जनार्दनाज्ञया मयः समस्तकौतुकोत्तराम्

एकविंशोऽध्यायः
सर्वशास्त्रतात्पर्यनिर्णयः

औं ॥ जनार्दनाज्ञया मयः समस्तकौतुकोत्तराम् ।

सभां विधाय भूभृते ददौ गदां वृकोदरे ॥ १॥

स वायुधारितां गदां हि यौवनाश्वभूभृता ।

प्रसादतोऽस्य लम्भितामवाप्य मोदमाप ह ॥ २॥

पुनश्च वत्सरद्वयं समुष्य केशवो ययौ ।

समर्चितश्च पाण्डवैर्वियोजनेऽस्य चाक्षमैः ॥ ३॥

ततो वसन् स्वपुर्यजः क्वचिद् रविग्रहे हरिः ।

सदारपुत्रबान्धवः समन्तपञ्चकं ययौ ॥ ४॥

पृथासुताश्च सर्वशः सदारपुत्रमातृकाः ।

क्षितीश्वराश्च सर्वशः प्रियाप्रिया हरेश्च ये ॥ ५॥

तथैव नन्दगोपकः सदारगोपगोपिकः ।

मुनीश्वराश्च सर्वतः समीयुरत्र च प्रजाः ॥ ६॥

प्रियाश्च ये रमेशितुर्हरिं त्रिरूपमेत्य ते ।

वसिष्ठवृष्णिनन्दनं भृगूत्तमं तथाऽऽर्चयन् ॥ ७॥

कृतार्थतां च ते ययू रमेशपाददर्शनात् ।

रविग्रहे समाप्लुता भृगूद्वहोत्थतीर्थके ॥ ८॥

अनुग्रहं विधाय स स्वकेषु केशवस्त्रिवृत् ।

अयाजयच्च शूरजं मखैः समाप्तदक्षिणैः ॥ ९॥

समस्तलोकसंस्थितात्मभक्तिमज्जनस्य सः ।

सुकालदर्शनात् परं व्यधादनुग्रहं हरिः ॥ १०॥

ततो ययौ स्वकां पुरीं पृथासुतैः सहाच्युतः ।

चकार तत्र चाऽह्निकं क्रतुं महाश्वमेधकम् ॥ ११॥

हयं सभीमफल्गुना हरे रथं समास्थिताः ।

व्यचारयन् हरेः सुता दिनस्य पादमात्रतः ॥ १२॥

जिताः समस्तभूभृतो जरासुतादयः क्षणात् ।

वृकोदरादिभिस्तु तैर्हयश्च दिव्य आययौ ॥ १३॥

हयः स कृष्णनिर्मितो दिनेन लक्षयोजनम् ।

क्षमो हि गन्तुमञ्जसा दिनाश्वमेधसिद्धये ॥ १४॥

पराशरात्मजो हरिर्हरिं यदा त्वदीक्षयत् ।

तदाऽऽससाद ह द्विजस्तृणावहो रुराव च ॥ १५॥

ब्रजन्ति जन्मनोऽनु मे सदा सुता अदृश्यताम् ।

इतीरितेऽर्जुनोऽब्रवीदहं हि पामि ते सुतान् ॥ १६॥

न कृष्णरामकार्ष्णिभिः सुता नु मेऽत्र पालिताः ।

क्व तेऽत्र शक्तिरित्यमुं जगाद सोऽर्जुनं द्विजः ॥ १७॥

तदा जगाद फल्गुनोऽसुरैर्विदूषितात्मना ।

न विप्र तादृशोऽस्म्यहं यथैव केशवादयः ॥ १८॥

मया जिता हि खाण्डवे सुरास्तथाऽसुरानहम् ।

निवातवर्मनमकान् विजेष्य उत्तरत्र हि ॥ १९॥

उदीर्य चेति केशवं स ऊचिवान् व्रजाम्यहम् ।

इतीरितोऽवदद्धरिस्तवात्र शक्यते नु किम् ॥ २०॥

विलज्जमानमीक्ष्य तं जगाद केशवोऽरिहा ।

व्रजेति स प्रतिश्रवं चकार हाप्यरक्षणे ॥ २१॥

वह्निं प्रवेक्ष्येऽशक्तश्चेदित्युक्त्वा सर्वयादवैः ।

ययौ न रामप्रद्युम्नावनिरुद्धं च केशवः ।

न्ययोजयत् तत्सहाये यशस्तेष्वभिरक्षितुम् ॥ २२॥

प्रियो हि नितरां रामः कृष्णस्यानु च तं सुतः ।

अनिरुद्धः कार्ष्णिमनु प्रद्युम्नाद् योऽजनिष्ट हि ।

रुग्मिपुत्र्यां रुग्मवत्यामाहृतायां स्वयम्बरे ॥ २३॥

रतिरेव हि या तस्यां जातोऽसौ कामनन्दनः ।

पूर्वमप्यनिरुद्धाख्यो विष्णोस्तन्नाम्न एव च ।

आवेशयुक्तो बलवान् रूपवान् सर्वशास्त्रवित् ॥ २४॥

तस्मात् तांस्त्रीनृते कृष्णः पार्थसाहाय्यकारणात् ।

न्ययोजयत् सूतिकाले ब्राह्मण्याः स च फल्गुनः ॥ २५॥

अस्त्रैश्चकार दिग्बन्धं कुमारोऽथापितु क्षणात् ।

अदर्शनं ययौ पार्थो विषण्णः सह यादवैः ।

अधिक्षिप्तो ब्राह्मणेन ययौ यत्र श्रियःपतिः ॥ २६॥

वह्निं विविक्षन्तममुं निवार्य ययौ सविप्रः सहफल्गुनो हरिः ।

आशामुदीचीं बृहता रथेन क्षणेन तीर्त्वैव च सप्तवारिधीन् ॥ २७॥

ददुश्च मार्गं गिरयोऽब्धयस्तथा विदार्य चक्रेण तमोऽन्धमीशः ।

घनोदकं चाप्यतितीर्य तत्र ददर्श धाम स्वमनन्तवीर्यः ॥ २८॥

संस्थाप्य दूरे सरथं सविप्रं पार्थं स्वरूपे द्विचतुष्कबाहौ ।

समस्तरत्नोज्ज्वलदिव्यभूषणे विवेश नित्योरुगुणार्णवे प्रभुः ॥ २९॥

सहस्रमूर्धन्युरुशेषभोग आसीनरूपेऽमितसूर्यदीधितौ ।

रमासहाये तटिदुज्ज्वलाम्बरे मुक्तैर्विरिञ्चादिभिरर्चिते सदा ॥ ३०॥

स्थित्वैकरूपेण मुहूर्तमीश्वरो विनिर्ययौ विप्रसुतान् प्रगृह्य ।

सुनन्दनन्दादय एव पार्षदास्ते वैष्णवा भूमितळे प्रजाताः ॥ ३१॥

दर्पं निहन्तुं हरिरर्जुनस्य समानयद् विप्रसुतान् परेशः ।

प्रीतिर्महत्येव यतोऽर्जुने हरेः संशिक्षयामास ततः स एनम् ॥ ३२॥

अप्राकृतात् सदनाद् वासुदेवो विस्सृत्य सूर्याधिकलक्षदीधितेः ।

रथं समारुह्य सपार्थविप्र आगात् सुतांश्चैव ददौ द्विजाय ॥ ३३॥

लोकशिक्षार्थमेवासौ प्रायश्चित्तं च चालने ।

चक्रे सार्द्धमुहूर्तेन समागम्य पुनर्मखम् ॥ ३४॥

ब्रह्मादीनागतांश्चैव सदा स्वपरिचारकान् ।

पूजयित्वाऽभ्यनुज्ञाय ब्राह्मणानप्यपूजयत् ॥ ३५॥

सस्नाववभृथं कृष्णः सदारः ससुहृज्जनः ।

आयान्तं द्वारकां कृष्णं दन्तवक्रो रुरोध ह ॥ ३६॥

जघान गदया कृष्णस्तं क्षणात् सविडूरथम् ।

विडूरथस्तमोऽगच्छद् दन्तवक्रे च योऽसुरः ॥ ३७॥

हरेः पार्षदः क्षिप्रं हरिमेव समाश्रितः ।

कृष्णे प्राप्ते स्वलोकं च निस्सृत्यास्मात् स्वरूपतः ।

एकीभावं स्वरूपेण द्वारपेण गमिष्यति ॥ ३८॥

ततः कृष्णः पुरीमेत्य बोधयामास फल्गुनम् ।

किमेतद् दृष्टमित्येव तेन पृष्टो रमापतिः ॥ ३९॥

अयं द्वीपः सागरश्च लक्षयोजनविस्तृतौ ।

तदन्ये तु क्रमेणैव द्विगुणेनोत्तरोत्तराः ॥ ४०॥

अन्त्याध्यर्द्धस्थलं हैमं बाह्यतो वाज्रलेपिकम् ।

एतत् सर्वं लोकनाम ह्येतस्माद् द्विगुणं तमः ।

अन्धं यत्र पतन्त्युग्रा मिथ्याज्ञानपरायणाः ॥ ४१॥

घनोदकं तद्द्विगुणं तदन्ते धाम मामकम् ।

यत्तद् दृष्टं त्वया पार्थ तत्र मुक्तैरजादिभिः ।

सेव्यमानः स्थितो नित्यं सर्वैः परमपूरुषः ॥ ४२॥

लोकालोकप्रदेशस्तु पञ्चाशल्लक्षविस्तृतः ।

सपञ्चाशत्सहस्रश्च तस्यापि गणनं तथा ॥ ४३॥

योजनानां पञ्चविंशत्कोटयो मेरुपर्वतात् ।

चतसृष्वपि दिक्षूर्ध्वमधश्चाण्डं प्रकीर्तितम् ॥ ४४॥

अबग्नीरनभोहङ्कृन्महत्तत्त्वगुणत्त्रयैः ।

क्रमाद् दशोत्तरैरेतदावृतं परतस्ततः ॥ ४५॥

व्याप्तोऽहं सर्वगोऽनन्तोऽनन्तरूपो निरन्तरः ।

अनन्तशीर्षोऽनन्ताक्षोऽनन्तपादकरोरुकः ।

अनन्तगुणमाहात्म्यश्चिदानन्दशरीरकः ॥ ४६॥

मद्वशा एव सर्वेऽपि त्वं चान्ये च धनञ्जय ।

मत्प्रसादाद् बलं चैव विजयश्चाखिला गुणाः ।

तस्मान्न विस्मयः कार्यो न दर्पश्च त्वयाऽनघ ॥ ४७॥

' मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।

मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे' ।

(भ\.गी\. १८\-६५) इत्युक्तः प्रणिपत्यैनं क्षमस्वेत्याह फल्गुनः ॥ ४८॥

उषित्वा कतिचिन्मासान् ययुः सर्वेऽपि पाण्डवाः ।

अनुज्ञाताः केशवेन भक्तिनम्रधियोऽच्युते ।

सम्भाविताः केशवेन सौहार्देनाधिकेन च ॥ ४९॥

ततः कदाचित् प्रवरे सभातळे धर्मात्मजो राजभिर्भ्रातृभिश्च ।

वृतो निशम्यैव सभाः सुराणां यथा स्थिता नारदमन्वपृच्छत् ॥ ५०॥

