जयत्यजोऽखण्डगुणोरुमण्डलः सदोदितो ज्ञानमरीचिमाली
तृतीयोऽध्यायः
सर्वशास्त्रतात्पर्यनिर्णयः
औं ॥ जयत्यजोऽखण्डगुणोरुमण्डलः सदोदितो ज्ञानमरीचिमाली ।
स्वभक्तहार्दोच्चतमोनिहन्ता व्यासावतारो हरिरात्मभास्करः ॥ १॥
जयत्यजोऽक्षीणसुखात्मबिम्बः स्वैश्वर्यकान्तिप्रततः सदोदितः ।
स्वभक्तसन्तापदुरिष्टहन्ता रामावतारो हरिरीशचन्द्रमाः ॥ २॥
जयत्यसङ्ख्योरुबलाम्बुपूरो गुणोच्चरत्नाकर आत्मवैभवः ।
सदा सदात्मज्ञनदीभिराप्यः कृष्णावतारो हरिरेकसागरः ॥ ३॥
' नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरये' ॥ ४॥
जयो नामेतिहासोऽयं कृष्णद्वैपायनेरितः ।
वायुर्नरोत्तमो नाम देवीति श्रीरुदीरिता ॥ ५॥
नारायणो व्यास इति वाच्यवक्तृस्वरूपकः ।
एकः स भगवानुक्तः साधकेशो नरोत्तमः ॥ ६॥
उपसाधको नरश्चोक्तो देवी भाग्यात्मिका नृणाम् ।
सरस्वती वाक्यरूपा तस्मान्नम्या हि तेऽखिलाः ।
कृष्णौ सत्या भीमपार्थौ कृष्णेत्युक्ता हि भारते ॥ ७॥
सर्वस्य निर्णयसुवाक्यसमुद्धृती तु स्वाध्याययोर्हरिपदस्मरणेन कृत्वा ।
आनन्दतीर्थवरनामवती तृतीया भौमी तनुर्मरुत आह कथाः परस्य ॥ ८॥
व्यूढश्चतुर्धा भगवान् स एको मायां श्रियं सृष्टिविधित्सयाऽऽर ।
रूपेण पूर्वेण स वासुदेवनाम्ना विरिञ्चं सुषुवे च साऽतः ॥ ९॥
सङ्कर्षणाच्चापि जयातनूजो बभूव साक्षाद् बलसंविदात्मा ।
वायुर्य एवाथ विरिञ्चनामा भविष्य आद्यो न परस्ततो हि ॥ १०॥
सूत्रं स वायुः पुरुषो विरिञ्चः प्रद्युम्नतश्चाथ कृतौ स्त्रियौ द्वे ।
प्रजज्ञतुर्यमळे तत्र पूर्वा प्रधानसञ्ज्ञा प्रकृतिर्जनित्री ॥ ११॥
श्रद्धा द्वितीयाऽथ तयोश्च योगो बभूव पुंसैव च सूत्रनाम्ना ।
हरेर्नियोगादथ सम्प्रसूतौ शेषः सुपर्णश्च तयोः सहैव ॥ १२॥
शेषस्तयोरेव हि जीवनामा कालात्मकः सोऽथ सुपर्ण आसीत् ।
तौ वाहनं शयनं चैव विष्णोः काला जयाद्याश्च तत प्रसूताः ॥ १३॥
काला जयाद्या अपि विष्णुपार्षदा यस्मादण्डात् परतः सम्प्रसूताः ।
नीचाः सुरेभ्यस्तत एव तेऽखिला विष्वक्सेनो वायुजः खेन तुल्यः ॥ १४॥
व्यूहात् तृतीयात् पुनरेव विष्णोर्देवांश्चतुर्वर्णगतान् समस्तान् ।
सङ्गृह्य बीजात्मतयाऽनिरुद्धो न्यधत्त शान्त्यां त्रिगुणात्मिकायाम् ॥ १५॥
ततो महत्तत्त्वतनुर्विरिञ्चः स्थूलात्मनैवाजनि वाक् च देवी ।
तस्यामहङ्कारतनुं स रुद्रं ससर्ज बुद्धिं च तदर्द्धदेहाम् ॥ १६॥
बुद्ध्यामुमायां स शिवस्त्रिरूपो मनश्च वैकारिकदेवसङ्घान् ।
