युञ्जन्ति ब्रध्नमरुषञ्चरन्तम्परि तस्थुषः ॥ रोचन्ते रोचना दिवि
इन्द्रसूक्तम्
मण्डलम्—१.अध्यायः–१.अनुवाकः–२. सूक्तम्—६.
द्वितीयानुवाके तृतीयं सूक्तम् । युञ्जन्ति दशर्चम् , वैश्वामित्रो मधुच्छन्दाः ऋषिःः १-२,४ मरुतः, ३-५ इन्द्रमरुतौ, ६-१० इन्द्रो देवता गायत्रीछन्दः (१२ विरा, ४.८ निचृत्)
युञ्जन्ति ब्रध्नमरुषञ्चरन्तम्परि तस्थुषः ॥ रोचन्ते रोचना दिवि ॥ १ ॥
(युञ्जन्ति । ब्रध्नम् । अरुषम् । चरन्तम् । परि । तस्थुषः । रोचन्ते । रोचना । दिवि ॥ १ ॥)
पौंस्यानि वासुदेवस्य ब्रध्नं वृद्धं दिवाकरम् । अरुणं चरन्तं परितो गिरीन्युञ्जन्ति सर्वदा ॥ १९२ ॥
तैरेवान्यानि चन्द्रादि रोचनानि त्रिविष्टपे । रोचयन्ति ॥ १ ॥
विराड् गायत्री
युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ॥ शोणा धृष्णू नृवाहसा ॥ २ ॥
(युञ्जन्ति । अस्य । काम्या । हरी इति । विऽपक्षसा । रथे ॥ शोणा । धृष्णू इति । नृऽवाहसा ॥ २ ॥)
.........हरी चास्य मनोबुद्धी स्वशक्तयः । युञ्जन्त्यधिगुणत्वेन काम्यावश्वावथापि वा ॥ १९३ ॥
विशिष्टपक्षसंयुक्ताविव क्षिप्रतरौ सदा । रथे देहेऽपि वा देवाः स्वमनो बुद्धिमेव च ॥ १९४ ॥
अस्य देहे प्रयुञ्जन्ति सूर्यादीन् स्थापयन्ति च । सूर्यादिस्थापकत्वं च ब्रह्मादीनां भवेत् सदा ॥ १९५॥
शोणौ च शमणौ प्रोक्तौ सुखप्राप्तौ यतस्सदा । श्यामौ मूर्धनि शोणौ च शक्राश्वावग्रगौ स्मृतौ ॥
धृष्टौ नॄन् प्रति तं वेशं वहन्तौ तावुभावपि ॥ १९६॥२ ॥
इन्द्रो मरुतश्च देवताः
केतुङ्कृण्वन्नकेतवे पेशो मर्या अपेशसे ॥ समुषद्भिरजायथाः ॥ ३ ॥
(केतुम् । कृण्वन् । अकेतवे । पेशः । मर्याः । अपेशसे ॥ सम् । उषत्ऽभिः । अजायथाः ॥ ३ ॥)
अज्ञाय कुर्वन् सज्ज्ञानं हेमाहेमाय चेश्वरः । उषद्भिः सम्प्रकाशद्भिः शक्तिभिर्व्यक्ततामगाः ॥ १९७ ॥
मर्या मरणवन्तोऽपि देवा एवम् ............॥ ३ ॥
निचृद् गायत्री, मरुतः देवताः
आदहस्वधामनु पुनर्गर्भत्वमेरिरे ॥ दधाना नाम यज्ञियम् ॥ ४ ॥
(आत् । अह । स्वधाम् । अनु । पुनः । गर्भऽत्वम् । आऽर्इरिरे ॥ दधानाः । नाम । यज्ञियम् ॥ ४ ॥)
.......................हरेर्वशात्॥ तदैव सुखमन्वेव पुनर्गूढत्वमापिरे ॥ १९८॥
स्वेच्छयैव परेशस्य शक्तयो देवता अपि । यज्ञे वाच्यं दधानाश्च नाम ........ ॥ ४ ॥
इन्द्रो मरुतश्च देवताः