अन्तरिक्षं त्वया प्रोक्तं लक्षयोजनमुच्छ्रितम् ।

अर्द्धकोट्युच्छ्रितः स्वर्गो विमानावलिसङ्कुलः ॥ ५१॥

भुवः स्वर्गश्च कोट्यैव योजनानां प्रविस्तृतौ ।

महर्जनस्तपश्चैव क्रमादध्यर्द्धयोजनाः ।

पञ्चाशत्कोटिविस्तारा योजनानां समस्तशः ॥ ५२॥

यावन्त एते मिळितास्तत्प्रमाण उदीरितः ।

सत्याख्यो ब्रह्मलोकस्तु यत्र ब्रह्मा विराजते ॥ ५३॥

ततश्च द्विगुणः प्रोक्तो विष्णुलोकः सनातनः ।

उत्तरोत्तरतः सर्वे सुखे शतगुणोत्तराः ॥ ५४॥

अनन्तजनसम्पूर्णा अपि ते हीच्छया हरेः ।

अवकाशवन्तो दिव्यत्वात् पूर्यन्ते न कदाचन ।

सर्वकामसुखैः पूर्णा दिव्यस्त्रीपुरुषोज्ज्वलाः ॥ ५५॥

दिव्यरत्नसमाकीर्णं तथा पाताळसप्तकम् ।

अधस्ताच्छेषदेवेन बलिना समधिष्ठितम् ॥ ५६॥

कामभोगसमायुक्ता बहुवर्षसहस्रिणः ।

सप्तद्वीपेषु पुरुषा नार्यश्चोक्ताः सुरूपिणः ॥ ५७॥

एषां च सर्वलोकानां धाता नारायणः परः ।

विष्णुलोकस्थितो मुक्तैः सदा सर्वैरुपास्यते ॥ ५८॥

सेवका ब्रह्मणश्चैव देवा वेदाश्च सर्वशः ।

शक्रश्च मुनयः सर्वे हरिश्चन्द्रश्च भूमिपः ॥ ५९॥

अखिला अपि राजानः पाण्डुश्चास्मत्पिता मुने ।

यमस्यैवानुगाः प्रोक्ता राजभिस्तैर्यमेन च ॥ ६०॥

उपास्यमानो भगवान् रामो यमसभातळे ।

उक्त इन्द्रेण चोपास्यो वामनात्मा जनार्दनः ॥ ६१॥

प्रादुर्भावाश्च निखिला ब्रह्मणोपासिताः सदा ।

वरुणस्यानुगा नागास्तत्र मत्स्याकृतिर्हरिः ।

गन्धर्वा धनदस्यापि तत्र कल्की हरिः प्रभुः ॥ ६२॥

रुद्रस्योग्राणि भूतानि नृसिंहात्मा शिवेन च ।

उपास्यते सदा विष्णुरित्याद्युक्तं त्वयाऽनघ ।

सर्वरत्नस्थलान् दिव्यान् देवलोकान् प्रभाषता ॥ ६३॥

तत्र मे संशयो भूयान् हरिश्चन्द्रः कथं नृपः ।

ऐन्द्रं सभातळं प्राप्तः पाण्डुर्नास्मत्पिता मुने ॥ ६४॥

इत्युक्तो नारदः प्राह राजसूयकृतोन्नतिम् ।

हरिश्चन्द्रस्य तां दृष्ट्वा पिता यमसभातळे ।

स्थितस्त्वामवदत् पाण्डू रामद्वयसुदैवते ॥ ६५॥

करोतु राजसूयं मे पुत्रोऽजेयानुजार्चितः ।

पालितो वासुदेवेन किं तस्यासाध्यमत्र हि ॥ ६६॥

एतच्छ्रुत्वा धर्मसुतो भ्रातृभिः सहितो वशी ।

अवाप्तिं राजसूयस्य मन्त्रयामास धर्मवित् ॥ ६७॥

सुकार्यमेतदित्यलं निशम्य सोदरोदितम् ।

अयातयत् स्वसारथिं स केशवाय भूपतिः ॥ ६८॥

तदैव केशवस्य याः स्त्रियस्तदीयतातकैः ।

सहोदरैश्च यापितः सुदूत आप माधवम् ॥ ६९॥

प्रणम्य केशवं वचः स आह मागधेन ते ।

विवाहबान्धवा रणे विजित्य रोधिता गिरौ ॥ ७०॥

नृपायुतद्वयेन सोऽष्टविंशकैः शतैरपि ।

यियक्षुरुग्ररूपिणं त्रिलोचनं त्वयि स्थिते ॥ ७१॥

विमोचयस्व तान् प्रभो निहत्य मागधेश्वरम् ।

अवैदिकं मुखं च तं विलुम्प धर्मगुप्तये ॥ ७२॥

इतीरितोऽथ सारथिं निशाम्य धर्मजस्य च ।

निशम्य तद् वचस्तदा जगाम पाण्डवालयम् ॥ ७३॥

स पाण्डवैः समर्चितो मखाय धर्मजेन च ।

प्रपृष्ट आह माधवो वचो जगत्सुखावहम् ॥ ७४॥

क्रतुर्यथाविधानतः कृतो हि पारमेष्ठ्यकम् ।

पदं नयेत तत्पदे सुयोग्यमेष नान्यथा ॥ ७५॥

अयोग्यकान्महापदे विधातुरेष हि क्रतुः ।

समानयोग्यतागणात् करोति मुक्तिगं वरम् ॥ ७६॥

पुरा तु मुक्तितोऽधिकं स्वजातितः करोति च ।

अतस्त्रिशङ्कुपुत्रको नृपानतीत्य वर्तते ॥ ७७॥

सुरांशकोऽपि ते पिता विना हि राजसूयतः ।

न शक्ष्यति त्रिशङ्कुजाद् वरत्वमाप्तुमद्य तु ॥ ७८॥

तपश्चरन् समागते शचीपतौ पिता तव ।

मरुद्गणोत्तमः पुरा नतूत्थितः शशाप सः ॥ ७९॥

व्रजस्व मानुषीं तनुं ततो मृतः पुनर्दिवम् ।

गतोऽपि नः स्वकां तनुं प्रवेष्टुमत्र नेशसे ॥ ८०॥

तदाऽधिकस्त्रिशङ्कुजो भविष्यतु त्वदित्यथ ।

क्षमापितश्च वासवो जगाद राजसूयतः ।

त्रिशङ्कुजाधिको भवानवाप्स्यति स्वकां तनुम् ॥ ८१॥

अतः सुकार्य एव ते युधिष्ठिर क्रतूत्तमः ।

भवद्भिरप्यवाप्यते स्वयोग्यताऽमुनाऽखिला ॥ ८२॥

उदीर्य चैवमीश्वरः क्रतोरमुष्य योग्यता ।

वृकोदरे यतोऽखिला चतुर्मुखत्वयोग्यता ॥ ८३॥

ततः सुपूर्णमस्य तत् फलं विधातुमञ्जसा ।

जगाद वायुवाहनो वचो युधिष्ठिरं त्विदम् ॥ ८४॥

क्व राजसूयमद्य ते जरासुते तु जीवति ।

जयेत् क एव तं युधा मृतो न योऽपि सीरिणा ॥ ८५॥

विरिञ्चशर्ववाक्यतः समस्तलोकजायिनि ।

स्थिते तु ते जरासुते न सेत्स्यति क्रतूत्तमः ॥ ८६॥

इतीरिते रथाङ्गिना जगाद धर्मनन्दनः ।

निवर्तितं मनः क्रतोरलं ममामुना प्रभो ॥ ८७॥

बभूवुरेव भूभृतो नचाऽधिराज्यमापिरे ।

यदा च चक्रवर्तिनस्तदेदृशा न शत्रवः ॥ ८८॥

इतीरितेऽमुनाऽवदत् प्रधानमारुतात्मजः ।

पदं चतुर्मुखस्य वा सुसाध्यमेव यत्नतः ॥ ८९॥

निजानुभाववर्जिता हरेरनुग्रहोज्झिताः ।

महाप्रयत्नवर्जिता जना न जग्मुरुन्नतिम् ॥ ९०॥

स्थिरोऽनुभाव एव मे महाननुग्रहो हरेः ।

प्रयत्नमेकमग्रतो निधाय भूतिमाप्नुमः ॥ ९१॥

इतीरितेऽमुना हरिः समुद्यमात् प्रधानतः ।

स्थिते हि यज्ञकारणे वृकोदरे जगाद ह ॥ ९२॥

स एक एव पूरुषो जरासुतोऽद्य वर्तते ।

समस्तसद्विरोधिनां बलं कलेरनन्तरः ॥ ९३॥

तथा सतां समाश्रयो यदुद्भवाः सतां गुणाः ।

स एक एव तादृशस्त्वया विचिन्त्य यात्यताम् ॥ ९४॥

यदि स्म तेन मागधो निहन्यते सतां जयः ।

विपर्ययेण चासतामिति स्म विद्धि नान्यथा ॥ ९५॥

स पारमेष्ठ्यसत्पदं प्रयात्यसंशयं युधि ।

य एव हन्ति मागधं स वेदधर्मपालकः ॥ ९६॥

निहन्ति मागधेश्वरं य एष वैष्णवं जगत् ।

करोति शर्वपालितो यतः स बार्हद्रथः ॥ ९७॥

निहन्ति शैवनायकं य एष वैष्णवाग्रणीः ।

इति स्म भावसंयुते वदत्यजेऽबिभेन्नृपः ॥ ९८॥

युधिष्ठिरे ब्रुवत्यजं मखेन मे त्वलं त्विति ।

तमाह मारुतात्मजो निहन्मि मागधं रणे ॥ ९९॥

इतीरितेऽवदद्धरिर्व्रजामहे वयं त्रयः ।

अहं च भीमफल्गुनौ निहन्तुमेव मागधम् ॥ १००॥

वृकोदरेण हन्यते यदि स्म मागधाधिपः ।

मखश्च सेत्स्यते ध्रुवं जगच्च ते वशे भवेत् ॥ १०१॥

इतीरिते तु शौरिणा जगाद धर्मनन्दनः ।

स शूरसेनमण्डलप्रहाणतो हरेस्त्रसन् ॥ १०२॥

भयाद्धि यस्य माधुरं विहाय मण्डलं गताः ।

भवन्त एव सागरं ततो बिभेम्यहं रिपोः ॥ १०३॥

इमौ हि भीमफल्गुनौ ममाक्षिणी सदा प्रभो ।

मनोनिभो भवान् सदा न वो विनाऽस्म्यतः पुमान् ॥ १०४॥

अतो न जीवितात् प्रियानहं रिपोर्बलीयसः ।

सकाशमात्महेतुतः प्रयातयामि वो विभो ॥ १०५॥

इतीरितेऽवदत् पुनर्वृकोदरोऽरिकक्षभुक् ।

यदीयनेतृका रमाविरिञ्चशर्वपूर्वकाः ॥ १०६॥

वशे च यस्य तद् बलं सुरासुरोरगादिनाम् ।

स एष केशवः प्रभुः क्व चास्य बार्हद्रथः ॥ १०७॥

अधृष्यमस्ति मे बलं हरिः प्रणायकोऽस्य च ।

समस्तलोकनेतरि प्रभौ हि सर्वशक्तिता ॥ १०८॥

अजेयता तथाऽर्जुने हरेर्वरोद्भवाऽस्ति हि ।

अतो वयं त्रयोऽद्य तं प्रयाम मागधं रिपुम् ॥ १०९॥