दशेन्द्रियाण्येव च तैजसानि क्रमेण खादीन् विषयैश्च सार्द्धम् ॥ १७॥
पुंसः प्रकृत्यां च पुनर्विरिञ्चाच्छिवोऽथ तस्मादखिलाः सुरेशाः ।
जाताः सशक्राः पुनरेव सूत्राच्छ्रद्धा सुतानाप सुरप्रवीरान् ।
शेषं शिवं चेन्द्रमथेन्द्रतश्च सर्वे सुरा यज्ञगणाश्च जाताः ॥ १८॥
पुनश्च माया त्रिविधा बभूव सत्त्वादिरूपैरथ वासुदेवात् ।
सत्त्वात्मिकायां स बभूव तस्मात् स विष्णुनामैव निरन्तरोऽपि ।
रजस्तनौ चैव विरिञ्च आसीत् तमस्तनौ शर्व इति त्रयोऽस्मात् ॥ १९॥
एते हि देवाः पुनरण्डसृष्टावशक्नुवन्तो हरिमेत्य तुष्टुवुः ।
त्वं नो जगच्चित्रविचित्रसर्गनिस्सीमशक्तिः कुरु सन्निकेतम् ॥ २०॥
इति स्तुतस्तैः पुरुषोत्तमोऽसौ स विष्णुनामा श्रियमाप सृष्टये ।
सुषाव सैवाण्डमधोक्षजस्य शुष्मं हिरण्यात्मकमम्बुमध्ये ॥ २१॥
तस्मिन् प्रविष्टा हरिणैव सार्द्धं सर्वे सुरास्तस्य बभूव नाभेः ।
लोकात्मकं पद्मममुष्य मध्ये पुनर्विरिञ्चोऽजनि सद्गुणात्मा ॥ २२॥
तस्मात् पुनः सर्वसुराः प्रसूतास्ते जायमाना अपि निर्णयाय ।
निस्सृत्य कायादुत पद्मयोनेः सम्प्राविशन् क्रमशो मारुतान्ताः ॥ २३॥
पपात वायोर्गमनाच्छरीरं तस्यैव चाऽवेशत उत्थितं पुनः ।
तस्मात् स एको विबुधप्रधान इत्याश्रिता देवगणास्तमेव ।
हरेर्विरिञ्चस्य च मध्यसंस्थितेस्तदन्यदेवाधिपतिः स मारुतः ॥ २४॥
ततो विरिञ्चो भुवनानि सप्त ससप्तकान्याशु चकार सोऽब्जात् ।
तस्माच्च देवा ऋषयः पुनश्च वैकारिकाद्याः सशिवा बभूवुः ॥ २५॥
अग्रे शिवोऽहम्भव एव बुद्धेरुमा मनोजौ सह शक्रकामौ ।
गुरुर्मनुर्दक्ष उतानिरुद्धः सहैव पश्चान्मनसः प्रसूताः ॥ २६॥
चक्षुःश्रुतिभ्यां स्पर्शात् सहैव रविः शशी धर्म इमे प्रसूताः ।
जिह्वाभवो वारिपतिर्नसोश्च नासत्यदस्रौ क्रमशः प्रसूताः ॥ २७॥
ततः सनाद्याश्च मरीचिमुख्या देवाश्च सर्वे क्रमशः प्रसूताः ।
ततोऽसुराद्या ऋषयो मनुष्या जगद् विचित्रं च विरिञ्चतोऽभूत् ॥ २८॥
उक्तक्रमात् पूर्वभवस्तु यो यः श्रेष्ठः स स ह्यासुरकानृते च ।
पूर्वस्तु पश्चात् पुनरेव जातो नाश्रेष्ठतामेति कथञ्चिदस्य ।
गुणास्तु कालात् पितृमातृदोषात् स्वकर्मतो वाऽभिभवं प्रयान्ति ॥ २९॥
लयो भवेद् व्युत्क्रमतो हि तेषां ततो हरिः प्रळये श्रीसहायः ।
शेतेनिजानन्दममन्दसान्द्रसन्दोहमेकोऽनुभवन्ननन्तः ॥ ३०॥
अनन्तशीर्षास्यकरोरुपादः सोऽनन्तमूर्तिः स्वगुणाननन्तान् ।
अनन्तशक्तिः परिपूर्णभोगो भुञ्जन्नजस्रं निजरूप आस्ते ॥ ३१॥
एवं पुनः सृजते सर्वमेतदनाद्यनन्तो हि जगत्प्रवाहः ।
