ततः कुरुक्षेत्रमवाप्य कृष्णो दीक्षां प्रपेदे द्विषडब्दसत्रे

द्वात्रिंशोऽध्यायः
सर्वशास्त्रतात्पर्यनिर्णयः

औं ॥ ततः कुरुक्षेत्रमवाप्य कृष्णो दीक्षां प्रपेदे द्विषडब्दसत्रे ।

स एव च व्यासभृगूद्वहात्मा चक्रेऽत्र सादस्यमजोऽप्रमेयः ॥ । १॥

तत्रर्त्विजो दक्षभृगुप्रधानाः पार्था यदूनां प्रवरैः समेताः ।

ब्रह्मेशशक्रप्रमुखाः सुराश्च चक्रुः सुसाचिव्यमनन्तदासाः ॥ । २॥

सर्वे च जीवा वसुधातळस्था येऽन्येऽन्तरिक्षद्युमुखोत्तरेषु ।

वसन्ति नारायणपादसंश्रयास्ते चात्र सर्वे मुमुदुः सनागाः ॥ । ३॥

सुनिर्णयस्तत्त्वविनिर्णयार्थिनां तत्त्वस्य चाभूदिह वादशीलिनाम् ।

मिथो विवादात् सुरभूसुराणां वाक्याद्धरेर्व्यासभृगूद्वहात्मनः ॥ । ४॥

धर्मार्थकामानखिलानवापुस्तदर्थिनो मुक्तिमपीह कृष्णात् ।

यथेष्टपानाशनवाससो जना विचेरुरत्रामरमानवादयः ॥ । ५॥

क्षेत्रं तदासीद्धरिलोकसम्मितं यदीयुरत्राखिलसज्जना युतिम् ।

नानाप्तकामाश्च ततो बभूवुर्निर्यत्नदृश्यश्च यतोऽत्र केशवः ॥ । ६॥

द्वादशाब्दं महासत्रमेवमेतादृशं हरिः ।

समाप्यावभृथस्नातः पूजयित्वाऽखिलान् जनान् ॥ । ७॥

अनुजज्ञे क्रमेणैव वत्सरेण समागतान् ।

स्वकुलं सञ्जिहीर्षुः स विप्रशापमजीजनत् ॥ । ८॥

उपदिश्य परं ज्ञानमुद्धवायामुमाश्रमम् ।

बदर्याख्यं प्रापयित्वा सप्तमाब्दं शतोत्तरम् ।

प्रतीक्षन् पालयामास पार्थैः सह भुवं प्रभुः ॥ । ९॥

समारब्धं कलियुगं यदा दुर्योधनोऽपतत् ।

षट्त्रिंशाब्दं पुनः कृष्णः कृतमेवान्ववर्तयत् ॥ । १०॥

कृतादपि विशेषोऽयं यत् पुण्यस्याधिकं फलम् ।

अल्पमेव च पापस्य कालात् कृष्णाज्ञया तथा ॥ । ११॥

एवं सुधार्मिके लोके हरिभक्तिपरायणे ।

नष्टेषु कलिलिङ्गेषु युगवृत्तिमभीप्सवः ॥ । १२॥

ब्रह्मरुद्रादयो देवाः स्तुत्वा केशवमव्ययम् ।

व्यज्ञापयन् स्वलोकाप्तिं औंइत्याह स चाच्युतः ॥ । १३॥

प्राचुर्ये सज्जनस्य स्यान्न कलेर्वृद्धिरञ्जसा ।

इति स्वकुलसंहृत्यै प्रभासमनयत् प्रभुः ॥ । १४॥

पुण्यक्षेत्रेऽपि न मृतिः स्वगृहे त्वतिधर्मदा ।

गत्यैवाल्पमपि क्षेत्रं स्यान्महत्फलमित्यजः ॥ । १५॥

प्रकाशयितुमेवैनान् प्रभासाय कुशस्थलात् ।

नीत्वा दानादिसद्धर्मांस्तैरकारयदच्युतः ॥ । १६॥

ते ततः शापदोषेण कृष्णेनैव विमोहिताः ।

मैरेयमत्ता अन्योन्यं निपात्य स्वां तनुं गताः ।

तद् दृष्ट्वा बलदेवोऽपि योगेन स्वतनुं ययौ ॥ । १७॥

ततः परेशोऽगणितानुभावः स्वसारथिं पाण्डवानां सकाशम् ।

स्वलोकयानप्रतिवेदनाय स्वस्यानु चैषां त्वरयाऽभ्ययातयत् ॥ । १८॥

अथाऽसतः पिप्पलमूल ईशितुरूरुस्थितं पादतळं सुताम्रम् ।

दृष्ट्वा जरा नाम ससर्ज शल्यं भक्तोऽप्यलं रोहितं शङ्कमानः ॥ । १९॥

अच्छेद्याभेद्यदेहस्य शल्ये पादमुपस्थिते ।

समीपमागतो व्याधो दृष्ट्वा भीतोऽपतद् भुवि ॥ । २०॥

विप्रवाक्यं मानयानः कारयित्वाऽमुना हरिः ।

पापं मां जहि देवेति याचन्तमनयद् दिवम् ॥ । २१॥