हनिष्य एव मागधं हरेः पुरो न संशयः ।

इतीरितेऽमुना हरिर्जगाद धर्मनन्दनम् ॥ ११०॥

वयं त्रयः समेत्य तं प्रयातयाम मृत्यवे ।

हनिष्यति स्फुटं रणे वृकोदरो जरासुतम् ॥ १११॥

भयं न कार्यमेव ते मया हतः स नेति ह ।

मया हि नीतिहेतुतः स्वयं न हन्यते रिपुः ॥ ११२॥

स शर्वसंश्रयाग्रणीर्मदाश्रयोत्तमेन तु ।

निहन्यते यदा तदा प्रकाशितं हि मे बलम् ॥ ११३॥

अतो न शङ्कितं मनः कुरुष्व भूपते क्वचित् ।

प्रदर्शयामि तेऽनुजौ निहत्य मागधेश्वरम् ॥ ११४॥

इतीरितः स विष्णुना विचार्य तद्गुणान् परान् ।

तथेति चाऽह ते त्रयः प्रतस्थुराशु मागधान् ॥ ११५॥

समेत्य मागधांस्तु ते शिवोरुलिङ्गमित्यलम् ।

सुमाल्यवस्त्रभूषणैः समर्चितं गिरिं ययुः ॥ ११६॥

स्वशीर्षतोऽपि चाऽदृतं जरासुतेन ते गिरिम् ।

न्यपातयन्त बाहुभिस्तमस्य चोत्तमाङ्गवत् ॥ ११७॥

अद्वारतस्ते नगरं प्रविश्य माषस्य नाळेन कृतास्त्रिभेरीः ।

पुष्टिप्रदा बिभिदुस्तस्य कीर्तिशास्त्रोपमा न्यक्कृतमागधेशाः ॥ ११८॥

तथाऽऽपणेभ्यो बहुमाल्यगन्धान् प्रसह्य सङ्गृह्य शुभांश्च दध्रुः ।

अद्वारतस्तस्य गृहं च सस्रुर्भोशब्दतस्तं च नृपः प्रसस्रुः ॥ ११९॥

तान् विप्रवेषान् स निशाम्य राजा महाभुजान् स्नातकवेषयुक्तान् ।

द्वितीयवर्णान् प्रविचिन्त्य बाहून् ज्याकर्कशान् वीक्ष्य बभाष एतान् ॥ १२०॥

के ष्ठाथ किंहेतुत आगताश्च कृतश्च मे पर्वतलिङ्गभेदनम् ।

कृतं भवद्भिः कुत एव दुर्नयाः कृतास्तथाऽन्ये द्विजवर्यवेषैः ॥ १२१॥

इति ब्रुवाणं भगवानुवाच कार्यं हि शत्रोरखिलं प्रतीपम् ।

इत्युक्त ऊचे नहि विप्रशत्रुरहं कुतो वो मम शत्रुता भवेत् ॥ १२२॥

इत्युक्तवाक्यं नृपतिं जगाद जनार्दनो नैव हि तादृशा द्विजाः ।

वयं रिपुस्तेऽस्मि हि वासुदेव इमौ च भीमार्जुननामधेयौ ॥ १२३॥

यद् बान्धवान् नः पिशिताशिधर्मतो रौद्रे मखे कल्पयितुं पशुत्वे ।

इच्छस्यरे वेदपथं विहाय तं त्वां बलाच्छास्तुमिहाऽगता वयम् ॥ १२४॥

विमोक्षयामः स्वजनान् यदि त्वं न मोचयस्यद्य निगृह्य च त्वाम् ।

मुञ्चाथवा तानभियाहि वाऽस्मान् रणाय मर्तुं कृतनिश्चयोऽत्र ॥ १२५॥

इतीरितोऽसौ मगधाधिपो रुषा जगाद नाहं शिव यागयुक्तान् ।

मोक्ष्ये पशून् युगपद् वा क्रमेण योत्स्ये च वोऽथापि चमूसहायान् ॥ १२६॥

निरायुधः सायुधो वा युष्मदिष्टायुधेन वा ।

एकोऽपि सकलैर्योत्स्ये ससेनो वा ससैनिकान् ॥ १२७॥

इत्युक्तवन्तमवददजितोरुबलो हरिः ।

एह्येकमेको वाऽस्मासु ससैन्यो वा रणे नृप ॥ १२८॥

येन कामयसे योद्धुं तं न आसादय द्रुतम् ।

निरायुधः सायुधो वा त्वदभीष्टायुधेन वा ।

इत्याऽह भगवाञ्छत्रुं यशो भीमे विवर्द्धयन् ॥ १२९॥

घातयित्वा स्वशत्रुं च भीमसेनानुग्रहं परम् ।

भीमस्य कर्तुमिच्छंश्च भक्तिज्ञानादिवर्द्धनम् ॥ १३०॥

तृणीकर्तुं रिपुं चैव निरायुधतयाऽगमन् ।

कृष्णभीमार्जुनास्तेन विप्रवेषाश्च तेऽभवन् ॥ १३१॥

निरायुधः क्षत्रवेषो नैव योग्यः कथञ्चन ।

ततो जग्मुर्विप्रवेषास्तृणीकर्तुं हि मागधम् ॥ १३२॥

मागधस्य ससैन्यस्य स्वगृहे संस्थितस्य च ।

निरायुधेन भीमेन समाह्वाने कृतेऽमितम् ।

धर्मं यशश्च भीमस्य वर्द्धयामास केशवः ॥ १३३॥

तृतीयमर्जुनं चैव समादाय ययौ रिपुम् ।

हरिस्तस्माच्च भीमस्य महाधिक्यं प्रकाशयन् ।

मुखेन मागधस्यैव वृण्वेकं न इति ब्रुवन् ॥ १३४॥

वृण्वेकमस्मास्विति स प्रोक्त आह जरासुतः ।

कुर्यां नैवार्जुनेनाहमबलेनैव सङ्गरम् ॥ १३५॥

पञ्चपञ्चाशदब्दोऽद्य ह्ययमेवं च बालवत् ।

अबलत्वाद् युवाऽप्येष बाल एव मतो मम ॥ १३६॥

इत्युक्तोऽप्यर्जुनो नाऽह कुरु तर्हि परीक्षणम् ।

बाहुभ्यां धनुषा वेति शङ्कमानः पराजयम् ॥ १३७॥

अतो भीमे बलाधिक्यं सुप्रसिद्धमभून्महत् ।

एतदर्थं हि कृष्णेन सहाऽनीतः स फल्गुनः ॥ १३८॥

जानन् कृष्णे बलं घोरमविषह्यं स मागधः ।

कुत्सयन् गोप इति तं भयान्नैवाऽह्वयत् प्रभुम् ॥ १३९॥

आह्वयामास भीमं तु स्याद् वा मे जीवनं त्विति ।

हनिष्यत्येव मां कृष्ण इत्यासीन्नृपतेर्भयम् ।

तस्मात् तं नाह्वयामास वासुदेवं स मागधः ॥ १४०॥

अर्जुने तु जिते कृष्णभीमौ मां निहनिष्यतः ।

त्रयाणां दुर्बलाह्वानान्नश्येत् कीर्तिश्च मे ध्रुवा ॥ १४१॥

इति मत्वाऽऽह्वयामास भीमसेनं स मागधः ।

कथञ्चिज्जीवितं वा स्यान्नतु नश्यति मे यशः ॥ १४२॥

इति स्म भीमं प्रतियोधनाय सङ्गृह्य राजा स जरासुतो बली ।

राज्ये निजं चाऽत्मजमभ्यषिञ्चत् पुरा ख्यातं पत्रतापाख्यरुद्रम् ॥ १४३॥

बलं भीमे मन्यमानोऽधिकं तु गदाशिक्षामात्मनि चाधिकां नृपः ।

भीतो नियुद्धेऽस्य ददौ गदां स भीमाय चान्यां स्वयमग्रहीद् बली ॥ १४४॥

तदर्थमेवाऽशु गदां प्रगृह्य भीमो ययौ मागधसंयुतो बहिः ।

पुरात् सकृष्णार्जुन एव तत्र त्वयुद्ध्यतां केशवपार्थयोः पुरः ॥ १४५॥

वाचाऽजयत् तं प्रथमं वृकोदरः शिवाश्रयं विष्णुगुणप्रकाशया ।

ततो गदाभ्यामभिपेततुस्तौ विचित्रमार्गानपि दर्शयन्तौ ॥ १४६॥

तयोर्गदे तेऽशनिसन्निकाशे चूर्णिकृते देहमहादृढिम्ना ।

अन्योन्ययोर्वक्षसि पातिते रुषा यथाऽश्मनोः पांसुपिण्डौ सुमुक्तौ ॥ १४७॥

सञ्चूर्णितगदौ वीरौ जघ्नुतुर्मुष्टिभिर्मिथः ।

ब्रह्मण्डस्फोटसङ्काशैर्यथा केशवकैटभौ ॥ १४८॥

चचाल पृथ्वी गिरयश्च चूर्णिताः कुलाचलाश्चेलुरलं विचक्षुभुः ।

समस्तवाराम्पतयः सुरासुरा विरिञ्चशर्वादय आसदन्नभः ॥ १४९॥

सुरास्तु भीमस्य जयाभिकाङ्क्षिणस्तथाऽसुराद्या मगधाधिपस्य ।

पश्यन्ति सर्वे क्रमशो बलं स्वं समाददे मारुतनन्दनोऽपि ॥ १५०॥

मानयित्वा वरं धातुर्दिवसान् दश पञ्च च ।

वासुदेवाज्ञया भीमः शत्रुं हन्तुं नओ दधे ॥ १५१॥

स प्रणम्य हृषीकेशं हर्षादाश्लिष्य फल्गुनम् ।

रिपुं जग्राह मकुटे वारणं मृगराडिव ॥ १५२॥

पृष्ठेऽस्य जानुमाधाय कूर्मदेशं बभञ्ज ह ।

मृतिकाले पुनर्देहं विददार यथा पुरा ॥ १५३॥

मर्मण्येव न हन्तव्यो मयाऽयमिति मारुतिः ।

स्वपुरुषप्रकाशाय बभञ्जैनममर्मणि ॥ १५४॥

भज्यमाने शरीरेऽस्य ब्रह्माण्डस्फोटसन्निभः ।

बभूव रावो येनैव त्रस्तमेतज्जगत्त्रयम् ॥ १५५॥

निहत्य कृष्णस्य रिपुं स भीमः समर्पयामास तदर्चनं हरेः ।

कृतां हि भीमेन समर्चनां तां समक्षमादातुमिहाऽगतो ह्यजः ॥ १५६॥

स्वीकृत्य पूजां च वृकोदरस्य दृढं समाश्लिष्य च तं जनार्दनः ।

प्रीतो नितान्तं पुनरेव कृष्णं ननाम भीमः प्रणतोऽर्जुनेन ॥ १५७॥

जग्मुः सुराश्चातितरां प्रहृष्टा ब्रह्मादयो दीनतराश्च दैत्याः ।

बलादुमेशस्य वरे प्रभग्ने वृकोदरेणाच्युतसंश्रयेण ॥ १५८॥

सुतो ययौ शरणं तान् रमेशभीमार्जुनान् सहदेवोऽस्य धीमान् ।

रथं स्वसारं च ददौ स मारुतेर्ननाम कृष्णं परया च भक्त्या ॥ १५९॥