नित्याश्च जीवाः प्रकृतिश्च नित्या कालश्च नित्यः किमु देवदेवः ॥ ३२॥
यथा समुद्रात् सरितः प्रजाताः पुनस्तमेव प्रविशन्ति शश्वत् ।
एवं हरेर्नित्यजगत्प्रवाहस्तमेव चासौ प्रविशत्यजस्रम् ॥ ३३॥
एवं विदुर्ये परमामनन्तामजस्य शक्तिं पुरुषोत्तमस्य ।
तस्य प्रसादादथ दग्धदोषास्तमाप्नुवन्त्याशु परं सुरेशम् ॥ ३४॥
देवानिमान् मुक्तसमस्तदोषान् स्वसन्निधाने विनिवेश्य देवः ।
पुनस्तदन्यानधिकारयोग्यांस्तत्तद्गणानेव पदे नियुङ्क्ते ॥ ३५॥
पुनश्च मारीचत एव देवा जाता आदित्यामसुराश्च दित्याम् ।
गावो मृगाः पक्ष्युरगादिसत्त्वा दाक्षायणीष्वेव समस्तशोऽपि ॥ ३६॥
ततः स मग्नामलयो लयोदधौ महीं विलोक्याऽऽशु हरिर्वराहः ।
भूत्वा विरिञ्चार्थ इमां सशैलामुद्धृत्य वारामुपरि न्यधात् स्थिरम् ॥ ३७॥
अथाब्जनाभप्रतिहारपालौ शापात् त्रिशो भूमितळेऽभिजातौ ।
दित्यां हिरण्यावथ राक्षसौ च पैतृष्वसेयौ च हरेः परस्तात् ॥ ३८॥
हतो हिरण्याक्ष उदारविक्रमो दितेः सुतो योऽवरजः सुरार्थे ।
धात्राऽर्थितेनैव वराहरूपिणा धरोद्धृतौ पूर्वहतोऽब्जजोद्भवः ॥ ३९॥
अथो विधातुर्मुखतो विनिःसृतान् वेदान् हयास्यो जगृहेऽसुरेन्द्रः ।
निहत्य तं मत्स्यवपुर्जुगोप मनुं मुनींस्तांश्च ददौ विधातुः ॥ ४०॥
मन्वन्तरप्रळये मत्स्यरूपो विद्यामदान्मनवे देवदेवः ।
वैवस्वतायोत्तमसंविदात्मा विष्णोः स्वरूपप्रतिपत्तिरूपाम् ॥ ४१॥
अथो दितेर्ज्येष्ठसुतेन शश्वत् प्रपीडिता ब्रह्मवरात् सुरेशाः ।
हरिं विरिञ्चेन सहोपजग्मुर्दौरात्म्यमस्यापि शशंसुरस्मै ॥ ४२॥
अभिष्टुतस्तैर्हरिरुग्रवीर्यो नृसिंहरूपेण स आविरासीत् ।
हत्वा हिरण्यं च सुताय तस्य दत्वाऽभयं देवगणानतोषयत् ॥ ४३॥
सुरासुराणामुदधिं विमथ्नतां दधार पृष्ठेन गिरिं स मन्दरम् ।
वरप्रदानादपरैरधार्यं हरस्य कूर्मो बृहदण्डवोढा ॥ ४४॥
वरादजेयत्वमवाप दैत्यराट् चतुर्मुखस्यैव बलिर्यदा तदा ।
अजायतेन्द्रावरजोऽदितेः सुतो महानजोऽप्यब्जभवादिसंस्तुतः ॥ ४५॥
' स वामनात्माऽसुरभूभृतोऽध्वरं जगाम गां सन्नमयन् पदे पदे ।
जहार चास्माच्छलतस्त्रिविष्टपं त्रिभिः क्रमैस्तच्च ददौ निजाग्रजे' ॥ ४६॥
पितामहेनास्य पुरा हि याचितो बलेः कृते केशव आह यद् वचः ।
नायाञ्चयाऽहं प्रतिहन्मि तं बलिं शुभाननेत्येव ततोऽभ्ययाचत ॥ ४७॥
बभूविरे चन्द्रललामतो वरात् पुरा ह्यजेया असुरा धरातळे ।
तैरर्दिता वासवनायकाः सुराः पुरो निधायाब्जजमस्तुवन् हरिम् ॥ ४८॥