पादप्रहारदोषेण तं भृगुं व्याधतां गतम् ।

पश्चात्तापेन भक्त्या च सुप्रीतस्तच्छरीरिणम् ।

स्वाज्ञाप्राप्तविमानेन दिवं निन्ये जनार्दनः ॥ । २२॥

नीचा योनिर्नीचनीच कर्माऽप्तं नीचकर्मतः ।

अदुष्टत्वात्तु मनसो भक्तिलोपो नचाप्यभूत् ।

भृगोरत्राबुद्धिपूर्वं नातिदोषकृदप्यभूत् ॥ । २३॥

ततो विरिञ्चेशपुरन्दराद्याः पुनः स्तुवन्तोऽभिययुः प्रणम्य ।

कृष्णं स चाऽश्वेव ययौ स्वलोकं स्वतेजसा सर्वमिदं प्रकाशयन् ॥ । २४॥

गोपालमन्त्रं भजतां फलप्रद एकेन रूपेण स भुव्यदृश्यः ।

तस्थौ द्वितीयेन च सूर्यमण्डले तृतीयमासीच्छिवपूजितं वपुः ॥ । २५॥

सम्पूजितं ब्रह्मलोके चतुर्थं कञ्जोद्भवेनाथ परं स्वधाम ।

समाप्नुवानं वपुरस्य पञ्चमं भक्त्याऽन्वयुर्देववराः स्वशक्त्या ॥ । २६॥

तत्तेजसा ते प्रतिमुष्टदृष्टयः पुरुष्टुताद्या अमितोरुदीधितेः ।

यावत् स्वगम्यं त्वनुगम्य तस्थुर्निमीलिताक्षा विहतोर्ध्वचाराः ॥ । २७॥

वीन्द्रेशशेषानुगतः स्वयम्भूर्धाम प्रविष्टं तमजं प्रणम्य ।

वीन्द्रादिकैरप्ययुतः स्वपित्राऽऽश्लिष्टो रहश्चाकथयत् तथाऽस्तौत् ॥ । २८॥

स पूर्वरूपेण समाप्य चैक्यं विभज्य चेच्छानुसृतोऽथ रेमे ।

हरिः श्रिया ब्रह्ममुखैश्च मुक्तैः सम्पूज्यमानोऽमितसद्गुणात्मा ॥ । २९॥

ब्रह्माऽपि शर्वादियुतः स्वलोकं प्राप्तः पुनस्तत्र गतं च कृष्णम् ।

रेमेऽभिपश्यन् प्रतिपूजयंस्तं सुराश्च सर्वे रविबिम्बसंस्थम् ॥ । ३०॥

यतो न दर्शिता भ्रान्तिः प्रादुर्भावेष्वपि क्वचित् ।

देहत्यागानुकारेण हरिणा तदिहाच्युतः ॥ । ३१॥

मोहयित्वाऽसुरानन्धं तमः प्रापयितुं प्रभुः ।

चिदानन्दैकदेहोऽपि त्यक्तं देहमिवापरम् ।

सृष्ट्वा स्वदेहोपमितं शयानं भुव्यगाद् दिवम् ॥ । ३२॥

दारुकोक्त्या समायातः पार्थस्तमदहत् तदा ।

रौहिणेयादिकानां च शरीराणि प्रधानतः ।

दारुको विष्णुलोकं तु पुनराप यथागतम् ॥ । ३३॥

तथैव जनमोहाय प्राप्य वह्नावदृश्यताम् ।

रुग्मिण्यगाद्धरेः पार्श्वं सत्या कृत्वा तपस्तथा ॥ । ३४॥

चिदानन्दैकदेहे हि द्विरूपे इव ते यतः ।

एकैवातः कृष्णवत् ते दुष्टान् मोहयतस्तथा ॥ । ३५॥

अन्या महामहिष्यस्तु त्यक्त्वा देहं हुताशने ।

काश्चित् काश्चित्तु तपसा त्यक्तदेहा हरिं ययुः ॥ । ३६॥

रौहिणेयादिकानां च भार्या वह्निमुखे तनुम् ।

त्यक्त्वा स्वभर्त्Qनेवाऽपुः सर्वा एव पतिव्रताः ॥ । ३७॥

वसुदेवः पार्थमुखाच्छ्रुत्वैतद् योगमास्थितः ।

त्यक्त्वा देहं कश्यपत्वं प्राप कृष्णानुरागतः ॥ । ३८॥

तस्यार्जुनोऽश्वमेधाग्नावन्त्यकर्माकरोत् तदा ।

त्यक्तदेहास्तस्य भार्या वह्नौ प्रापुस्तमेव च ॥ । ३९॥

स्त्रीबालसहिते पार्थ एकस्मिन् पथि गच्छति ।

शापात् सुपापा आभीराः स्त्रीजनान् जह्रुरुद्धताः ॥ । ४१॥

यास्ताः षोडशसाहस्रवनिताः शतसंयुताः ।

कृष्णशापान्म्लेच्छवशं ययुर्दर्पनिमित्ततः ॥ । ४२॥

ह्रियमाणे धने चैव वनितासु च वासविः ।