रथो ह्यसौ वसुना वासुदेवाच्छक्रान्तराऽऽप्तो वसुवंशजत्वात् ।

जरासुतस्याऽस वृकोदरस्तं हरे रथं प्रार्पयामास तस्मै ॥ १६०॥

कृष्णोऽस्मरद् गरुडं स ध्वजेऽभूद् रथं कृष्णोऽथाऽरुहत् पाण्डवाभ्याम् ।

भीमः कन्यां सहदेवस्य हेतोः समग्रहीदनुजस्याऽत्मनः सः ॥ १६१॥

नकुलस्याऽदान्मद्रराजो हि पूर्वं स्वीयां कन्यां सा तथैषाऽप्युषा हि ।

एका पूर्वं ते अश्विनोश्चैव भार्या यमौ रेमाते यदुषा अश्विभार्या ।

ततः कृष्णायामग्रजभ्रातृभार्यावृत्तिं हि तौ चक्रतुर्माद्रिपुत्रौ ॥ १६२॥

जरासुतस्याऽत्मजः केशवादीन् रत्नैः समभ्यर्च्य ययावनुज्ञया ।

तदाज्ञया पितृकार्याणि कृत्वा तदाज्ञयैवामुचत् तान् नृपांश्च ।

तैः संस्तुतः केशवो भीमपार्थयुक्तो ययौ भक्तिनम्रैर्यथावत् ॥ १६३॥

सम्भावितास्ते सहदेवेन सम्यक् प्रशस्य कृष्णं भीमसेनं च सर्वे ।

ययुर्गृहान् स्वानपतत् केशवद्विड् जरासुतोऽन्धे तमसि क्रमेण ॥ १६४॥

कृष्णश्च पार्थौ च तथैकयानं समास्थिता धर्मजमभ्यगच्छन् ।

तेषां शङ्खध्वनिसम्बोधितात्मा राजा प्रीतश्चातितरां बभूव ॥ १६५॥

द्वैपायनोऽथ भगवानभिगम्य पार्थानाज्ञापयत् सकलसम्भृतिसाधनाय ।

तं राजसूयसहितं परमाश्वमेधयज्ञं समादिशदनन्यकृतं विरिञ्चात् ॥ १६६॥

कर्ता हि तस्य् अपरमेष्ठिपदं प्रयाति यद्यन्यसद्गुणवरैः परमेष्ठितुल्यः ।

भीमे मखस्य फलमत्यधिकं निधातुं व्यासः क्रतुं तमदिशद् गुरुरब्जजस्य ॥ १६७॥

असाधारणहेतुर्यः कर्मणो यस्य चेतनः ।

स एव तत्फलं पूर्णं भुङ्क्तेऽन्योऽल्पमिति स्थितिः ।

विना विष्णुं निर्णयोऽयं स हि कर्मफलोज्झितः ॥ १६८॥

हेतवोऽपि हि पापस्य न प्रायः फलभागिनः ।

देवाः पुण्यस्य दैत्याश्च मानुषास्तद्विभागिनः ॥ १६९॥

असाधारणहेतुश्च भीम एव प्रकीर्तितः ।

यज्ञस्यास्य जरासन्धवधात् कर्णजयादपि ॥ १७०॥

जयाच्च कीचाकादीनामन्यैर्जेतुमशक्यतः ।

द्वितीयः फल्गुनश्चैव तृतीयस्तु युधिष्ठिरः ॥ १७१॥

तस्माद् ब्रह्मपदावाप्त्यै व्यासो भीमस्य तं क्रतुम् ।

अनन्यकृतमादिश्य दिशां विजयमादिशत् ॥ १७२॥

अथाब्रवीद् धनञ्जयो धनुर्ध्वजो रथो वरः ।

ममास्ति तद् दिशां जयो ममैव वाञ्छितः प्रभो ॥ १७३॥

इतीरितोऽखिलप्रभुर्जगाद सत्यमस्ति ते ।

समस्तसाधनोन्नतिर्महच्च वीर्यमस्ति ते ॥ १७४॥

तथाऽपि कीचकादयो वृकोदरादृते वशम् ।

न यान्ति नापि ते वशं प्रयाति कर्ण एव च ॥ १७५॥

बलाधिकोऽसि कर्णतस्तथाऽपि नामृतः करम् ।

ददाति ते ह्यतिस्पृधा न वध्य एष तेऽद्य च ॥ १७६॥

सवर्मकुण्डलत्वतो न वध्य एष यत् त्वया ।

ततो वृकोदरो दिशं प्रयातु ते पितुः प्रियाम् ॥ १७७॥

जीवग्राहभयात् कर्णो ददाति करमञ्जसा ।

भीमाय नात्र सन्देहो जितोऽनेन च संयुगे ॥ १७८॥

अजेयौ शर्ववचनाद् रणे कीचकपौण्ड्रकौ ।

वशं प्रयातो भीमस्य तथाऽवध्योऽपि चेदिपः ॥ १७९॥

जीवग्राहभयं ह्येषां भीमान्मागधपातनात् ।

तस्मात् करं प्रयच्छन्ति जिता वा पूर्वमेव वा ॥ १८०॥

प्रयाहि च त्वं धनदप्रपालितां दिशं द्वीपान् सप्त चाशेषदिक्षु ।

नागांश्च दैत्यांश्च तथाऽधरस्थान् विजित्य शीघ्रं पुनरेहि चात्र ॥ १८१॥

रथो हि दिव्योऽम्बरगस्तवास्ति दिव्यानि चास्त्राणि धनुश्च दिव्यम् ।

येऽन्ये च बाणप्रमुखा अजेयाः शर्वाश्रयास्तानपि भीम एतु ॥ १८२॥

तथा सुराश्चापि समस्तशोऽस्य बलिं प्रयच्छन्ति मदज्ञयेतरे ।

दिशं प्रतीचीमथ दक्षिणां च यातां यमौ क्रमशो ह्यध्वरार्थे ॥ १८३॥

यशश्च धर्मश्च तयोरपि स्यादिति स्यदिति स्म कृष्णेन सुतेन काळ्याः ।

उक्ते ययुस्ते तमभिप्रणम्य दिशो यथोक्ताः परमोरुसद्गुणाः ॥ १८४॥

वृकोदरोऽजयन्नृपान् विराटमाससाद ह ।

जितेऽत्र कीचके रणे समाददे करं ततः ॥ १८५॥

ततः क्रमान्नृपान् जित्वा चेदीनां विषयं गतः ।

मातृवाक्याद् भयाच्चैव शिशुपालेन पूजितः ॥ १८६॥

मातृष्वसुर्गृहे चोष्य दिवसान् कतिचित् सुखम् ।

करं सुमहदादाय ततः पूर्वां दिशं ययौ ॥ १८७॥

क्रमेण सर्वान् निर्जित्य पौण्ड्रकं च महाबलम् ।

विरथीकृत्य कर्णं च करमादाय सर्वतः ॥ १८८॥

हिमवच्छिखरे देवान् जित्वा शक्रपुरोगमान् ।

क्रीडार्थं युद्ध्यतस्तेभ्यस्तुष्टेभ्यो रत्नसञ्चयम् ॥ १८९॥

बाहुयुद्धेन शेषं च गरुडं च महाबलम् ।

क्रीडमानौ विनिर्जित्य भूषणान्याप तोषतः ।

ताभ्यां च दृढमाश्लिष्टः स्नेहविक्लिन्नया धिया ॥ १९०॥

पोप्लूयमानः स ततोऽम्बुधौ बली जगाम बाणस्य पुरं हरं च ।

रणेऽजयद् वारणरूपमास्थितं क्रीडन्तमेतेन च तोषितो हरः ॥ १९१॥

पृष्टश्च गिरिशेनासौ विस्तरं दिग्जयस्य च ।

सिंहव्याघ्रादिरूपाश्च आत्मना विजिता यथा ।

गुरुत्मच्छेषशक्राद्या देवाः सर्वे तदब्रवीत् ॥ १९२॥

निशम्य शङ्करोऽखिलं मखस्य च प्रसाधकम् ।

हरिं ततो बलेः सुताद् ददौ च रत्नसञ्चयम् ॥ १९३॥

स विप्रयादवेश्वरं द्विधास्थितं जनार्दनम् ।

पुरो निधाय तद् वसु प्रभूतमानमत् तदा ॥ १९५॥

सोऽभिवाद्याग्रजं चैव यथावृत्तं न्यवेदयत् ।

आत्मनः कृष्णयोः सर्वं धर्मराजाग्रतो मुदा ॥ १९६॥

यथा जिताः कीचकाद्या एकलव्यसहायवान् ।

यथा जितः पौण्ड्रकश्च कर्णाद्याश्च तथाऽपरे ॥ १९७॥

यथा सिंहादितनवः शेषवीन्द्रेन्द्रपूर्वकाः ।

यथा गजतनुः शर्वस्तच्च सर्वमवर्णयत् ॥ १९८॥

सम्भावितश्च कृष्णाभ्यां राज्ञा च सुमहाबलः ।

आज्ञया व्यासदेवस्य यज्ञाङ्गानि समार्जयत् ॥ १९९॥

ऊचे तं भगवान् व्यासो जितं सर्वं त्वयाऽरिहन् ।

जये सर्वस्य यज्ञोऽयं पूर्णो भवति नान्यथा ॥ २००॥

विरिञ्चः सर्वजित् पूर्वं द्वितीयस्त्वमिहाभवः ।

इत्युक्त्वैनं समाश्लिष्य यज्ञाङ्गानि समादिशत् ॥ २०१॥

तदैवान्ये दिशो जित्वा समीयुस्तस्य येऽनुजाः ।

सहदेवो दक्षिणाशां जित्वा रत्नान्युपाहरत् ॥ २०२॥

तत्र रुग्मी न युयुधे सहदेवेन वीर्यवान् ।

जितः कृष्णेन पूर्वं यः शर्वादाप धनुर्वरम् ॥ २०३॥

तपसा तोषितात् कृष्णादन्यानेवामुनाऽखिलान् ।

विजेष्यसि यदा कृष्णविरोधस्ते तदा धनुः ।

मामेष्यतीति तेनोक्तो न व्यरुद्ध्यत केशवे ॥ २०४॥

स्वसुः स्नेहाच्च कृष्णस्य यज्ञकारयितृत्वतः ।

भीमार्जुनबलाच्चैव माद्रेयाय ददौ करम् ।

जिग्ये बलेनान्यनृपान् सहदेवः प्रतापवान् ॥ २०५॥

तथा स्मृतं समागतं घटोत्कचं विभीषणे ।

समादिशद् ययौ च सोऽपि सोऽददान्महाकरम् ॥ २०६॥

पुरा हि राघवोदितं तदस्य सोऽखिलं तदा ।

विचार्य केशवं च तं बलं च भीमपार्थयोः ।

दिवौकसश्च पाण्डवानवेत्य सोऽददात् करम् ॥ २०७॥

महौघरत्नसञ्चयं स आप्य भीमसेनजः ।

ययौ च माद्रिनन्दनं स चाऽययौ स्वकं पुरम् ॥ २०८॥

नकुलः पश्चिमाशायां विजिग्येऽखिलभूभृतः ।

करमाप च वीरोऽसौ सौहार्दादेव मातुलात् ।

आययौ च महारत्नसञ्चयेन स्वकं पुरम् ॥ २०९॥

त्रैगर्ताः पार्वतेयाश्च सहिताः पाण्डुनन्दनम् ।