विरिञ्चसृष्टैर्नितरामवध्यौ वराद् विधातुर्दितिजौ हिरण्यकौ ।
तथा हयग्रीव उदारविक्रमस्त्वया हता ब्रह्मपुरातनेन ॥ ४९॥
स चासुरान् रुद्रवरादवध्यानिमान् समस्तैरपि देवदेव ।
निःसीमशक्त्यैव निहत्य सर्वान् हृदम्बुजे नो निवसाथ शश्वत् ॥ ५०॥
इत्यादरोक्तस्त्रिदशैरजेयः स शार्ङ्गधन्वाऽथ भृगूद्वहोऽभूत् ।
रामो निहत्यासुरपूगमुग्रं नदाननादिर्विदधेऽसृजैव ॥ ५१॥
ततः पुलस्त्यस्य कुले प्रसूतौ तावादिदैत्यौ जगदेकशत्रू ।
परैरवध्यौ वरतः पुरा हरेः सुरैरजेयौ च वराद् विधातुः ॥ ५२॥
सर्वैरजेयः स च कुम्भकर्णः पुरातने जन्मनि धातुरेव ।
वरान्नरादीनृत एव रावणस्तदातनात् तौ त्रिदशानबाधताम् ॥ ५३॥
तदाऽब्जजं शूलिनमेव चाग्रतो निधाय देवाः पुरुहूतपूर्वकाः ।
पयोम्बुधौ भोगिपभोगशायिनं समेत्य योग्यां स्तुतिमभ्ययोजयन् ॥ ५४॥
त्वमेक ईशः परमः स्वतन्त्रस्त्वमादिरन्तो जगतो नियोक्ता ।
त्वदाज्ञयैवाखिलमम्बुजोद्भवा वितेनिरेऽग्र्याश्चरमाश्च येऽन्ये ॥ ५५॥
मनुष्यमानात् त्रिशतं सषष्टिकं दिवौकसामेकमुशन्ति वत्सरम् ।
द्विषट्सहस्रैरपि तैश्चतुर्युगं त्रेतादिभिः पादश एव हीनैः ॥ ५६॥
सहस्त्रवृत्तं तदहः स्वयम्भुवो निशा च तन्मानमितं शरच्छतम् ।
त्वदाज्ञया स्वाननुभूय भोगानुपैति सोऽपि त्वरितस्त्वदन्तिकम् ॥ ५७॥
त्वया पुरा कर्णपुटाद् विनिर्मितौ महासुरौ तौ मधुकैटभाख्यौ ।
प्रभञ्जनावेशवशात् तवाऽज्ञया बलोद्धतावाशु जले व्यवर्धताम् ॥ ५८॥
त्वदाज्ञया ब्रह्मवरादवध्यौ चिक्रीडिषासम्भवया मुखोद्गतान् ।
स्वयम्भुवो वेदगणानहार्षतां तदाऽभवस्त्वं हयशीर्ष ईश्वरः ॥ ५९॥
आहृत्य वेदानखिलान् प्रदाय स्वयम्भुवे तौ च जघन्थ दस्यू ।
निष्पीड्य तावूरुतळे कराभ्यां तन्मेदसैवाऽऽशु चकर्थ मेदिनीम् ॥ ६०॥
एवं सुराणां च निसर्गजं बलं तथाऽसुराणां वरदानसम्भवम् ।
वशे तवैतद् द्वयमप्यतो वयं निवेदयामः पितुरेव तेऽखिलम् ॥ ६१॥
इमौ च रक्षोऽधिपती विरोद्धतौ जहि स्ववीर्येण नृषु प्रभूतः ।
इतीरिते तैरखिलैः सुरेश्वरैर्बभूव रामो जगतीपतिः प्रभुः ॥ ६२॥
स कश्यपस्यादितिगर्भजन्मनो विवस्वतस्तन्तुभवस्य भूभृतः ।
गृहे दशस्यन्दननामिनोऽभूत् कौसल्यकानाम्नि तदर्थिनेष्टः ॥ ६३ ॥
तदाज्ञया देवगणा बभूविरे पुरैव पश्चादपि तस्य भूम्नः ।
निषेवणायोरुगुणस्य वानरेष्वथो नरेष्वेव च पश्चिमोद्भवाः ॥ ६४॥
स देवतानां प्रथमो गुणाधिको बभूव नाम्ना हनुमान् प्रभञ्जनः ।
स्वसम्भवः केसरिणो गृहे प्रभुर्बभूव वाली स्वत एव वासवः ॥ ६५॥
