अग्निन्दूतं वृणीमहे होतारं विश्ववेदसम् ॥ अस्य यज्ञस्य सुक्रतुम्
अग्निसूक्तम्
मण्डलम्—१.अध्यायः–१.अनुवाकः–४. सूक्तम्–१२.
मेधातिथिः काण्वः ऋषिः, गायत्री च्छन्दः, अग्निः देवता
अग्निर्देवदूतः
अग्निन्दूतं वृणीमहे होतारं विश्ववेदसम् ॥ अस्य यज्ञस्य सुक्रतुम्
(अग्निम् । दूतम् । वृणीमहे । होतारम् । विश्वऽवेदसम् ॥ अस्य । यज्ञस्य । सुऽक्रतुम् ॥ १ ॥)
यज्ञभागार्थमत्रस्थो देवैः सम्प्रेषितो यतः । दूतोऽग्निर्वासुदेवश्च तत्तत्प्रार्थितकृद्यतः । विश्ववेदाः स सर्वज्ञो यज्ञज्ञो यज्ञसुक्रतुः ॥ २६८ ॥ १ ॥
अग्निमग्निं हवीमभिस्सदा हवन्त विश्पतिम् ॥ हव्यवाहम्पुरुप्रियम् ॥ २ ॥
(अग्निम्ऽअग्निम् । हवीमऽभिः । सदा । हवन्त । विश्पतिम् । हव्यऽवाहम् । पुरुऽप्रियम् ॥ २ ॥)
अग्निनामा जामदग्न्यो भगवान् सम्प्रकीर्तितः । तस्य रूपबहुत्वेन वीप्सा चैवोपपद्यते । हवीमभिर्ऋगाह्वानैराह्वयन्त प्रजापतिम् ॥ २६९॥ २ ॥
निचृद् गायत्री
अग्ने देवा इहावह जज्ञानो वृक्तबर्हिषे ॥ असि होता न ईड्यः ॥ ३ ॥
(अग्ने । देवान् । इह । आ । वह । जज्ञानः । वृक्तऽबर्हिषे ॥ असि । होता । नः । ईड्यः ॥ ३ ॥)
जज्ञानो व्यज्यमानस्तु वृक्तं प्रस्तुतमुच्यते । यजमानो वृक्तबर्हिः ...................॥ ३ ॥
पिपीलिकामध्या निचृद् गायत्री
ता उशतो विबोधय यदग्ने यासि दूत्यम् ॥ देवैरासत्सि बर्हिषि ॥ ४ ॥
(तान् । उशतः । वि । बोधय । यत् । अग्ने । यासि । दूत्यम् । देवैः । आ । सत्सि । बर्हिषि ॥ ४ ॥)
....................बोधयेशेच्छतः सुरान् ॥ २७०॥ देवैः सहोपविशसि.......... ॥ ४ ॥
निचृद्गायत्री
घृताहवन दीदिवः प्रतिष्म रिषतो दह ॥ अग्ने त्वं रक्षस्विनः ॥ ५ ॥
(घृतऽआहवन । दीदिऽवः । प्रति । स्म । रिषतः । दह ॥ अग्ने । त्वम् । रक्षस्विनः ॥ ५ ॥)
.................... यस्य ते सुघृतं हविः । रिषतो नाशकान् रक्षो जनान् प्रति दहैव च ॥ २७१॥५ ॥
विराड् गायत्री
अग्निनाग्निस्समिध्यते कविर्गृहपतिर्युवा ॥ हव्यवाड् जुह्वास्यः ॥ ६, २२ ॥
(अग्निना । अग्निः । सम् । इध्यते । कविः । गृहऽपतिः । युवा ॥ हव्यऽवा । जुहुऽआस्यः ॥ ६, २२ ॥)
यस्याऽस्ये हूयते सोऽग्निः परेशेन समिध्यते । अथवाऽऽहवनीयोऽग्निर्मथितेन समिध्यते ॥ २७२॥६॥
कविमग्निमुपस्तुहि सत्यधर्माणमध्वरे ॥ देवममीवचातनम् ॥ ७ ॥
(कविम् । अग्निम् । उप । स्तुहि । सत्यऽधर्माणम् । अध्वरे ॥ देवम् । अमीवऽचातनम् ॥ ७ ॥)
सत्यधर्मा सद्गुणभृद् दुःखघ्नोऽमीवचातनः । चातनं कालनं वा स्यात् ..............॥॥
यस्त्वामग्ने हविष्पतिर्दूतन्देव सपर्यति ॥ तस्य स्म प्राविता भव ॥ ८ ॥
(यः । त्वाम् । अग्ने । हविःऽपतिः । दूतम् । देव । सपर्यति ॥ तस्य । स्म । प्रऽअविता । भव ॥ ८ ॥)
यो अग्निन्देववीतये हविष्मा आविवासति ॥ तस्मै पावक मृय ॥ ९ ॥
(यः । अग्निम् । देवऽवीतये । हविष्मान् । आऽविवासति ॥ तस्मै । पावक । मृय ॥ ९ ॥)
...................देववीतिस्तु तद्गतिः ॥ २७३॥ आवासयति यस्त्वां च तं त्वं मृय सर्वदा ॥ ९ ॥
स नः पावक दीदिवोऽग्ने देवा इहावह ॥ उप यज्ञं हविश्च नः ॥ १० ॥
(सः । नः । पावक । दीदिऽवः । अग्ने । देवान् । इह । आ । वह ॥ उप । यज्ञम् । हविः । च । नः ॥ १० ॥)
त्वत्पूजाविषये देवानावहेन्द्रियमानिनः ॥ २७४ ॥ १० ॥
स नस्स्तवान आभर गायत्रेण नवीयसा ॥ रयिं वीरवतीमिषम् ॥ ११ ॥
(सः । नः । स्तवानः । आ । भर । गायत्रेण । नवीयसा ॥ रयिम् । वीरऽवतीम् । इषम् ॥ ११ ॥)
गायत्रेण स्तूयमानो दृश्यमानेन नो रयिम् । पुत्रयुक्तामिषं चैव वीर्ययुक्तामथावह ॥२७५ ॥ ११ ॥
अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः ॥ इमं स्तोमञ्जुुषस्व नः ॥ १२, २३, १२ ॥
(अग्ने । शुक्रेण । शोचिषा । विश्वाभिः । देवहूतिऽभिः ॥ इमम् । स्तोमम् । जुषस्व । नः ॥ १२, २३, १२ ॥)
ज्वलता तेजसा विश्वदेवाह्वानैर्वृणु स्तुतिम् ॥॥ १२,२३,१२॥
॥ इति द्वादशं सूक्तम् ॥