युयुत्सुर्गाण्डिवं सज्यं कृच्छ्रेणैव चकार ह ॥ । ४३॥

क्षीणास्तस्य शरा दैवान्नास्त्राणि स्मृतिमाययुः ।

स तद् दैवकृतं ज्ञात्वा संस्मरन् पुरुषोत्तमम् ।

निघ्नञ्छत्रून् गाण्डिवेन शेषं रक्षन् कुरूनगात् ॥ । ४४॥

स तेन पुंसां प्रवरेण हेतुभिः सम्बोधितोऽज्ञानतमोंशुमालिना ।

संस्थाप्य चेतः पुनरेव तस्मिन् जहौ शुचः प्रायश एव धैर्यात् ॥ । ४६॥

स्त्रियो म्लेच्छहृताः कृष्णप्रेषिताद् दाल्भ्यतः पुनः ।

गोविन्दैकादशीं श्रुत्वा कृत्वा सारस्वते जले ।

निमज्ज्य वायोर्वचनात् त्यक्तदेहा दिवं ययुः ॥ । ४७॥

अर्जुनस्तु कुरुक्षेत्रे हार्दिक्ययुयुधानयोः ।

सुतौ सारस्वते चैव देशे राज्येऽभ्यषेचयत् ॥ । ४८॥

अनिरुद्धसुतं वज्रं प्रियं कृष्णस्य सद्गुणम् ।

सशूरसेनेन्द्रप्रस्थराजानमकरोद् वशी ॥ । ४९॥

स्त्रीबालांश्च धनं चैव तस्मिन् संस्थाप्य फल्गुनः ।

ययौ भ्रात्Qनशेषं च वृत्तं तेषामवर्णयत् ॥ । ५०॥

ते चावियोगसमयं स्मरन्तो मुरवैरिणा ।

अभ्यषिञ्चन् भागवतं माहाराज्ये परीक्षितम् ॥ । ५१॥

स्त्रीहारिणां च म्लेच्छानां वधायैनमयोजयन् ।

कृतं च तेन तत् कर्म वोढ्रा पैतामहं धुरम् ।

समयं परिरक्षद्भिर्न पार्थैरेव यत् कृतम् ॥ । ५२॥

वासुदेवपदा स्पृष्टभूकण्टकसमुद्धृतिः ।

समयः पाण्डवानां हि तस्यैवानुगतिः परम् ॥ । ५३॥

अनुव्रजद्भिर्विश्वेशं नास्माभिर्भूस्तदुज्झिता ।

भोज्या रक्ष्याऽपि वा तेषामित्येव समयः पुरा ॥ । ५४॥

तत्र काळी भीमभार्या वैष्णवं योगमास्थिता ।

कृष्णयैकत्वमापन्ना त्यक्त्वा देहं तु मानुषम् ॥ । ५५॥

सुभद्राद्यास्तु या भार्याः पार्थानां तु तदाज्ञया ।

युयुत्सुश्चात्र शिक्षार्थं पौत्रस्यैवावसन् पुरे ॥ । ५६॥

सन्त्यज्य राज्यचिह्नानि वैष्णवं योगमास्थिताः ।

वीराध्वानं ययुः सर्वे कृष्णया सह पाण्डवाः ॥ । ५७॥

प्रागुदीचीं दिशं पूर्वं ययुस्तत्रार्जुनो धनुः ।

नात्यजल्लोभतस्तं तु समुद्रमुप पावकः ।

दृष्ट्वा ययाचे राजानं तदुक्तः प्रास्यदम्बुधौ ॥ । ५८॥

प्रातिभाव्यं तु वरुणे निस्तीर्याग्निरदृश्यताम् ।

ययौ तेऽपि ययुः क्षिप्रं प्लवन्तः सप्तवारिधीन् ॥ । ५९॥

अहोभिः सप्तभिर्योगं समारूढाः प्रदक्षिणम् ।

कृत्वा क्वचिदसज्जन्त आसेदुर्गन्धमादनम् ।

अत्र नारायणक्षेत्रे तेषां तन्वोऽपतन् क्रमात् ॥ । ६०॥

द्रौपदीसहदेवादिपञ्चानां तत्र मारुतिः ।

सदेहनाकानिच्छुत्वाद् देहप्रपतनं हि तत् ॥ । ६१॥

तेषामिहेति याथार्थ्यं जानन् पप्रच्छ धर्मजम् ।

केनकेनापतद् देहो दोषेण न इति क्रमात् ॥ । ६२॥

मृतिकाले हि यो यस्य दोषं वक्त्यृणमोचनम् ।

तस्मात् स्यादुक्तदोषस्येत्याह यच्छ्रुतिरेव तत् ।

ऋणमोक्षाय सर्वेषां भीमो दोषानवादयत् ॥ । ६३॥

सोऽपीच्छापतितान् देहानजानञ्छुद्धकर्मणाम् ।

अपश्यन् कारणं प्राह दोषान् स्यादेवमित्यपि ।

राजा सम्भावनामात्रं नहि कार्यमकारणम् ॥ । ६४॥

' स्वच्छन्दमृत्यवो योगाद् देहानुत्सृज्य पाण्डवाः ।

