श्रुत्वा हनूमदुदितं कृतमस्य सर्वं प्रीतः प्रयाणमभिरोचयते स रामः

अष्टमोऽध्यायः
सर्वशास्त्रतात्पर्यनिर्णयः

औं ॥ श्रुत्वा हनूमदुदितं कृतमस्य सर्वं प्रीतः प्रयाणमभिरोचयते स रामः ।

आरुह्य वायुसुतमङ्गदगेन युक्तः सौमित्रिणा सरविजः सह सेनयाऽगात् ॥ १॥

सम्प्राप्य दक्षिणमपान्निधिमत्र देवः शिश्ये जगद्गुरुतमोऽप्यविचिन्त्यशक्तिः ।

अग्रे हि मार्दवमनुप्रथयन् स धर्मं पन्थानमर्थितुमपाम्पतितः प्रतीतः ॥ २॥

तत्राऽऽजगाम स विभीषणनामधेयो रक्षःपतेरवरजोऽप्यथ रावणेन ।

भक्तोऽधिकं रघुपताविति धर्मनिष्ठस्त्यक्तो जगाम शरणं च रघूत्तमं तम् ॥ ३॥

ब्रह्मात्मजेन रविजेन बलप्रणेत्रा नीलेन मैन्दविविदाङ्गदतारपूर्वैः ।

सर्वैश्च शत्रुसदनादुपयात एष भ्राताऽस्य न ग्रहणयोग्य इति स्थिरोक्तः ॥ ४॥

अत्राऽह रूपमपरं बलदेवताया ग्राह्यः स एष नितरां शरणं प्रपन्नः ।

भक्तश्च रामपदयोर्विनशिष्णु रक्षो विज्ञाय राज्यमुपभोक्तुमिहाभियातः ॥ ५॥

इत्युक्तवत्यथ हनूमति देवदेवः सङ्गृह्य तद्वचनमाह यथैव पूर्वम् ।

सुग्रीवहेतुत इमं स्थिरमाग्रहीष्ये पादप्रपन्नमिदमेव सदा व्रतं मे ॥ ६॥

सब्रह्मकाः सुरगणाः सहदैत्यमर्त्याः सर्वे समेत्य च मदङ्गुलिचालनेऽपि ।

नेशा भयं न मम रात्रिचरादमुष्माच्छुद्धस्वभाव इति चैनमहं विजाने ॥ ७॥

इत्युक्तवाक्य उत तं स्वजनं विधाय राज्येऽभ्यषेचयदपारसुसत्त्वराशिः ।

मत्वा तृणोपममशेषसदन्तकं तं रक्षःपतिं त्ववरजस्य ददौ स लङ्काम् ॥ ८॥

' कल्पान्तमस्य निशिचारि पतित्वपूर्वमायुः प्रदाय निजलोकगतिं तदन्ते ।

रात्रित्रयेऽप्यनुपगामिनमीक्ष्य सोऽब्धिं चुक्रोध रक्तनयनान्तमयुञ्जदब्धौ ॥ ९॥

स क्रोधदीप्तनयनान्तहतः परस्य शोषं क्षणादुपगतो दनुजादिसत्त्वैः ।

सिन्धुः शिरस्यर्हणं परिगृह्य रूपी पादारविन्दमुपगम्य बभाष एतत् ॥ १०॥

तं त्वां वयं जडधियो न विदाम भूमन् कूटस्थमादिपुरुषं जगतामधीशम् ।

त्वं सत्त्वतः सुरगणान् रजसो मनुष्यांस्तार्तीयतोऽसुरगणानभितस्तथाऽस्राः ॥ ११॥

कामं प्रयाहि जहि विश्रवसोऽवमेहं त्रैलोक्यरावणमवाप्नुहि वीर पत्नीम् ।

बध्नीहि सेतुमिह ते यशसो वितत्यै गायन्ति दिग्विजयिनो यमुपेत्य भूपाः' ॥ १२॥

(भा\.पु\. ९\.१०\.१३\-१५) इत्युक्तवन्तममुमाश्वनुगृह्य बाणं तस्मै धृतं दितिसुतात्मसु चान्त्यजेषु ।

शार्वाद् वराद् विगतमृत्युषु दुर्जयेषु निःसङ्ख्यकेष्वमुचदाशु ददाह सर्वान् ॥ १३॥

कृत्वेरिणं तदथ मूलफलानि चात्र सम्यग् विधाय भवशत्रुरमोघचेष्टः ।

बद्धुं दिदेश सुरवर्धकिणोऽवतारं तज्जं नळं हरिवरानपरांश्च सेतुम् ॥ १४॥

बध्वोदधौ रघुपतिर्विविधाद्रिकूटैः सेतुं कपीन्द्रकरकम्पितभूरुहाङ्गैः ।

सुग्रीवनीलहनुमत्प्रमुखैरनीकैर्लङ्कां विभीषणदृशाऽविशदाशु दग्धाम् ॥ १५॥

प्राप्तं निशाम्य परमं भुवनैकसारं निःसीमपौरुषमनन्तमसौ दशास्यः ।

त्रासाद् विषण्णहृदयो नितरां बभूव कर्तव्यकर्मविषये च विमूढचेताः ॥ १६॥

प्रस्थाप्य वालिसुतमेव च राजनीत्यै रामस्तदुक्तवचनेऽप्यमुनाऽगृहीते ।

द्वारो रुरोध स चतस्र उदीर्णसैन्यो रक्षःपतेः पुर उदारगुणः परेशः ॥ १७॥

द्वारां निरोधसमये स दिदेश पुत्रं वाराम्पतेर्दिशि सुरेश्वरशत्रुमुग्रम् ।

प्राच्यां प्रहस्तमदिशद् दिशि वज्रदंष्ट्रं प्रेताधिपस्य शशिनः स्वयमेव चागात् ॥ १८॥

