वायवायाहि दर्शतेमे सोमा अरङ्कृताः ॥ तेषाम्पाहि श्रुधी हवम्
वायुसूक्तम्
मण्डलम्—१. अध्यायः –१.अनुवाकः–१. सूक्तम्–२.
वायो नवर्चम् , मधुच्छन्दा वैश्वामित्रः ।१-३ वायुः,४-६ इन्द्रवायू, ७-९ मैत्रावरुणः, गायत्री छन्दः ।
पिपीलिकामध्या निचृद् गायत्री
वायवायाहि दर्शतेमे सोमा अरङ्कृताः ॥ तेषाम्पाहि श्रुधी हवम् ॥ १ ॥
(वायो इति । आ । याहि । दर्शत । इमे । सोमाः । अरम्ऽकृताः ॥ तेषाम् । पाहि । श्रुधि । हवम् ॥ १ ॥)
बलत्वादयनाच्चैव वायुरित्यभिधीयते । वात्यायुरिति वा ज्ञानात् वरणादाश्रयत्वतः ॥ १०७ ॥
‘वय बन्धने’ इत्यस्मात् संसारादेर्व्ययादपि । व्येत्यस्मिन्निति वा वायुः ‘वय श्रेष्ठत्वे’ इत्यपि ॥१०८॥
मुख्यतो वासुदेवे ते गुणाः सन्त्येव सर्वशः । अनिषिद्धास्तदन्येषु यथायोग्यतया मताः ॥ १०९ ॥
दर्शतस्ततदृष्टित्वात् सर्वज्ञोऽसौ यतो विभुः । भक्त्या ह्यलङ्कृताः सोमा मनांसि अन्ये हिरण्यतः ॥ हिरण्यालङ्कृता यस्माद्धूयन्ते वायवे सुताः ॥ ११० ॥
तान् पाहि श्रुधि चाह्वानं स्वातन्त्र्ये व्यत्ययोऽप्ययम् । मनोऽपि भोग्यमीशस्य प्रीतिमात्रेण केवलम् ॥ १११ ॥
गुणाधिक्यं येन भवेद् वेदस्यार्थः स एव हि । प्रयोजकत्वान्नान्यस्य फलाभावात्तदर्थता ॥ ११२॥
उपक्रमादयो यत्र तात्पर्यार्थस्स एव हि ॥ स्तुवन्ति शस्त्रैः स्तोतारो यथावद्यज्ञवेदिनः ॥ ११३ ॥ २॥
पिपीलिका मध्या निचृद् गायत्री
वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः । सुतसोमा अहर्विदः ॥ २ ॥
(वायो इति । उक्थेभिः । जरन्ते । त्वाम् । अच्छ । जरितारः ॥ सुतऽसोमाः । अहःऽविदः ॥ २ ॥)
वायो तव प्रपृञ्चती धेना जिगाति दाशुषे ॥ उरूची सोम पीतये ॥ ३ ॥
(वायो इति । तव । प्रऽपृञ्चती । धेना । जिगाति । दाशुषे ॥ उरूची । सोमऽपीतये ॥ ३ ॥)
वाक् त्वत्स्मम्पर्किणी यज्ञकृते प्रापयतीप्सितम् । सोमपायातिमहती महार्थत्वात्त्वदर्थतः ॥ ११४॥३ ॥
इन्द्रवायू देवते
इन्द्रवायू इमे सुता उपप्रयोभिरागतम् । इन्दवो वामुशन्ति हि ॥ ४ ॥
(इन्द्रवायू इति । इमे । सुताः । उप । प्रयःऽभिः । आ । गतम् । इन्दवः । वाम् । उशन्ति । हि ॥ ४ ॥)
इन्द्रः स परमैश्वर्यादिदमुद्दिश्य च द्रुतेः । ददर्शेदं दीप्तिमत्त्वादिदं रातीति वा भवेत् ॥ ११५ ॥
सोमाभिमानिनो देवा वामिच्छन्ति हि सोमगाः ।
प्रियैरुपागतं तेनोपेन्द्रः सङ्कर्षणो हरिः ॥ ११६ ॥
द्विरूपत्वाद् बहुत्वं च विशेषादेव केवलम् । एकस्यैव हरेर्नात्र भेदः शङ्क्यः कथञ्चन ॥ ११७ ॥
एकमेवाद्वितीयं तत् ‘नेह नानास्ति किञ्चन ।’ ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥११८ ॥
‘यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक् पश्यंस्तानेवानु विधावति’॥ ११९ ॥
