इन्द्रावरुणयोरहं सम्राजोरव आ वृणे ॥ ता नो मृात इर्दृशे
ऐन्द्रावरुणसूक्तम्
मण्डलम्–१. अध्यायः-१.अनुवाकः–४– सूक्तम् – १७.
(इन्द्रावरुणयोर्नवर्चम् , मेधातिथिः काण्वः, छन्दः– गायत्री, २ यवमध्या विरा, ४ पादनिचृत्(ह्रसीयसी),६ निचृत्,५ भुरिगार्ची, ८ पिपीलिकामध्या निचृत्, इन्द्रावरुणौ देवते)
इन्द्रावरुणयोरहं सम्राजोरव आ वृणे ॥ ता नो मृात र्इदृशे ॥ १ ॥
(इन्द्रावरुणयोः । अहम् । सम्ऽराजोः । अवः । आ । वृणे ॥ ता । नः । मृातः । र्इदृशे ॥ १ ॥)
अविकारेण संस्थानमीदृक्त्वं नाम कीर्तितम् ॥ १ ॥
यवमध्या विरा गायत्री
गन्तारा हि स्थोऽवसे हवं विप्रस्य मावतः ॥ धर्तारा चर्षणीनाम् ॥ २ ॥
(गन्तारा । हि । स्थः । अवसे । हवम् । विप्रस्य । माऽवतः ॥ धर्तारा । चर्षणीनाम् ॥ २ ॥)
मावतो ज्ञानयुक्तस्य प्रजाश्चर्षणयः स्मृताः ॥ २ ॥
अनुकामन्तर्पयेथामिन्द्रावरुण राय आ ॥ ता वान्नेदिष्ठमीमहे ॥ ३ ॥
(अनुऽकामम् । तर्पयेथाम् । इन्द्रावरुणा । रायः । आ ॥ ता । वाम् । नेदिष्ठम् । र्इमहे ॥ ३ ॥)
नेदिष्ठत्वं समीपत्वं क्षिप्रं शरणमीमहे ॥३१४॥ ३ ॥
पादनिचृद् गायत्री
युवाकु हि शचीनां युवाकु सुमतीनाम् ॥ भूयाम वाजदाव्नाम् ॥ ४ ॥
(युवाकु । हि । शचीनाम् । युवाकु । सुऽमतीनाम् ॥ भूयाम । वाजऽदाव्नाम् ॥ ४ ॥)
युवयोरेव वाक्यानां सुमतीनां च सर्वशः । भवेमान्नप्रदातॄणां सर्वदा विषया वयम् ॥ ३१५॥४ ॥
भुरिगार्ची ह्रसीयसी - गायत्री
इन्द्रस्सहस्रदाव्नां वरुणश्शंस्यानाम् ॥ क्रतुर्भवत्युक्थ्यः ॥ ५, ३२ ॥
(इन्द्रः । सहस्रऽदाव्नाम् । वरुणः । शंस्यानाम् ॥ क्रतुः । भवति । उक्थ्यः ॥ ५, ३२ ॥)
क्रतुः प्रधान उक्थ्यश्च शस्त्रैस्स्तुत्यो विशेषतः ॥ ५,३२ ॥
निचृद् गायत्री
तयोरिदवसा वयं सनेम नि च धीमहि ॥ स्यादुत प्ररेचनम् ॥ ६ ॥
(तयोः । इत् । अवसा । वयम् । सनेम । नि । च । धीमहि ॥ स्यात् । उत । प्रऽरेचनम् ॥ ६ ॥)
रक्षणेन तयोर्वित्तं ज्ञानं वा प्राप्नुमः सदा । निधीमहि च दानं च स्यादेवास्माकमर्थिने ॥ ३१६॥६ ॥
इन्द्रावरुण वामहं हुवे चित्राय राधसे ॥ अस्मान्त्सु जिग्युषस्कृतम् ॥ ७ ॥
(इन्द्रावरुणा ॥ वाम् । अहम् । हुवे । चित्राय । राधसे ॥ अस्मान् । सु । जिग्युषः । कृतम् ॥ ७ ॥)
ह्रस्वता संहितायां तु देवतैक्यप्रदर्शिनी । स्वरूपैक्यं हरौ तत्तु मत्यैक्यं भिन्नयोरपि ॥३१७॥ ७॥
पिपीलिकामध्या निचृद् गायत्री
इन्द्रावरुण नूनुवां सिषासन्तीषु धीष्वा ॥ अस्मभ्यं शर्म यच्छतम् ॥ ८ ॥
(इन्द्रावरुणा । नु । नु । वाम् । सिसासन्तीषु । धीषु । आ ॥ अस्मभ्यम् । शर्म । यच्छतम् ॥ ८ ॥)
अद्य वां नु नुमो लोपः स्वातन्त्र्यार्थे हि सूत्रतः । साधयन्तीषु धीष्वेव शर्मास्मभ्यं प्रयच्छतम् ॥ ८ ॥
प्रवामश्नोतु सुष्टुतिरिन्द्रावरुण यां हुवे ॥ या मृधाथे सधस्तुतिम् ॥ ९, ३३, १७, ४ ॥
(प्र । वाम् । अश्नोतु । सुऽस्तुतिः । इन्द्रावरुणा । याम् । हुवे ॥ याम् । ऋधाथे इति । सधऽस्तुतिम् ॥ ९, ३३, १७, ४ ॥)
यथास्थितस्तुतिं यां च वर्धयेथे सदैवमे ॥ ३१८ ॥९॥