विज्ञाय तत् स भगवान् हनुमन्तमेव देवेन्द्रशत्रुविजयाय दिदेश चाऽऽशु ।

नीलं प्रहस्तनिधनाय च वज्रदंष्ट्रं हन्तुं सुरेन्द्रसुतसूनुमथाऽऽदिदेश ॥ १९॥

मध्ये हरीश्वरमधिज्यधनुर्नियुज्य यस्यां स राक्षसपतिर्दिशमेव तां हि ।

उद्दिश्य संस्थित उपात्तशरः सखड्गो देदीप्यमानवपुरुत्तमपूरुषोऽसौ ॥ २०॥

विद्रावितो हनुमतेन्द्रजिदाशु हस्तं तस्य प्रपन्न इव वीर्यममुष्य जानन् ।

नीलो विभीषण उभौ शिलया च शक्त्या सञ्चक्रतुर्यमवशं गमितं प्रहस्तम् ॥ २१॥

नीलस्य नैव वशमेति स इत्यमोघशक्त्या विभीषण इमं प्रजहार साकम् ।

तस्मिन् हतेऽङ्गद उपेत्य जघान वज्रदंष्ट्रं निपात्य भुवि शीर्षममुष्य मृद्गन् ॥ २२॥

सर्वेषु तेषु निहतेषु दिदेश धूम्रनेत्रं स राक्षसपतिः स च पश्चिमेन ।

द्वारेण मारुतसुतं समुपेत्य दग्धो गुप्तोऽपि शूलिवचनेन दुरन्तशक्तिम् ॥ २३॥

अकम्पनोऽपि राक्षसो निशाचरेशचोदितः ।

उमापतेर्वरोद्धतः क्षणाद्धतो हनूमता ॥ २४॥

अथास्त्रसम्प्रदीपितैः समस्तशो महोल्मुकैः ।

रघुप्रवीरचोदिताः पुरं निशि स्वदाहयन् ॥ २५॥

ततस्तौ निकुम्भोऽथ कुम्भश्च कोपात् प्रदिष्टौ दशास्येन कुम्भश्रुतेर्हि ।

सुतौ सुप्रहृष्टौ रणायाभियातौ कपींस्तान् बहिः सर्वशो यातयित्वा ॥ २६॥

स कुम्भो विधातुः सुतं तारनीलौ नळं चाश्विपुत्रौ जिगायाङ्गदं च ।

सुयुद्धं च कृत्वा दिनेशात्मजेन प्रणीतो यमस्याऽऽशु लोकं सुपापः ॥ २७॥

ततो निकुम्भोऽद्रिवरप्रदारणं महान्तमुग्रं परिघं प्रगृह्य ।

ससार सूर्यात्मजमाशु भीतः स पुप्लुवे पश्चिमतो धनुःशतम् ॥ २८॥

तं भ्रामयत्याशु भुजेन वीरे भ्रान्ता दिशो द्यौश्च सचन्द्रसूर्या ।

सुराश्च तस्योरुबलं वरं च शर्वोद्भवं वीक्ष्य विषेदुरीषत् ॥ २९॥

अनन्यसाध्यं तमथो निरीक्ष्य समुत्पपाताऽऽशु पुरोऽस्य मारुतिः ।

प्रकाशबाह्वन्तर आह चैनं किमेभिरत्र प्रहराऽयुधं ते ॥ ३०॥

इतीरितस्तेन स राक्षसोत्तमो वरादमोघं प्रजहार वक्षसि ।

विचूर्णितोऽसौ तदुरस्यभेद्ये यथैव वज्रो विपतौ वृथाऽभवत् ॥ ३१॥

विचूर्णिते निजायुधे निकुम्भ एत्य मारुतिम् ।

प्रगृह्य चात्मनोऽंसके निधाय जग्मिवान् द्रुतम् ॥ ३२॥

प्रगृह्य कण्ठमस्य स प्रधानमारुतात्मजः ।

स्वमाशु मोचयंस्ततो न्यपातयद् धरातळे ॥ ३३॥

चकार तं रणात्मके मखे रमेशदैवते ।

पशुं प्रभञ्जनात्मजो विनेदुरत्र देवताः ॥ ३४॥

सुप्तघ्नो यज्ञकोपश्च शकुनिर्देवतापनः ।

विद्युज्जिह्वः प्रमाथी च शुकसारणसंयुताः ॥ ३५॥

रावणप्रेरिताः सर्वान् मथन्तः कपिकुञ्जरान् ।

अवध्या ब्रह्मवरतो निहता रामसायकैः ॥ ३६॥

युद्धोन्मत्तश्च मत्तश्च देवान्तकनरान्तकौ ।

त्रिशिरा अतिकायश्च निर्ययू रावणाज्ञया ॥ ३७॥

नरान्तको रावणजो हयवर्योपरि स्थितः ।

अभीः ससार समरे प्रासोद्यतकरो हरीन् ॥ ३८॥

तं दहन्तमनीकानि युवराजोऽङ्गदो बली ।

उत्पपात निरीक्ष्याऽऽशु समदर्शयदप्युरः ॥ ३९॥

तस्योरसि प्रासवरं प्रजहार स राक्षसः ।

द्विधा समभवत् तत्तु वालिपुत्रस्य तेजसा ॥ ४०॥

अथास्य हयमाश्वेव निजघान मुखे कपिः ।