सुग्रीव आसीत् परमेष्ठितेजसा युतो रविः स्वात्मत एव जाम्बवान् ।
य एव पूर्वं परमेष्ठिवक्षसस्त्वगुद्भवो धर्म इहाऽस्यतोऽभवत् ॥ ६६॥
य एव सूर्यात् पुनरेव सञ्ज्ञया नाम्ना यमो दक्षिणदिक्प आसीत् ।
स जाम्बवान् दैवतकार्यदर्शिना पुरैव सृष्टो मुखतः स्वयम्भुवा ॥ ६७॥
ब्रह्मोद्भवः सोम उतास्य सूनोरत्रेरभूत् सोऽङ्गद एव जातः ।
बृहस्पतिस्तार उतो शची च शक्रस्य भार्यैव बभूव तारा ॥ ६८॥
बृहस्पतिर्ब्रह्मसुतोऽपि पूर्वं सहैव शच्या मनसोऽभिजातः ।
ब्रह्मोद्भवस्याङ्गिरसः सुतोऽभून्मारीचजस्यैव शची पुलोम्नः ॥ ६९॥
स एव शच्या सह वानरोऽभूत् स्वसम्भवो देवगुरुर्बृहस्पतिः ।
अभूत् सुषेणो वरुणोऽश्विनौ च बभूवतुस्तौ विविदश्च मैन्दः ॥ ७०॥
ब्रह्मोद्भवौ तौ पुनरेव सूर्याद् बभूवतुस्तत्र कनीयसस्तु ।
आवेश ऐन्द्रो वरदानतोऽभूत् ततो बलीयान् विविदो हि मैन्दात् ॥ ७१॥
नीलोऽग्निरासीत् कमलोद्भवोत्थः कामः पुनः श्रीरमणाद् रमायाम् ।
प्रद्युम्ननामाऽभवदेवमीशात् स स्कन्दतामाप स चक्रतां च ॥ ७२॥
पूर्वं हरेश्चक्रमभूद्धि दुर्गा तमःस्थिता श्रीरिति यां वदन्ति ।
सत्त्वात्मिका शङ्खमथो रजस्था भूर्नामिका पद्ममभूद्धरेर्हि ॥ ७३॥
गदा तु वायुर्बलसंविदात्मा शार्ङ्गश्च विद्येति रमैव खड्गः ।
दुर्गात्मिका सैव च चर्मनाम्नी पञ्चात्मको मारुत एव बाणाः ॥ ७४॥
एवं स्थितेष्वेव पुरातनेषु वराद् रथाङ्गत्वमवाप कामः ।
तत्सूनुतामाप च सोऽनिरुद्धो ब्रह्मोद्भवः शङ्खतनुः पुमात्मा ॥ ७५॥
तावेव जातौ भरतश्च नाम्ना शत्रुघ्न इत्येव च रामतोऽनु ।
पूर्वं सुमित्रातनयश्च शेषः स लक्ष्मणो नाम रघूत्तमादनु ॥ ७६॥
कौसल्यकापुत्र उरुक्रमोऽसावेकस्तथैको भरतस्य मातुः ।
उभौ सुमित्रातनयौ नृपस्य चत्वार एते ह्यमरोत्तमा सुताः ॥ ७७॥
सङ्कर्षणाद्यैस्त्रिभिरेव रूपैराविष्ट आसीत् त्रिषु तेषु विष्णुः ।
इन्द्रोऽङ्गदे चैव ततोऽङ्गदो हि बली नितान्तं स बभूव शश्वत् ॥ ७८॥
येऽन्ये च भूपाः कृतवीर्यजाद्या बलाधिकाः सन्ति सहस्रशोऽपि ।
सर्वे हरेः सन्निधिभावयुक्ता धर्मप्रधानाश्च गुणप्रधानाः ॥ ७९॥
स्वयं रमा सीरत एव जाता सीतेति रामार्थमनूपमा या ।
विदेहराजस्य हि यज्ञभूमौ सुतेति तस्यैव ततस्तु साऽभूत् ॥ ८०॥
इत्यादिकल्पोत्थित एष सर्गो मया समस्तागमनिर्णयात्मकः ।
सहानुसर्गः कथितोऽत्र पूर्वो यो यो गुणैर्नित्यमसौ वरो हि ॥ ८१॥
पाश्चात्त्यकल्पेष्वपि सर्गभेदाः श्रुतौ पुराणेष्वपि चान्यथोक्ताः ।
नोत्कर्षहेतुः प्रथमत्वमेषु विशेषवाक्यैरवगम्यमेतत् ॥ ८२॥