गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः ॥ ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे

ऐन्द्रसूक्तम्

मण्डलम्–१,अध्यायः–१.अनुवाकः–३. सूक्तम् – १०

तृतीयानुवाके तृतीयं सूक्तम् ऐन्द्रसूक्तम् गायन्ति द्वादश मधुच्छन्दाः अनुष्टुप्, इन्द्रो देवता

गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः ॥ ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे ॥ १ ॥

(गायन्ति । त्वा । गायत्रिणः । अर्चन्ति । अर्कम् । अर्किणः ॥ ब्रह्माणः । त्वा । शतक्रतो इति शतऽक्रतो । उत् । वंशम्ऽइव । येमिरे ॥ १ ॥)

गायन्ति सामगास्त्वृग्भिः शंसन्त्यृग्वेदिनोऽन्तिकम् । विरिञ्चास्त्वां बहुज्ञान शक्रकेतुमिवोच्छ्रितम् ॥ २३४ ॥

व्यजानन् .............. ॥ १ ॥

यत्सानोस्सानुमारुहद् भूर्यस्पष्ट कर्त्वम् । तदिन्द्रो अर्थञ्चेतति यूथेन वृष्णिरेजति ॥ २ ॥

(यत् । सानोः । सानुम् । आ । अरुहत् । भूरि । अस्पष्ट । कर्त्वम् ॥ तत् । इन्द्रः । अर्थम् । चेतति । यूथेन । वृष्णिः । एजति ॥ २ ॥)

..........उच्चतोऽप्युच्चं सामर्थ्यं करणे तव । ततोऽपि भूरि यत्तेन चेतत्यर्थमतो भवान् ॥ मुक्तामुक्तसमूहेन शोभते गूढशक्तिमान् ॥ २३५ ॥

उच्चादुच्चं विरिञ्चादिगतं कर्तृत्वमेव यत् । भूरि स्पष्टमभूत्तेन परेशस्य ततश्च सः । चेतत्यर्थानशेषांश्च महायूथेन चेष्टते ॥ २३६॥ २ ॥

युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा । अथान इन्द्र सोमपा गिरामुपश्रुतिञ्चर ॥ ३ ॥

(युक्ष्व । हि । केशिना । हरी इति । वृषणा । कक्ष्यऽप्रा ॥ अथ । नः । इन्द्र । सोमऽपाः । गिराम् । उपऽश्रुतिम् । चर ॥ ३ ॥)

कक्ष्याभिः पूरकौ पुष्ट्या युङ्क्ष्व त्वं केशिनौ हरी । अथोपगम्य शृणु नो गिरः ............. ॥ ३ ॥

एहि स्तोमामभि स्वराभि गृणीह्यारुव । ब्रह्म च नो वसो सचेन्द्र यज्ञञ्च वर्धय ॥ ४ ॥

(आ । इहि । स्तोमान् । अभि । स्वर । अभि । गृणीहि । आ । रुव ॥ ब्रह्म । च । नः । वसा इति । सचा । इन्द्र । यज्ञम् । च । वर्धय ॥ ४ ॥)

..................अभिस्वर च स्तुतिम् ॥ २३७ ॥

प्रशंसां कुरु शब्दं च पुनर्हर्षान्महत्तरम् । ब्रह्म यज्ञं च नोऽन्तस्थो बहिष्ठश्चैव वर्धय ॥ २३८॥४ ॥

उक्थमिन्द्राय शंस्यं वर्धनम्पुरु निष्षिधे ॥ शक्रो यथा सुतेषु णो रारणत्सख्येषु च ॥ ५ ॥

(उक्थम् । इन्द्राय । शंस्यम् । वर्धनम् । पुरु निःऽसिधे ॥ शक्रः । यथा । सुतेषु । नः । ररणत् । सख्येषु । च ॥ ५ ॥)

नित्यवृद्धत्वतो विष्णोर्वर्धनं तु प्रकाशनम् । बहुशत्रून्निष्षिदसौ हरिर्दनुजघातकः ॥ २३९ ॥

अस्मत्सख्याय शब्दं च चकारास्मासु संस्थितः । यथा सुतेषु सोमेषु करोत्यृत्विक्षु च स्थितः ॥ २४०॥५ ॥

तमित्सखित्व ईमहे तं राये तं सुवीर्ये । स शक्र उत नश्शकदिन्द्रो वसु दयमानः ॥ ६, १९ ॥

(तम् । इत् । सखिऽत्वे । र्इमहे । तम् । राये । तम् । सुऽवीर्ये ॥ सः । शक्रः । उत । नः । शकत् । इन्द्रः । वसु । दयमानः ॥ ६, १९ ॥)

तमेव शरणं नित्यं सखित्वाद्यर्थमीमहे । शक्त्यानन्दस्वरूपत्वाच्छक्रः सर्वत्र चाशकत् । अस्माकं च सदा वित्तं दददेव प्रवर्तते ॥ २४१॥६॥