पेततुश्चाक्षिणी तस्य स पपात ममार च ॥ ४१॥

स खड्गवरमादाय प्रससार रणे कपिम् ।

आच्छिद्य खड्गमस्यैव निहतो वालिसूनुना ॥ ४२॥

गन्धर्वकन्यकासूते निहते रावणात्मजे ।

आजगामाग्रजस्तस्य सोदर्यो देवतान्तकः ॥ ४३॥

तस्याऽपतत एवाऽऽशु शरवर्षप्रतापिताः ।

प्रदुद्रुवुर्भयात् सर्वे कपयो जाम्बवन्मुखाः ॥ ४४॥

स शरं तरसाऽऽदाय रविपुत्रायुधोपमम् ।

अङ्गदं प्रजहारोरस्यपतत् स मुमोह च ॥ ४५॥

अथ तिग्मांशुतनयः शैलं प्रचलपादपम् ।

अभिदुद्राव सङ्गृह्य चिक्षेप च निशाचरे ॥ ४६॥

तमापतन्तमालक्ष्य दूराच्छरविदारितम् ।

सुरान्तकश्चकाराऽशु दधार च परं शरम् ॥ ४७॥

स तमाकर्णमाकृष्य यमदण्डोपमं शरम् ।

अविद्ध्यद्धृदये राज्ञः कपीनां स पपात ह ॥ ४८॥

बलमप्रतिमं वीक्ष्य सुरशत्रोस्तु मारुतिः ।

आह्वयामास युद्धाय केशवः कैटभं यथा ॥ ४९॥

तमापतन्तमालोक्य रथं सहयसारथिम् ।

चूर्णयित्वा धनुश्चास्य समाच्छिद्य बभञ्ज ह ॥ ५०॥

अथ खड्गं समादाय पुर आपततो रिपोः ।

हरिः प्रगृह्य केशेषु पातयित्वैनमाहवे ।

शिरो ममर्द तरसा पवमानात्मजः पदा ॥ ५१॥

वरदानादवध्यं तं निहत्य पवनात्मजः ।

समीडितः सुरवरैः प्लवगैर्वीक्षितो मुदा ॥ ५२॥

विद्राविताखिलकपिं वरात् त्रिशिरसं विभोः ।

भङ्क्त्वा रथं धनुः खड्गमाच्छिद्याशिरसं व्यधात् ॥ ५३॥

युद्धोन्मत्तश्च मत्तश्च पार्वतीवरदर्पितौ ।

प्रमथन्तौ कपीन् सर्वान् हतौ मारुतिमुष्टिना ॥ ५४॥

ततोऽतिकायोऽतिरथो रथेन स्वयम्भुदत्तेन हरीन् प्रमृद्गन् ।

चचार कालानलसन्निकाशो गन्धर्विकायां जनितो दशास्यात् ॥ ५५॥

बृहत्तनुः कुम्भवदेव कर्णावस्येत्यतो नाम च कुम्भकर्णः ।

इत्यस्य सोऽर्कात्मजपूर्वकान् कपीन् जिगाय रामं सहसाऽभ्यधावत् ॥ ५६॥

तमापतन्तं शरवर्षधारं महाघनाभं स्तनयित्नुघोषम् ।

निवारयामास यथा समीरः सौमित्रिरात्तेष्वसनः शरौघैः ॥ ५७॥

ववर्षतुस्तावतिमात्रवीर्यौ शरान् सुरेशाशनितुल्यवेगान् ।

तमोमयं चक्रतुरन्तरिक्षं स्वशिक्षया क्षिप्रतमास्तबाणैः ॥ ५८॥

शरैः शरानस्य निवार्य वीरः सौमित्रिरस्त्राणि महास्त्रजालैः ।

चिच्छेद बाहू शिरसा सहैव चतुर्भुजोऽभूत् स पुनर्द्विशीर्षः ॥ ५९॥

छिन्नेषु तेषु द्विगुणास्यबाहुः पुनःपुनः सोऽथ बभूव वीरः ।

उवाच सौमित्रिमथान्तरात्मा समस्तलोकस्य मरुद् विषण्णम् ॥ ६०॥

ब्रह्मास्त्रतोऽन्येन न वध्य एष वराद् विधातुः सुमुखेत्यदृश्यः ।

रक्षःसुतस्याश्रवणीयमित्थमुक्त्वा समीरोऽरुहदन्तरिक्षम् ॥ ६१॥

अथानुजो देवतमस्य सोऽस्त्रं ब्राह्मं तनूजे दशकन्धरस्य ।

मुमोच दग्धः सरथाश्वसूतस्तेनातिकायः प्रवरोऽस्त्रवित्सु ॥ ६२॥

हतेषु पुत्रेषु स राक्षसेशः स्वयं प्रयाणं समरार्थमैच्छत् ।

सज्जीभवत्येव निशाचरेशे खरात्मजः प्राह धनुर्धरोत्तमः ॥ ६३॥

नियुङ्क्ष्व मां मे पितुरन्तकस्य वधाय राजन् सहलक्ष्मणं तम् ।

कपिप्रवीरांश्च निहत्य सर्वान् प्रतोषये त्वामहमद्य सुष्ठु ॥ ६४॥

इतीरितेऽनेन नियोजितः स जगाम वीरो मकराक्षनामा ।

