प्रतित्यञ्चारुमध्वरङ्गोेपीथाय प्रहूयसे ॥ मरुद्भिरग्न आगहि

अग्निमारुतसूक्तम्

मण्डलम्–१. अध्यायः–१.अनुवाकः – ५.सूक्तम्–१९.

(प्रतित्यं नवर्चंं, मेधातिथिः काण्वः ऋषिः, अग्नामरुतश्च देवते, छन्दः– गायत्री,(२ निचृत्, ९ पिपीलिकामध्या निचृत्,)

प्रतित्यञ्चारुमध्वरङ्गोेपीथाय प्रहूयसे ॥ मरुद्भिरग्न आगहि ॥ १ ॥

(प्रति । त्यम् । चारुम् । अध्वरम् । गोऽपीथाय । प्र । हूयसे ॥ मरुत्ऽभिः । अग्ने । आ । गहि ॥ १ ॥)

यज्ञं प्रतिप्रति त्यं तं सम्यक् शास्त्रोक्तलक्षणम् । आहूयसे ............................ ॥ १ ॥

निचृद् गायत्री

न हि देवो न मर्त्यो महस्तव क्रतुम्परः ॥ मरुद्भिरग्न आगहि ॥ २ ॥

(नहि । देवः । न । मर्त्यः । महः । तव । क्रतुम् । परः । मरुत्ऽभिः । अग्ने । आ । गहि ॥ २ ॥)

महान्नैव त्वदन्योऽस्ति (हि) क्रतुं प्रति ॥ ३२६ ॥

विष्णौ हि मुख्यतोऽर्थोऽयमग्नौ कांश्चिदृते सुरान् ॥ २ ॥

ये महो रजसो विदुर्विश्वे देवासो अद्रुहः ॥ मरुद्भिरग्न आगहि ॥ ३॥

(ये । महः । रजसः । विदुः । विश्वे । देवासः । अद्रुहः । मरुत्ऽभिः । अग्ने । आ । गहि ॥ ३ ॥)

महतो रञ्जकात् स्वर्गादद्रोग्धारोऽखिलं विदुः ॥ ३ ॥

य उग्रा अर्कमानृचुरनाधृष्टास ओजसा ॥ मरुद्भिरग्न आगहि ॥ ४ ॥

(ये । उग्राः । अर्कम् । आनृचुः । अनाधृष्टासः । ओजसा ॥ मरुत्ऽभिः । अग्ने । आ । गहि ॥ ४ ॥)

प्राप्ता अर्कं विशेषेण सन्निधिस्तत्र यद्धरेः ॥ ४ ॥

ये शुभ्रा घोरवर्पस सुक्षत्रासो रिशादसः ॥ मरुद्भिरग्न आगहि ॥ ५, ३६ ॥

(ये । शुभ्राः । घोरऽवर्पसः । सुऽक्षत्रासः । रिशादसः ॥ मरुत्ऽभिः । अग्ने । आ । गहि ॥ ५, ३६ ॥)

शुद्धा घोरबलाः क्षेत्रत्रातारः क्षतितोऽपि वा । रम्यसत्सुखभोक्तारो मरुतो मारुतत्वतः ॥ ३२८ ॥

एतादृशानि रूपाणि प्राणाग्निस्थानि चेशितुः । पृथग् वा तादृशान्येव देवगान्यपि सर्वशः ॥३२९॥५॥

येनाकस्याधि रोचने दिवि देवास आसते ॥ मरुद्भिरग्न आगहि ॥ ६ ॥

(ये । नाकस्य । अधि । रोचने । दिवि । देवासः । आसते । मरुत्ऽभिः । अग्ने । आ । गहि ॥ ६ ॥)

स्वर्गोपरि प्रकाशे च सूर्यादावासते सुराः । नाको निर्दुःखरूपत्वाद् द्यौः प्रकाशस्वरूपतः ॥३३०॥६॥

य ईङ्खयन्ति पर्वतान् तिरस्समुद्रमर्णवम् ॥ मरुद्भिरग्न आगहि ॥ ७ ॥

(ये । ईङ्खयन्ति । पर्वतान् । तिरः । समुद्रम् । अर्णवम् ॥ मरुत्ऽभिः । अग्ने । आ । गहि ॥ ७ ॥)

प्रतोलयन्ति च गिरींस्तिरस्कृत्य च सागरम् । पुरुषान् प्रकृतिं वाऽपि पर्ववन्तो हि जन्मना ॥

पुरुषाः सुसमुद्रेकात् समुद्रः प्रकृतिर्मता ॥ ३३१॥

प्रकृतेः पुरुषाणां च प्रेरकः सन् सदा हरे । स्वरूपैर्बहुभिर्युक्त आयाहि सम सद्गुणैः ॥३३२॥ ७ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ऋक्संहिताभाष्ये प्रथमोध्यायः ॥ १ ॥

ऋतवः, द्रविणोदाश्च (अग्निः) देवताः

आये तन्वन्ति रश्मिभिस्तिरस्समुद्रमोजसा ॥ मरुद्भिरग्न आगहि ॥ ८ ॥

(आ । ये । तन्वन्ति । रश्मिऽभिः । तिरः । समुद्रम् । ओजसा । मरुत्ऽभिः । अग्ने । आ । गहि ॥ ८ ॥)

पिपीलिकामध्या निचृद् गायत्री

अभि त्वा पूर्वपीतये सृजामि सोम्यम्मधु ॥ मरुद्भिरग्न आगहि ॥ ९, ३७, , १९ ॥

(अभि । त्वा । पूर्वऽपीतये । सृजामि । सोम्यम् ॥ मधु । मरुत्ऽभिः । अग्ने । आ । गहि ॥ ९, ३७, , १९ ॥)

इत्येकोनविंशं सूक्तम्

॥ इति प्रथममण्डले प्रथमाष्टके प्रथमोऽध्यायः ॥