ॐ ॥ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् ॥ होतारं रत्नधातमम्
अग्निसूक्तम्
मण्डलम्—१. अध्यायः –१. अनुवाकः–१. सूक्तम्–१.
अग्निं नवर्चम्, वैश्वामित्रो मधुच्छन्दा ऋषिः, गायत्री छन्दः, अग्निर्देवता
ॐ ॥ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् ॥ होतारं रत्नधातमम् ॥ १ ॥
(अग्निम् । ईळे । पुरःऽहितम् । यज्ञस्य । देवम् । ऋत्विजम् । होतारम् । रत्नऽधातमम् ॥ १ ॥)
अग्निशब्दोऽयमग्र एवाभिपूज्यताम् । अग्रयत्वमग्रनेतृत्वमत्तिमङ्गागनेतृताम् ॥ ९ ॥
आह तं स्तौम्यशेषस्य पूर्वमेव हितं प्रभुम् । ऋत्विङि्नयामकत्वेन यज्ञानामृत्विजं सदा ॥ १० ॥
द्योतनाद्विजयात् कान्त्या स्तुत्या व्यवहृतेरपि । गत्या रत्या च देवाख्यं होतृसंस्थं विशेषतः ॥ ११ ॥
अग्निसंस्थेन रूपेण यतोऽग्निर्होतृदेवता ।
इन्द्रियाग्निषु चार्थानां यद्धोता होतृनामकः ॥ रतिधारकोत्तमत्वात् स रत्नधातम ईरितः ॥ १२ ॥
पिपीलिका मध्या निचृद् गायत्री
अग्निः पूर्वेभिर्ऋषिभिरीड्यो नूतनैरुत॥ स देवा एह वक्षति ॥ २ ॥
(अग्निः । पूर्वेभिः । ऋषिऽभिः । ईड्यः । नूतनैः । उत ॥ सः देवान् । आ । इह । वक्षति ॥ २ ॥)
स पूर्वैर्नूतर्नैरेष्यैर्विज्ञानादृषिनामकैः । ईड्यो देवादिभिस्सर्वैस्स च देवानिहानयेत् ॥ १३ ॥॥
अग्निना रयिमश्नवत् पोषमेव दिवेदिवे । यशसं वीरवत्तमम् ॥३॥
(अग्निना । रयिम् । अश्नवत् । पोषम् । एव । दिवेऽदिवे ॥ यशसम् । वीरवत्ऽतमम् ॥ ३ ॥)
तेनैव रयिमाप्नोति वित्तं विद्याधनात्मकम् । दिवसे दिवसे नित्यं पुष्टिमेव न हीनताम् ॥ यशश्च पुत्रसंयुक्तं वीर्यवत्तममेव वा ॥ १४ ॥॥
अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि । स इद्देवेषु गच्छति ॥
(अग्ने । यम् । यज्ञम् । अध्वरम् । विश्वतः । परिऽभूः । असि ॥ सः । इत् । देवेषु । गच्छति ॥ ४ ॥)
यं यज्ञं परितो भूत्वा रक्षसि त्वं सदैव च । विधिमार्गस्थितं देवान् स एवाप्नोत्यसंशयम् ॥ १५ ॥
अग्निर्होता कविक्रतुस्सत्यश्चित्रश्रवस्तमः ॥ देवो देवेभिरागमत् ॥ ५, १ ॥
(अग्निः । होता । कविऽक्रतुः । सत्यः । चित्रश्रवःऽतमः ॥ देवः । देवेभिः । आ । गमत् ॥ ५, १ ॥)
सोऽखिलग्रहणप्रज्ञः सद्गुणैः सन्ततोऽखिलम् । यमयत्यग््रयकीर्तीनाम् उत्तमो विबुधैः सह । आगन्ताऽखिलभक्तानां पूजास्वीकारतत्परः ॥ १६ ॥ ॥
निचृद् गायत्री