विधूय सर्वांश्च हरिप्रवीरान् सहाङ्गदान् सूर्यसुतेन साकम् ॥ ६५॥

अचिन्तयन् लक्ष्मणबाणसङ्घानवज्ञया राममथाऽह्वयद् रणे ।

उवाच रामं रजनीचरोऽसौ हतो जनस्थानगतः पिता त्वया ॥ ६६॥

केनाप्युपायेन धनुर्धराणां वरः फलं तस्य ददामि तेऽद्य ।

इति ब्रुवाणः स सरोजयोनेर्वरादवध्योऽमुचदस्त्रसङ्घान् ॥ ६७॥

प्रहस्य रामोऽस्य निवार्य चास्त्रैरस्त्राण्यमेयोऽशनिसन्निभेन ।

शिरः शरेणोत्तमकुण्डलोज्ज्वलं खरात्मजस्याथ समुन्ममाथ ॥ ६८॥

विदुद्रुवुस्तस्य तु येऽनुयायिनः कपिप्रवीरैर्निहतावशेषिताः ।

यथैव धूम्राक्षमुखेषु पूर्वं हतेषु पृथ्वीरुहशैलधारिभिः ॥ ६९॥

ततः स सज्जीकृतमात्तधन्वा रथं समास्थाय निशाचरेश्वरः ।

वृतः सहस्रायुतकोट्यनीकपैर्निशाचरैराशु ययौ रणाय ॥ ७०॥

बलैस्तु तस्याथ बलं कपीनां नैकप्रकारायुधपूगभग्नम् ।

दिशः प्रदुद्राव हरीन्द्रमुख्याः समार्दयन्नाशु निशाचरांस्तदा ॥ ७१॥

गजो गवाक्षो गवयो वृषश्च सगन्धमादा धनदेन जाताः ।

प्राणादयः पञ्च मरुत्प्रवीराः स कत्थनो वित्तपतिश्च जघ्नुः ॥ ७२॥

शरैस्तु तान् षड्भिरमोघवेगैर्निपातयामास दशाननो द्राक् ।

अथाश्विपुत्रौ च सजाम्बवन्तौ प्रजह्रतुः शैलवरैस्त्रिभिस्तम् ॥ ७३॥

गिरीन् विदार्याऽशु शरैरथान्याञ्छरान् दशास्योऽमुचदाशु तेषु ।

एकैकमेभिर्विनिपातितास्ते ससार तं शक्रसुतात्मजोऽथ ॥ ७४॥

शिलां समादाय तमापतन्तं विभेद रक्षो हृदये शरेण ।

दृढाहतः सोऽप्यगमद् धरातळं रवेः सुतोऽथैनमभिप्रजग्मिवान् ॥ ७५॥

तद्धस्तगं भूरुहमाशु बाणैर्दशाननः खण्डश एव कृत्वा ।

ग्रीवाप्रदेशेऽस्य मुमोच बाणं भृशाहतः सोऽपि पपात भूमौ ॥ ७६॥

अथो हनूमानुरगेन्द्रभोगसमं स्वबाहुं भृशमुन्नमय्य ।

तताड वक्षस्यधिपं तु रक्षसां मुखैः स रक्तं प्रवमन् पपात ॥ ७७॥

स लब्धसञ्ज्ञः प्रशशंस मारुतिं त्वया समो नास्ति पुमान् हि कश्चित् ।

कः प्रापयेदन्य इमां दशां मामितीरितो मारुतिराह तं पुनः ॥ ७८॥

अत्यल्पमेतद् यदुपात्तजीवितः पुनस्त्वमित्युक्त उवाच रावणः ।

गृहाण मत्तोऽपि समुद्यतं त्वं मुष्टिप्रहारं त्विति तं पुपोथ ॥ ७९॥

किञ्चित् प्रहारेण तु विह्वलाङ्गवत् स्थिते हि तस्मिन्निदमन्तरं मम ।

इत्यग्निसूनुं प्रययौ स रावणो निवारितो मारुतिनाऽपि वाचा ॥ ८०॥

तमापतन्तं प्रसमीक्ष्य नीलो धनुर्ध्वजाग्राश्वरथेषु तस्य ।

चचार मूर्धस्वपि चञ्चलोऽलं जळीकृतस्तेन स रावणोऽपि ॥ ८१॥

स क्षिप्रमादाय हुताशनास्त्रं मुमोच नीले रजनीचरेशः ।

स तेन भूमौ पतितो नचैनं ददाह वह्निः स्वतनुर्यतोऽसौ ॥ ८२॥

ततो ययौ राघवमेव रावणो निवारयामास तमाशु लक्ष्मणः ।

ततक्षतुस्तावधिकौ धनुर्भृतां शरैः शरीरावरणावदारणैः ॥ ८३॥

निवारितस्तेन स रावणो भृशं रुषाऽन्वितो बाणममोघमुग्रम् ।

स्वयम्भुदत्तं प्रविकृष्य चाऽशु ललाटमध्ये प्रमुमोच तस्य ॥ ८४॥

भृशाहतस्तेन मुमोह लक्ष्मणो रथादवप्लुत्य दशाननोऽपि ।

क्षणादभिद्रुत्य बलात् प्रगृह्य स्वबाहुभिर्नेतुमिमं समैच्छत् ॥ ८५॥

सम्प्राप्य सञ्ज्ञां स सुविह्वलोऽपि सस्मार रूपं निजमेव लक्ष्मणः ।

