इन्द्रं विश्वा अवीवृधन्त्समुद्र व्यचसङ्गिरः ॥ रथीतमं रथीनां वाजानां सत्पतिम्पतिम्
इन्द्रसूक्तम्
मण्डलम्–१,अध्यायः–१.अनुवाकः–३. सूक्तम् – ११
इन्द्रम् अष्टौ, मधुच्छन्दाः ऋषिः, अनुष्टुप्च्छन्दः, इन्द्रो देवता
निचृद् अनुष्टुप्
इन्द्रं विश्वा अवीवृधन्त्समुद्र व्यचसङ्गिरः ॥ रथीतमं रथीनां वाजानां सत्पतिम्पतिम् ॥ १ ॥
(इन्द्रम् । विश्वाः । अवीवृधन् । समुद्रऽव्यचसम् । गिरः ॥ रथिऽतम् । रथिनाम् । वाजानाम् । सत्ऽपतिम् । पतिम् ॥ १ ॥)
.... सम्यगुद्रिक्तगुणव्यक्तिस्तथाऽभिधः ॥ १५२ ॥ १ ॥
निचृद् अनुष्टुप्
सख्येत इन्द्र वाजिनो मा भेम शवसस्पते ॥ त्वामभि प्रणोनुमो जेतारमपराजितम् ॥ २ ॥
(सख्ये । ते । इन्द्र । वाजिनः । मा । भेम । शवसः । पते ॥ त्वाम् । अभि । प्र । नोनुमः । जेतारम् । अपराऽजितम् ॥ २ ॥)
निचृद् अनुष्टुप्
पूर्वीरिन्द्रस्य रातयो न विदस्यन्त्यूतयः ॥ यदी वाजस्य गोमतस्स्तोतृभ्यो मंहते मघम् ॥ ३ ॥
(पूर्वीः । इन्द्रस्य । रातयः । न । वि । दस्यन्ति । ऊतयः ॥ यदि । वाजस्य । गोऽमतः । स्तोतृऽभ्यः । मंहते । मघम् ॥ ३ ॥)
प्रथमानि महत्त्वेन ते दानान्यवनानि च । न भिद्यन्ते न नश्यन्ति गोमदन्नं यशस्तथा ॥ २५३ ॥
यदि मंहते ददातीशः ............. ॥ ३ ॥
पुराम्भिन्दुर्युवाकविरमितौजा अजायत ॥ इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतः ॥ ४ ॥
(पुराम् । भिन्दुः । युवा । कविः । अमितऽओजाः । अजायत ॥ इन्द्रः । विश्वस्य । कर्मणः । धर्ता । वज्री । पुरुऽस्तुतः ॥ ४ ॥)
त्वं वलस्य गोमतोऽपावरद्रिवो बिलम् ॥ त्वान्देवा अबिभ्युषस्तुज्यमानास आविषुः ॥ ५ ॥
(त्वम् । वलस्य । गोऽमतः । अप । अवः । अद्रिऽवः । बिलम् ॥ त्वाम् । देवाः । अबिभ्युषः । तुज्यमानासः । आविषुः ॥ ५ ॥)
................वलस्तिर्यग्गतिर्धियः । वाचामन्यार्थबुद्धेस्तु बिलं मूलं तमो हि यत् । तदपावृतवांस्त्वं च प्रदर्श्य विनिवार्य च ॥ २५४ ॥
त्वां हि देवा भयापेताः प्रेर्यमाणास्त्वयैव च । छाद्यमानं गिरा दैत्यैररक्षन्निव सद्गिरा ॥ २५५॥
इन्द्रस्य गोसवार्थे च समुत्सृष्टा जगत्यपि । चर्तुं गावो हृता दैत्यैः सरमारक्षिताः पुरा । तस्याः स्वसृत्वमुक्त्वैव तयोच्छिष्टं च गोपयः ॥ २५६॥