अभ्येत्य योधयामासुर्जानन्तस्तच्चिकीर्षितम् ॥ २११॥

तान् विजित्य युगपत् स पाण्डवः सञ्जयन् क्रमश एव तां दिशम् ।

प्राव्रजच्च भगदत्तमूर्जितं तेन चास्य समभून्महारणः ॥ २१२॥

सोऽभियुद्ध्य सगजो दिनाष्टकं श्रान्त आह पुरुहूतनन्दनम् ।

ब्रूहि ते समरकारणं त्विति प्राह देहि करमित्यथार्जुनः ॥ २१३॥

सोऽप्यदात् करममुष्य वासवो मद्गुरुस्तव पितेति सादरम् ।

नैव जेतुमिह शक्ष्यसि त्वमित्यावदद्धरिवरास्त्रतेजसा ॥ २१४॥

स्नेहपूर्वं प्रदत्ते तु करे नैवाऽह चोत्तरम् ।

अर्जुनो व्यर्थकलहमनिच्छन् स्नेहयन्त्रितः ॥ २१५॥

पार्थो जित्वाऽष्टवर्षाणि षड् द्वीपानपरानपि ।

अजयच्चतुर्दिशमपि सर्वशः शस्त्रतेजसा ॥ २१६॥

पाताळसप्तकं गत्वा जित्वा दैतेयदानवान् ।

बलेश्च विष्णुवचनात् करं जग्राह सामतः ॥ २१७॥

जित्वा च वासुकिं भूरि रत्नमादाय सत्वरः ।

आजगाम पुरं स्वीयं वीरो वत्सरमात्रतः ॥ २१८॥

सुवर्णरत्नगिरयश्चतुर्भिस्तैः समार्जिताः ।

चत्वारो योजनानां हि दश त्रिंशच्छतं तथा ॥ २१९॥

चतुःशतं च क्रमश उच्छ्रिता दिग्जयार्जिताः ।

प्रतीच्याद्यपसव्येन क्रमाद् दिग्भ्यः समार्जिताः ॥ २२०॥

विश्वकर्मकृतत्वात्तु पुरस्याल्पेऽपि च स्थळे ।

अन्तर्गतास्ते गिरयस्तदद्भुतमिवाभवत् ॥ २२१॥

ततो यज्ञः प्रववृते कृष्णद्वैपायनेरितः ।

ऋत्विजो मुनयोऽत्रासन् सर्वविद्यासु निष्ठिताः ।

द्वैपायनोक्तविधिना दीक्षयाञ्चक्रिरे नृपम् ॥ २२२॥

ज्येष्ठत्वाद् याजमानं तु प्रणिधाय युधिष्ठिरे ।

भीमार्जुनादयः सर्वे सह तेन समासिरे ॥ २२३॥

ब्रह्माणीपदयोग्यत्वात् कृष्णैका यज्ञपत्न्यभूत् ।

पदायोग्यतया नान्याः पत्न्यस्तेषां सहाऽसिरे ॥ २२४॥

आज्ञयैव जगद्धातुर्व्यासस्यानन्ततेजसः ।

स्थलमप्यत्र सर्वं हि रत्नहेममयं त्वभूत् ।

किमु पात्रादिकं सर्वं शिबिराणि च सर्वशः ॥ २२५॥

आहूतं दिग्जये पार्थैस्तदा लोकद्विसप्तकम् ।

सर्वमत्राऽगमद् ब्रह्मशर्वशक्रादिपूर्वकम् ॥ २२६॥

भीष्मो द्रोणश्च विदुरो धृतराष्ट्रः सहात्मजः ।

सस्त्रीका आययुस्तत्र बाह्लीकश्च सहात्मजः ॥ २२७॥

तथैव यादवाः सर्वे बलभद्रपुरोगमाः ।

रुग्मिणीसत्यभामाद्या महिष्यः केशवस्य च ॥ २२८॥

तत्र सर्वजगदेकसङ्गमे तत्त्वनिर्णयकथा बभूविरे ।

प्राश्निकोऽत्र परिपूर्णचिद्धनो व्यास एव भगवान् बभूव ह ॥ २२९॥

तत्त्वनिर्णयकथासु निर्णयो वासुदेवगुणविस्तरोऽभवत् ।

नास्ति तत्सदृश उत्तमः कुतः पार एष न ततोऽन्य इत्यपि ॥ २३०॥

बादरायणभृगूत्थरामयोः शृण्वतोः परमनिर्णये कृते ।

मोदमानजनतासमागमेऽपृच्छदत्र नृपतिर्यतव्रतम् ॥ २३१॥

जानमानोऽपि नृपतिः सर्वपूज्यतमं हरिम् ।

संशयं भूभृतां भेत्तुं भीष्मं पप्रच्छ धर्मवित् ॥ २३२॥

नास्ति नारायणसममिति वादेन निर्णये ।

कृते ब्रह्मादिभिरपि कृष्णं मर्त्यं हि मेनिरे ॥ २३३॥

नृपास्तस्मादयं कृष्णो नारायण इति स्म ह ।

सम्यग् ज्ञापयितुं धर्मसूनुर्भीष्ममपृच्छत ॥ २३४॥

ब्रह्मादयः सुरा यस्माद् दृश्यन्ते मर्त्यवन्नृभिः ।

नचैवातितराभ्यासो नृणामस्ति मुनिष्वपि ॥ २३५॥

सर्वशास्त्रविदं भीष्मं जानन्त्येते नृपा अपि ।

तस्माद् भीष्ममपृच्छत् स कुलवृद्धत्वतस्तथा ॥ २३६॥

पितामहाग्र्यपूजार्हः कोऽत्र लोकसमागमे ।

ब्रह्मशर्वादयश्चात्र सन्ति राजान एव च ।

इति पृष्टोऽब्रवीद् भीष्मः कृष्णं पूज्यतमं प्रभुम् ॥ २३७॥

यद्यप्येकस्त्रिधा विष्णुर्वसिष्ठभृगुवृष्णिषु ।

प्रादुर्भूतस्तथाऽप्येते नृपा हि व्यासरामयोः ॥ २३८॥

विप्रत्वान्न विरुद्ध्यन्ते तत एव च युक्तताम् ।

मन्यन्ते न विरोधश्च तेषां तत्र हि तादृशः ॥ २३९॥

अविवादे प्रसिद्धिश्च नैवास्य भविता क्वचित् ।

तस्मात् कृष्णाय दातव्यमिति भीष्मेण चिन्तितम् ॥ २४०॥

कृष्णाय दत्ते राजानो विवादं कुर्युरञ्जसा ।

विवादेन च कीर्तिः स्याद् वासुदेवस्य विस्तृता ।

ततः कृष्णायाग्रपूजा दत्ता पार्थैर्जगत्पुरः ॥ २४१॥

व्यासभार्गवयोः साक्षात् तदैक्यात् तदनन्तरम् ।

अग्र्यां पूजां दुदुश्चान्यान् यथायोग्यमपूजयन् ॥ २४२॥

अग्र्योपहारमुपयापित एव कृष्णे कोपादनिन्ददमुमाशु च चेदिराजः ।

श्रुत्वैव तत् पवनजोऽभिययौ नृपं तं हन्तुं जगद्गुरुविनिन्दकमृद्धमन्युः ॥ २४३॥

दूरेऽपि केशवविनिन्दनकारिजिह्वाँमुच्छेत्स्य इत्युरुतराऽस्य सदा प्रतिज्ञा ।

भीमस्य तं तु जगृहे सरिदात्मजोऽथ सम्प्रोच्य केशववचो निजयोर्वधाय ॥ २४४॥

मयैव वध्याविति तावाह यत् केशवः पुरा ।

तच्छ्रुत्वा भीमसेनोऽपि स्थितो भीष्मकरग्रहात् ॥ २४५॥

जानन्नपि हरेरिष्टं स्वकर्तव्यतयोत्थितः ।

भीम एतावदुचितमिति मत्वा स्थितः पुनः ॥ २४६॥

देवसङ्घभविनां महानभूदीक्ष्य तोष इह केशवेऽधिकाम् ।

अर्चनां य इह मानुषो जनो मध्य एव स तु संस्थितोऽभवत् ॥ २४७॥

आसुरा इह सुयोधनादयस्तत्र ते विमनसो बभूविरे ।

दुर्वचोभिरधिकं च चेदिपः कृष्णमार्च्छदुरुसद्गुणार्णवम् ॥ २४८॥

समाह्वयच्च केशवं युधे तमाशु केशवः ।

निवार्य तस्य सायकाञ्जघान चारिणा प्रभुः ॥ २४९॥

निकृत्यमानकन्धरः स भक्तिमानभूद्धरौ ।

तमाश्रितश्च योऽसुरो महातमः प्रपेदिवान् ॥ २५०॥

जयः प्रविश्य केशवं पुनश्च पार्षदोऽभवत् ।

असौ च पाण्डवक्रतुः प्रवर्तितो यथोदितः ॥ २५१॥

सुवर्णरत्नभारकान् बहून् नृपा उपानयन् ।

उपायनं सुयोधनं नृपोऽदिशद् ग्रहेऽस्य च ॥ २५२॥

अभोजयंस्तथा द्विजान् यथेष्टभक्ष्यबोज्यकैः ।

सुवर्णरत्नभारकान् बहूंश्च दक्षिणा ददुः ॥ २५३॥

यदिष्टमास यस्य च प्रदत्तमेव पाण्डवैः ।

समस्तमत्र सर्वशोऽथ सस्नुरुद्भृता मुदा ॥ २५४॥

नदत्सुरोरुदुन्दुभिप्रगीतदेवगायकाः ।

प्रनृत्तदिव्ययोषितः सुरापगां व्यगाहयन् ॥ २५५॥

समस्तराजसंयुता विगाह्य जाह्नवीजले ।

पुरं ययुः पुनश्च ते सुसद्म चागमन् सुराः ॥ २५६॥

गतेषु सर्वराजसु स्वकां पुरं स्वकेषु च ।

सभीष्मकेषु सर्वशः सहाऽम्बिकेयकेषु च ॥ २५७॥

विचित्ररत्ननिर्मिते रविप्रभे सभातळे ।

सकेशवो वरासने विवेश धर्मनन्दनः ॥ २५८॥

तथैव रुग्मिणीमुखाः परिग्रहा रमेशितुः ।

तथैव भीमफल्गुनावुपाविशन् हरेरुप ॥ २५९॥

सहैव वायुसूनुना तथैव पार्षतात्मजा ।

उपैव रुग्मिणीं शुभा तथैव सत्यभामिनीम् ॥ २६०॥

यमौ च पार्षतादयो धनञ्जयान्तिकेऽविशन् ।

तथैव रामसात्यकी समीप एव भूभृतः ॥ २६१॥

समासतां तु सा सभा व्यरोचताधिकं तदा ।

यथा सभा स्वयम्भुवः समास्थिता च विष्णुना ॥ २६२॥

विचित्रहेममालिनः शुभाम्बराश्च तेऽधिकम् ।

स्फुरत्किरीटकुण्डला विरेजुरत्र ते नृपाः ॥ २६३॥

विशेषतो जनार्दनः सभार्यको जगत्प्रभुः ।

यथा दिवौकसां सदस्यनन्तसद्गुणार्णवः ॥ २६४॥

उपासिरे च तान् नृपाः समस्तशः सुहृद्गुणाः ।

तदाऽऽजगाम खड्गभृत् सहानुजः सुयोधनः ॥ २६५॥