शेषं हरेरंशयुतं नचास्य स चालनायापि शशाक रावणः ॥ ८६॥

बलात् स्वदोर्भिः प्रतिगृह्य चाखिलैर्यदा स वीरं प्रचकर्ष रावणः ।

चचाल पृथ्वी सहमेरुमन्दरा ससागरा नैव चचाल लक्ष्मणः ॥ ८७॥

सहस्रमूर्ध्नोऽस्य बतैकमूर्ध्नि ससप्तपाताळगिरीन्द्रसागरा ।

धराऽखिलेयं ननु सर्षपायति प्रसह्य को नाम हरेत् तमेनम् ॥ ८८॥

प्रकर्षति त्वेव निशाचरेश्वरे तथैव रामावरजम् त्वरान्वितः ।

समस्तजीवाधिपतेः परा तनुः समुत्पपातास्य पुरो हनूमान् ॥ ८९॥

स मुष्टिमावर्त्य च वज्रकल्पं जघान तेनैव च रावणं रुषा ।

प्रसार्य बाहूनखिलैर्मुखैर्वमन् स रक्तमुष्णं व्यसुवत् पपात ॥ ९०॥

निपात्य रक्षोधिपतिं स मारुतिः प्रगृह्य सौमित्रिमुरङ्गशायिनः ।

जगाम रामाख्यतनोः समीपं सौमित्रिमुद्धर्तुमलं ह्यसौ कपिः ॥ ९१॥

स रामसंस्पर्शनिवारितक्लमः समुत्थितस्तेन समुद्धृते शरे ।

बभौ यथा राहुमुखात् प्रमुक्तः शशी सुपूर्णो विकचस्वरश्मिभिः ॥ ९२॥

स शेषभोगाभमथो जनार्दनः प्रगृह्य चापं सशरं पुनश्च ।

सुलब्धसञ्ज्ञं रजनीचरेशं जगाद सज्जीभव रावणेति ॥ ९३॥

रथं समारुह्य पुनः सकार्मुकः समार्गणो रावण आशु रामम् ।

अभ्येत्य सर्वाश्च दिशश्चकार शरान्धकाराः परमास्त्रवेत्ता ॥ ९४॥

रथस्थितेऽस्मिन् रजनीचरेशे न मे पतिर्भूमितळे स्थितः स्यात् ।

इति स्म पुत्रः पवनस्य रामं स्कन्धं समारोप्य ययौ च राक्षसम् ॥ ९५॥

प्रहस्य रामोऽस्य हयान् निहत्य सूतं च कृत्वा तिलशो ध्वजं रथम् ।

धनूंषि खड्गं सकलायुधानि छत्रं च सञ्छिद्य चकर्त मौलिम् ॥ ९६॥

कर्तव्यमूढं तमवेक्ष्य रामः पुनर्जगादाऽशु गृहं प्रयाहि ।

समस्तभोगाननुभूय शीघ्रं प्रतोष्य बन्धून् पुनरेहि मर्तुम् ॥ ९७॥

इतीरितोऽवाग्वदनो ययौ गृहं विचार्य कार्यं सह मन्त्रिभिः स्वकैः ।

हतावशेषैरथ कुम्भकर्णप्रबोधनायाऽशु मतिं चकार ॥ ९८॥

सशैलशृङ्गासिपरश्वधायुधैर्निशाचराणामयुतैरनेकैः ।

तच्छ्वासवेगाभिहतैः कथञ्चिद् गतैः समीपं कथमप्यबोधयत् ॥ ९९॥

शैलोपमानस्य च मांसराशीन् विधाय भक्षानपि शोणितह्रदान् ।

सुतृप्तमेनं परमादरेण समाह्वयामास सभातळाय ॥ १००॥

उवाच चैनं रजनीचरेन्द्रः पराजितोऽस्म्यद्य हि जीवति त्वयि ।

रणे नरेणैव च रामनाम्ना कुरुष्व मे प्रीतिममुं निहत्य ॥ १०१॥

इतीरितः कारणमप्यशेषं श्रुत्वा जगर्हाग्रजमेव वीरः ।

अमोघवीर्येण हि राघवेण त्वया विरोधश्चरितो बताद्य ॥ १०२॥

प्रशस्यते नो बलिभिर्विरोधः कथञ्चिदेषोऽतिबलो मतो मम ।

इतीरितो रावण आह दुर्नयोऽप्यहं त्वयाऽव्यो हि किमन्यथा त्वया ॥ १०३॥

चरन्ति राजान उताक्रमं क्वचित् त्वयोपमान् बन्धुजनान् बलाधिकान् ।

समीक्ष्य हीत्थं गदितोऽग्रजेन स कुम्भकर्णः प्रययौ रणाय ॥ १०४॥

प्राकारमालङ्घ्य स पञ्चयोजनं यदा ययौ शूलवरायुधो रणम् ।

कपिप्रवीरा अखिलाः प्रदुद्रुवुर्भयादतीत्यैव च सेतुमाशु ॥ १०५॥

शतवलिपनसाख्यौ तत्र वस्वंशभूतौ पवनगणवरांशौ श्वेतसम्पातिनौ च ।

निर्.हृतितनुमथोग्रं दुर्मुखं केसरीति प्रवरमथ मरुत्सु प्रास्यदेतान् मुखे सः ॥ १०६॥