उक्त्वा धर्मान् पृथक्त्वस्य निषेधादेवमेव हि । विशेषो ज्ञायते श्रुत्या भेदादन्यश्च साक्षितः ॥१२०॥४ ॥
वायविन्द्रश्च चेतथस्सुतानां वाजिनीवसू । तावायातमुपद्रवत् ॥ ५, ३ ॥
(वायो इति । इन्द्रः । च । चेतथः । सुतानाम् । वाजिनीवसू इति वाजिनीऽवसू ॥ तौ । आ । यातम् । उप । द्रवत् ॥ ५, ३ ॥)
विजानतः सुतानन्नपतौ सूर्ये सदा स्थितौ । द्रवद्द्रुतं सुतात्पर्यद्योतकोऽभ्यास इष्यते ॥१२१॥ ५, ३ ॥
निचृद् गायत्री
वायविन्द्रश्च सुन्वत आयातमुपनिष्कृतम् ॥ मक्ष्वि१त्था धिया नरा ॥ ६ ॥
(वायो इति इन्द्रः । च । सुन्वतः । आ । यातम् । उप । निःऽकृतम् ॥ मक्षु । इत्था । धिया । नरा ॥ ६ ॥)
यजन् सुन्वन् कृतस्यानुसारिकर्मैव निष्कृतम् । तदर्थं क्षिप्रमायातं धियेत्थम्भूतयाचलौ ॥ १२२॥
नरौ तावविनाशित्वादुपचारः क्वचिद्भवेत् । अमरत्ववद्यतो मोक्षो देवतानां सुनिश्चितः ॥ १२३॥ ६ ॥
मित्रावरुणौ देवते
मित्रं हुवे पूतदक्षं वरुणञ्च रिशादसम् ॥ धियङ्घृताचीं साधन्ता ॥ ७ ॥
(मित्रम् । हुवे । पूतऽदक्षम् । वरुणम् । च । रिशादसम् ॥ धियम् । घृताचीम् । साधन्ता ॥ ७ ॥)
मित्वा त्रातीति मित्रोऽयं मितमह्ना करोति वा । मितं रातीति वा नित्यं मितं रमयतीति वा ॥ १२४ ॥
आवृणोतीति वरुणस्तमसाऽज्ञानतोऽपि वा । वरमुन्नयतीत्यस्मात् वरानन्दत्वतोऽपि वा ॥ १२५ ॥
पूता दक्षा अनेनेति पूतदक्ष इतीरितः ।
तमाह्वयामि सुखिनं शमदन् रमते यतः । अनूनसुखभोक्तृत्वाद् रिशादा इति कीर्तितः ॥ १२६ ॥
हरिर्घृतः सुशुद्धत्वाद् घृताची च तदञ्चनात् । स्वधीतिसाधको विष्णुर्भक्तानां च यथार्थतः ॥ १२७ ॥॥
ऋतेन मित्रावरुणावृतावृधावृतस्पृशा ॥ क्रतुम्बृहन्तमाशाथे ॥ ८ ॥
(ऋतेन । मित्रावरुणौ । ऋतऽवृधौ । ऋतऽस्पृशा ॥ क्रतुम् । बृहन्तम् । आशाथे इति ॥ ८ ॥)
नित्यवृद्धः स भगवानृतेनानुपचारतः । ऋतस्पृक् वेदवाच्यत्वात् अन्यौ चेद्भगवान् ऋतः । ऋ गतावित्यतः सर्ववस्तुष्वनुगतत्वतः ॥ १२८ ॥
तेन वृद्धौ तत्स्पृशौ च सर्वदा मित्रवारिपौ ॥
संहितायां तु दैर्ध्यादिरुक्ताधिक्ये पदेऽन्यथा ॥ १२९ ॥
अनन्यार्थत्वविज्ञप्त्यै ईशाथे च महाक्रतुम् ।
महत्सुखं वा ........................... ॥ ८ ॥
कवीनो मित्रावरुणा तुविजाता उरुक्षया । दक्षन्दधाते अपसम् ॥ ९, ४, २ ॥
(कवी इति । नः । मित्रावरुणा । तुविऽजातौ । उरुऽक्षया ॥ दक्षम् । दधाते इति । अपसम् ॥ ९, ४, २ ॥)
............ तुविजौ ब्रह्मजातौ तथाविधौ । हरिस्तथैव भूतत्वात् स्थानं क्षय इहोच्यते ॥१३०॥
कर्मापसं च कर्तारं दक्षं कर्तारमेव वा । अस्मदर्थे दधाते तौ नित्यं बुद्धौ गतागतौ ॥ १३१॥
॥ इति द्वितीयं सूक्तम्॥