आ त्वेता निषीदतेन्द्रमभि प्र गायत ॥ सखायस्स्तोमवाहसः
ऐन्द्रसूक्तम्
मण्डलम्—१. अध्यायः–१. अनुवाकः–२. सूक्तम्–५.
‘आ त्वा’ दशर्चम् । वैश्वामित्रो मधुच्छन्दा गायत्री (१ विरा, ३ पिपीलिका मध्या निचृत्, ५-७, ९ निचृत्, ८ पादनिचृत्) इन्द्रो देवता
विराड् गायत्री
आ त्वेता निषीदतेन्द्रमभि प्र गायत ॥ सखायस्स्तोमवाहसः ॥ १ ॥
(आ । तु । आ । इत । नि । सीदत । इन्द्रम् । अभि । प्र । गायत ॥ सखायः । स्तोमऽवाहसः ॥ १ ॥)
पुरूतमम्पुरूणामीशानं वार्याणाम् ॥ इन्द्रं सोमे सचा सुते ॥ २ ॥
(पुरुऽतमम् । पुरूणाम् । ईशानम् । वार्याणाम् । इन्द्रम् । सोमे । सचा । सुते ॥ २ ॥)
सुपूर्णानां पूर्णतमं वरेण्यानामधीश्वरम् । सुते सोमे सुखेनैव स चागायत तं प्रभुम् ॥१७१॥ २ ॥
पिपीलिकामध्या निचृद् गायत्री
स घा नो योग आभुवत्स राये स पुरन्ध्याम् ॥ गमद्वाजेभिरास नः ॥ ३ ॥
(सः । घ । नः । योगे । आ । भुवत् । सः । राये । सः । पुरम्ऽध्याम् ॥ गमत् । वाजेभिः । आ । सः । नः ॥ ३ ॥)
मुक्तौ योगायाऽसमन्ताद् भवेन्नो घोऽवधारणे । स एव भगवान् ज्ञानवित्ताय स च बुद्धिगः ॥ १८०॥
बुद्धिः पुराश्रयत्वेन पुरन्धिः पत्न््नयथापि वा । पत्न््नयर्थत्वे तु तादर्थ्यं सोऽन्नैः सह न आव्रजेत् ॥१८१॥३ ॥
यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः ॥ तस्मा इन्द्राय गायत ॥ ४ ॥
(यस्य । सम्ऽस्थे । न । वृण्वते । हरी इति । समत्ऽसु । शत्रवः । तस्मै । इन्द्राय । गायत ॥ ४ ॥)
यस्य स्थितौ न वृणुते हर्यग्रमपि शत्रवः । मनः पुरो वा विषयहरणान्मन एव च । बुद्धिश्च हरिशब्दोक्ते तमआदीनि शत्रवः ॥१८२॥४ ॥
निचृद् गायत्री
सुतपाव्ने सुता इमे शुचयो यन्ति वीतये ॥ सोमासो दध्याशिरः ॥ ५, ९ ॥
(सुतऽपाव्ने । सुताः । इमे । शुचयः । यन्ति । वीतये ॥ सोमासः । दधिऽआशिरः ॥ ५, ९ ॥)
सोमपे शुचयः सोमाः प्राप्त्यै दधिविमिश्रिताः । मनांसि ध्यानयुक्तानि वायान्ति हरये सदा ॥ १८३ ॥५,९ ॥
निचृद् गायत्री
त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः ॥ इन्द्र ज्यैष्ठ्याय सुक्रतो ॥ ६ ॥
(त्वम् । सुतस्य । पीतये । सद्यः । वृद्धः । अजायथाः ॥ इन्द्र । ज्यैष्ठ्याय । सुक्रतो इति सुऽक्रतो ॥ ६ ॥)
सदा पूर्णः शुभज्ञानज्यैष्ठ्यव्यक्त्यै सुताप्तये । न क्षुदादेरभिव्यक्तोऽभवः......... ॥ ६ ॥
निचृद् गायत्री
आ त्वा विशन्त्वाशवस्सोमास इन्द्र गिर्वणः ॥ शन्ते सन्तु प्रचेतसे ॥ ७ ॥
(आ । त्वा । विशन्तु । । आशवः । सोमासः । इन्द्र । गिर्वणः ॥ शम् । ते । सन्तु । प्रऽचेतसे ॥ ७ ॥)
......................... गीर्भिर्वृतप्रभो । प्रकृष्टचेतास्त्वद्भृत्यो योऽस्मै स्युः शङ्कराः सुताः ॥ १८४॥७ ॥
पादनिचृद् गायत्री
त्वां स्तोमा अवीवृधन्त्वामुक्था शतक्रतो ॥ त्वां वर्धन्तु नो गिरः ॥ ८ ॥
(त्वाम् । स्तोमाः । अवीवृधन् । त्वाम् । उक्था । शतक्रतो इति शतऽक्रतो ॥ त्वाम् । वर्धन्तु । नः । गिरः ॥ ८ ॥)
व्यञ्जयन्त्यधिकं स्तोमाः साम््नयुक्थान्यृक्षु चैव हि । महागुणैः व्यञ्जयन्तु गिरोऽस्माकमपि प्रभो ॥ १८५ ॥
आकाशवृद्धिवद् वृद्धिर्विष्णोः स्यान्नैव चान्यथा । ‘न वर्धते नोकनीयान््’ इति ह्येनं श्रुतिर्जगौ ॥ १८६॥
महातात्पर्यरोधाच्च श्रुत्यर्थो नापरो भवेत् । यद्यन्यापेक्षया वृद्धिरीशत्वं स्यात् कुतोऽस्य च ॥ अक्षितोतिरिति ह्यस्मात् पूर्णाभिप्रायतोदिता ॥ १८७॥८ ॥
पादनिचृद् गायत्री
अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम् ॥ यस्मिन्विश्वानि पौंस्या ॥ ९ ॥
(अक्षितऽऊतिः । सनेत् । इमम् । वाजम् । इन्द्रः । सहस्रिणम् ॥ यस्मिन् । विश्वानि । पौंस्या ॥ ९ ॥)
अनन्तफलदं वाजमस्मत्तो लभतां स च । ददातु वा पौरुषाणि शक्तयो यत्र चाखिलाः ॥ १८८ ॥
अतश्चानन्तशक्तित्वान्न वृद्ध्याद्याः कथञ्चन । सर्वोपेतेत्येतमर्थमभिप्रेत्याह वेदरा ॥ १८९॥९ ॥
मानो मर्ता अभिद्रुहन्तनूनामिन्द्र गिर्वणः ॥ ईशानो यवया वधम् ॥ १०, १०, ५ ॥
(मा । नः । मर्ताः । अभि । द्रुहन् । तनूनाम् । इन्द्र । गिर्वणः ॥ ईशानः । यवय । वधम् ॥ १०,१०,५ ॥)
मा मर्तानस्तनूनां तु द्रोग्धारः स्युः कथञ्चन । ईशोऽस्यपाकुरु वधं तेन नो मुक्तिदानतः ॥ १९०॥
मानुषेभ्यस्तनूनां च नैव नः स्युर्विपत्तयः । कालेन दैवतः प्राप्तः स्याददेहत्वतो वधः ॥ १९१ ॥ १० ॥
॥ इति पञ्चमं सूक्तम् ॥