अश्विना यज्वरीरिषो द्रवत्पाणी शुभस्पती ॥ पुरुभुजा चनस्यतम्
अश्विनीसूक्तम्
मण्डलम्—१. अध्यायः –१.अनुवाकः–१. सूक्तम्—३.
अश्विना द्वादशर्चम्, मधुच्छन्दा वैश्वामित्रः, १-३ अश्विनौ । ४-६ इन्द्रः । ७-९ विश्वेदेवाः । १०-१२ सरस्वती। गायत्री छन्दः(२, ४,११ निचृत्, ४,११ पिपीलिकामध्या)
अश्विना यज्वरीरिषो द्रवत्पाणी शुभस्पती ॥ पुरुभुजा चनस्यतम् ॥ १ ॥
(अश्विना । यज्वरीः । इषः । द्रवत्पाणी इति द्रवत्ऽपाणी । (शुभस्पती इति शुभःऽपती इति) । शुभः । पती इति ॥ पुरुऽभुजा । चनस्यतम् ॥ १ ॥)
अन्नानि यज्ञयोग्यानि क्षिप्रहस्तौ शुभाधिपौ । बहुगोपौ बहुभुजौ नो योयजतमश्विनौ ॥ यज्ञे वृत्तान् स्वभागान् वा संयोजयतमाशु वै ॥१३२॥
आशुवानाद् गतेरश्वी क्षिप्रावगतितोऽथवा । अश्नुतेऽखिलमित्येवाप्यश्वजत्वात् तथाऽश्विनौ ॥ १३३ ॥
निचृद् गायत्री
अश्विना पुरुदंससा नरा शवीरया धिया ॥ धिष्ण्या वनतङ्गिरः ॥ २ ॥
(अश्विना । पुरुऽदंससा । नरा । शवीरया । धिया ॥ धिष्ण्या । वनतम् । गिरः ॥ २ ॥)
बहुकर्मकृतौ सौख्यवीर्यात्मिक्या धिया गिरः । अस्मदीयाः सम्भजतं धिष्ण्यौ सर्वाश्रयौ सदा ॥ १३४ ॥
दस्रा युवाकवस्सुता नासत्या वृक्तबर्हिषः ॥ आयातं रुद्रवर्तनी ॥ ३ ॥
(दस्रा । युवाकवः । सुताः । नासत्या । वृक्तऽबर्हिषः ॥ आ । यातम् । रुद्रवर्तनी इति रुद्रऽवर्तनी ॥ ३ ॥)
भेदकौ सर्वशत्रूणां दस्रौ सम्बन्धिनौ हि वाम् । सुता युवाकवः सोमा यज्वनः स्तृतबर्हिषः । नासत्यौ नासिकासंस्थौ नैव चासद्गुणौ क्वचित् ॥ १३५॥
रुजां द्रावणतो रुद्रो वायुस्तदनुवर्तनात् । स्नेहतोऽनुवशत्वाद्वा तन्मार्गगतितोऽथवा । ‘कस्मिन्न्वहम्’ इति श्रुत्या वासुदेवोऽश्विनावपि ॥ १३६ ॥
रुद्रवर्तनिशब्दोक्ताः ................. ॥ ३ ॥
(पिपीलिका मध्या निचृद् गायत्री) इन्द्रो देवता
इन्द्रा याहि चित्रभानो सुता इमे त्वायवः ॥ अण्वीभिस्तना पूतासः ॥ ४ ॥
(इन्द्र । आ । याहि । चित्रभानो इतिचित्रऽभानो । सुताः । इमे । त्वाऽयवः ॥ अण्वीभिः । तना । पूतासः ॥ ४ ॥)
.................... चित्रं भद्रं रतं चितौ ॥
चिद्रतेश्चायनीयत्वाद् अदनाद्वा चितोऽभिदा । तादृशा रश्मयो ज्ञानमस्येति भगवान् परः ॥ १३७ ॥
चित्रभानुरिति प्रोक्तस्तेजो वा तादृशं प्रभोः । त्वदिच्छव इमे सोमाः पटीभिस्सूक्ष्मतन्तुभिः ॥ विस्तृत्य शोधिताः ....