द्वारं सभाया हरिनीलरश्मिव्यूढं न जानन् स विहाय भित्तम् ।

अभ्यन्तराणां दृशि नो विघातिनीं संस्फाटिकामाशु दृढं चुचुम्बे ॥ २६६॥

प्रवेशयेतां च यमौ तमाशु सभां भुजौ गृह्य नृपोपदिष्टौ ।

तत्रोपविश्य क्षणमन्यतोऽगादमृष्यमाणः श्रियमेषु दिव्याम् ॥ २६७॥

तत्रेन्द्रनीलभुवि रत्नमयानि दृष्ट्वा पद्मानि नीरमनसा जगृहे स्ववस्त्रम् ।

रत्नोरुदीधितिनिगूढजलं स्थलं च मत्वा पपात सहितोऽवरजैर्जलौघे ॥ २६८॥

तं प्राहसद् भगवता क्षितिभारनाशहेतोः सुसूचित उरुस्वरतोऽत्र भीमः ।

पाञ्चालराजसुतया च समं तथाऽन्यैः स्वीयैस्तथाऽनु जहसुर्भगवन्महिष्यः ॥ २६९॥

मन्दस्मितेन विलसद्वदनेन्दुबिम्बो नारायणस्तु मुखमीक्ष्य मरुत्सुतस्य ।

नोवाच किञ्चिदथ धर्मसुतो निवार्य प्रास्थापयद् वसनमाल्यविलेपनानि ॥ २७०॥

कृष्णावृकोदरगतं बहळं निधाय क्रोधं ययौ सशकुनिर्धृतराष्ट्रपुत्र ।

सम्ब्रीळितो नृपतिं दत्तवराम्बरादीन् न्यक्कृत्य मार्गगत आह स मातुलं स्वम् ॥ २७१॥

यौ मामहसतां कृष्णभीमौ कृष्णस्य सन्निधौ ।

तयोरकृत्वा सन्तापं नाहं जीवितुमुत्सहे ॥ २७२॥

यदि मे शक्तिरत्र स्याद् घातयेयं वृकोदरम् ।

अग्रपूजां च कृष्णस्य विलुम्पेयं न संशयः ॥ २७३॥

ईदृशं पाण्डवैश्वर्यं दृष्ट्वा को नाम जीवितम् ।

इच्छेत करदा येषां वैश्यवत् सर्वभूमिपाः ॥ २७४॥

इत्युक्तः शकुनिर्वैरं दृढीकर्तुं वचोऽब्रवीत् ।

किं ते वैरेण राजेन्द्र बलिभिर्भ्रातृभिः पुनः ॥ २७५॥

अनुजीवस्व तान् वीरान् गुणज्येष्ठान् बलाधिकान् ।

इतीरितोऽतिसंवृद्धकोप आह सुयोधनः ॥ २७६॥

यदि तेषां तदैश्वर्यं न मां गच्छेदशेषतः ।

सर्वथा नैव जीवेयमिति सत्यं ब्रवीमि ते ॥ २७७॥

नच बाहुबलाच्छक्ष्य आदातुं तां श्रियं क्वचित् ।

नेन्द्रोऽपि समरे शक्तस्तान् जेतुं किमु मानुषाः ॥ २७८॥

इतीरितः पापतम आह गान्धारको नृपः ।

पापानामखिलानां च प्रधानं चक्रवर्तिनम् ॥ २७९॥

यान्तां श्रियं प्रदीप्तां त्वं पाण्डवेषु प्रपश्यसि ।

तामक्लेशत आदास्ये क्रीडन्नक्षैस्त्वदन्तिके ॥ २८०॥

इतीरितः प्रसन्नधीः सुयोधनो बभूव ह ।

प्रजग्मतुश्च तावुभौ विचित्रवीर्यजं नृपम् ॥ २८१॥

धृतराष्ट्रमथोवाच द्वापरांशोऽतिपापकृत् ।

नास्तिक्यरूपः शकुनिर्विवर्णं हरिणं कृशम् ॥ २८२॥

दुर्योधनं तु तच्छ्रुत्वा कुत इत्याह दुर्मनाः ।

अब्रूतां तौ नृपायाऽशु द्वाभ्यां यन्मन्त्रितं पथि ॥ २८३॥

श्रुत्वैव तन्नेत्यवदत् स भूपतिर्विरोधि धर्मस्य विनाशकारणम् ।

कुमन्त्रितं वो न ममैतदिष्टं स्वबाहुवीर्याप्तमहाश्रियो हि ते ॥ २८४॥

त्वयाऽपि निर्जित्य दिशो मखाग्र्याः कार्याः स्पृधो मा गुणवत्तमैस्तैः ।

विशेषतो भ्रातृभिरग्र्यपौरुषैरित्युक्त आहाऽशु सुयोधनस्तम् ॥ २८५॥

यदि श्रियं पाण्डवानां नाक्षैराच्छेत्तुमिच्छसि ।

मृतमेवाद्य मां विद्धि पाण्डवैस्त्वं सुखी भव ॥ २८६॥

यदि मज्जीवितार्थी त्वमानयाऽश्विह पाण्डवान् ।

सभार्यान् देवनायैव नचाधर्मोऽत्र कश्चन ॥ २८७॥

वेदानुजीविनो विप्राः क्षत्रियाः शस्त्रजीविनः ।

त्रुट्यते येन शत्रुश्च तच्छस्त्रं नैव चेतरत् ॥ २८८॥

अतः स्वधर्म एवायं तवापि स्यात् फलं महत् ।

इत्युक्तो मा फलं मेऽस्तु तवैवास्त्विति सोऽब्रवीत् ॥ २८९॥

एवं ब्रुवन्नपि नृप आविष्टः कलिना स्वयम् ।

पुत्रस्नेहाच्च विदुरमादिशत् पाण्डवान् प्रति ॥ २९०॥

आविवेश कलिस्तं हि यदा पुत्रत्वसिद्धये ।

अंशेन तत आरभ्य नैवास्मादपजग्मिवान् ॥ २९१॥

यावत् पुरं परित्यज्य वनमेव विवेश ह ।

तदन्तरा ततस्तस्य पापयुक्तं मनोऽभवत् ॥ २९२॥

न्यवारयत् तं विदुरो महत् ते पापं कुलस्यापि विनाशकोऽयम् ।

समुद्यमो नात्र विचार्यमस्ति कृथा न तस्मादयशश्च ते स्यात् ॥ २९३॥

इति ब्रुवाणं कलहोऽत्र न स्यान्निवारयामो वयमेव यस्मात् ।

द्रष्टुं सुतान् क्रीडत एकसंस्थानिच्छामि पार्थांश्च सुयोधनादीन् ॥ २९४॥

अतः क्षिप्रमुपानेयाः पार्था इति बलोदितः ।

ययौ स विदुरः पार्थान् द्वारकां केशवे गते ॥ २९५॥

गते हि पार्थसन्निधेः सुयोधने तु नारदः ।

शशंस धर्मसूनुना प्रचोदितोऽरिमागतम् ॥ २९६॥

क उद्यमी नृपेष्विति प्रपृष्ट आह नारदः ।

स सौभराड् वरं शिवादवाप वृष्णिनिर्जयम् ॥ २९७॥

पांसुमुष्टिं सकृद्ग्रासी बहूनब्दांस्तपश्चरन् ।

आजगाम हरादाप्य वरं कृष्णजये पुनः ॥ २९८॥

स श्रुत्वा मागधवधं दिशां विजयमेव च ।

राजसूयं क्रतुं चैव शिशुपालवधं तथा ॥ २९९॥

यदून् प्रत्युद्यमं तूर्णं करोतीति निशम्य तत् ।

समैक्षद् धर्मजः कृष्णमुखशीतांशुमण्डलम् ॥ ३००॥

अस्त्वित्युक्त्वा स गोविन्दः प्रेषयामास यादवान् ।

प्रद्युम्नादीन् दिनैः कैश्चित् स्वयं चागात् सहाग्रजः ॥ ३०१॥

विदुरस्तु ततो गत्वा धर्मराजमथाऽह्वयत् ।

भ्रातृभिर्वार्यमाणोऽपि कृष्णया च स धर्मराट् ।

सार्द्धं मात्रा भ्रातृभिश्च कृष्णया च ययौ द्रुतम् ॥ ३०२॥

ज्येष्ठाज्ञयैव विदुर आह्वायन्नपि धर्मजम् ।

नाऽगन्तव्यमिति प्राह दोषानुक्त्वाऽक्षजान् बहून् ॥ ३०३॥

इतीह दोषसञ्चयस्तथाच ते पितुर्वचः ।

समीक्ष्य तद् द्वयं स्वयं कुरुष्व कार्यमात्मनः ॥ ३०४॥

इतीरितोऽपि पाण्डवो ययौ कलिप्रवेशितः ।

विचित्रवीर्यजं च तं समासदत् ससैनिकः ॥ ३०५॥

कल्याविशान्नृपतिः प्रतिजज्ञे पूर्वमेव धर्मात्मा ।

आहूतो द्यूतरणान्निवर्तेयं नैव वारितोऽपीति ॥ ३०६॥

तेनाऽयात् स्वसुहृद्भिर्निवार्यमाणोऽपि नागपुरमाशु ।

नहि धर्मो द्यूतकृतो विशेषतः क्षत्रियस्य लोकगुरोः ॥ ३०७॥

वैचित्रवीर्यतनयेन तु पाण्डुपुत्राः सम्भावितास्तमुप च न्यविशन् निशां ताम् ।

प्रातश्च भीष्ममुखराः सकलाश्च भूपा आसेदुराशु च सभां सह पाण्डुपुत्रैः ॥ ३०८॥

वैचित्रवीर्यनृपतिर्विदुरान्वितोऽस्य गान्धारराजसहितास्तनयाः सकर्णाः ।

प्राप्ताः सभातळमथाऽह्वयदत्र धर्मराजं सुतः सुबलकस्य स देवनाय ॥ ३०९॥

सर्वांश्च तत्र कलिराविशदेव भीमपूर्वान् विनैव चतुरः सपृथां च कृष्णाम् ।

क्षत्तारमेव च ततो नहि भीष्ममुख्यैस्ते वारिताः कुलविनाशनकर्मवृत्ताः ॥ ३१०॥

भीमादिभिः स विदुरेण च वार्यमाणो द्यूते निधाय पणमप्यखिलं स्ववित्तम् ।

गान्धारकेण विदिताक्षहृदा जितो द्राक् पाण्डोः सुतोऽथ नकुलं न्यदधात् पणाय ॥ ३११॥

तस्मिन् जितेऽथ सहदेवमथार्जुनं च भीमं च सोमकसुतां स्वमपि क्रमेण ।

राजा निधाय विजितोऽथ सुयोधनः स्वं सूतं दिदेश पृषतात्मजपुत्रिकायाः ॥ ३१२॥

सूतो गत्वा तदन्तं समकथयदिमां द्यूतमध्ये जिताऽसि क्षिप्रं चाऽयाहि राज्ञां समितिमुरुतरामित्यथो साऽप्यवादीत् ।

नाहं यास्ये गुरूणां समितिमिति ययौ सोऽप्यमुं भीमभीतं ज्ञात्वा दुःशासनं सोऽप्यदिशदथ नृपो धार्तराष्ट्रोऽनुजं स्वम् ॥ ३१३॥