रजनिचरवरोऽसौ कुम्भकर्णः प्रतापी कुमुदमपि जयन्तं पाणिना सम्पिपेष ।

नळमथ च गजादीन् पञ्च नीलं सतारं गिरिवरतरुहस्तान् मुष्टिनाऽपातयच्च ॥ १०७॥

अथाङ्गदश्च जाम्बवानिनात्मजश्च वानरैः ।

निजघ्निरे निशाचरं सवृक्षशैलसानुभिः ॥ १०८॥

विचूर्णिताश्च राक्षसास्तनौ निशाचरस्य ते ।

बभूव काचन व्यथा नचास्य बाहुषाळिनः ॥ १०९॥

अथापरं महाचलं प्रगृह्य भास्करात्मजः ।

मुमोच राक्षसेऽथ तं प्रगृह्य तं जघान सः ॥ ११०॥

तदा पपात सूर्यजस्तताड चाङ्गदं रुषा ।

स जाम्बवन्तमाशु तौ निपेततुस्तळाहतौ ॥ १११॥

अथ प्रगृह्य भास्करिं ययौ स राक्षसो बली ।

जगाम चानु मारुतिः सुसूक्ष्ममक्षिकोपमः ॥ ११२॥

यदैनमेष बाधते तदा विमोचयाम्यहम् ।

यदि स्म शक्यतेऽस्य तु स्वमोचनाय तद् वरम् ॥ ११३॥

इति व्रजत्यनु स्म तं मरुत्सुते निशाचरः ।

पुरं विवेश चार्चितः स्वबन्धुभिः समस्तशः ॥ ११४॥

तुहिनसलिलमाल्यैः सर्वतोऽभिप्रवृष्टे रजनिचरवरेऽस्मिंस्तेन सिक्तः कपीशः ।

विगतसकलयुद्धग्लानिरावञ्चयित्वा रजनिचरवरं तं तस्य नासां ददंश ॥ ११५॥

कराभ्यामथ कर्णौ च नासिकां दशनैरपि ।

सञ्छिद्य क्षिप्रमेवासावुत्पपात हरीश्वरः ॥ ११६॥

तळेन चैनं निजघान राक्षसः पिपेष भूमौ पतितं ततोऽपि ।

समुद्गतोऽसौ विवरेऽङ्गुलीनां जघान शूलेन पुनः स राक्षसः ॥ ११७॥

अमोघशूलं प्रपतत् तदीक्ष्य रवेः सुतस्योपरि मारुतात्मजः ।

प्रगृह्य जानौ प्रणिधाय शीघ्रं बभञ्ज तं प्रेक्ष्य ननाद चोच्चैः ॥ ११८॥

अथैनमावृत्य जघान मुष्टिना स राक्षसो वायुसुतं स्तनान्तरे ।

जगर्ज तेनाभिहतो हनूमानचिन्तयंस्तत् प्रजहार चैनम् ॥ ११९॥

तळेन वक्षस्यभिताडितो रुषा हनूमता मोहमवाप राक्षसः ।

पुनश्च सञ्ज्ञां समवाप्य शीघ्रं ययौ स यत्रैव रघुप्रवीरः ॥ १२०॥

विचिन्तयामास ततो हनूमान् मयैव हन्तुं समरे हि शक्यः ।

असौ तथाऽप्येनमहं न हन्मि यशो हि रामस्य दृढं प्रकाशयन् ॥ १२१॥

अनन्यवध्यं तमिमं निहत्य स्वयं स रामो यश आहरेत ।

दत्तो वरो द्वारपयोः स्वयं च जनार्दनेनैव पुरा ततश्च ॥ १२२॥

मयैव वध्यौ भवतं त्रिजन्मसु प्रवृद्धवीर्याविति केशवेन ।

उक्तं ममैवैष यदप्यनुग्रहं वधेऽस्य कुर्यान्नतु मे स धर्मः ॥ १२३॥

इति स्म सञ्चिन्त्य कपीशयुक्तो जगाम यत्रैव कपिप्रवीराः ।

स कुम्भकर्णोऽखिलवानरांस्तु प्रभक्षयन् राममुपाजगाम ॥ १२४॥

ते भक्षितास्तेन कपिप्रवीराः सर्वे विनिर्जग्मुरमुष्य देहात् ।

स्रोतोभिरेवाथ च रोमकूपैः केचित् तमेवाऽरुरुहुर्यथा गिरिम् ॥ १२५॥

स तान् विधूयाऽशु यथा महागजो जगाम रामं समरार्थमेकः ।

प्रभक्षयन् स्वानपरांश्च सर्वशो मत्तः समाघ्राय च शोणितं पिबन् ॥ १२६॥

न्यवारयत् तं शरवर्षधारया स लक्ष्मणो नैनमचिन्तयत् सः ।

जगाम रामं गिरिशृङ्गधारी समाह्वयत् तं समराय चाऽशु ॥ १२७॥

अथो समादाय धनुः सुघोरं शरांश्च वज्राशनितुल्यवेगान् ।

प्रवेशयामास निशाचरे प्रभुः स राघवः पूर्वहतेषु यद्वत् ॥ १२८॥

यावद्बलेन न्यहनत् खरादिकान् न तावतैव न्यपतत् स राक्षसः ।

अथ प्रहस्याऽत्मबलैकदेशं प्रदर्शयन् बाणवरान् मुमोच ॥ १२९॥

द्वाभ्यां स बाहू निचकर्त तस्य पदद्वयं चैव तथा शराभ्याम् ।

अथापरेणास्य शिरो निकृत्य सम्प्राक्षिपत् सागरतोय आशु ॥ १३०॥

अवर्धताब्धिः पतितेऽस्य काये महाचलाभे क्षणदाचरस्य ।

सुराश्च सर्वे ववृषुः प्रसूनैर्मुदा स्तुवन्तो रघुवर्यमूर्ध्नि ॥ १३१॥

योजनानां त्रिलक्षं हि कुम्भकर्णो व्यवर्धत ।