यदङ्ग दाशुषे त्वमग्ने भद्रङ्करिष्यसि ॥ तवेत्तत् सत्यमङ्गिरः ॥ ६ ॥
(यत् । अङ्ग । दाशुषे । त्वम् । अग्ने । भद्रम् । करिष्यसि ॥ तव । इत् । तत् । सत्यम् । अङ्गिरः ॥ ६ ॥)
यजमानाय यद्भद्रं कर्तुमिच्छसि सत्प्रिय । त्वच्चेष्टयैव कर्माणि वर्तयित्वा तदीहनम् ॥ १७ ॥
तवैव सत्यमङ्गानां रसयद्वह्निगो हरिः । अङ्गिरा अङ्गिरःपुत्रो यतोऽग्निरभवत् क्वचित् ॥ १८ ॥
उप त्वाग्ने दिवेदिवे दोषावस्तर्धियावयम् ॥ नमो भरन्त एमसि ॥ ७ ॥
(उप । त्वा । अग्ने । दिवेऽदिवे । दोषाऽवस्तः । धिया । वयम् ॥ नमः । भरन्तः । आ । इमसि ॥ ७ ॥)
वस्तर्दिनमहोरात्रमभीष्ट प्राणिनां सदा । अल्पा अपि वयं बुद्ध्या त्वामुच्चगुणमीश्वरम् । उपयाम मनःकर्मवाग्भिस्त्वन्नमसम्भराः ॥ १९ ॥
यवमध्या विरा गायत्री
राजन्तमध्वराणा ङ्गोपामृतस्य दीदिविम् । वर्धमानं स्वे दमे ॥ ८ ॥
(राजन्तम् । अध्वराणाम् । गोपाम् । ऋतस्य । दीदिविम् ॥ वर्धमानम् । स्वे । दमे ॥ ८ ॥)
देदीप्यमानं स्वे सद्मन्यध्वरेशं सदावृधम् । यथार्थज्ञानगोपं त्वामुपेमसि पितेव नः ॥ २० ॥
विरा गायत्री
स नः पितेव सूनवेऽग्ने सूपायनो भव ॥ सचस्वानस्स्वस्तये ॥ ९, २, १ ॥
(सः । नः । पिताऽइव । सूनवे । अग्ने । सुऽउपायनः । भव ॥ सचस्व । नः । स्वस्तये ॥ ९,२,१ ॥)
इति बर्कश्रुतिश्चाह शक्रात् सप्ताक्षितिश्रुतिः ।
सूपाश्रयो भव त्वं च यद्वदौरससूनवे । रक्ष सन्ततसौख्याय सम्यक्सत्त्वाय वा सदा ॥ २१ ॥ ॥
मुनिस्तु सर्वविद्यानां भगवान् पुरुषोत्तमः । विशेषतश्च वेदानां ‘यो ब्रह्माणम्’ इति श्रुतिः ॥
ऋग्वेदादिकमस्यैव श्वसितं प्राह चापरा ॥ २२ ॥
‘वाचो बभूवुरुशतीर्हयग्रीवात्’ इति स्फुटम् । वचो भागवतेऽप्यस्ति ब्रह्माण्डेऽपि तथा परम् ॥ २३॥
हयग्रीवादिमा विद्याः श्वसितत्वेन निःसृताः । ब्रह्मणा स्वीकृतास्ताश्च रुद्रशेषविपा अपि ॥ २४ ॥
दक्षाद्याः सनकाद्याश्च शक्राद्या मनवस्तथा । जगृहुस्ते च विश्वस्मिंश्चक्रुर्व्याप्तास्ततोऽखिलाः ॥ २५ ॥
उक्तं पद्मपुराणे च ‘कपिलो भगवानजः । प्रोवाच ब्रह्मणे विद्याः’ ‘हृदिस्थो बादरायणः ॥ २६॥
ओङ्कारपूर्विका विद्याः प्रेरयत्यखिलेष्वपि । सदैव ब्रह्मणे पूर्वम्’ इति सात्वतसंहिता ॥ २७॥
सकृन्निगदमात्रेण गृहीतं ब्रह्मणाऽखिलम् । अन्तर्गतस्य व्यासस्य प्रसादान्नित्यशक्तितः ॥ २८ ॥
तेन चानन्तशक्तित्वात् युुगपत् समुदीरितम् । प्रथमप्रतिपत्तृत्वान्मुनिर्ब्रह्माऽखिलस्य च ॥ २९ ॥