सुविवृतं सुनिरजमिन्द्र त्वादातमिद्यशः । गवामपव्रजं वृधि कृणुष्व राधो अद्रिवः ॥ ७ ॥

(सुऽविवृतम् । सुनिःऽअजम् । इन्द्र । त्वाऽदातम् । इत् । यशः ॥ गवाम् । अप । व्रजम् । वृधि । कृणुष्व । राधः । अद्रिऽवः ॥ ७ ॥)

विस्पष्टं सुष्ट्वकाल्यं यशस्त्वद्दत्तमेव हि । गूढं ज्ञानसमूहं त्वं विवृण्वृद्धिं च नः कुरु ॥२४२॥

अद्रिरादरणीयत्वात् प्राणस्तद्वर्तकोऽद्रिवाः । हरिः शक्रस्तथाऽद्रीणां छेदनाद्वारणादपि ॥ २४३॥ ७ ॥

नहि त्वा रोदसी उभे ऋधायमाणमिन्वतः ॥ जेषस्स्वर्वतीरपस्सङ्गा अस्मभ्यन्धूनुहि ॥ ८ ॥

(नहि । त्वा । रोदसी इति । उभे इति । ऋघायमाणम् । इन्वतः ॥ जेषः । स्वःऽवतीः । अपः । सम् । गाः । अस्मभ्यम् । धूनुहि ॥ ८ ॥)

न त्वामृघायमाणं हि वर्धमानं तु रोदसी । सम्प्राप्नुतः श्रीभूमी च सहिते वाऽप्रसादतः ॥ २४४॥

अपः प्रजाः सुखवतीरजयस्त्वद्वशत्वतः । ज्ञानानि सन्धूनुहि च प्रापयोच्चा अपि स्वयम् ॥ २४५॥८॥

आश्रुत्कर्ण श्रुधी हवन्नूचिद्दधिष्व मे गिरः । इन्द्र स्तोममिमम्मम कृष्वायुजश्चिदन्तरम् ॥ ९ ॥

(आश्रुत्ऽकर्ण । श्रुधि । हवम् । नु । चित् । दधिष्व । मे । गिरः ॥ इन्द्र । स्तोमम् । इमम् । मम । कृष्व । युजः । चित् । अन्तरम् ॥ ९ ॥)

बहुश्रवणकर्णास्मदाह्वानं शृृणु चादरात् । औव च गिरो धेहि मयि स्तोमं च मत्कृतम् ॥ २४६॥

प्रियं योगादपि कुरु ........... ॥ ९ ॥

विद्मा हि त्वा वृषन्तमं वाजेषु हवनश्रुतम् ॥ वृषन्तमस्य हूमह ऊतिं सहस्रसातमाम् ॥ १० ॥

(विद्म । हि । त्वा । वृषन्ऽतमम् । वाजेषु । हवनऽश्रुतम् ॥ वृषन्ऽतमस्य । हूमहे । ऊतिम् । सहस्रसातमाम् ॥ १० ॥)

....................विद्म त्वां शक्तिमत्तमम् । श्रोतारं युत्सु चाह्वानमाह्वयामस्तवावनम् ॥ २४७॥

बहुलाभोत्तममिति ............... ॥ १० ॥

.................स्थानान्तरगते ऋचौ । दृष्ट्वेन्द्रं यज्ञगं याभ्यां मधुच्छन्दाः समस्तुवत् । आतून इति तेनैव न विरुद्धा शतर्चिता ॥ २४८॥॥

आतून इन्द्र कौशिक मन्दसानः सुतम्पिब ॥ नव्यमायुः प्रसूतिर कृधी सहस्रसामृषिम् ॥ ११ ॥

(आ । तु । नः । इन्द्र । कौशिक । मन्दसानः । सुतम् । पिब ॥ नव्यम् । आयुः । प्र । सु । तिर । कृधि । सहस्रऽसाम् । ऋषिम् ॥ ११ ॥)

मात्रा कुशैर्गृहीतत्वाज्जन्मन्यासीत् स कौशिकः । गाधित्वाद्वा हिरण्याण्डकोशस्थत्वात् हरिस्तथा ॥ २४९॥

मन्दसानो नित्यसुखी स्तुत्यमायुश्च नस्तिर । ऋषिं सहस्रलाभं मां कुरु च............... ॥ ११ ॥

परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः ॥ वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥ १२, २०, १० ॥

(परि । त्वा । गिर्वणः । गिरः । इमाः । भवन्तु । विश्वतः ॥ वृद्धऽआयुम् । अनु । वृद्धयः । जुष्टाः । भवन्तु । जुष्टयः ॥ १२, २०, १० ॥)

........................त्वा इमा गिरः ॥ २५०॥

सर्वदा परितः सन्तु मदीयाः सर्वलाभिनम् । वृद्धिरूपा गिरो जुष्टाः सेवारूपाश्च सन्तु नः ॥ २५१॥१२॥

अष्टावृचः पुनस्तेन दृष्टा अन्यत्र गास्तपः । कुर्वता...............................॥ ॥

॥ इति दशमं सूक्तम् ॥