सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः ..
सुकेशादिषडृषीणां पिप्पलादं प्रत्युपसदनम्
अथ प्रथमः प्रश्नः
षट्प्रश्नोपनिषत्
सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनः। ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मा-न्वेषमाणाः ।एष ह वै तत् सर्वं वक्ष्यतीति ते ह समि-त्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ १ ॥
श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका
अथ 'प्रजा' इत्यादिवाक्यव्याख्यानमपव्याख्यानप्रत्याख्यानं च लाघवेन चिकीर्षुः सङ्क्षेपतस्तावत् प्रथमप्रश्रप्रतिवचनसमाख्यारूपां स्मृतिमेव पठति — प्रजानामित्यादिना ।। अत्राऽऽदौ 'सुकेशा' इत्याद्याख्यायिका विद्याप्रशंसया श्रोतॄणां श्रद्धाद्यतिशयजननार्था । एवं किल महद्भिः भारद्वाजप्रभृतिभिरपीयं विद्या सांवत्सरब्रह्मचर्यादिना लब्धाऽतोऽतिप्रशस्ततरा । अस्माभिरप्येवंविधैर्भाव्यमिति । स्मर्यते हि श्रद्धादीनां तत्त्वज्ञानहेतुत्वं "श्रद्धावाँ - ल्लभते ज्ञानम्' इति । तत्रेयमक्षरयोजना | सुकेशा नामतः। भरद्वाजस्यापत्यं भारद्वाजः । शिबेरपत्यं शैब्यः, सत्यकामो नामतः । सूर्यस्यापत्यं सौर्यः, तदपत्यं सौर्यायणिः। दीर्घः सुलोपश्च छान्दस इति स एव सौर्यायणी । गर्गस्य गोत्रो गार्ग्यः, कौसल्यो नामतः, कोसलायां भवो वा । अश्वलायनस्यापत्यं आश्वलायनः । भृगोरपत्यं भार्गवः । विदर्भेषु भवो वैदर्भिः, कबन्धी नामतः। कत्यस्यापत्यं कात्यायनः । इतरेतरयोगे चशब्दाः । त एते ह किल ब्रह्मपराः वेदाभ्यासे तात्पर्य- वन्तः । ब्रह्मनिष्ठाः तदुक्तानुष्ठाननिष्ठाश्च मुनयः कदाचित्समवेताः परं ब्रह्म वासुदेव- मन्वेषमाणा जिज्ञासवो बभूवुरिति शेषः । 'ब्रह्मपराः' इत्यादि ब्रह्मजिज्ञासा- धिकारसम्पत्तिकथनम्। ततस्ते किलैष पिप्पलादो यद्वयं प्रक्ष्यामस्तत्सर्वं वक्ष्यति तस्मादेनं प्रति गच्छाम इति निश्चित्य समित्पाणयो भूत्वा भगवन्तं पूज्यं पिप्पलाद- मुपसन्नाः तत्समीपं प्राप्ताः । हवैशब्दः पिप्पलादस्य प्रश्नप्रतिवचनसामर्थ्य- प्रसिद्धियोतकः ॥ ११ ॥
श्रीवामनपण्डिताचार्यविरचिताषट्प्रश्रभाष्यटीका
अथ सुकेशादयो भरद्वाजान्वयजाताः षण्मुनयो भगवन्तं पिप्पलाद- मुपसन्नास्तं सम्प्रसाद्य यथेष्टं प्रश्नान् पप्रच्छुः । सुकेशाख्यो भरद्वाजपुत्रः । शिबिपुत्रः सत्यकामः। सौर्यायणसुतो गार्ग्यगोत्रः । कोसलसुतश्च आश्वलायन- गोत्रः । भार्गवगोत्रो विदर्भपुत्रः । कत्ययनात्मजः कबन्धी । सुकेशेत्यत्र मात्राधिक्येन दीर्घत्वं विशेषाधिक्यविवक्षया 'आधिक्येऽधिकम्' इति सूत्रात् ।अस्ति ह्यस्य वरैर्दुष्परिहरप्रश्नकर्तृत्वं नाम विशेषः । विसर्गाभावस्तु 'हल्याभ्यो दीर्घाद्' इत्यादिना विभक्तिलोपात् ॥ ११ ॥