सुपर्णोऽखिलवेदानां पञ्चरात्रस्य नागरा ।
द्वितीयप्रतिपत्तृत्वान्मुनित्वे सम्प्रकीर्तितौ ॥ ३० ॥
यः पश्यति स्वयं वाक्यं स ऋषिस्तस्य कीर्तितः । अर्वाक्तु द्वादशावृत्तेरधीत्याप्यृषिरेव सः ॥ ३१॥
यत्स्वयं प्रतिभातस्य संशयार्थं गुरोर्वचः । सुपर्णादेर्विरिञ्चस्य केवलं धर्मकारणम् ॥ ३२ ॥
ऋचामृषिस्ततः शक्रो यजुषां सूर्य एव च । सोमः साम्नां तृतीयास्ते प्रतिपत्तार ईरिताः ॥ ३३ ॥
अथर्वाङ्गिरसामग्निरेकर्षिश्चाप्यथर्वणाम् । इत्युक्ताः समुदायस्य सन्त्यन्ये च पृथक् पृथक् ॥ ३४ ॥
एतज्ज्ञानाददृष्टस्य फलस्याप्तिः स्फुटं भवेत् । द्रष्टॄणां तु चतुर्थानां ज्ञानादप्यैहिकं भवेत् ॥ ३५ ॥
ते चैकस्यापि बहवः स्युः सूक्तस्यर्च एव वा ॥
तस्यां तस्यामवस्थायां तत्तत्प्राप्तिविशेषतः ॥ ३६॥
तेषां वाक्यस्वरूपेण प्रार्थनादिषु पश्यति । विष्णुर्ब्रह्मा सुपर्णो वा तत्तद्योग्यार्थभेदतः ॥ ३७ ॥
सर्ववेदाभिमानित्वाच्छ्रीर्ब्रह्माणी च भारती । द्रष्ट्र्यश्च सर्वविद्यानां व्याख्यातो ब्रह्मणा मरुत् ॥ ३८ ॥
स्वभर्त्रनन्तरं द्रष्ट्र्यस्तेभ्यस्तन्नोदिता हिरुक् । ताः स्तुवन्ति हरिं नित्यं विद्याभिस्ते च सर्वशः ॥ ३९ ॥
छन्दस्त्वेन मुनित्वेन तासां स्मृतिरुदीरिता । स्मर्तव्यास्ते च सर्वेऽपि मुनित्वेन पृथक्पृथक् ॥ ४०॥
गायत्री बृहती चैव ताः सर्वा गरुडस्तथा । ब्रह्माण्यनुष्टुबिन्द्राणी त्रिष्टप् स्वाहेति चोच्यते ॥ ४१ ॥
गायत्री जगती चैव वारुणी रोहिणी तथा । अनुष्टुप् बृहती चैव तारा पङ्क्तिः शची तथा ॥ ४२ ॥
उष्णिक् सौरी जगत्यश्च सर्वदेवस्त्रियो मताः । विराण्मित्रावरुणयोर्भार्ये इति च कीर्तिते ॥ ४३ ॥
अतिछन्दांसि सर्वाणि सर्वदेव्यः प्रकीर्किताः । विराडिति च नामासां तास्ता ऊनाधिकेष्वपि ॥ ४४ ॥
निचृद् भुरिग् विरा सञ्ज्ञा प्रस्तारेत्यादि नाम च । बह्वीनामेकमानेन त्वेकं नाम च युज्यते ॥ सर्वाभिमानिता चैव तिसृणां तु यथाक्रमम् ॥ ४५ ॥
देवता सर्वविद्यानां स्वयं नारायणः प्रभुः । ऋते तत्र प्रसिद्धाश्च देवता श्रीस्तथाऽत्र च ॥ ४६ ॥
ऋते प्रसिद्धा ब्रह्मैव ततस्तेन क्रमेण च ।
पूर्वप्रसिद्धवर्जं तु शक्रान्ता देवता मताः ॥ ४७॥
ब्रह्मवायू गिरौ वीन्द्रशेषरुद्राश्च तत्स्त्रियः । शक्रकामौ कामपुत्रमनुदक्षाङ्गिरस्सुताः ॥ ४८ ॥
