इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ॥ इन्द्रं वाणीरनूषत
ऐन्द्रसूक्तम्
मण्डलम् —१.अध्यायः–१. अनुवाकः-२. सूक्तम्—७.
द्वितीयानुवाके चतुर्थम् ‘इन्द्रं’ दशर्चम्, वैश्वामित्रो मधुच्छन्दाः ऋषिः, गायत्री (२ निचृत्, ८, १० पिपीलिकामध्या निचृत्,९ पादनिचृत्) इन्द्रो देवता
इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ॥ इन्द्रं वाणीरनूषत ॥ १ ॥
(इन्द्रम् । इत् । गाथिनः । बृहत् । इन्द्रम् । अर्केभिः । अर्किणः ॥ इन्द्रम् । वाणीः । अनूषत ॥ १ ॥)
तमेव गाथिनः साम्ना स्तुवन्त्यृग्भिश्च बह्वृचाः । बृहन्तमन्यवाणीभिरपि .............. ॥ १ ॥
निचृद् गायत्री
इन्द्र इद्घर्योः सचा सम्मिश्ल आवचो युजा ॥ इन्द्रो वज्री हिरण्ययः ॥ २ ॥
(इन्द्रः । इत् । हर्योः । सचा । सम्ऽमिश्लः । आ । वचःऽयुजा ॥ इन्द्रः । वज्री । हिरण्ययः ॥ २ ॥)
.................. हर्यो विमिश्रितः ॥ २०७ ॥ रथेऽथवा मनोबुद्ध्योर्वाङ्मात्रेणैव योगिनोः ॥
सचा सुखेन वज्री च ज्ञानानन्दो हि धातुतः । हितश्च रमणीयश्च हिरण्यय इतीरितः ॥ २०८ ॥२ ॥
इन्द्रो दीर्घाय चक्षस आसूर्यं रोहयद्दिवि ॥ वि गोभिरद्रिमैरयत् ॥ ३ ॥
(इन्द्रः । दीर्घाय । चक्षसे । आ । सूर्यम् । रोहयत् । दिवि ॥ वि । गोभिः । अद्रिम् । ऐरयत् ॥ ३ ॥)
दीर्घकालं दर्शनाय सूर्यमारोहयद्दिवि । ज्ञानैरादरयोग्यं च प्राणात्मानं समैरयत् ॥ २०९॥३ ॥
निचृद् गायत्री
इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च ॥ उग्र उग्राभिरूतिभिः ॥ ४ ॥
(इन्द्र । वाजेषु । नः । अव । सहस्रऽप्रधनेषु । च ॥ उग्रः । उग्राभिः । ऊतिऽभिः ॥ ४ ॥)
बहुभिर्युध्यमानेषु युद्धेष्वपि सदाऽव नः । दुष्टोग्रैः सदभिप्रायैः ...... ॥ ४ ॥
इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे ॥ युजं वृत्रेषु वज्रिणम् ॥ ५, १३ ॥
(इन्द्रम् । वयम् । महाऽधने । इन्द्रम् । अर्भे । हवामहे ॥ युजम् । वृत्रेषु । वज्रिणम् ॥ ५, १३ ॥)
.................महदल्पधनार्थिनः । हवामहेऽरिवर्ज्यं तं तमसां प्रतियोगिनम् ॥ २१० ॥ ५॥
स नो वृषन्नमुञ्चरुं सत्रादावन्नपावृधि ॥ अस्मभ्यमप्रतिष्कुतः ॥ ६ ॥
(सः । नः । वृषन् । अमुम् । चरुम् । सत्राऽदावन् । अप । वृधि ॥ अस्मभ्यम् । अप्रतिऽस्कुतः ॥ ६ ॥)
अस्मदीयं चरुं भोज्यमानन्दं त(त्व)मपावृणु । मोक्षगं सर्वदातस्त्वमप्रतिद्वन्द्व नो वृषन् ॥२११॥६ ॥
तुञ्जे तुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः ॥ न विन्धे अस्य सुष्टुतिम् ॥ ७ ॥
(तुञ्जेऽतुञ्जे । ये । उत्ऽतरे । स्तोमाः । इन्द्रस्य । वज्रिणः ॥ न । विन्धे । अस्य । सुऽस्तुतिम् ॥ ७ ॥)
त्वयैव प्रेरणे जाते तत्र तत्र य उत्तराः । तेऽपि स्तोमाः सुष्टुतित्वमस्यानन्त्यान्न चाप्नुयुः ॥ २१२॥७ ॥
पिपीलिका मध्या निचृद् गायत्री
वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा ॥ ईशानो अप्रतिष्कुतः ॥ ८ ॥
(वृषा । यूथा इव । वंसगः । कृष्टीः । इयर्ति । ओजसा ॥ ईशानः । अप्रतिऽस्कुतः ॥ ८ ॥)
प्रतिवीरो वृषा वंसस्तद्गन्ता वंसगो विभीः । यूथान्याकर्षति यथा प्रजाः प्रेरयति प्रभुः । अल्पस्यापि प्रसिद्ध्यैव दृष्टान्तत्वं तु युज्यते ॥२१३॥८॥
पादनिचृद् गायत्री
य एकश्चर्षणीनां वसूनामिरज्यति ॥ इन्द्रः पञ्च क्षितीनाम् ॥ ९ ॥
(यः । एकः । चर्षणीनाम् । वसूनाम् । इरज्यति ॥ इन्द्रः । पञ्च । क्षितीनाम् ॥ ९ ॥)
राजा भवति वित्तानां प्रजानां चैक एव यः । देवगन्धर्वदैतेयपितृमानुषभेदतः । प्रजानामपि पञ्चानां सामान्याच्च विशेषतः ॥२१४॥९ ॥
केवलशब्दवाच्य इन्द्रः पिपीलिकामध्या निचृद् गायत्री
इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः ॥ अस्माकमस्तु केवलः ॥ १०, १४, ७, २ ॥
(इन्द्रम् । वः । विश्वतः । परि । हवामहे । जनेभ्यः ॥ अस्माकम् । अस्तु । केवलः ॥ १०, १४, ७, २ ॥)
सम्यग्घवामहे सर्वगतं च व्यक्तरूपतः । स्थातुमेकत्र वोऽर्थाय जना नोऽस्तु स केवलः ॥ २१५ ॥ ॥ १०,१४,७,२ ॥
॥ इति सप्तमं सूक्तम् ॥