.............सूक्ष्मप्रमाभिर्वा मनांसि च ॥१३८॥
सोमानां मनसां चैव देवताः सोमरश्मिगाः । सोमभृत्याः समस्तस्य सोम एवाधिपो हरिः ॥ १३९ ॥
इन्द्रायाहि धियेषितो विप्रजूतस्सुतावतः ॥ उप ब्रह्माणि वाघतः ॥ ५ ॥
(इन्द्र । आ । याहि । धिया । इषितः । विप्रऽजूतः । सुतऽवतः । उप । ब्रह्माणि । वाघतः ॥ ५ ॥)
अस्मद्बुद्ध्या प्रार्थितो वा स्वबुद्ध्या प्रेरितोऽपि वा । ब्राह्मणैः प्रेरितो भक्त्या वदतो होतुरञ्जसा ॥ १४० ॥
ब्रह्माणि सोमयुक्तानि यजमानस्य वेच्छतः ।
उपायाह्यपि यः कोऽपि साधको यज्ञकृन्मतः । मानसो वाचिको वा स्याद्यज्ञो होता ह्वयन् स च ॥ १४१॥
इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः ॥ सुते दधिष्व नश्चनः ॥ ६, ५ ॥
(इन्द्र । आ । याहि । तूतुजानः । उप । ब्रह्माणि । हरिऽवः ॥ सुते । दधिष्व । नः । चनः ॥ ६, ५ ॥)
वेगवांस्तूतुजानः स्यात् संसारमुपसंहरन् । वर्तते येन हरिवा हरिभिर्वर्ततेऽथ वा ॥ १४२ ॥
हरणाद्विषयाणां च प्राणा हरय ईरिताः । तेषु वर्तत इत्यस्मात्तान् वाऽथ गमयेदसौ ॥१४३ ॥
हरिवा हरिवान् वाऽपि विष्णुना वर्ततेऽथवा । चनो मन इह प्रोक्तं सुखं च क्वचिदीर्यते ॥१४४॥६,५॥
विश्वेदेवा देवताः
ओमासश्चर्षणीधृतो विश्वेदेवास आगत ॥ दाश्वांसो दाशुषस्सुतम् ॥ ७ ॥
(ओमासः । चर्षणिऽधृतः । विश्वे । देवासः । आ । गत ॥ दाश्वांसः । दाशुषः । सुतम् ॥ ७ ॥)
आ समन्तात् स्वीकृता मा ओमा इति च शब्दिताः । ओनामा भगवान् विष्णुस्तेन वा निर्मिताः सुराः ॥ ओता मानेषु मावैषु प्रोता ओमा इतीरिताः ॥१४५॥
प्रजाश्चर्षणयः प्रोक्ता विश्वे ते च प्रवेशनात् । सर्वे वाऽथ विशां वानाच्छब्दः कस्मै यथा भवेत् ॥१४६॥
दातारो यजमाना वा... .......... ॥ ७ ॥
विश्वे देवासो अप्तुरस्सुतमागन्त तूर्णयः ॥ उस्रा इव स्वसराणि ॥ ८ ॥
(विश्वे । देवासः । अप्ऽतुरः । सुतम् । आ । गन्त । तूर्णयः ॥ उस्राः ऽइव । स्वसराणि ॥ ८ ॥)
..................अप्तुरः कर्मवेगिनः ।
उस्रास्तु रश्मयश्चैव स्वसराणि दिनानि च ॥ १४७ ॥ ८ ॥
विश्वे देवासो अस्रिध एहि मायासो अद्रुहः ॥ मेधञ्जुुषन्त वह्नयः ॥ ९ ॥
(विश्वे । देवासः । अस्रिधः । एहिऽमायासः । अद्रुहः ॥ मेधम् । जुषन्त । वह्नयः ॥ ९ ॥)
असंसारादस्रिधस्ते देवाश्चेन्मोक्षनिश्चयात् । यथेष्टनिश्चितज्ञाना एहिमायाः समन्ततः ॥१४८ ॥
अदुःखत्वादद्रुहस्ते मेधं यज्ञं जुषन्तु नः । वह्नयो वहनादस्य ॥ ९ ॥
पावका नस्सरस्वती वाजेभिर्वाजिनीवती ॥ यज्ञं वष्टु धिया वसुः ॥ १० ॥
(पावका । नः । सरस्वती । वाजेभिः । वाजिनीऽवती ॥ यज्ञम् । वष्टु । धियाऽवसुः ॥ १० ॥)
...............शोधकत्वात्तु पावका ॥ १४९ ॥