श्रीसत्यप्रज्ञतीर्थविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी
॥ लाघवेनेति ॥ व्याख्यानरूपप्रमाणविरोधादेवापव्याख्यान- निराकरणं लभ्यत इति लाघवमित्यर्थः ॥ सुकेशा नामतः इति ॥ दीर्घः सुलोपः छान्दस इति भावः । अत एव सौर्यायणी इत्यत्र वक्ष्यति । 'सुपां सुलुक्' इति पूर्वसवर्णदीर्घो वा ॥ १-१॥
श्रीनिवासतीर्थविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी
आख्यायिकेति उपलब्धार्थविषयककृतिरित्यर्थः । ननु तर्हि सौर्या-यणिरिति स्यात्सौर्यायणीति दीर्घः कुत इत्यतः आह- दीर्घ इति ॥ तथा सोरुत्वे विसर्गे च सौर्यायणिरिति स्यादत उक्तं सुलोपश्चेति ॥ १-१ ॥
छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्
॥ सुकेशेति ॥ शोभनाः केशा यस्येति विग्रहे सुकेशशब्दात्परस्य प्रथमैकवचनस्य सोः ‘सुपां सुलुक्' इति आकारादेशे सवर्णदीर्घे सुकेशेत्या- कारान्तरूपं ज्ञेयम्॥ भारद्वाज इति ॥ 'ऋष्यन्धकवृष्णि..' इत्यण् ॥ शैब्य इति ॥ गर्गादित्वाद्यञ्। सूर्यस्यापत्यं सौर्य इति । सूर्यशब्दादपत्यार्थेऽप्यण् । अणन्तात् सौर्यशब्दात् ‘तिकादिभ्यः' इति फिञ् । तस्यायन्नादेशे सौर्यायणिरिति रूपम्॥ गर्गगोत्रमिति ॥ ततश्च 'गर्गादिभ्यो यञ्' इति यञिति भावः । एव- मुभयोर्मध्ये एकस्य नामत्वं एकस्यावयवार्थकत्वम् । एकस्योभयगोत्रा - पत्यत्वासम्भवात् ॥ कोसलायां भव इति ॥ नगर्यामिति शेषः । तद्धिता इति वचनात् । शैषिको यञ्प्रत्ययः ।। आश्वलायन इति ॥ 'नडादिभ्यः फक्' इति फक् । विदर्भेषु प्रभवो वैदर्भिरिति । यस्स विदर्भः तस्यापत्यमिति शेषः । अथवा विदर्भेषु भवो वैदर्भिः 'बाह्वादिभ्यश्च' इति अपत्यार्थे उत्पत्त्यर्थे उक्तोऽपि यञ् 'तद्धिताः' इति वचनात् भावार्थेऽपि भवतीति भावः ॥ कत्यस्येति ॥ कत्यशब्दात् गर्गादित्वाद्यञि छान्दसे आदिवृद्ध्यभावे कतस्य गोत्रापत्यं कत्यस्तस्यापत्यमिति कतस्य युवा विवक्षिते यञियोश्च' इति फक् । ब्रह्मपरा वेदाभ्यासे तात्पर्यवन्त इति । 'ब्रह्म प्रोक्तं तपोऽध्यात्मवेदज्ञानेषु सूरिभिः' इति विश्वोक्तेः ब्रह्मशब्दो वेदार्थकः ॥ अधिकारेति ॥ ' भक्तिमान् परमे विष्णौ यस्त्वध्ययनवान्नरः' इत्युक्तेरिति भावः ॥ ११ ॥
ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी
| अपव्याख्येति । प्रजापतेरित्याद्यैक्यस्य परैर्व्याख्यात- त्वात् व्याख्यानरूपप्रमाणेनैव तन्निरासोऽपि लक्ष्यत इति लाघवमिति भावः ॥ सुकेशा नामत इति ॥ सुकेशेति शब्दस्य साधुत्वमुक्तं प्राचीनकारैर्वरदतीर्थैः। सुकेशेत्यत्राधिक्येन दीर्घत्वं विद्याधिक्यविवक्षया 'आधिक्येऽधिकम्' इति सूत्रात् । अस्ति ह्यस्य दुष्परिहरप्रश्नकर्तृत्वं नाम विशेषः । विसर्गाभावस्तु 'हल् याभ्यो दीर्घात्...' इत्यादिना विभक्तिलोपा- दिति । केचित्तु सुकेशा नामत इति दीर्घः सुलोपः छान्दस इति भावः । अत एव सौर्यायणीशब्दे तथा वक्ष्यति । 'सुपां सुलुक्' इति पूर्वसवर्णदीर्घो वेति व्याचक्षते 11 दीर्घः सुलोप इति ॥ सुकेशस्यैवाधिक्यविवक्षया दीर्घप्राप्त्यभावात्। अत एव दीर्घात्परं विहित- सुलोपानवकाशात्। अत्र दीर्घः सुलोपः छान्दस इति भावः । नच सुपां सुलुक् पूर्वसवर्णेति सूत्रात् पूर्वसवर्ण- दीर्घप्राप्तिरस्तीति भ्रमितव्यम् । अच्परत्वाभावेनात्र तदप्राप्तेरिति ज्ञेयम् ॥ उक्तानुष्ठानेति । ब्रह्मशब्दितवेदोक्तानुष्ठानेत्यर्थः ॥ १-१॥
मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी
॥ अथेति ॥ आद्यपद्यनिबन्धनानन्तरमित्यर्थः ॥ लाघवेनेति ॥ व्याख्यानरूपप्रमाणविरोधेनैवापव्याख्याननिराकरणं लभ्यत इति लाघवमि- त्यर्थः ॥ अत्रेति ॥ उपनिषदीत्यर्थः ॥ आख्यायिकेति ॥ उपलब्धार्थ- विषयककथेत्यर्थः । अतिप्रशस्ततरा इयं विद्येत्यन्वयः । ननु श्रद्धादीनां निष्प्रयो- जनत्वे कैश्चिदनुष्ठानमात्रेण कथमनुष्ठेयत्वम् । अतो नेदं तात्पर्यकथनं युक्तमित्यत आह- स्मर्यते हीति । सुकेशा नामत इति ॥ शोभनाः केशा यस्येति विग्रहे सुकेशशब्दात्परस्य प्रथमैकवचनस्य 'सोः सुषां सुलुक्' इत्यादिना आकारादेशे सवर्णदीर्घे च सुकेशेत्याकारान्तं रूपं ज्ञेयम् ॥ कोसलायामिति ॥ नगर्यामिति शेषः। विदर्भेषु देशेषु । कदाचित् क्वचित्समवेता इत्यध्याहारोक्तिः ।। अधिकारेति ॥ 'भक्तिमान्परमे विष्णौ यस्त्वध्ययनवान्नर' इत्याद्युक्तेरिति भावः ॥ १-१ ॥
अनन्तभट्टविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी
ननु श्रद्धादीनां निष्प्रयोजनत्वे कैश्चिदनुष्ठानमात्रेण कथमनु- ष्ठेयत्वमतो नंदं तात्पर्यकथनं युक्तमित्यत आह- स्मर्यते हीति ॥
गूढकर्तृकाषट्प्रश्नभाष्यटीकाटिप्पणी
अपव्याख्याननिराकरणं चेति ॥ 'आदित्यो ह वै प्रजापतिः' इत्यादौ परेण आदित्याद्यैक्यपरत्वस्य व्याख्यातत्वादिति भावः । नकारान्तोऽयं शब्दः। अत एव सौर्यायणीशब्द एव दीर्घः । सुलोपः छान्दस इति वक्ष्यति। अन्यथा प्रथमातिक्रमणे कारणाभावादिति ।। १-१ ॥
श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः
श्रीरङ्गविठ्ठलं नत्वा सर्वज्ञादिगुरूनपि ।
षट्प्रश्नाख्योपनिषदष्टीकोक्तार्थो निगद्यते ॥