तद्वच्छची रतिः सूर्यसोमधर्मादितत्स्त्रियः । प्रधानमरुतो वारिपतिरग्निश्च मारुताः ॥ ४९ ॥
निर्ऋतिः स्त्रियश्च सूर्यादेरश्विनावितरे तथा । अनन्तकोटिशतकदशार्धाद्यंशतः क्रमात् ॥ ५० ॥
ज्ञानभक्तिबलैश्वर्यपूर्वाखिलगुणैरपि । मुक्तावपि क्रमो ह्येष देवता उदिता इमाः ॥ ५१ ॥
इन्द्रावरा विशेषेण लिङ्गेनैव पृथक्पृथक् । देवतास्तत्र तत्र स्युरेष एव परो विधिः ॥ ५२॥
वेदादिवर्णपर्यन्तैर्मूर्तयः केशवस्य तु । समासव्यासयोगेन वाच्यास्तात्पर्यतः पृथक् । यथायोगं यथान्यायमन्यासामपि मूर्तयः ॥ ५३ ॥
ऋक्संहितायां स्वाध्याये निरुक्ते व्यासनिर्मिते । प्रवृत्ते चैतदखिलमुक्तं हि प्रभुणा स्वयम् ॥ ५४ ॥
‘सर्वे वेदाश्च’ ‘नामानि’ ‘ता वा एता ऋचस्तथा । ‘इन्द्रं मित्रं वरुणम्’ इत्याद्यत्र प्रमा परा ॥ ५५ ॥
देवतातारतम्यं च सर्वोत्कृष्टं च केशवम् । ज्ञात्वैव मुच्यते ह्यस्मान्नान्यथा तु कथञ्चन ॥ ५६॥
इति पैङ्गिश्रुतिश्चाह दृश्यतेऽत्र च सर्वशः । ‘न ते महित्वम्’ इत्यादिनैश्वरानेव केवलान् । गुणान् विष्णोः श्रुतिर्ह्याह नैव दोषान् कथञ्चन ॥ ५७ ॥
‘जाता परिबभूव’ इति मर्यादां ब्रह्मणोऽपि हि । ‘नैव रेमे बिभेद् ब्रह्मा ‘नासीत्’ इत्यादिकानपि ॥ ५८ ॥
दोषान् रुद्रे च तानेव ‘न मिनन्ति’ इति पूर्वकान् । ‘यं कामये तं तमुग्रं’ ‘रुद्राय धनुः’ इत्यपि ॥ ५९ ॥
‘अस्य देवस्य’ ‘मा शिश्नदेवा अपि गुः’ इत्यपि । ‘घ्नञ्छिश्नदेवान्’ इत्याद्या दोषा बहव ईरिताः ॥ ६० ॥
‘ततो वितिष्ठे योनिः’‘स एतावत्यहम्’ इत्यपि । अन्याश्रयत्वं देव्याश्च कथितं बहुशोऽपि हि ।
तदाश्रयत्वमन्येषामपि तत्रैव निश्चयात् ॥ ६१ ॥
‘ब्रह्मैवाग्रे’ इति ह्युक्त्वा रुद्रादीनां ततो जनिः । उक्ता जातानि विश्वानि स पर्यभवदित्यपि । ‘यस्य च्छायामृतं मृत्युः’ इति चादरतोऽब्रवीत् ॥ ६२ ॥
अनन्तादवरेशाना तस्याः प्राणस्ततश्च वाक् । तस्या रुद्र उमा तस्मादिन्द्रस्तस्यास्ततोऽपरे । सौपर्णश्रुतिरित्याह सप्ताक्षितय इत्यपि ॥ ६३ ॥
वायुरस्मा उपामन्थद् विश्वदेवाय वायवे । विश्वैर्देवैः स इत्याद्याः प्रमा अत्रापरा अपि ॥ ६४ ॥
नारायणोऽदितिर्वायुर्वाणी रुद्र उमा विभुः । इतरे च क्रमाद्धीनाः शतांशाद्वायुतोऽवराः ॥ ६५ ॥
‘अयं त एमि तन्वेति’ पूर्वा अन्या अपि स्फुटम् ॥ वायोराधिक्यमप्याहुः
इन्द्रं सोमं हुताशनम् ॥ ६६ ॥