सरणात् सर्वगत्वेन सर्वज्ञो वा सरो हरिः । सरसः सरतित्वाद्वा तद्वत्येव सरस्वती । हरौ गुणाः सरश्शब्दा देवी तु हरिवाचिनी ॥ १५०॥
हरिप्रियत्वतो वायुः सरस्वांस्तत्प्रियाऽथवा । गुणस्त्वेन ततत्वाद्वा भगवांस्तु सरस्वती ॥ १५१॥
स्त्रीरूपश्चैव पुंरूपो भगवान्न नपुंसकः । स्त्रीपुन्दोषविहीनत्वादपि तच्छब्दगोचरः ॥ १५२ ॥
अन्नेनो वाजिनामीशो वाजिनी सूर्य उच्यते । वाजीनच्छन्दसां वाऽपि स्वामी प्रोक्तः स वाजिनी ॥ १५३॥
छन्दांस्यश्वा यतस्तस्य ते चेना अन्यवाजिना । अन्नवत्त्वाद्वाजिनी वाग् ज्ञानयुद्धत्वतोऽपि वा ॥१५४॥
स पुत्रो वागुमा तस्याः पुत्री तद्वाजिनीवती ॥ सरस्वती हरिर्वाऽपि यज्ञं वहतु नोऽशनैः ॥ १५५ ॥
अन्नदा हि सदा देवी धिया सह वसेद्यतः । धियावसुर्नित्यबोधा .............. ॥ १० ॥
पिपीलिकामध्या निचृद् गायत्री
चोदयित्री सूनृतानाञ्चेतन्ती सुमतीनाम् ॥ यज्ञन्दधे सरस्वती ॥ ११ ॥
(चोदयित्री । सूनृतानाम् । चेतन्ती । सुऽमतीनाम् । यज्ञम् । दधे । सरस्वती ॥ ११ ॥)
....................सुवाचां प्रेरका सदा ॥ १५६ ॥
सुबुद्धिज्ञापिका सैव स्वातन्त्र्याल्लुप्तयो भवेत् । अनेनैव प्रकारेण सैव यज्ञादिधारिणी ॥ १५७ ॥ ११ ॥
महो अर्णस्सरस्वती प्रचेतयति केतुना ॥ धियो विश्वा विराजति ॥ १२, ६, ३, १ ॥
(महः । अर्णः । सरस्वती । प्र । चेतयति । केतुना ॥ धियः । विश्वाः । वि । राजति ॥ १२,६,३,१ ॥)
॥ इति तृतीयं सूक्तम् ॥
महो अर्णः परं ब्रह्म तेजस्त्वाच्च महत्त्वतः ।
अरमानन्दरूपत्वात् णो हि निर्वृतिवाचकः ॥ १५८ ॥
तज्ज्ञापयति सा देवी ज्ञानं दत्वा महत्तरम् । महो अर्णः स्वयं देवः स्वमात्मानं प्रकाशयेत् । विराजयति विश्वाश्च धियः सुज्ञानदानतः ॥ १५९ ॥
सूक्तं त्वनारतं प्रोक्तम् अनुवागेककालिका ॥ (वेदेषु आवापोद्वापे हेतुनिरूपणम्) अन्यथात्वं च तत्र स्यादावापोद्वापतस्त्वृचाम् ॥ १६०॥
वेदानन्तत्वविज्ञप्त्यै तौ चक्रे बादरायणः ।
ऋचः स ऋच उद्धृत्य ऋग्वेदं कृतवान् प्रभुः । यजूंषि निगदाच्चैव तथा सामानि सामतः ॥१६१॥
एवं पुराणवचनादुद्धृता हि ततस्ततः । ऋचः शाखात्वमापन्नाः शिष्यतच्छिष्यकैरिमाः ॥१६२॥
मानस्तेनेति पूर्वासु ह्यूनता दृश्यतेऽर्थतः । शुनःशेपोदिताभ्यश्च पठ्यन्तेऽन्यत्र काश्चन ॥ १६३॥
अत्राप्यक्रमतो दृष्टिरिति नैकक्रमो भवेत् ।
अनन्तत्वात्तु वेदानां प्रायः कर्मानुसारतः । सङ्क्षेेपं कृतवान् देवः शिष्याश्च तदनुज्ञया ॥ १६४ ॥
अष्टकाध्यायवर्गादि भेदं च कृतवान् प्रभुः । स्वाध्यायविश्रमार्थाय तस्मात् क्रमविपर्ययः ॥ १६५ ॥
तत्र तत्रैवान्तरिता दृश्यन्ते च खिला अपि । यत्रार्थे न विशेषोऽस्ति पदान्तरितताऽत्र च । यत्राल्पोऽपि विशेषोऽस्ति पदं नान्तरितं भवेत् ॥ १६६ ॥
॥ इति तृतीयं सूक्तम् ॥