कृष्णा चाऽपुः परं स्थानं यन्न यान्त्यपि देवताः' ।

इति श्रुतेर्न ते पापाद् देहांस्तत्यजुरूर्जिताः ॥ । ६५॥

' ऋणान्युन्मुच्य दोषोक्त्या स्वानां भीमः स्वकां तनुम् ।

तत्याज परमं ध्यायन्नाप च स्थानमुत्तमम्' ।

इति स्कान्दपुराणोक्तं व्यासवाक्यमृषीन् प्रति ॥ । ६६॥

भीमादृते हि चतुर्षु पक्षपातस्तु वासवौ ।

योग्य एवेति कृष्णाया न दोषः स्यात् कथञ्चन ॥ । ६७॥

नीतिरूपे वीर्यबले महान्त्येषां यतः क्रमात् ।

प्राणत्वाद् भोगशक्तिश्च नहि दोषाय मारुतेः ॥ । ६८॥

' यथास्वरूपविज्ञानमात्मन्यपि न दोषकृत्' ।

इति व्यासस्मृतेरेषामुक्तदोषोद्भवः कथम् ॥ । ६९॥

कदाचिदतिमानोऽपि त्रयाणामेषु जायते ।

तथाऽपि तत्फलं नैतत् तारतम्यं हि मुक्तिगम् ।

गुणदोषाधिकाल्पत्वादत्रस्थमपि हि श्रुतम् ॥ । ७०॥

आरब्धकर्मनाशे हि पतेद् देहोऽप्यपापिनः ।

युधिष्ठिरोऽपि हि स्वर्गं बुभुजे नैव तत्तनुः ॥ । ७१॥

अतिमानादयो दोषाः कुत एव हि मारुतेः ।

अनादिकालतः सर्वदोषहीना गुणाधिकाः ॥ । ७२॥

सर्वजीवगणेभ्यो ये ते हि वायुत्वमाप्नुयुः ।

ऋजवो नाम ये देवा देवानामपि देवताः ॥ । ७३॥

अभावं ह्यतिमानादेर्भीमस्याऽह च केशवः ।

' यत्किञ्चाऽत्मनि कल्याणं सम्भावयसि पाण्डव ।

सहस्रगुणमप्येतत् त्वयि सम्भावयाम्यहम्' ॥ । ७४॥

इति तस्माद् यथा युद्धे धर्महानिममन्यत ।

एवमत्राप्यधर्मेण देहपातं नृपोऽब्रवीत् ॥ । ७५॥

पूज्येभ्यः पूर्वमेवैषां देहपातमभीप्सताम् ।

तत्कामाद् देहपातोऽभून्न पापान्मुच्यतां यथा ॥ । ७६॥

नहि पापफलान्मुक्तौ देहपातः कथञ्चन ।

किन्तु कर्मक्षयादेव तथा सर्वत्र निश्चितः ॥ । ७७॥

तेषु स्वलोकान् प्राप्तेषु धर्मजश्चाऽत्मना सह ।

ययौ पुरो देवरथस्तदाऽस्यावततार ह ॥ । ७८॥

रथमारुहेति कथितो रथिना पुरतः शुनः ।

आरोहमब्रवीन्नैतद् युक्तमित्याह सोऽपि तु ॥ । ७९॥

नाऽरुहेयं विना श्वानमिति तेन स्थिरोदिते ।

स्वरूपं दर्शयामास धर्मो ह्याप्तः श्वरूपताम् ॥ । ८०॥

आनृशंस्यपरत्वेन कीर्तिमेवाऽत्मनो वृषः ।

ख्यापयामास कौन्तेयरूपिणो धर्मसूक्तिभिः ॥ । ८१॥

ततः स रथमारुह्य लोकानामुत्तरोत्तरम् ।

अतिक्रम्याखिलान् राज्ञो जगाम श्रीपतिप्रियः ॥ । ८२॥

सर्वेषामुत्तरं लोकमैन्द्रं प्राप्येदमेव ते ।

स्थानमित्युदितो देवैर्दुर्योधनमवैक्षत ।

सभ्रातृकं ज्वलन्तं च सर्वेषामुपरि स्थितम् ॥ । ८३॥

तं दृष्ट्वा परमक्रुद्धो निमील्य नयने शुभे ।

भ्रातरो मे क्व कृष्णा च सकर्णाः क्व च बान्धवाः ।

धृष्टद्युम्नादयः पुत्रा हैडिम्बाद्याश्च सर्वशः ॥ । ८४॥

यादवश्चेति पप्रच्छ देवांस्ते च तमब्रुवन् ।

किं ते तैः स्वकृतं कर्म भुज्यतेऽत्र नचापरैः ॥ । ८५॥

इत्युक्त आह पापोऽयं पृथिवीक्षयकारकः ।

सर्वातिशङ्की मित्रध्रुङ् नारायणपराङ्मुखः ॥ । ८६॥

नास्तिकोऽतिशठः क्रूरो द्वेष्टा विष्णोश्च तद्भुवाम् ।

कथं दुर्योधनः स्थानं सर्वोत्तममवाप्तवान् ॥ । ८७॥

कथं च सर्वधर्मज्ञा नारायणपरायणाः ।

