सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ॥ जुहूमसि द्यविऽद्यवि
ऐन्द्रसूक्तम्
मण्डलम्–१,अध्यायः–१.अनुवाकः–२ सूक्तम् – ४
सुरूपकृत्नुं दशर्चम्, वैश्वामित्रो मधुच्छन्दा ऋषिः, गायत्री,३ विरा १० निचृत् , इन्द्रः देवतामुद्गलः– द्वितीयानुवाके चत्वारि सूक्तानि । तत्र सुरूपम् इत्यादिकम् दशर्चं प्रथमसूक्तम् । इन्द्रं पृच्छ इति चतुर्थ्याम् ऋचि लिङ्गदर्शनात् इन्द्रो देवता ॥
सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ॥ जुहूमसि द्यविऽद्यवि ॥ १ ॥
सुरूपऽकृत्नुम् । ऊतये । सुदुघाम्ऽइव । गोऽदुहे ॥ जुहूमसि । द्यविऽद्यवि ॥ १ ॥
विष्णुं सुरूपकर्तारमभिप्रेतार्थसिद्धये । त्राणाय वा कामधेनुमिव दोहाय तत्स्थितेः ॥१६७॥
दिने दिने स्वाह्वयामः.......... ॥ १ ॥
उप नस्सवना गहि सोमस्य सोमपाः पिब ॥ गोदा इद्रेवतो मदः ॥ २ ॥
(उप । नः । सवना । आ । गहि । सोमस्य । सोमऽपाः । पिब ॥ गोऽदाः । इत् । रेवतः । मदः ॥ २ ॥)
................ज्ञानदोऽस्यैव चाधिकम् । ज्ञानाख्यरयियुक्तस्य हिरण्यादिमतोऽपि वा ॥ १६८॥
सुखकारी भवान् ......॥ २ ॥
विराड् गायत्री
अथा ते अन्तमानां विद्याम सुमतीनाम् ॥ मानो अतिख्य आगहि ॥ ३ ॥
(अथ । ते । अन्तमानाम् । विद्याम । सुऽमतीनाम् ॥ मा । नः । अति । ख्यः । आ । गहि ॥ ३ ॥)
.................तस्माल्लभेम सुमतीस्तव । अन्ते मितास्त्वद्विषया मतयो ह्युत्तमोत्तमाः ॥ अस्मानतीत्य मा पश्य करुणार्द्रदृशा सदा ॥१६९॥ ३ ॥
परेहि विग्रमस्तृतमिन्द्रम्पृच्छा विपश्चितम् ॥ यस्ते सखिभ्य आवरम् ॥ ४ ॥
(परा । इहि । विग्रम् । अस्तृतम् । इन्द्रम् । पृच्छा । विपःऽचितम् ॥ यः । ते । सखिऽभ्यः । आवरम् ॥ ४ ॥)
मन्मनो वाऽथ शक्रो वा दूरेऽपि परमेश्वरम् । गच्छाग्राह्यमनष्टं च व्याप्तचित्तं य एव च ॥ सखिभ्य उत्तमो नित्यम् ................॥ ४ ॥
उत ब्रुवन्तु नोनिदो निरन्यतश्चिदारत । दधाना इन्द्र इद्दुवः ॥ ५, ७ ॥
(उत । ब्रुवन्तु । नः । निदः । निः । अन्यतः । चित् । अरत ॥ दधानाः । इन्द्रे । इत् । दुवः ॥ ५, ७ ॥)
..................निदस्तस्य समीपगाः ॥ १७०॥
तेऽपि ब्रुवन्तु नो देवं प्रापुर्ये चान्यतोऽपि तम् । निर्गत्याज्ञानतस्त्वस्माद् दधाना ईश एव च । दुवः प्राणान् ब्रुवं त्वेव तेऽपि नः परमेश्वरम् ॥१७१॥५ ॥
उत नः सुभगा अरिर्वोचेयुर्दस्म कृष्टयः ॥ स्यामेदिन्द्रस्य शर्मणि ॥ ६ ॥
(उत । नः । सुऽभगान् । अरिः । वोचेयुः । दस्म । कृष्टयः । स्याम । इत् । इन्द्रस्य । शर्मणि ॥ ६ ॥)
अरयोऽपि प्रजा अस्मान् वोचेयुः सुभगान् सदा । शत्रुभेदिंस्तवेन्द्रस्य स्यामैवानुग्रहे सुखे ॥१७२॥ ६ ॥
एमाशुमाशवे भर यज्ञश्रियन्नृमादनम् ॥ पतयन्मन्दयत्सखम् ॥ ७ ॥
(आ । र्इम् । आशुम् । आशवे । भर । यज्ञऽश्रियम् । नृऽमादनम् । पतयत् । मन्दयत्ऽसखम् ॥ ७ ॥)
आशुवीर्य तवैवाशुं सोमं क्षिप्रं मनोऽपि वा । आभरस्वोदरे तुष्ट्या हृदि वा यज्ञभूषणम् ॥ १७३॥
ईमेव पुंमदकरं मदादुत्पतनादिके । हेतुं मन्दत्वहेतुं च तत्सखीनां पुरोगतेः ॥१७४॥७॥
अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः ॥ प्रावो वाजेषु वाजिनम् ॥ ८ ॥
(अस्य । पीत्वा । शतक्रतो इतिशतऽक्रतो । घनः । वृत्राणाम् । अभवः । प्र । आवः । वाजेषु । वाजिनम् ॥ ८ ॥)
एनं पीत्वा बहुज्ञानाभूस्तमोभिरनावृतः । प्रसादादेव मुक्तेषु तमो सह्यतया घनः ॥ १७५॥
आवृतेरेव वृत्राणि ह्यज्ञानान्यन्नदं नरम् । प्रावो युद्धेषु योद्धारं भक्तं ज्ञानिनमेव च ॥ १७६॥ ८ ॥
तन्त्वा वाजेषु वाजिनं वाजयामश्शतक्रतो । धनानामिन्द्र सातये ॥ ९ ॥
(तम् । त्वा । वाजेषु । वाजिनम् । वाजयामः । शतक्रतो इति शतक्रतो ॥ धनानाम् । इन्द्र । सातये ॥ ९ ॥)
योधयामो वयं तं त्वां ज्ञानादिधनलब्धये । अज्ञानाद्यस्मदरिभिः ..............॥ ९ ॥
यो रायो३ऽवनिर्महान्त्सुपारस्सुन्वतस्सखा ॥ तस्मा इन्द्राय गायत ॥ १०, ८, ४ ॥
(यः । रायः । अवनिः । महान् । सुऽपारः । सुन्वतः । सखा ॥ तस्मै । इन्द्राय । गायत ॥ १०, ८, ४ ॥)
............ योऽशेषद्रविणावनिः । सुखदः संसृतेः पारस्तस्मा इन्द्राय गायत ॥ १७७ ॥
कम्पोऽशेषग्रहे क्वापि लज्जायां वा पुरातने । पृथक्त्वे धृष्यतायां वा हरिणर्क्संहितोदितः ॥१७८ ॥ १० ॥
॥ इति चतुर्थं सूक्तम् ॥