स पापपूरुषोत्तमः प्रगृह्य केशपक्षके ।

पुरः स्वमातुरानयत् सभामयुग्मवाससीम् ॥ ३१४॥

समाहृता रजस्वला जगाद भीष्मपूर्वकान् ।

अधर्म एष वार्यते न धर्मिभिर्भवद्विधैः ॥ ३१५॥

कथं छलात्मके द्यूते जिते धर्मजयो भवेत् ।

नहि द्यूतं धर्म्यमाहुर्विशेषेण तु भूभुजाम् ॥ ३१६॥

ये धर्मं न वदन्तीह न ते वृद्धा इतीरिताः ।

अवृद्धमण्डितां नैव सभेत्याहुर्मनीषिणः ॥ ३१७॥

कथं द्यूते जिता चाहमजिते स्वपतौ स्थिते ।

समानधर्मिणीमाहुर्भार्यां यस्माद् विपश्चितः ॥ ३१८॥

सहैव कर्म कर्तव्यं पतौ दासे हि भार्यया ।

दासीत्वं न पृथङ् मे स्याज्जितेऽपि हि पतौ ततः ॥ ३१९॥

इत्युक्ता अपि भीष्माद्याः कल्यावेशेन मोहिताः ।

पृच्छ धर्मजमित्युक्त्वा तूष्णीमेव बभूविरे ॥ ३२०॥

दुर्योधनप्रतीपं हि न कश्चिदशकत् तदा ।

उवाच विदुरस्तत्र न धर्मोऽयमिति स्फुटम् ॥ ३२१॥

न तस्य वाचं जग्राह धृतराष्ट्रः सहात्मजः ।

ऊर्ध्वबाहुः स चुक्रोश देवानां ख्यापयंस्तदा ॥ ३२२॥

स्वाशक्तिं द्रौपदीं चाऽह जिता नैवासि धर्मतः ।

अधर्मो हि महानेतां सभामाक्रम्य तिष्ठति ॥ ३२३॥

एवं तु विदुरेणोक्ते विकर्णः पापकोऽपि सन् ।

आह डम्भार्थमेवात्र धर्मवित्त्वं प्रकाशयन् ।

अधर्म एवायमिति कर्णोऽथैनमभर्त्सयत् ॥ ३२४॥

दृष्ट्वा भीमः क्लिश्यमानां तु कृष्णां धर्मात्ययं धर्मराजे च दृष्ट्वा ।

राजा शास्यो युवराजेन धर्माच्चलन् यस्माद् वाक्यमिदं बभाषे ॥ ३२५॥

इमां न्यस्तवतो द्यूते धक्षणीयौ हि ते भुजौ ।

नैवमित्यर्जुनोऽवादीत् तमाहाथ वृकोदरः ॥ ३२६॥

वक्तव्यं नतु कर्तव्यं तस्मान्नहि मया कृतम् ।

उत्तमे वचसा शिक्षा मध्यमेऽर्थापहारणम् ।

अधमे देहदण्डश्च तस्माद् वाच्यो युधिष्ठिरः ॥ ३२७॥

अथ कर्णोऽब्रवीत् कृष्णामपतिर्ह्यसि शोभने ।

धार्तराष्ट्रगृहं याहीत्यथ दुर्योधनोऽवदत् ।

परस्परविरोधार्थं पाण्डवानामिदं वचः ॥ ३२८॥

युधिष्ठिरो दुःखहेतुस्तवैको यद्येनमन्ये न गुरुर्न एषः ।

इति ब्रूयुरथवा भीमपार्थावेकोऽपिवा भीम इहोत्सृजे त्वाम् ॥ ३२९॥

इत्युक्त ऊचे पवमानसूनुः पूज्योऽस्माकं धर्मजोऽसंशयेन ।

गुरुश्चाहं वोऽखिलानां यतो हि बलज्येष्ठं क्षत्रमाहुर्महान्तः ॥ ३३०॥

बलज्यैष्ठ्ये यदि वः संशयः स्यादुत्तिष्ठध्वं सर्व एवाद्य वीराः ।

मृद्गामि वः पादतळेन सर्वान् सहानुबन्धान् यश्च मां योद्धुकामः ॥ ३३१॥

इति ब्रुवन् समुत्थितो नदन् वृकोदरो यदा ।

विघूर्णिता सभाऽखिला भयान्नचाऽह किञ्चन ॥ ३३२॥

भीष्मो द्रोणो विदुराद्याः क्षमस्व सर्वं त्वयोक्तं सत्यमित्येव हस्तौ ।

गृहीत्वैनं स्थापयामासुरस्मिन् स्थिते शान्तिं चाऽपिरे धार्तराष्ट्राः ॥ ३३३॥

निवारितो धर्मजेन गुरुभिश्चापरैस्तदा ।

माननार्थं गुरूणां तु न भीमस्तान् जघान ह ॥ ३३४॥

नचात्यवर्तत ज्येष्ठं धर्मात्मानं युधिष्ठिरम् ।

तेषां पापाभिवृद्ध्यर्थं ज्येष्ठवृत्तिं च दर्शयन् ॥ ३३५॥

अथ दुर्योधनः पापो भीमसेनस्य पश्यतः ।

ऊरुं सन्दर्शयामास कृष्णायै भीम आह तम् ॥ ३३६॥

तवोरुमेनं गदयोरुवेगया बिभेत्स्य इत्येव पुनः सुयोधनः ।

ऊचे नान्यद् भवतामस्ति वित्तं द्यूते कृष्णं स्थापयध्वं पणाय ॥ ३३७॥

अथाब्रवीद् वृकोदरः कृतेऽवमानने हरेः ।

निपात्य भूतळे हि ते शिरो मृदिष्य इत्यलम् ॥ ३३८॥

स वध्य एव मे सदा परोक्षतोऽपि यो हरिम् ।

विनिन्दयेदिति ध्रुवं प्रतिश्रुतं हि मारुतेः ॥ ३३९॥

पुनश्च पापवृद्धये तदैव नो जघान तम् ।

विकर्तनात्मजः पुनर्जगाद सोमकात्मजाम् ॥ ३४०॥

प्रयाहि भूभृतो हि नो गृहं न सन्ति पाण्डवाः ।

इतीरिते समुत्थितौ वृकोदरोऽनु चार्जुनः ॥ ३४१॥

उभौ च तौ युधिष्ठिरो न्यवारयत् तथाऽपरे ।

ततो विषण्णयोस्तयोः सुयोधनो वचोऽब्रवीत् ॥ ३४२॥

दुःशासनैषां वासांसि दासानां नो व्यपाकुरु ।

इत्युक्तोऽभ्यगमत् पार्थान् स्ववासांस्यथ ते ददुः ॥ ३४३॥

ते चर्मवसना भूत्वातानशिष्टान् प्रकाश्य च ।

निषेदुश्च क्षमायान्ते क्षमामालम्ब्य विस्तृताम् ॥ ३४४॥

पुनर्दुर्योधनेनोक्तः पार्थानामथ पश्यताम् ।

चकर्ष वासो द्रौपद्यास्तदाऽवादीद् वृकोदरः ॥ ३४५॥

पापेषु पूर्वस्य तथाऽधमस्य वंशे कुरूणामुरुधर्मशीलिनाम् ।

दुःशासनस्यास्य विदार्य वक्षः पिबामि रक्तं जगतः समक्षम् ॥ ३४६॥

विकृष्यमाणे वसने तु कृष्णा सस्मार कृष्णं सुविशेषतोऽपि ।

तदाऽन्यदासीद् वसनं च तस्या दिव्यं सुसूक्ष्मं कनकावदातम् ॥ ३४७॥

पुनःपुनश्चैव विकर्षमाणे दुःशासनेऽन्यानि च तादृशानि ।

बभूवुरन्तं न जगाम पापः श्रान्तो न्यषीदत् स्विन्नगात्रः सभायाम् ॥ ३४८॥

वस्त्रोच्चये शैलनिभे प्रजाते दुर्योधनः प्राह सञ्जातकोपः ।

प्रवेशयेमां गृहमेव शीघ्रं किं नश्चिरेणेति सुमन्दबुद्धिः ॥ ३४९॥

तच्छ्रुत्वा वचनं कृष्णा प्रतिज्ञामकरोत् तदा ।

भीमो दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः ।

शकुनिं त्वक्षकितवं सहदेवो वधिष्यति ॥ ३५०॥

इत्युक्ते तत् तथेत्याह भीमसेनः सभातळे ।

प्रतिज्ञामाददे पार्थस्तां माद्रीनन्दनस्तथा ।

नकुलः प्रतिजज्ञेऽथ शाकुनेयवधं प्रति ॥ ३५१॥

ततः सुयोधनानुजश्चकर्ष पार्षतात्मजाम् ।

गृहाय तन्निशाम्य तु क्रुधाऽऽह मारुतात्मजः ॥ ३५२॥

अर्जुनार्जुन नैवात्र क्षमा मे तात रोचते ।

पतितस्यास्य देहस्य काष्ठविष्ठासमस्य च ।

फलानि त्रीणि शिष्यन्ते विद्या कर्म सुता इति ॥ ३५३॥

इति वेदोदितं वाक्यं न सुतो दारदूषणे ।

दुष्टदारो नचाऽप्नोति लोकानर्द्धो हि दूषितः ।

अरक्षणाद् दूषिताया न त्यागाच्च शुभं भवेत् ॥ ३५४॥

अतोऽद्य सानुबन्धकान् निहन्मि धार्तराष्ट्रकान् ।

इति ब्रुवन् व्यलोकयद् रिपून् दहन्निवौजसा ॥ ३५५॥

ददर्श च महाघोरमादातुं परिघं रुषा ।

