ऐभिरग्ने दुवो गिरो विश्वेभिस्सोमपीतये ॥ देवेभिर्याहि यक्षि च
वैश्वदेवसूक्तम्
मण्डलम् –१.अध्यायः–१. अनुवाकः–४.सूक्तम्– १४.
ऐभिरग्ने द्वादश, मेधातिथिः काण्वः ऋषिः, गायत्री विश्वेदेवाः देवताः
ऐभिरग्ने दुवो गिरो विश्वेभिस्सोमपीतये ॥ देवेभिर्याहि यक्षि च ॥ १ ॥
(आ । एभिः । अग्ने । दुवः । गिरः । विश्वेभिः । सोमऽपीतये ॥ देवेभिः । याहि । यक्षि । च ॥ १ ॥)
...............कामदोहा दुवः स्मृताः ॥ १ ॥
आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः ॥ देवेभिरग्न आगहि ॥ २ ॥
(आ । त्वा । कण्वाः । अहूषत । गृणन्ति । विप्र । ते । धियः ॥ देवेभिः । अग्ने । आ । गहि ॥ २ ॥)
इन्द्रवायू बृहस्पतिम्मित्राग्निम्पूषणम्भगम् ॥ आदित्यान्मारुतङ्गणम् ॥ ३ ॥
(इन्द्रवायू इति । बृहस्पतिम् । मित्रा । अग्निम् । पूषणम् । भगम् ॥ आदित्यान् । मारुतम् । गणम् ॥ ३ ॥)
बृहन्पतिर्बृहत्या वा वाच एव बृहस्पतिः ॥२८८॥
मित्रेति मित्रावरुणौ पूषा नाम स पोषणात् । पूर्णत्वाद्वा भगः प्रोक्तः पूर्णैश्वर्यादिकत्वतः ॥ २८९ ॥
आदिस्थत्वात् स आदित्य आददानः प्रयाति वा । बहुरूपत्वतश्चैव मानोक्तत्वात्तु मारुतः ॥ २९० ॥ ३ ॥
प्रवो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः ॥ द्रप्सा मध्वश्चमूषदः ॥ ४ ॥
(प्र । वः । भ्रियन्ते । इन्दवः । मत्सराः । मादयिष्णवः ॥ द्रप्साः । मध्वः । चमूऽसदः ॥ ४ ॥)
मत्सरा मदकारित्वात्ताच्छील्यादुत्तरं पदम् । द्रप्सास्ते द्रवणाच्चैव चमसस्थाश्चमूषदः । शिरश्च चमसं प्रोक्तमिष्टदानात् तथेन्दवः ॥ २९१॥ ४ ॥
ईते त्वाम् अवस्यवः कण्वासः वृक्तऽबर्हिषः ॥ हविष्मन्तो अरङ्कृतः ॥ ५ ॥
(ईते । त्वाम् । अवस्यवः । कण्वासः । वृक्तऽबर्हिषः ॥ हविष्मन्तः । अरम्ऽकृतः । ५ ॥)
अवस्युर्यजमानः स्यादवनार्थप्रवृत्तितः । आत्मस्थं वा बहुवचो बहवो मुनयोऽत्र वा ॥२९२॥
उत्तराणां वचस्त्वेन स्वयं वदति चेश्वरः । अरङ्कृतोऽतिकर्तारस्त्वलङ्कर्तार एव वा ॥ २९३॥५ ॥
घृतपृष्ठा मनोयुजो ये त्वा वहन्ति वह्नयः ॥ आ देवान् सोमपीतये ॥ ६, २६ ॥
(घृतऽपृष्ठाः । मनःऽयुजः । ये । त्वा । वहन्ति । वह्नयः ॥ आ । देवान् । सोमऽपीतये ॥ ६, २६ ॥)
स्निग्धपृष्ठाः समारूढा हरिणा वा विदोषिणा । मनोमात्रेण योज्याश्च त्वां देवांश्च वहन्ति ये ॥ २९४॥६॥
तान्यजत्रा ऋतावृधोऽग्ने पत्नीवतस्कृधि ॥ मध्वस्सुजिह्व पायय ॥ ७ ॥
(तान् । यजत्रान् । ऋतऽवृधः । अग्ने । पत्नीऽवतः । कृधि ॥ मध्वः । सुऽजिह्व । पायय ॥ ७ ॥)
तैर्देवान् यजतः स्तोतॄन् ज्ञातेन ब्रह्मणैधितान् । पत्नीभिर्योजया गन्तुं सह मध्वश्च पायय ॥ ७ ॥
निचृद् गायत्री
ये यजत्रा य ईड्यास्तेते पिबन्तु जिह्वया ॥ मधोरग्ने वषकृति ॥ ८ ॥
(ये । यजत्राः । ये । ईड्याः । ते । ते । पिबन्तु । जिह्वया ॥ मधोः । अग्ने । वषऽकृति ॥ ८ ॥)
ते षष्ठ्यतोऽनुदात्तः स्यादुदात्तो बहुवाचकः । आवृत्तस्तु भवेदर्थस्ते पिबन्तु वषकृतौ ॥ २९६॥८ ॥
आकीं सूर्यस्य रोचनाद्विश्वान् देवा उषर्बुधः ॥ विप्रो होतेह वक्षति ॥ ९ ॥
(आकीम् । सूर्यस्य । रोचनात् । विश्वान् । देवान् । उषःऽबुधः ॥ विप्रः । होता । इह । वक्षति ॥ ९ ॥)
सूर्यस्य रोचनात् स्वर्गादावक्षत्यग्निरिन्दुपान् । उषःप्रकाशनाद् ब्रह्म तद्विदस्त उषर्बुधः ॥ ९ ॥
विश्वेभिस्सोम्यम्मध्वग्न इन्द्रेण वायुना ॥ पिबा मित्रस्य धामभिः ॥ १० ॥
(विश्वेभिः । सोम्यम् । मधु । अग्ने । इन्द्रेण । वायुना ॥ पिब । मित्रस्य । धामऽभिः ॥ १० ॥)
देवास्ते विष्णुधामत्वान्मित्रधामान ईरिताः ॥ २९७ ॥ १० ॥
त्वं होता मनुर्हितोऽग्ने यज्ञेषु सीदसि ॥ सेम नो अध्वरं यज ॥ ११ ॥
(त्वम् । होता । मनुःऽहितः । अग्ने । यज्ञेषु । सीदसि ॥ सः । इमम् । नः । अध्वरम् । यज ॥ ११ ॥)
निचृद् गायत्री
युक्ष्वा ह्यरुषी रथे हरितो देव रोहितः ॥ ताभिर्देवा इहावह ॥ १२, २७, १४ ॥
(युक्ष्व । हि । अरुषीः । रथे । हरितः । देव । रोहितः ॥ ताभिः । देवान् । इह । आ । वह ॥ १२ ॥)
अग्निवाहा अश्वतर्यो दूर्वापद्माग्निसप्रभाः । लोहिताः क्वचिदश्वाश्च रोहिन्मृग्योऽपि कुत्रचित् ॥ २९८॥ १२,२७,१४॥
॥ इति चतुर्दशं सूक्तम् ॥