संस्थिताः परमे धर्मे दृश्यन्तेऽत्र न मत्प्रियाः ॥ । ८८॥

यत्र सन्तस्तु ते सन्ति तत्र स्थातव्यमेव मे ।

निरयेऽपि नचात्रापि नानेन सह पापिना ।

अस्य वीरतमस्येदं धार्तराष्ट्रस्य युज्यते ॥ । ८९॥

इत्युक्ता देवता दूतं स्वानां सन्दर्शनार्थिनः ।

राज्ञः सम्प्रेषयामासुस्तत्सन्दर्शितवर्त्मना ॥ । ९०॥

दुर्गन्धेन सुकृच्छ्रेण तमसा प्रावृतेन च ।

गत्वैव कियतीं भूमिं तद्दुर्गन्धासहो नृपः ।

इच्छन् निवर्तनं तत्र स्वानां वाच इवाशृणोत् ॥ । ९१॥

क्षणं तिष्ठ महाराज सन्निधानबलात् तव ।

वेदना नो न महतीत्येच्छ्रुत्वा युधिष्ठिरः ॥ । ९२॥

के यूयमिति पप्रच्छ दीनध्वनिविशङ्कितः ।

भीमोऽहमर्जुनः कर्ण इत्याद्युक्तमिवाशृणोत् ॥ । ९३॥

श्रुत्वा तत् कृपयाऽऽविष्टः शोकामर्षसमन्वितः ।

आह दूतं यथेष्टं त्वं गच्छ नाहमितो व्रजे ॥ । ९४॥

नच स्वर्गेण मे कार्यं त्यक्त्वा स्वजनमीदृशम् ।

इत्युक्तः प्रययौ दूतस्तस्थावेव युधिष्ठिरः ॥ । ९५॥

ततोऽत्र देवाः पुरुहूतपूर्वकाः समाययुः स्नेहवशाद् युधिष्ठिरे ।

तेष्वागतेष्वेव न तत्र वाचो दीना न दुर्गन्धतमोऽप्यपश्यत् ।

स्वर्गोत्तमं देशमपश्यदेतमभ्रान्तचेताः स युधिष्ठिरस्तदा ॥ । ९६॥

आहात्र धर्मः पुनरात्मसद्यशः प्रकाशयन् पाण्डुसुताभिधं स्वम् ।

धर्माद् विशिष्टा हि सदाऽनृशंसता दृष्टा च सा त्वय्यधिका त्रिशो मया ॥ । ९७॥

शक्रोऽप्युवाचैनमिदं मृषा ते प्रदर्शितं द्रोणकृते मृषागिरः ।

कृच्छ्रादिदं ते कथितं नचातिविस्रम्भ आसीत् तव कृष्णवाक्ये ॥ । ९८॥

नह्याज्ञया वासुदेवस्य किञ्चित् पापं भवेत् सर्वविधर्मिणोऽपि ।

ब्रह्मापराक्ष्येऽपि विकर्म सूचकं प्रारब्धपापस्य विषाशनं यथा ॥ । ९९॥

पश्यात्र भीमप्रमुखान् सुखस्थान् सम्पूज्यमानांस्त्रिदशैः सुरूपान् ।

कुतः परब्रह्मदृशां सुशुद्धसत्कर्मणां कृष्णपरायणानाम् ।

परेण योगेन विसृष्टतन्वां दुःखं भवेद् देववराधिपानाम् ॥ । १००॥

एते हि देवप्रवराः पृथिव्यां जाता भुवो भारजिहीर्षुमीशम् ।

प्रतोष्य तद्भावितबुद्धिकर्मभिः पुनश्च तेनैव सहाऽपिरे दिवम् ॥ । १०१॥

न ते नृपाद्यापि हि मानुषो गतो भावस्ततो द्वेष्टि सुयोधनादीन् ।

निमज्ज्य तद् विष्णुपदोदकेऽत्र विसृज्य देहं भज देवभावम् ॥ । १०२॥

सुयोधनाद्या यदिमे सुपापा आरब्धकर्मक्षयमाप्य नित्ये ।

निःशेषसौख्योज्झितनित्यदुःखेऽवशाः पतिष्यन्त्यपुनर्निवृत्ताः ॥ । १०३॥

देवांशजा ये तु समस्तशस्ते स्वमूलरूपं समवाप्य काले ।

स्वतारतम्यानुसृतां विमुक्तिं प्राप्स्यन्ति नात्रापि विचार्यमस्ति ॥ । १०४॥

इत्युक्त आश्वेव निमज्ज्य गङ्गां धर्मात्मजस्तं प्रविसृज्य देहम् ।

सद्यो बभौ दैवमवाप्य कायं विसृष्टरोषादिसमस्तदोषः ॥ । १०५॥

स तु प्रपश्यन् स्वजनं समस्तं स्वमूलरूपातिसमीपसंस्थम् ।

ददर्श भीमं च मरुत्समीपे मध्ये ज्वलन्तं मरुतां गणस्य ॥ । १०६॥

ददर्श कृष्णामपि तत्समीपे श्रिया ज्वलन्तीं समतीत्य चान्याः ।