तदर्थं पणयो नाम ते दैत्या बलपूर्वकाः । इन्द्रेण निहताः पश्चाज्ज्ञात्वा च सरमाकृतम् ॥ २५७॥
ताडयित्वा पदा वक्त्रात् सृते पयसि तां भयात् । शरणागतां प्रेषयित्वा दूत्येन पणिनां पुनः ॥ २५८॥
भित्वा गिरिव्रजं तं च गावो यत्र प्रतिष्ठिताः । निःसारिताः पुनस्ताश्च गोसवेनेष्टमेव च ॥ तदा देवा भीत्यैव परितो जुगुपुः पतिम् ॥ २५९॥५ ॥
तवाहं शूर रातिभिः प्रत्यायं सिन्धुमावदन् ॥ उपातिष्ठन्त गिर्वणो विदुष्टे तस्य कारवः ॥ ६ ॥
(तव । अहम् । शूर । रातिऽभिः । प्रति । आयम् । सिन्धुम् । आऽवदन् ॥ उप । अतिष्ठन्त । गिर्वणः । विदुः । ते । तस्य । कारवः ॥ ६ ॥)
तव दानैरहं सिन्धुं नदीं प्रत्यागमं पुनः । त्वामावदन् स्तुतिपदैर्यज्ञदीक्षार्थमुद्यतः ॥ २६०॥
उपातिष्ठन्त कर्तारो विदुस्त्वां यो गिरोदित ॥ ६ ॥
मायाभिरिन्द्र मायिनन्त्वं शुष्णमवातिरः ॥ विदुष्टे तस्य मेधिरास्तेषां श्रवांस्युत्तिर ॥ ७ ॥
(मायाभिः । इन्द्र । मायिनम् । त्वम् । शुष्णम् । अव । अतिरः ॥ विदुः । ते । तस्य । मेधिराः । तेषाम् । श्रवांसि । उत् । तिर ॥ ७ ॥)
शक्तिभिः शक्तिमन्तं त्वं शोषकं वृत्रमातिरः ॥ २६१॥
तमो वा त्वां विदुर्मेधारतास्तेषां श्रवांसि च । विद्या उच्चैस्तरां देहि .................॥ ७ ॥
इन्द्रमीशानमोजसाऽभि स्तोमा अनूषत ॥ सहस्रं यस्य रातय उत वा सन्ति भूयसीः ॥ ८,२१,११,३॥
(इन्द्रम् । ईशानम् । ओजसा । अभि । स्तोमाः । अनूषत ॥ सहस्रम् । यस्य । रातयः । उत । वा । सन्ति । भूयसीः ॥ ८, २१, ११, ३ ॥)
........यस्तुवन्ति त्वां सहौजसा ॥ २६२ ॥ ८, २१, ११, ३ ॥
॥ इति एकादशं सूक्तम् ॥
इति तृतीयोऽनुवाकः
ऋक्संहितायाः स्वाध्यायात् प्रबन्धाद्व्यासनिर्मितात् । ब्राह्मणेभ्यस्तथा मानात् प्रोक्ताः स्युर्मुनयोऽत्र ये ॥ २६३॥
श्रुत्यभावादलिङ्गाच्च मुनिर्नान्यः प्रतीयते । श्रुतिलिङ्गान्यता यावत्तावत्पूर्वा प्रमा भवेत् ॥ २६४ ॥
शतर्ग्भिरुत्तराभिस्तु वह्निनामानमच्युतम् । अस्तौन्मेधातिथिस्ताभ्य उत्तरा अपि तद्-दृशः ॥ २६५॥
अन्यत्रगास्तपस्यन् स ता ददर्श कदाचन । कालस्थानान्तरत्वं चेत्सङ्ख्यातोऽभ्यधिकं भवेत् ॥ २६६॥
अन्यस्थानगता अन्यदृष्टा अप्यत्रगा यदि । सङ्ख्यान्तर्भावमेष्यन्ति ता इतोपगता यतः ॥ २६७॥