कर्तुं व्यवसितो बुद्ध्या निश्शेषान् धृतराष्ट्रजान् ॥ ३५६॥

तदा शिवा ववाशिरे सुयोधनाग्निगेहतः ।

तथैव तत्पितुर्गृहेऽप्यभूद् भयानकं बहु ॥ ३५७॥

निमित्तान्यतिघोराणि कुपिते मारुतात्मजे ।

दृष्ट्वाऽऽम्बिकेयो विदुरं पप्रच्छैषां फलं द्रुतम् ॥ ३५८॥

आह तं विदुरो ज्येष्ठं क्षणेऽस्मिंस्तव पुत्रकाः ।

सानुबन्धा नशिष्यन्ति वृकोदरबलाहताः ॥ ३५९॥

क्रीडसेऽर्भकवत् त्वं हि किं जितं किं जितं त्विति ।

अधर्मेण जितानत्र जितान् पश्यसि पाण्डवान् ॥ ३६०॥

स्त्रीषु द्यूतेषु वा दत्तं मदान्धेन नरेण वा ।

न दत्तमाहुर्विद्वांसस्तस्य बन्धुभिरेव च ॥ ३६१॥

आहार्यं पुनराहुश्च तथाऽपि नतु पाण्डवैः ।

तत् कृतं तव पुत्राणां ख्यापयद्भिरशिष्टताम् ॥ ३६२॥

इत्युक्त आहाऽम्बिकेयो निमित्तानां फलं कथम् ।

न भवेदिति स प्राह द्रुतं कृष्णा विमुच्यताम् ॥ ३६३॥

तोषयस्व वरैश्चैनामन्यथा ते सुतान् मृतान् ।

विद्धि भीमेन निष्पिष्टान् माऽत्र ते संशयो भवेत् ॥ ३६४॥

कृष्णा च पाण्डवाश्चैव तपोवृद्धिमभीप्सवः ।

तपसा नैव दक्ष्यन्ति तेन जीवन्ति ते सुताः ॥ ३६५॥

तथाऽपि यदि कृष्णां त्वं न मोचयसि ते सुतान् ।

हनिष्यति न सन्देहो बलेनैव वृकोदरः ॥ ३६६॥

इतीरितो विनिर्भर्त्स्य पुत्रं दुःशासनं नृपः ।

अमोचयद् वरैश्चैनां छन्दयामास पार्षतीम् ॥ ३६७॥

छन्दिता सा वरैस्तेन धर्मे भागवते स्थिता ।

नैवाऽत्मनो वरान् वव्रे वव्रे तेषां विमोक्षणम् ॥ ३६८॥

युधिष्ठिरस्य सभ्रातुः सराष्ट्रस्य विमोक्षणम् ।

ददौ नृपोऽस्या न पुनश्छन्द्यमानाऽपि साऽवृणोत् ॥ ३६९॥

भर्तुर्विष्णोश्च नान्यस्माद् वरस्वीकार इष्यते ।

एवं हि भगवद्धर्मस्तस्मात् सा नावृणोत् परम् ॥ ३७०॥

अधर्मतो हृतत्वात्तु तद् दानं न वरो भवेत् ।

इति मत्वा पाण्डवानां वव्रे कृष्णा विमोक्षणम् ॥ ३७१॥

श्वशुरादैहिकवराः क्षत्रियायास्त्रयो यतः ।

उक्ताः शतं च विप्राया धर्मे भागवते ततः ।

हेतुनाऽनेन वव्रे सा नान्यत् किञ्चिदतः परम् ॥ ३७२॥

ततो विमुक्ताः प्रययुश्च पार्था गुरून् प्रणम्य स्वपुरं सकृष्णाः ।

दुर्योधनानन्तरजो जगाद तातं निजं पापकृतां प्रधानः ॥ ३७३॥

समस्तपाण्डवश्रियं समागतामहो पुनः ।

व्यमोचयो वृकोदराद् वधश्च नो ध्रुवो भवेत् ॥ ३७४॥

अतः पुनश्च पाण्डवान् समाह्वयस्व नः कृते ।

पुनश्च देवनं भवेज्जितो वनं प्रयातु च ॥ ३७५॥

तेनोक्तः स तदा राजा पाण्डवान् पुनराह्वयत् ।

पुनः पित्रा समाहूतो देवनाय युधिष्ठिरः ।

भ्रातृभिर्वार्यमाणोऽपि कृष्णया चाऽगमत् सभाम् ॥ ३७६॥

द्वादशाब्दं वने वासमज्ञातत्वेन वत्सरम् ।

वासं प्रसिद्धनृपतेः पुरे नैवातिदूरतः ॥ ३७७॥

कृष्णायाः पाण्डवानां वा दर्शनेऽज्ञातवासिनाम् ।

एकस्यापि समस्तानां द्वादशाब्दं पुनर्वनम् ॥ ३७८॥

वत्सराज्ञातवासं च त्यागेऽप्युक्तविधेस्तथा ।

दुर्योधनः पणं चक्रे बुद्ध्या दुःशासनोक्तया ॥ ३७९॥

गान्धारेण पुनश्चाक्षहृदयज्ञेन धर्मजः ।

पराजितो वनं यातुमैच्छत् सभ्रातृको यदा ॥ ३८०॥

तदा ननर्त पापकृत् सुयोधनानुजो हसन् ।

वदंश्च मारुतात्मजं पुनःपुनश्च गौरिति ॥ ३८१॥

उवाच च पुनः कृष्णां नृत्यन्नेव सभातळे ।

अपतिर्ह्यसि कल्याणि गच्छ दुर्योधनालयम् ॥ ३८२॥

एतेऽखिलाः षण्ढतिलास्तमोऽन्धमाप्ता नचैषां पुनरुत्थितिः स्यात् ।

इति ब्रुवाणोऽनुचकार भीमं तदाऽहसन् धार्तराष्ट्राश्च सर्वे ॥ ३८३॥

तदाऽकरोद् भीमसेनः प्रतिज्ञां हन्ताऽस्मि वो निखिलान् सङ्गरेऽहम् ।

इतीरिते शरणं द्रोणमेव जग्मुः समस्ता धृतराष्ट्रपुत्राः ॥ ३८४॥

यत्र द्रोणस्तत्र पुत्रस्तत्र भीष्मः कृपस्तथा ।

नचात्येति गुरून् भीम इति तं शरणं ययुः ॥ ३८५॥

अब्रवीद् धार्तराष्ट्रांश्च द्रोणो विप्रोऽपि सन्नहम् ।

सपुत्रः सकृपः शस्त्रं ग्रहीष्ये भवतां कृते ॥ ३८६॥

रक्षणे भवतां चैव कुर्यां यत्नं स्वशक्तितः ।

नतु भीमाद् रक्षितुं वः शक्तः सत्यं ब्रवीम्यहम् ॥ ३८७॥

ततो ययुः पाण्डवास्ते सभाया वनाय कृष्णासहिताः सुशूराः ।

गत्याऽनुचक्रे युवसिंहखेलगतिं भीमं धार्तराष्ट्रोऽपहस्य ॥ ३८८॥

दृष्ट्वा सभाया अर्द्धनिष्क्रान्तदेहो व्यावृत्य भीमः प्राह संरक्तनेत्रः ।

ऊरुं तवान्यं च रणे विभेत्स्य इत्युक्त्वाऽसौ निर्गतोऽसत्सभायाः ॥ ३८९॥

प्रयाताननु तान् कुन्ती प्रययौ पुत्रगृद्धिनी ।

रोरुद्यमानां विदुरः स्थापयामास तां गृहे ।

प्रणम्य तां ययुः पार्थाः सकृष्णाः शीघ्रगामिनः ॥ ३९०॥

युधिष्ठिरोऽवाग्वदनो ययौ न क्रोधचक्षुषा ।

दहेयं कौरवान् सर्वानिति कारुणिको नृपः ॥ ३९१॥

उद्धृत्य बाहू प्रययौ बाहुषाळी वृकोदरः ।

आभ्यामेवाखिलाञ्छत्रूञ्छक्तो हन्तुमहं त्विति ॥ ३९२॥

अबद्धकेशा प्रययौ द्रौपदी सा सभातळात् ।

मुक्तकेशा भविष्यन्ति धार्तराष्ट्रस्त्रियस्त्विति ॥ ३९३॥

वर्षन् पांसून् ययौ पार्थ इत्थं शत्रुषु सायकान् ।

वर्षयानीत्यभिप्रायः परमास्त्रविदां वरः ॥ ३९४॥

यमाववाङ्मुखौ यातौ नावयोः शत्रवो मुखम् ।

पश्यन्त्वस्यामवस्थायामित्येव धृतचेतसौ ॥ ३९५॥

प्रेतसंस्कारसूक्तानि पठन् धौम्योऽग्रतो ययौ ।

हतेषु धार्तराष्ट्रेषु मया कार्याः क्रिया इति ॥ ३९६॥

तानथानुययुः सूता रथैः परिचतुर्दशैः ।

सूदाः पौरोगवाश्चैव भृत्या ये त्वाप्तकारिणः ॥ ३९७॥

ततस्ते जाह्नवीतीरे वने वटमुपाश्रिताः ।

न्यषीदन्नागतान् दृष्ट्वा समस्तान् पुरवासिनः ॥ ३९८॥

ततस्तु ते सर्वजगन्निवासं नारायणं नित्यसमस्तसद्गुणम् ।

स्वयम्भुशर्वादिभिरर्चितं सदा भक्त्याऽस्मरन् भक्तभवापहं प्रभुम् ॥ ३९९॥

{इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते}

{श्रीमहाभारततात्पर्यनिर्णये}

{पाण्डववनप्रवेशो नाम एकविंशोऽध्यायः}