स्प्रष्टुं च संस्कारवशादियेष निषिध्य तं प्राह सुराधिराजः ॥ । १०७॥

एषा हि साक्षाज्जगतां प्रियस्य प्राणात्मनो जीववरेश्वरस्य ।

प्राणप्रिया श्रीरिति नाम यस्याः शमात्मकेऽस्मिन् रमते यदेषा ॥ । १०८॥

युष्मच्चतुर्देहगतस्य वायोर्वायुप्रिया भीमतनोस्तथैव ।

भोगाय सृष्टा पुरुषोत्तमेन युष्मत्प्रियार्थं भवतां च दारैः ॥ । १०९॥

प्रीतिस्ततो ह्यभ्यधिका बभूव भीमस्य चास्यास्तदनु स्म पार्थे ।

ततो भवत्स्वेव यथाक्रमेण गुणानुसारेण समीरणस्य ॥ । ११०॥

इदा हि सा शुद्धतनुः प्रजाता शच्यादियोगापगताग्र्यदेहा ।

यूयं च सर्वे मरुतो विशेषसंयोगहीनाः स्वशरीरसंस्थाः ॥ । १११॥

स्पर्शेऽपि नास्याः पवमानपत्न्याः सुपूतताऽलं भवतामिदानीम् ।

नचोत्तरत्रापि भवेत् कथञ्चिद् दिवौकसां मानुषदेहिनो यथा ॥ । ११२॥

इतीरितं तं प्रतिसन्निवृत्तं विनाशयन् मानुषवासनां स्वयम् ।

समाश्लिषच्छुद्धतनुः स्तनोत्थो धर्मो हरेः सोऽभवदाशु तत्समः ॥ । ११३॥

ततस्तु पार्था अखिलाः स्वमूलरूपैः सहैवाऽविविशुर्मुदाऽन्विताः ।

स्वीयानि धामानि ततोऽप्यनूनभोगाः सदा सन्न्यवसंश्च तत्र ॥ । ११४॥

तत्रापि कृष्णेन समागमोऽभूत् पुरेव तेषामतितत्पराणाम् ।

चिक्रीड एभिः सहितस्तथैव कृष्णोऽपि तद्वत् सरथोऽर्जुनेन ॥ । ११५॥

अन्ये च देवांशभवाः समस्ताः स्वमूलरूपैक्यमवापुराशु ।

कर्मक्षयादेव सुरेतरास्तु पुण्यक्षयं प्राप्य भुवि प्रजाताः ॥ । ११६॥

चतुःसहस्रं त्रिशतोत्तरं ते संवत्सराणामनुभूय दिव्यान् ।

भोगान् नरत्वेऽपि सदेश्वरोऽहमसज्जगच्चेति धियाऽऽप्नुवंस्तमः ॥ । ११७॥

दुःखेऽपि तेषामिह तारतम्यं कलेः परं दुःखमिहाखिलाच्च ।

यथा विरिञ्चस्य सुखं परं स्यान्मुक्तौ हरिद्वेषकृतो विशेषः ॥ । ११८॥

केचित् पिशाचासुरराक्षसत्वमवाप्य विष्णोरपि तत्पराणाम् ।

द्वेषात् तमोऽन्धं त्वरया समाप्नुयुर्देवाः स्वकाले निजयोग्यमुक्तिम् ॥ । ११९॥

चतुःसहस्रे त्रिशतोत्तरे गते संवत्सराणां तु कलौ पृथिव्याम् ।

जातः पुनर्विप्रतनुः स भीमो दैत्यैर्निगूढं हरितत्त्वमाह ॥ । १२०॥

तदैव कृष्णाऽपि भुवि प्रजाता प्रीत्यै हरेरन्धतमस्यपातयत् ।

महासुरान् विष्णुपरार्जुनाद्या कृते प्रजाता हरितोषणाय ।

पुनश्च ते स्थानमवाप्य सर्वे स्वीयं परान्ते तु विमुक्तिमाप्नुयुः ॥ । १२१॥

वायुत्वमाप्तः स हनूमदंशो ब्राह्मं पदं प्राप्य वृकोदरश्च ।

वागीश्वरत्वं गतयैव कृष्णया सहैव मुक्तिं गमिताऽखिलोत्तमाम् ॥ । १२२॥

भुवि द्युलोके च विरिञ्चतायां मुक्तौ च ताभ्यामधिकं समस्तात् ।

सन्तोष्यते पूर्णगुणो रमेशः सदैव नित्योर्जिततद्रतिभ्याम् ॥ । १२३॥

' भूषन् न यो ऽधि बभ्रूषु नम्नते' ' बळ् इत्था तद् वपुषे धायि दर्शतं' ।

' तां सु ते कीर्तिम् मघवन् महित्वा' इत्यादिसूक्तानि च तत्प्रमाणम् ॥ । १२४॥

(ऋग्वेद १\.१४०\.६, १\.१४१\.१, १०\.५४\.१) अन्यानि वाक्यानि च वैदिकानि सपञ्चरात्रोक्तिपुराणकानि ।