इह खलु संसारपारावारे निपतितमधिकारिणं जनं जननी तनयमिव परमात्म- तत्त्वज्ञानप्लवेनोद्धर्तुं प्रवृत्तेयमाथर्वणी ब्राह्मणोपनिषत् । अस्या उपनिषदो वासुदेवो मुख्यतया प्रतिपाद्यो देवता । प्राणादयस्तु तच्छेषतया तथेति ज्ञेयम्। पिप्पलादादय ऋषयः । छन्दस्तु क्वचिदक्षरपरिगणनया ज्ञेयम् । अत्र सुकेशा इत्यादिका - ऽऽख्यायिका विद्याप्रशंसया श्रोतॄणां श्रद्धाजननार्था । एवं किल महद्भिर्भारद्वाज- प्रभृतिभिरपीयं विद्या संवत्सरब्रह्मचर्यादिना लब्धा । अतोऽतिप्रशस्ततरा । अतोऽस्माभिरप्येवंविधैर्भाव्यमिति । स्मर्यते हि श्रद्धादिनां तत्त्वज्ञानहेतुत्वं 'श्रद्धावाँल्लभते ज्ञानम्' इत्यादिना । अत्रेयमक्षरयोजना - १. सुकेशा नामतः भरद्वाजस्यापत्यं भारद्वाजः । २. शिबेरपत्यं शैब्यः सत्यकामो नामतः । ३. सूर्यस्यापत्यं सौर्यः, तदपत्यं सौर्यार्याणिः, दीर्घः सुलोपश्च छान्दस इति स एव सौर्यायणी, गर्गस्य गोत्रो गार्ग्यः । ४. कौसल्यो नामतः, कोसलायां भवो वा, अश्वलस्यापत्यमाश्वलायनः । ५. भृगोरपत्यं भार्गवः, विदर्भेषु भवो वैदर्भिः । ६. कबन्धी नामतः, कत्यस्यापत्यं कात्यायनः । इतरेतरयोगे चशद्वाः । त एते ह किल ब्रह्मपराः वेदाभ्यासे तात्पर्यवन्तः, ब्रह्मनिष्ठाः तदुक्तानुष्ठानशीलाश्च मुनयः कदाचित् क्वचित् समवेताः परं ब्रह्म वासुदेवमन्वेषमाणाः जिज्ञासवः । बभूवुरिति शेषः । ब्रह्मपरा इत्यादि ब्रह्मजिज्ञासाधिकारसम्पत्तिकथनम् । ततस्ते किलैष पिप्पलादः यद्वयं पृच्छामः तत्सर्वं वक्ष्यति तस्मादेनं गच्छाम इति निश्चित्य समित्पाणयो भूत्वा भगवन्तं पूज्यं पिप्पलादमुपसन्नाः तत्समीपं प्राप्ताः। वैशब्दः पिप्पलादस्य प्रश्नप्रतिवचनसामर्थ्यद्योतकः ॥ १-१ ॥
नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका
वासुदेवं प्रणम्यैनं जयार्योक्त्यवलम्बनात् ।
षट्प्रश्नोपनिषत्खण्डसत्तत्त्वार्थः प्रकाश्यते ॥
इह हि सासांरिक विविधदुःखदर्शनेन विरक्तस्य शमदमादिमतो मुमुक्षो- रधिकारिण अशेषदुःखनिवृत्तये परमानन्दावाप्तये च वासुदेवं सम्यज्ज्ञापयितुं षट्प्रश्नोपनिषत्प्रवृत्ता । तत्रादौ विद्याप्रशंसया श्रोतॄणां
श्रद्धाजननाय आख्यायिकामाह - सुकेशा इति ॥ १. सुकेशा नामतः । भरद्वाजस्यापत्यं भारद्वाजः। २. शिबेरपत्यं शैब्यः, सत्यकामो नामतः । ३. सूर्यस्यापत्यं सौर्यः, तदपत्यं सौर्यायणिः । दीर्घसुपलोपश्छान्दस इति स एव सौर्यायणी, गर्गस्य गोत्रापत्यं गार्ग्यः । ४. कौसल्यो नामतः । कोसलायां भवो वा । अश्वलस्यापत्यं आश्वलायनः । ५. भृगोरपत्यं भार्गवः, विदर्भेषु प्रभवो वैदर्भिः । ६. कबन्धी नामतः, कत्यायन-स्यापत्यं कात्यायनः । इतरेतरयोगे चशब्दाः । त एतेऽखिला ब्रह्मपरा वेदाभ्यासे तात्पर्यवन्तो ब्रह्मनिष्ठाः तदुक्तानुष्ठाननिष्ठाश्च मुनयः कदाचित्समवेताः परं ब्रह्म वासुदेवं अन्वेषमाणाः जिज्ञासवो बभूवुः । ततस्ते किल पिप्पलादो यत्तु वयं पृच्छामः तत्सर्वं वक्ष्यति, तस्मादेनं प्रति गच्छाम इति निश्चित्य समित्पाणयो भूत्वा भगवन्तं पूज्यं पिप्पलादं उपसन्नाः तत्समीपं प्राप्ताः ॥ १-१ ॥
उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका
लक्ष्मीनरहरिं विष्णुं लक्ष्मीनरहरीष्टदम् ।
वासुदेवं सदा वासुदेवेष्टं नौमि सर्वगम् ॥ १ ॥
वासुदेवगुरुं नत्वा पूर्णबोधमुनेर्वचः ।
टीकाकृदुक्तिं चालोच्य कुर्वे षट्प्रश्नपञ्चिकाम् ॥ २ ॥
इह खलु विविधसांसारिकदुःखदर्शनेन विरक्तस्य शमदमादिमतो मुमुक्षोरधिका-रिणस्तन्निवृत्तये परमान्दावाप्तये च भगवतः परमात्मनः स्वरूपं प्रतिपादयितुं प्रवृत्तामिमामुपनिषदमविद्यापिहितनयनैरन्यैरन्यथाव्याख्यातत्वेन प्रवृत्तमिव मन्यमानैः परमकारुणिकैर्भगवद्भिः आनन्दतीर्थमुनिभिः सम्यक्कृतामपि च जयतीर्थचरणैर्भाष्यव्याख्यानपुरःसरं विशदीकृतामपि अधुनातनानां हरिगुरुचरणनलिनयुगलैकनिष्ठमानसानां सुखोपायेन बोद्धुमिच्छूनां बोधसौकर्याय अस्माभिरपि यथामति व्याख्यायते इयमाथर्वणी ब्राह्मणोपनिषत् । परब्रह्मणो वासुदेवस्य जगत्सर्जनादिकं प्रतिपादयतीत्यतो वासुदेवोऽस्या देवता । ऋषिः पिप्पलादः। छन्दस्त्वक्षरगणनया यथासम्भवं बोध्यम् ।
ब्रह्मज्ञानेनैव सकलानिष्टपरिहारपूर्वकेष्टप्राप्तिर्भवतीति सदागमैः प्रतिपाद्यत्वात् पिप्पलादभारद्वाजादिसंवादव्याजेन परमात्मनः सर्वोत्कृष्टत्वमाह वेदपुरुषः- सुकेशा इत्यादिना ।। सुकेशा नामतः, भरद्वाजस्यापत्यं भारद्वाजः। ‘तस्यापत्यम्' इत्यण् । शिबेरपत्यं, सत्यकामो नामतः । सौर्यायणीनामा, गर्गस्य गोत्रापत्यम् । कोसलायां भवः, आश्वलायननामा । विदर्भेषु भवः, वैदर्भिर्भागवो नाम । कात्यस्यापत्यं, कबन्धी नामतः । इतरेतरयोगे चशब्दाः । तत्र तत्र तद्धितप्रत्ययाः अणादयो यथासङ्ख्यमूह्याः । त एते पूर्वोक्ताः । हेति प्रसिद्धम्। ब्रह्मपराः ब्रह्मचर्यं प्राप्य वेदाभ्यासवन्तः । अनेन ब्रह्मजिज्ञासायामधिकारित्वं सूचयति । ब्रह्मनिष्ठाः ब्रह्म वेदः तदुक्तानुष्ठाननिष्ठाः आदरवन्तः । कदाचित् क्वचित्समवेताः परब्रह्म वासुदेवाख्यमन्वेषमाणा जिज्ञासवः । बभूवुरिति शेषः । ततः किं कुर्युरित्यत आह-- एष ह वै इति ॥ ते पूर्वोक्ताः । हेति हर्षे । एष ह पिप्पलादः किल यद्वयं पृच्छामः तत्सर्वं वक्ष्यति वैशब्देन तस्य प्रश्नप्रतिवचनसामर्थ्यं द्योतयति । तस्मादेनं गच्छाम इति निश्चित्य समित्पाणयः समित् पाणौ येषां ते कृताञ्जलिपुटाः सन्तः भगवन्तं पूज्यं पिप्पलादनामानं मुनिमुपसन्नाः समीपं गताः। षद्लृधातोः निष्ठा, नत्वम् । ब्रह्मजिज्ञासार्थमिति शेषः ।। १-१ ॥