आ त्वा वहन्तु हरयो वृषणं सोमपीतये ॥ इन्द्र त्वा सूरऽचक्षसः

ऐन्द्रसूक्तम्

मण्डलम्—१.अध्यायः–१. अनुवाकः–४. सूक्तम्– १६.

आत्वा नवर्चं, मेधातिथिः काण्वः गायत्री(३ पिपीलिका मध्या निचृत्,९ विरा) इन्द्रो देवता

आ त्वा वहन्तु हरयो वृषणं सोमपीतये ॥ इन्द्र त्वा सूरऽचक्षसः ॥ १ ॥

(आ । त्वा । वहन्तु । हरयः । वृषणम् । सोमऽपीतये ॥ इन्द्र । त्वा । सूरऽचक्षसः ॥ १ ॥)

..............सुष्ठूरीकुर्वति विषयान् यतः । चक्षूंषीन्द्रस्य हरयस्तेनोक्ताः सूरचक्षसः ॥ ३०९ ॥ १ ॥

इमा धाना घृतस्नुवो हरी इहोपवक्षतः ॥ इन्द्रं सुखतमे रथे ॥ २ ॥

(इमाः । धानाः । घृतस्नुवः । हरी इति । इह । उप । वक्षतः ॥ इन्द्रम् । सुखऽतमे । रथे ॥ २ ॥)

भक्तिस्नुतानि धानानि बुद्धेर्धाना इति ह्यपि ॥२ ॥

पिपीलिकामध्या निचृद् गायत्री

इन्द्रम् प्रातर्हवामह इन्द्रम् प्रयत्यध्वरे ॥ इन्द्रं सोमस्य पीतये ॥ ३ ॥

(इन्द्रम् । प्रातः । हवामहे । इन्द्रम् । प्रऽयति । अध्वरे ॥ इन्द्रम् । सोमस्य । पीतये ॥ ३ ॥)

प्रातः’ इत्यादिवाक्येन सवनत्रयमीरितम् । समाप्तत्वात् सोमपीतिस्तृतीयं सवनं स्मृतम् ॥३१०॥

सदा ........ ॥ ३ ॥

उप नस्सुतमागहि हरिभिरिन्द्र केशिभिः ॥ सुते हि त्वा हवामहे ॥ ४ ॥

(उप । नः । सुतम् । आ । गहि । हरिऽभिः । इन्द्र । केशिऽभिः ॥ सुते । हि । त्वा । हवामहे ॥ ४ ॥)

पिपीलिकामध्या निचृद् गायत्री

सेमन्नः स्तोममागह्युपेदं सवनं सुतम् ॥ गौरो न तृषितः पिब ॥ ५, ३० ॥

(सः । इमम् । नः । स्तोमम् । आ । गहि । उप । इदम् । सवनम् । सुतम् ॥ गौरः । न । तृषितः । पिब ॥ ५, ३० ॥)

इमे सोमास इन्दवस्सुतासो अधि बर्हिषि ॥ ता इन्द्र सहसे पिब ॥ ६ ॥

(इमे । सोमासः । इन्दवः । सुतासः । अधि । बर्हिषि ॥ तान् । इन्द्र । सहसे । पिब ॥ ६ ॥)

..... विष्णुविवक्षायां यजमानबलं सहः । तदिष्टस्यैव दानाय तद्गुणव्यक्तिरेव वा ॥ ३११॥

पूर्णमदः पूर्णमिदम्पूर्णात् पूर्णमुदच्यते’ । ‘हेयोपादेयरहितगुणपूर्णो हरिः सदा । अनुग्रहव्यक्तिरेव तद्गुणानां च नान्यथा’॥ ३१२ ॥

इत्यादि वेदवाक्येभ्यो नैव वृद्धिर्हरेः क्वचित् ॥ ६ ॥

अयन्ते स्तोमो अग्रियो हृदिस्पृगस्तु शन्तमः ॥ अथा सोमं सुतम् पिब ॥ ७ ॥

(अयम् । ते । स्तोमः । अग्रियः । हृदिऽस्पृक् । अस्तु । शम्ऽतमः ॥ अथ । सोमम् । सुतम् । पिब ॥ ७ ॥)

विश्वमित्सवनं सुतमिन्द्रो मदाय गच्छति ॥ वृत्रहा सोमपीतये ॥ ८ ॥

(विश्वम् । इत् । सवनम् । सुतम् । इन्द्रः । मदाय । गच्छति ॥ वृत्रऽहा । सोमऽपीतये ॥ ८ ॥)

विराड् गायत्री

सेमन्नः काममापृण गोभिरश्वैश्शतक्रतो ॥ स्तवाम त्वा स्वाध्यः ॥ ९, ३१, १६ ॥

(कामम् । आ । पृण । गोभिः । अश्वैः । शतक्रतो इति शतऽक्रतो ॥ स्तवाम । त्वा । सुऽआध्यः ॥ ९, ३१, १६ ॥)

पृण सम्पूरय स्वाध्यः सुधीतय इतीरिताः ॥३१३ ॥ ९, ३१, १६ ॥