पूर्वं पश्चात् सञ्चुकोच लङ्कायामुषितुं स्वयम् ॥ १३२॥

स तु स्वभावमापन्नो म्रियमाणो व्यवर्धत ।

तेनास्मिन् पतिते त्वब्धिरवर्धदधिकं तदा ॥ १३३॥

अथापरे ये रजनीचरास्तदा कपिप्रवीरैर्निहताश्च सर्वशः ।

हतावशिष्टास्त्वरिताः प्रदुद्रुवुभ्रातुर्वधं चोचुरुपेत्य रावणम् ॥ १३४॥

स दुःखतप्तो निपपात मूर्छितो निराशकश्चाभवदात्मजीविते ।

तमाह पुत्रस्त्रिदशेशशत्रुर्नियुङ्क्ष्व मां शत्रुवधाय माचिरम् ॥ १३५॥

मया गृहीतस्त्रिदशेश्वरः पुरा विषीदसे किं नरराजपुत्रतः ।

स एवमुक्त्वा प्रजुहाव पावकं शिवं समभ्यर्च्य समारुहद् रथम् ॥ १३६॥

स आत्तधन्वा सशरो रथेन वियत् समारुह्य ययावदर्शनम् ।

स नागपाशैर्वरतः शिवस्य बबन्ध सर्वान् कपिवीरसङ्घान् ॥ १३७॥

पुराऽवताराय यदा स विष्णुर्दिदेश सर्वांस्त्रिदशांस्तदैव ।

ममापि सेवा भवते प्रयोज्येत्येवं गरुत्मानवदद् वृषाकपिम् ॥ १३८॥

तमाह विष्णुर्न भुवि प्रजातिमुपैहि सेवां तव चान्यथाऽहम् ।

आदास्य एवात्र यथा यशः स्याद् धर्मश्च कर्तव्यकृदेव च स्याः ॥ १३९॥

वरेण शर्वस्य हि रावणात्मजो यदा निबध्नाति कपीन् सलक्ष्मणान् ।

उरङ्गपाशेन तदा त्वमेव समेत्य सर्वानपि मोचयस्व ॥ १४०॥

अहं समर्थोऽपि स लक्ष्मणश्च तथा हनूमान् न विमोचयामः ।

तव प्रियार्थं गरुडैष एव कृतस्तवाऽदेश इमं कुरुष्व ॥ १४१॥

तदेतदुक्तं हि पुराऽऽत्मना यत् ततो हि रामो न मुमोच कञ्चन ।

न लक्ष्मणो नैव च मारुतात्मजः स चैव जानाति हि देवगुह्यम् ॥ १४२॥

अथो निबद्ध्याऽशु हरीन् सलक्ष्मणान् जगाम रक्षः स्वपितुः सकाशम् ।

ननन्द चासौ पिशिताशनेश्वरः शशंस पुत्रं च कृतात्मकार्यम् ॥ १४३॥

स पक्षिराजोऽथ हरेर्निदेशं स्मरंस्त्वरावानिह चाऽजगाम ।

तत्पक्षवातस्पर्शेन केवलं विनष्ट एषां स उरङ्गबन्धः ॥ १४४॥

स राममानम्य परात्मदैवतं ययौ सुमाल्याभरणानुलेपनः ।

कपिप्रवीराश्च तरूञ्छिलाश्च प्रगृह्य नेदुर्बलिनः प्रहृष्टाः ॥ १४५॥

श्रुत्वा निनादं प्लवगेश्वराणां पुनः सपुत्रोऽत्रसदत्र रावणः ।

बन्धादमुष्मात् प्रतिनिस्सृतास्ते किमत्र कार्यं त्विति चिन्तयानः ॥ १४६॥

पुनश्च हुत्वा स हुताशमेव रथं समारुह्य ययावदर्शनम् ।

ववर्ष चास्त्राणि महान्त्यजस्रं वरादुमेशस्य तथाऽब्जजस्य ॥ १४७॥

पुनश्च तस्यास्त्रनिपीडितास्ते निपेतुरुर्व्यां कपयः सलक्ष्मणाः ।

स्पृशन्ति नास्त्राणि दुरन्तशक्तिं तनुं समीरस्य हि कानिचित् क्वचित् ॥ १४८॥

विज्ञातुकामः पुरि सम्प्रवृत्तिं विभीषणः पूर्वगतस्तदाऽऽगात् ।

ददर्श सर्वान् पतितान् स वानरान् मरुत्सुतं त्वेकमनाकुलं च ॥ १४९॥

स तं समादाय ययौ विधातृजं विमूर्च्छितं चोदकसेकतस्तम् ।

आश्वास्य किं जीवसि हीत्युवाच तथेति स प्राह च मन्दवाक्यः ॥ १५०॥

ऊचे पुनर्जीवति किं हनूमान् जीवाः स्म सर्वेऽपि हि जीवमाने ।

तस्मिन् हते निहताश्चैव सर्व इतीरितेऽस्मीत्यवदत् स मारुतिः ॥ १५१॥

इत्युक्तो जाम्बवानाह हनूमन्तमनन्तरम् ।

योऽसौ मेरोः समीपस्थो गन्धमादनसञ्ज्ञितः ।

गिरिस्तस्मात् समाहार्यं त्वयौषधचतुष्टयम् ॥ १५२॥

मृतसञ्जीवनी मुख्या सन्धानकरणी परा ।

सवर्णकरणी चैव विशल्यकरणीति च ॥ १५३॥

इत्युक्तः स क्षणेनैव प्रापतद् गन्धमादनम् ।

अवाप चाम्बरचरो राममुक्तः शरो यथा ॥ १५४॥

अन्तर्हिताश्चौषधीस्तु तदा विज्ञाय मारुतिः ।

उद्बबर्ह गिरिं क्रोधाच्छतयोजनमण्डलम् ॥ १५५॥

स तं समुत्पाट्य गिरिं करेण प्रतोळयित्वा बलदेवसूनुः ।

समुत्पपाताम्बरमुग्रवेगो यथा हरिश्चक्रधरस्त्रिविक्रमे ॥ १५६॥

