इन्द्रेहि मत्स्यन्धसो विश्वेभिस्सोमपर्वभिः ॥ महा अभिष्टिरोजसा
ऐन्द्रसूक्तम्
मण्डलम्–१,अध्यायः–१.अनुवाकः–३. सूक्तम्—९.
इन्द्रेहि दशर्चम् , ऋषिः - मधुच्छन्दाः, गायत्री छन्दः, इन्द्रो देवता
निचृद् गायत्री
इन्द्रेहि मत्स्यन्धसो विश्वेभिस्सोमपर्वभिः ॥ महा अभिष्टिरोजसा ॥ १ ॥
(इन्द्र । आ । इहि । मत्सि । अन्धसः । विश्वेभिः । सोमपर्वऽभिः ॥ महान् । अभिष्टिः । ओजसा ॥ १ ॥)
सोमपाः सोमपर्वाणः सर्वं यस्मात्तदिच्छया । अभिष्टिरोजसा नित्यं मदं सुखमवाप्स्यसि ॥२२५ ॥ १ ॥
एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने ॥ चक्रिं विश्वानि चक्रये ॥ २ ॥
(आ । र्इम् । एनम् । सृजत । सुते । मन्दिम् । इन्द्राय । मन्दिने ॥ चक्रिम् । विश्वानि । चक्रये ॥ २ ॥)
एनमासृजतेन्दौ च विष्णुं तं मदकारिणम् । मन्दिने विष्णवे सम्यक्कर्मिणं सर्वकर्मिणे ॥ २२६॥२॥
निचृद् गायत्री
मत्स्वा सुशिप्र मन्दिभिस्स्तोमेभिर्विश्वचर्षणे ॥ सचैषु सवनेष्वा ॥ ३ ॥
(मत्स्व । सुऽशिप्र । मन्दिऽभिः । स्तोमेभिः । विश्वऽचर्षणे ॥ सचा । एषु । सवनेषु । आ ॥ ३ ॥)
स्वानन्द विश्वजीवेश मत्स्वास्मद्रक्षया सह ॥ ३ ॥
असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत । अजोषा वृषभं पतिम् ॥ ४ ॥
(असृग्रम् । इन्द्र । ते । गिरेः । प्रति । त्वाम् । उत् । अहासत ॥ अजोषाः । वृषभम् । पतिम् ॥ ४ ॥)
त्वन्निस्सृता वेदवाचस्त्वां प्रत्येवाप्यनारतम् ॥ २२७ ॥
उच्चैर्मुख्यतया सम्यग्विसृष्टाः स्वपतिं प्रति । अजोषाः स्तुत्यरूपेण त्वत्सेव्यास्त्वदृते क्वचित् ॥ २२८॥४ ॥
सञ्चोेदय चित्रमर्वाग्राध इन्द्र वरेण्यम् ॥ असदित्ते विभु प्रभु॥ ५, १७ ॥
(सम् । चोदय । चित्रम् । अर्वाक् । राधः । इन्द्र । वरेण्यम् ॥ असत् । इत् । ते । विऽभु । प्रऽभु ॥ ५, १७ ॥)
अर्वाङ् नीचान् प्रति त्वस्मान् भद्रं राधः प्रचोदय । अस्त्येव ते विशेषेण प्रकृष्टं शुभमच्युतम् ॥ २२९॥५॥
पिपीलिका मध्या निचृद् गायत्री
अस्मान्त्सु तत्र चोदयेन्द्र राये रभस्वतः ॥ तुविद्युम्न यशस्वतः ॥ ६ ॥
(अस्मान् । सु । तत्र । चोदय । इन्द्र । राये । रभस्वतः । तुविऽद्युम्न । यशस्वतः ॥ ६ ॥)
रभस्वतः शब्दवतः स्तोतॄनस्मान् यशस्वतः । तत्र त्वयि महाराये महाकीर्ते सुचोदय ॥ २३०॥६ ।
निचृद् गायत्री
सङ्गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत् ॥ विश्वायुर्धेह्यक्षितम् ॥ ७ ॥
(सम् । गोऽमत् । इन्द्र । वाजऽवत् । अस्मे इति । पृथु । श्रवः । बृहत् ॥ विश्वऽआयुः । धेहि । अक्षितम् ॥ ७ ॥)
अस्मास्वतिबृहज्ज्ञानं नित्यं सन्धेहि चाक्षयम् ॥ ७ ॥
अस्मे धेहि श्रवो बृहद् द्युुम्नं सहस्रसातमम् ॥ इन्द्र ता रथिनीरिषः ॥ ८ ॥
(अस्मे इति । धेहि । श्रवः । बृहत् । द्युम्नम् । सहस्रऽसातमम् ॥ इन्द्र । ताः । रथिनीः । इषः ॥ ८ ॥)
विद्यां कीर्तिं सदेहान्नं बहुलाभयुतं बृहत् । प्रार्थने पौनरुक्त्यं न चोदयेति ततः पुनः ॥२३१॥८ ॥
वसोरिन्द्रं वसुपतिङ्गीर्भिर्गृणन्त ऋग्मियम् ॥ होम गन्तारमूतये ॥ ९ ॥
(वसोः । इन्द्रम् । वसुऽपतिम् । गीःऽभिः । गृणन्तः । ऋग्मियम् ॥ होम । गन्तारम् । ऊतये ॥ ९ ॥)
वसोर्वसूनां च पतिं देवदेवेश्वरं प्रभुम् । ऋङ्मेयमाह्वयामोऽत्र गृणन्तोऽभीष्टसिद्धये ॥२३२॥९ ॥
निचृद् गायत्री
सुतेसुते न्योकसे बृहद् बृहत एदरिः । इन्द्राय शूषमर्चति ॥ १०, १८, ९ ॥
(सुतेऽसुते । निऽओकसे । बृहत् । बृहते । आ । इत् । अरिः ॥ इन्द्राय । शूषम् । अर्चति ॥ १०, १८, ९॥)
अविनाश्यरिरुद्दिष्टो बृहच्छूषं सुखं प्रति । सुते सुते सद्गृहाय देवाय बृहतेऽर्चति ॥ २३३ ॥ १० ॥
॥ इति नवमं सूक्तम् ॥