पृष्टश्च भीष्मोऽत्र युधिष्ठिरेणैतन्मोक्षधर्मेष्वपि किञ्चिदाह ॥ । १२५॥

एवं प्रयातेषु सुकेशवेषु स्वानेव लोकान् यदुपाण्डवेषु ।

परीक्षिदाद्यास्तु तदन्वयोत्था व्यासानुशिष्टाः पृथिवीमरक्षन् ॥ । १२६॥

तै क्षेमकान्तैरिह भारतादिशास्त्राणि शृण्वद्भिरशेषविद्भिः ।

व्यासप्रभावाच्च कलौ च धर्मो ज्ञानं च सुत्रातमगान्न नाशम् ॥ । १२७॥

संवत्सराणां तु सहस्रके गते प्राप्तेषु च द्यामखिलेषु सत्सु ।

दग्धा पुरा ये त्रिपुरं घ्नतैव रुद्रेण जाताः पृथिवीतळे ते ॥ । १२८॥

अदर्शनं सर्वमुनीन्द्रवृन्दैः सहैव सज्ज्ञानमहानिदाने ।

व्यासे प्रयातेऽपि सुतत्त्वविद्या तत्सम्प्रदायादपि तैरवाप्ता ॥ । १२९॥

उत्सादितत्वात्तु दुरागमानां तत्सम्प्रदायस्य च नाशितत्वात् ।

प्रसारितत्वाच्च सदागमानां पापा अपि ज्ञानमवापुरेतत् ॥ । १३०॥

शुना पुरोडाशमिवावलीढं वेदश्रुतिं वाऽन्त्यजनैरवाप्ताम् ।

अनन्तदुःखाप्तिसुयोग्यदैत्यैर्विद्यामवाप्तां तु न सेहिरे सुराः ॥ । १३१॥

नावाग्गतिः क्वापि सुवेदिनां भवेत् प्राप्यं सुखं नित्यमवश्यमेभिः ।

प्राप्यं तमोऽन्धं त्वसुरैर्न मुक्तिः कदाचिदाप्या तदचिन्तयन् सुराः ॥ । १३२॥

ज्ञानप्रदानाय सतां तदन्यज्ञानप्रणाशाय च विष्णुनैते ।

क्लृप्तास्ततस्ते सविरिञ्चशर्वा विज्ञापयामासुरुपेत्य विष्णुम् ॥ । १३३॥

क्षीरोदधेरुत्तरतीरविष्ठितैरभिष्टुतः सुष्टुतिभिः पुरुष्टुतः ।

प्रदाय तेषामभयं रमापतिः क्षणादभूच्चारुतमाकृतिः शिशुः ॥ । १३४॥

यस्त्रैपुराणां प्रथमोऽत्र जातः शुद्धोदनेत्येव जिनेति चोक्तः ।

क्षेत्रे गयाख्येऽस्य शिशुं प्रजातं सम्प्रास्य दूरेऽत्र बभूव विष्णुः ।

अजानमानाः स्वशिशुं गतं तं शिशुं हरिं वीक्ष्य निजं स्म मेनिरे ॥ । १३५॥

तेषां तदा वैदिककर्म वीक्ष्य सम्प्राहसत् तद्वपुषैव केशवः ।

तं जातमात्रं प्रहसन्तमीक्ष्य सुविस्मितैः पृष्ट उवाच विष्णुः ।

बुद्धोऽहमित्येव सुनित्यबोधाज्जगाद चैषामथ बुद्धदर्शनम् ॥ । १३६॥

तथाऽप्यविश्वासमवेक्ष्य तेषां सस्मार देवानखिलान् जनार्दनः ।

विज्ञाय ते तस्य मनोगतं निजान् प्रचिक्षिपुर्हेतिगणानमुष्मिन् ॥ । १३७॥

स जातमात्रः शिवपूर्वकाणां शूलादिहेतीरखिला निगीर्य ।

दैत्यातिमोहाय निजं च चक्रं स्वमुक्तमाश्वेव वशी समग्रहीत् ॥ । १३८॥

तदासनत्वेन विधाय तस्मिन् समास्थितं देवगणाः प्रणम्य ।

जग्मुः स्वधामानि वचांसि चास्य स्वीचक्रुराश्वेव जिनादिदैत्याः ॥ । १३९॥

ते ज्ञानधर्मावपहाय पापा विमोहिता देववरेण सर्वे ।

जग्मुस्तमोऽन्धं क्षणिकं समस्तं ज्ञानं नसच्चेति दृढं स्मरन्तः ॥ । १४०॥

नारायणोऽप्याप्य सुरेन्द्रवृन्दं वृत्तं च तेषामखिलं निगद्य ।

पृष्टश्च तैराह निजं हृदिस्थं बौद्धागमार्थं सृतिबन्धमोचनम् ॥ । १४१॥

क्षणादयं क्षणिकास्तद्विशेषा यतः प्रयान्त्येव निसर्गतोऽखिलाः ।

ततः स्थिरत्वेऽपि विशेषसंश्रयादुक्तं क्षणस्थायि मया समस्तम् ॥ । १४२॥

तद्वान् विशेषश्च यतो न भिन्नो सदा स्वनिर्वाहकशक्तियुक्तौ ।

अतः क्षणस्थायि समस्तमेतत् स्थिरात्मकं चेति हि नास्ति भेदः ॥ । १४३॥

ज्ञोऽहं सदैकः परमो मयैतत् सदाऽननीयं हि यतोऽस्वतन्त्रम् ।

ज्ञानात्मकं विश्वमतो मयोक्तं जडस्वरूपं च किमु स्म चेतनम् ॥ । १४४॥

शंशीलकोऽहं यत एव चोच्चः शूनामकस्तद्धि मया निधेयम् ।

शून्याभिधं दोषविरुद्धरूपो दोषोज्झितोऽन्यस्त्वखिलादनामा ।

एनैव साद्यं त्वसदेव नामतस्त्वभाव एनैव भवेद् यतस्तत् ॥ । १४५॥

इत्यादि बोद्धव्यमिदं समस्तं मयोदितं क्वापि न हेयमस्ति ।

इत्यादि देवान् प्रतिबोधयंश्च देवैः सहोवास स बुद्धदेवः ।

गत्वा स्वधामाप्यपरेण रूपेणाऽस्ते पृथक् चैकतनुर्यथेष्टम् ॥ । १४६॥