वीळुचिदारुजत्नुभिर्गुहाचिदिन्द्र वह्निभिः ॥ अविन्द उस्रिया अनु ॥ ५, ११ ॥
(वीळु । चित् । आरुजत्नुऽभिः । गुहा । चित् । इन्द्र । वह्निऽभिः ॥ अविन्दः । उस्रियाः । अनु ॥ ५,११ ॥)
....................... वीु दृढं ह्यपि ॥ १९९ ॥
आरुजद्भिः स्वसामर्थ्यैर्गुहायां संस्थितोऽपि सन् । वहद्भिरखिलं लोकं प्रकाशत्वानि लब्धवान् ।
देवैर्वैतादृशैः साकमानुकूल्येन लब्धवान् ॥ २००॥ ५॥
इन्द्रो देवता
देवयन्तो यथा मतिमच्छा विदद्वसुङ्गिरः ॥ महामनूषत श्रुतम् ॥ ६ ॥
(देवऽयन्तः । यथा । मतिम् । अच्छ । विदत्ऽवसुम् । गिरः ॥ महाम् । अनूषत । श्रुतम् ॥ ६ ॥)
सम्यक्प्रद्योतयन्तोऽमुं मतिरूपं यथास्थितम् । विदद्वित्तं महान्तं च विश्रुतं सुगिरोऽस्तुवन् ॥ २०१ ॥ ६ ॥
इन्द्रो देवता
इन्द्रेण सं हि दृक्षसे सञ्जग्मानो अबिभ्युषा ॥ मन्दू समानवर्चसा ॥ ७ ॥
(इन्द्रेण । सम् । हि । दृक्षसे । सम्ऽजग्मानः । अबिभ्युषा ॥ मन्दू इति । समानऽवर्चसा ॥ ७ ॥)
तस्य सन्दर्शनायैव सङ्गतस्तेन शङ्करः । मखात्मा पुरुहूतो वा श्रीभूमी च सुखात्मिके ॥ २०२ ॥७ ॥
निचृद् गायत्री, इन्द्रो देवता
अनवद्यैरभिद्युभिर्मखस्सहस्वदर्चति ॥ गणैरिन्द्रस्य काम्यैः ॥ ८ ॥
(अनवद्यैः । अभिद्युऽभिः । मखः । सहस्वत् । अर्चति ॥ गणैः । इन्द्रस्य । काम्यैः ॥ ८ ॥)
अनवद्यैर्महाज्ञानैः प्रियैर्देवगणैः सह । वायुना च सहार्चन्ति सुधीत्वात् परमेश्वरम् ॥२०३ ॥ ८ ॥
इन्द्रो देवता
अतः परिज्मन्नागहि दिवो वा रोचनादधि ॥ समस्मिन्नृञ्जते गिरः ॥ ९ ॥
(अतः । परिऽज्मन् । आ । गहि । दिवः । वा । रोचनात् । अधि ॥ सम् । अस्मिन् । ऋञ्जते । गिरः ॥ ९ ॥)
अतो हेतोरिहायाहि दिवो वा सूर्यमण्डलात् । परिज्मन् सर्वगास्माकमधिकृत्य समर्हणम् ॥ अस्मिन् गिरः प्राप्नुवन्ति सम्यक्परममुख्यतः ॥ २०४ ॥
युञ्जन्तीत्यत्र बाहुल्यात् देवयन्तोत इत्यपि । बाहुल्यादृ(ल्यात् दृष्टि)ष्टितो गीर्भिर्विनाऽर्थो नान्य इष्यते ॥ २०५॥ ९ ॥
इतो वा सातिमीमहे दिवो वा पार्थिवादधि ॥ इन्द्रं महो वा रजसः ॥ १०, १२, ६ ॥
(इतः । वा । सातिम् । ईमहे । दिवः । वा । पार्थिवात् । अधि ॥ इन्द्रम् । महः । वा । रजसः ॥ १०, १२, ६ ॥)
इतो दिवो वा पातालात् सातिं लाभस्वरूपिणम् । महतो रञ्जकात् विष्णोर्लोकाद्वा तमधीमहे ॥ २०६ ॥ १०,१२,६ ॥
॥ इति षष्टं सूक्तम् ॥