्रभाष्यटीका

सर्वप्राणधारको मुख्यप्राण इति ह्युक्तम् । अथ कुत एष प्राणो जायत इत्याद्याश्वलायनप्रश्नस्यात्मत एष प्राणो जायत इत्याद्युत्तरमाह । अत्रात्मत इत्ये-तत्पदमनूद्य परमात्मत इति व्याख्याति । एतदादिवाक्यानामभिप्रायं विष्णो- र्वायुरित्यादिप्रभञ्जनवाक्येन प्रकाशयति । एतस्मिन् परमात्मन्येतत्प्रकृत्यादिकं सर्वमाततम् । वागीशानादिकं तु प्राण आततम् ॥ ३-२ ॥

श्रीनिवासतीर्थविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

भाष्यस्य न्यायगर्भत्वमुपपादयति - नह्यन्यस्य प्राणजनक- त्वादिकमिति ॥ ३-२ ॥

छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्

ब्रह्मिष्ठ इति ॥ ब्रह्मशब्दाद्वेदार्थकादतिशयार्थ इष्ठन्प्रत्ययः । प्रकृतेऽति-शयार्थस्तु विचारज्ञानादिकमेवेति भावः । प्रशस्य स्तुत्वा ॥ अनेका- र्थत्वादिति ॥ मनोदेहाद्यर्थकत्वादिति भावः । अर्थान्तग्रहणे बाधकमाह-नहीति ॥ ३-२ ॥

ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

'महत्त्वान्महतां विष्णुः कर्ता प्राणस्य एकराट् ।

किन्नाम न सृजेदेषः येन शक्त्येदमावृतम्' इति ॥

श्रुतेस्ततोऽपि माहात्म्याद्विष्णोरिति न्यायविवरणं मनसि निधाय यथैषा पुरुषे च्छायेत्यादेरभिप्रायमाह - प्राणादपीति ॥ ३२ ॥

मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

प्रशस्य स्तुत्वा ॥ ३-२ ॥

अनन्तभट्टविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

॥ प्राणादपीति ॥ सर्वस्यानादिसत्तास्वभावादिकं भगवद- त्यन्ताधीनमिति ह्यत्रोच्यत इति भावः ॥ ३-२ ॥

श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः

इत्येवं पृष्टवते तस्मै स होवाच । यस्मादेवं त्वमतिप्रश्नानतिशयितान् प्रष्टव्यार्थान् पृच्छसि तस्मात् त्वं बह्मिष्ठो वेदविचारादिमानसि । न ह्यन्यथैवंविधाः प्रश्नाः सम्भवन्तीति । यस्माद् ब्रह्मिष्ठोऽसि तस्मादहं ते तुभ्यमुत्तरं ब्रवीमीति । तं प्रशस्याऽद्यप्रश्नोत्तरमुच्यते - आत्मत इति ॥ परमात्मत इत्यर्थः । एष एवं महामहिमोऽपि प्राण आत्मतो जायते । तत्कथम् ? यथैषा छाया पुरुषे शरीरे आतताऽत्यन्तं शरीराधीना वर्तते एवमेवैतस्मिन् आत्मनि एतत् सर्वं प्राणादिक- माततम् । प्राणादप्याढ्यतमत्वात् परमात्मनः।ततः प्रणस्य स्वजन्म सम्भवत्येवे- त्यभिप्रायः।। ३-२॥

नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका

एवं पृष्टवते तस्मै अश्वलायनाय स होवाच । यस्मादेवं त्वमतिशयित- प्रष्टव्यार्थान् पृच्छसि, तस्मात्त्वं ब्रह्मिष्ठो वेदविचारादिमानसिं । तस्मादहं ते तुभ्यं उत्तरं ब्रवीमि। एवं प्रशंस्याद्यप्रश्नोत्तरमाह - आत्मत इति ॥ एष एवम्भूतोऽपि प्राणः परमात्मतो जायते । तत्कथं यथा खल्वेषा च्छाया पुरुषशरीरे आतता अत्यन्तं शरीराधीना वर्तते । एवमेतस्मिन् परमात्मनि एतत्सर्वं प्राणादिकं आततं प्राणादप्याढ्यत्वात्परमात्मनः ततः प्राणस्य जन्म सम्भवत्येव ॥ ३-२ ॥

उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका

इति पृष्टवते बहुमानपुरःसरं गुरुराहेत्याह वेदपुरुषः - तस्मै स होवाचे- त्यादिना ॥ तस्मै कौसल्याय स गुरुः ह साकल्येन उवाच । 'गुरुणा श्लाघिताः शिष्याः ख्यातिं लभन्ते' इति न्यायेन तं प्रशंसति- अतिप्रश्नानिति । यस्मात् अतिप्रश्नान् अतिशयितान् प्रष्टव्यार्थान् पृच्छसि । सूक्ष्मबुद्धिरसीत्यर्थः । तस्मात् त्वं ब्रह्मिष्ठोऽसि वेदविचारवानसि । इष्ठनो रूपम् । अन्यथा एवंविधप्रश्नासम्भव इति भावः । तस्मात् कारणात् अहं ते तुभ्यं उत्तरं ब्रवीमि इत्याह गुरुः । आद्यप्रश्नस्योत्तरमाह- आत्मत एवेति ॥ एषः महामाहात्म्यो प्राणः मुख्यः आत्मत एव परब्रह्मणः वासुदेवाख्यादेव जायते उत्पन्नो भवति। यद्यपि आत्मशब्दस्य अनेकार्थवाचित्वम् । तथाप्यन्यस्य जनकत्वासम्भवान्मुख्य एव ग्राह्यः । तत्र दृष्टान्तेन द्रढयति-यथेति ॥ यथैषा च्छाया पुरुषे शरीरे आतता शरीराधीनेत्यर्थः । तथा एतस्मिन् परमात्मनि एतत् प्राणादिकं सर्वं जीवजडात्मकं आततं अधीनं वर्तत इत्यर्थः। प्राणस्य रुद्राद्युत्तमत्वेऽपि परमात्मनः अत्युत्तमत्वात् भगवतः सकाशाज्जन्म घटत इति भावः । तदेतदभिप्रेत्य 'ज्ञोऽत एव' इति सामान्योक्तावपि ' श्रेष्ठश्च' इति पुनः भगवानसूत्रयत् । सूत्रव्याख्या च स्फुटतरं तातचरणप्रणीत श्रीनृसिंहप्रसादे द्रष्टव्या ॥ ३-२ ॥