ततस्तु बुद्धोदितपक्षसंस्थो जिनोऽपि चक्रे मतमन्यदेव ।

बौद्धेन जैनेन मतेन चैव दैत्यांशकाः प्रीतिमगुः समस्ताः ॥ । १४७॥

प्रशान्तविद्येत्यभिधं तथाऽन्यद् बुद्धोक्तशास्त्रं त्रिदशा अवाप्य ।

तोषं ययुर्वेदसमस्तसारं यामास्थितानामचिरेण मुक्तिः ॥ । १४८॥

अन्ये मनुष्या अपि भारताद्यं सत्सम्प्रदायं परिगृह्य विष्णुम् ।

यजन्त आपुः परमां गतिं तन्न सेहिरे क्रोधवशादिदैत्याः ॥ । १४९॥

शैवं तपस्ते विपुलं विधाय जगद्विमोहोर्जितशक्तिमस्मात् ।

प्राप्य प्रजाता भुवि मोहनं च चक्रुः कुतर्कैरभिदां वदन्तः ॥ । १५०॥

तेषां प्रपाताय सतां च मुक्त्यै जन्माऽस भीमस्य यदुक्तमत्र ।

दुर्गा पुनर्विप्रकुलेऽवतीर्णा हनिष्यति व्रातमथासुराणाम् ॥ । १५१॥

ततः कलेरन्तमवाप्य धर्मज्ञानादिकल्याणगुणप्रहीने ।

लोके विरिञ्चत्रिपुरघ्नशक्रपूर्वाः पयोब्धिं त्रिदशाः प्रजग्मुः ॥ । १५२॥

नारायणस्तैः स्तुतिपूर्वमर्थितो भवाय लोकस्य स शम्भळाख्ये ।

ग्रामे मुनेर्विष्णुयशोऽभिधस्य गृहे बभूवाऽविरचिन्त्यशक्तिः ॥ । १५३॥

कलेस्तु कात्कारत एष कल्की ज्ञानं कलं कं सुखमेव तद्वान् ।

कल्कीति वा तेन समस्तदस्युविनाशनं तेन दिनाद् व्यधायि ॥ । १५४॥

अधर्मवृत्तं विमुखं हरेश्च निहत्य निःशेषजनं तुरङ्गी ।

संस्थापयामास स धर्मसेतुं ज्ञानं स्वभक्तिं च निजप्रजासु ॥ । १५५॥

इत्याद्यनन्तानि हरेरुदारकर्माणि रूपाणि च सद्गुणाश्च ।

नित्यव्यपेताखिलदोषकस्य ब्रह्मेत्यनन्तेति च नाम येन ॥ । १५६॥

आनन्दतीर्थाख्यमुनिः सुपूर्णप्रज्ञाभिधो ग्रन्थमिमं चकार ।

नारायणेनाभिहितो बदर्यां तस्यैव शिष्यो जगदेकभर्तुः ॥ । १५७॥

यस्तत्प्रसादादखिलांश्च वेदान् सपञ्चरात्रान् सरहस्यसङ्ग्रहान् ।

वेदेतिहासांश्च पुराणयुक्तान् यथावदन्या अपि सर्वविद्याः ॥ । १५८॥

समस्तशास्त्रार्थविनिर्णयोऽयं विशेषतो भारतवर्त्मचारी ।

ग्रन्थः कृतोऽयं जगतां जनित्रं हरिं गुरुं प्रीणयताऽमुनैव ।

विनिर्णयो नास्त्यमुना विना यद् विप्रस्थितानामिव सर्ववाचाम् ॥ । १५९॥

तद् ब्रह्मसूत्राणि चकार कृष्णो व्याख्याऽथ तेषामयथा कृताऽन्यैः ।

निगूहितं यत् पुरुषोत्तमत्वं सूत्रोक्तमप्यत्र महासुरेन्द्रैः ।

जीवेश्वरैक्यं प्रवदद्भिरुग्रैर्व्याख्याय सूत्राणि चकार चाऽविः ॥ । १६०॥

व्यासाज्ञया भाष्यवरं विधाय पृथक्पृथक् चोपनिषत्सुभाष्यम् ।

कृत्वाऽखिलान्यं पुरुषोत्तमं च हरिं वदन्तीति समर्थयित्वा ॥ । १६१॥

तनुस्तृतीया पवनस्य सेयं सद्भारतार्थप्रतिदीपनाय ।

ग्रन्थं चकारेममुदीर्णविद्या यस्मिन् रमन्ते हरिपादभक्ताः ॥ । १६२॥

तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः ॥

निर् यद् ईम् बुध्नान् महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः ।

यद् ईम् अनुप्रदिवो मध्व आधवे गुहासन्तम् मातरिश्वा मथायति' ॥ । १६३॥

(ऋग्वेद १\.१४१\.२\-३) इत्यादिवाक्योक्तमिदं समस्तं तथा पुराणेषु च पञ्चरात्रे ।

अत्रोदिता याश्च कथाः समस्ता वेदेतिहासादिविनिर्णयोक्ताः ॥ । १६४॥

तस्मादयं ग्रन्थवरोऽखिलोरुधर्मादिमोक्षान्तपुमर्थहेतुः ।

किं वोदितैरस्य गुणैस्ततोऽन्यैर्नारायणः प्रीतिमुपैत्यतोऽलम् ॥ । १६५॥

यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।

वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ॥ । १६६॥

यः सर्वगुणसम्पूर्णः सर्वदोषविवर्जितः ।

प्रीयतां प्रीत एवालं विष्णुर्मे परमः सुहृत् ॥ । १६७॥

{इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते}

{श्रीमहाभारततात्पर्यनिर्णये}

{(पाण्डवस्वर्गारोहणं नाम) द्वात्रिंशोऽध्यायः}