सूर्यं रुद्रमिमान्् पञ्च देवानेको महात्मनः । सृजत्यत्ति महान्प्राण इति चाह तुरश्रुतिः ॥ ६७ ॥
‘वि हि सोतोरसृक्षत नेन्द्रं देवममंसत । न यस्येन्द्रः’ इति ह्याह विष्णोरिन्द्रस्य हीनताम् ॥ ६८ ॥
‘वेधा अजिन्वत्’ इत्यादि वचनं विष्णुनामतः । आनन्दश्रुतिरप्यस्य जीवतामेव दर्शयेत् ॥ ६९ ॥
आह सूर्यादपीन्द्रस्य वायोर्विष्णोरपीशताम् । ‘यः सूर्यं य उषसम्’ ‘म्रियन्ते पञ्च देवताः’ ॥ ७० ॥
‘चक्षुषा द्यौश्चादित्यश्च’ ‘चक्षोः सूर्यो अजायत’ । ‘यमादित्यो न वेद’ इति पूर्वा श्रुतिरथापरा ॥ ७१ ॥
‘विष्णोर्वातोऽजनिष्ट वातादिन्द्रस्ततो रविः । सोमश्चेति लयोऽप्येवं पूर्वे पूर्वे गुणाधिकाः’ ॥ ७२ ॥
‘विष्णोः प्राणो अजनिष्ट प्राणादिन्द्रो रविर्विधुः । लयोऽप्येतादृशस्तेषां पूर्वः पूर्वो गुणाधिकः’ ॥ ७३ ॥
तुरश्रुतिश्च सौपर्णी पिङ्गश्रुतिरपीदृशी । अतः सर्वाधिको विष्णुर्निर्णीतः श्रुतिसञ्चयात् ॥ ७४ ॥
अतो दोषवचो यत्र तद्वाक्यमवरं वदेत् । निर्दोषतैव विष्णोस्तु क्रमान्मध्यगतेष्वपि ॥ ७५ ॥
‘त्रयोऽर्थाः सर्ववेदेषु दशार्थाः सर्वभारते । विष्णोः सहस्रनामापि निरन्तरशतार्थकम्’ ॥७६ ॥
इति स्कान्दवचो यस्मादर्थभेदव्यपेक्षया । निर्दोषत्वं हरेर्वक्ति दोषमन्येष्वपि क्रमात् ॥ ७७ ॥
तारतम्यस्य विज्ञप्त्यै वचो दोषस्य चार्थवत् ।
‘गुणाः श्रुताः’ इति ह्याह गुणैकनियतिं हरौ ॥ ७८ ॥
‘निर्दोषगुणपूर्णश्च विष्णुरेको न चापरः । अपूर्णा दोषरहिता मायैका तद्वशैव च ॥ ७९ ॥
अदोषः प्रायशो ब्रह्मा दोषवन्तः क्रमात् परे’ । इति मान्यश्रुतिश्चाह भेदोऽर्थानां ततो मतः॥ ८० ॥
रूढिमेव समाश्रित्य विभज्यार्थान् यथाक्रमम् । विदोषगुणपूर्त्यर्थं विष्णौ योगार्थमानयेत् ॥ ८१ ॥
पश्चादेव यथायोगमितरेष्वपि संनयेत् ।
ऋग्वेदसंहितायां च प्रभुणैवं समीरितम् ॥ ८२ ॥
पृथग्रूपाणि विष्णोस्तु देवतान्तरगाणि च । अग्न्यादिसूक्तवाच्यानि नाम्ना सूक्तभिदा भवेत् ॥ ८३ ॥
‘नकिर्माकिः स्मसि’ इत्यादि प्रोक्ताऽधिक्यविवक्षया । ‘आधिक्येऽधिकम्’ इत्येव हरिणा सूत्रमीरितम् ॥ ८४ ॥
‘कृत्वी हत्वी’ इति पूर्वाश्च ‘तृतीयोऽतिशये’ यतः । विश्लिष्टार्थे च विश्लिष्टमूनार्थे चोनमिष्यते। व्यत्ययोऽभेदकरणस्वातन्त्र्येषु समीरितः ॥ ८५ ॥
अभेदो हरिरूपाणां गुणानां च क्रियासु च । तस्यैवावयवानां च भेदः श्रीब्रह्मपूर्वकैः ॥ ८६ ॥
मुक्तैरपि जडैर्भेदः कैमुत्यादेव दृश्यते । ऋग्वेदसंहितायां च प्रोक्तमेतत्समस्तशः ॥ ८७ ॥
अभेदः स्वगुणाद्यैश्च मुक्तानामपि सर्वशः । भेदाभेदस्त्वभेदश्च गुणैः संसारिणामपि । जडानामंशतो भेदः समुदायेन चोभयम् ॥ ८८ ॥
मनुष्यगन्धर्वपितृगणकार्मिकतात्विकाः । देवाः शक्रः शिवो ब्रह्मा मुक्तौ सौख्यादिभिर्गुणैः ॥ ८९॥
शतायुतोत्तरा नित्यमन्योन्यप्रीतिसंयुताः । ’इति सिद्धान्तगं वाक्यं स्वयं भगवतेरितम् ॥ ९०॥
स्वाध्यायस्तत्त्वविज्ञानं विष्णुभक्तिर्विरागता । निषिद्धकर्मसन्त्यागो विहितस्य सदा क्रिया ॥ ९१॥
सदा विष्णुस्मृतिश्चैव केवलं मोक्षसाधनम् । एतैर्विना न मोक्षः स्याद्भवेदेतैरपि ध्रुवम् ॥ ९२॥
‘ऋषिच्छन्दोदैवतानि ज्ञात्वाऽर्थं चैव भक्तितः । स्वाध्यायेनैव मोक्षः स्याद्विरक्तस्य हरिस्मृतेः’ ॥ ९३॥
‘जप्येनैव तु संसिद्ध्येद् ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥’ ९४ ॥
‘तस्मान्नित्यं हरिं ध्यायन्कुर्यात् स्वाध्यायमञ्जसा ।’ ‘ऐहिकामुष्मिका भोगा रक्तस्यान्यस्तु मुच्यते ।’ इति स्वाध्यायवचनं स्वयं भगवतोदितम् ॥ ९५ ॥
स्वाध्यायात्तु प्रवचने सहस्रगुणितं फलम् । अर्थद्रष्टुः कोटिगुणं ततोऽनन्तं नियामके ॥ ९६ ॥
तर्कागमाभ्यां नियतिं यः करोत्यधिकं ततः । पूर्णं वेदाखिलद्रष्टुर्ब्रह्मणः फलमुच्यते ॥। ९७ ॥
स्तुत्यधर्मस्य भेदेन पदाद्यादिस्वरे भिदा । साधारणो विधिस्त्वेष विशेषो यत्र यत्र च ॥ ९९ ॥
क्रमादेव तदन्येषामृष्यादीनां स्वयोग्यतः ।
विपर्ययार्थकथने विपरीतं तथा तमः ॥ १०० ॥
यावत्प्रयोजको ज्ञाने तावत्तावच्छुभाधिकः । तथैव विपरीतेऽपि स्मृतौ ज्ञाने च तत्समम् ॥ १०१ ॥
तमोनिरयमानुष्यस्वर्गमोक्षातिरेकतः । योग्यतातारतम्येन फलं सर्वेषु चोच्यते । इति प्रवृत्तवचनं विवेकेऽप्येतदीरितम् ॥ १०२ ॥
यादृशो योग्यतां यायात् स ज्ञेयोऽर्थस्तथा स्फुटम् । अनन्तनियमैर्युक्ता अनन्तार्थविशेषिणः । वेदा इति समासेन नियमोऽयं समीरितः ॥ १०३ ॥
ऋक्संहितागतं वाक्यमिति चान्यन्नियामकम् ।
तस्माद्वन्द्याश्च पूज्याश्च ब्रह्माद्या ज्ञानयोजकाः । गुरुत्वेन क्रमादेव विशेषेणैव केशवः ॥ १०४ ॥
आरभ्य स्वगुरुं यावद्विष्णुरेवोत्तरोत्तराः । क्रमान्निष्फलताऽन्यत्र गुरुतत्त्वे समीरिता ॥ १०५ ॥
एवं स्थितेऽग्निगं विष्णुमग्निनामानमेव च । मधुच्छन्दा ऋक्शतेन वाय्वादिगतमेव च । साग्न्यादिं स्तौति सद्भक्त्या तत्तन्नामानमेव च ॥ १०६ ॥