अवाप चाक्ष्णोः स निमेषमात्रतो निपातिता यत्र कपिप्रवीराः ।

तच्छैलवातस्पर्शात् समुत्थिताः समस्तशो वानरयूथपाः क्षणात् ॥ १५७॥

अपूजयन् मारुतिमुग्रपौरुषं रघूत्तमोऽस्यानुजनिस्तथाऽपरे ।

पपात मूर्ध्न्यस्य च पुष्पसन्ततिः प्रमोदितैर्देववरैर्विसर्जिता ॥ १५८॥

स देवगन्धर्वमहर्षिसत्तमैरभिष्टुतो रामकरोपगूहितः ।

पुनर्गिरिं तं शतयोजनोच्छ्रितं न्यपातयत् संस्थित एव तत्र च ॥ १५९॥

स पूर्ववन्मारुतिवेगचोदितो निरन्तरं श्लिष्टतरोऽत्र चाभवत् ।

पुनश्च सर्वे तरुशैलहस्ता रणाय चोत्तस्थुरलं नदन्तः ॥ १६०॥

पुनश्च तान् प्रेक्ष्य समुत्थितान् कपीन् भयं महच्छक्रजितं विवेश ।

स पूर्ववद्धव्यवहे समर्च्य शिवं तथाऽदर्शनमेव जग्मिवान् ॥ १६१॥

वराश्रयेणाजगिरीशयोस्तथा पुनर्महास्त्रैः स बबन्ध तान् कपीन् ।

अथाऽह रामस्य मनोऽनुसारतः पुराऽस्त्रमेवानुसरन् स लक्ष्मणः ॥ १६२॥

पितामहास्त्रेण निहन्मि दुर्मतिं तवाऽज्ञया शक्रजितं सबान्धवम् ।

इतीरिते तेन स चाऽह राघवो भयाददृश्ये न विमोक्तुमर्हसि ॥ १६३॥

न सोढुमीशोऽसि यदि त्वमेतदस्त्रं तदाऽहं शरमात्रकेण ।

अदृश्यमप्याशु निहन्मि सन्तं रसातळेऽथापि हि सत्यलोके ॥ १६४॥

इति स्म वीन्द्रस्य हनूमतश्च बलप्रकाशाय पुरा प्रभुः स्वयम् ।

सम्मानयित्वाऽस्त्रममुष्य रामो दुरन्तशक्तिः शरमाददेऽथ ॥ १६५॥

अनेन दृष्टोऽहमिति स्म दुष्टो विज्ञाय बाह्वोर्बलमस्य चोग्रम् ।

विनिश्चयं देवतमस्य पश्यन् प्रदुद्रुवे प्राणपरीप्सुराशु ॥ १६६॥

हाहाकृते प्रद्रुत इन्द्रशत्रौ रघूत्तमः शत्रुविभीषणत्वात् ।

विभीषणेत्येव सुरैरभिष्टुतो विज्ञानमस्त्रं त्वमुचत् स्वसैन्ये ॥ १६७॥

निशाचरास्त्रं ह्यगमत् क्षणेन रामास्त्रवीर्याद्धरयो नदन्तः ।

उत्तस्थुरुच्चोरुगिरीन् प्रगृह्य प्रशंसमाना रघुवीरमुच्चैः ॥ १६८॥

सुरैश्च पुष्पं वर्षद्भिरीडितस्तस्थौ धनुष्पाणिरनन्तवीर्यः ।

स रावणस्याथ सुतो निकुम्भिलां पुनः समासाद्य जुहाव पावकम् ॥ १६९॥

विभीषणोऽथाऽह रघूत्तमं प्रभुं नियोजयाद्यैव वधाय दुर्मतेः ।

कृताग्निपूजो नहि वध्य एष वरो विधातुः प्रथितोऽस्य तादृशः ॥ १७०॥

न वै वधं राम इयेष तस्य पलायितस्याऽत्मसमीक्षणात् पुनः ।

सत्त्वोज्झितोऽसावपि कूटयोधी न मे वधार्होऽयमिति स्म स प्रभुः ॥ १७१॥

स आदिदेशावरजं जनार्दनो हनूमता चैव विभीषणेन ।

सहैव सर्वैरपि वानरेन्द्रैर्ययौ महात्मा स च तद्वधाय ॥ १७२॥

स जुह्वतस्तस्य चकार विघ्नं प्लवङ्गमैः सोऽथ युयुत्सया रथम् ।

समास्थितः कार्मुकबाणपाणिः प्रयुद्ययौ लक्ष्मणमाशु गर्जन् ॥ १७३॥

उभौ च तावस्त्रविदां वरिष्ठौ शरैः शरीरान्तकरैस्ततक्षतुः ।

दिशश्च सर्वाः प्रदिशः शरोत्तमैर्विधाय शिक्षास्त्रबलैर्निरन्तराः ॥ १७४॥

अस्त्राणि तस्यास्त्रवरैः स लक्ष्मणो निवार्य शत्रोश्चलकुण्डलोज्ज्वलम् ।

शिरः शरेणाऽशु समुन्ममाथ सुरैः प्रसूनैरथ चाभिवृष्टः ॥ १७५॥

निपातितेऽस्मिन् नितरां निशाचरान् प्लवङ्गमा जघ्नुरनेककोटिशः ।

हतावशिष्टास्तु दशाननाय शशंसुरत्याप्तसुतप्रणाशम् ॥ १७६॥

स तन्निशम्याप्रियमुग्ररूपं भृशं विनिश्वस्य विलप्य दुःखात् ।

संस्थापयामास मतिं पुनश्च मरिष्य इत्येव विनिश्चितार्थः ॥ १७७॥

मरणाभिमुखः शीघ्रं रावणो रणकर्मणे ।

सज्जीभवन्नन्तरैव दिदेश बलमूर्जितम् ॥ १७८॥

त्रिंशत् सहस्राणि महौघकानामक्षोहिणीनां सहषट्सहस्रम् ।

श्रमेण संयोजयताऽशु रामं सज्जो भवामीति दिदेश रावणः ॥ १७९॥

तदप्रधृष्यं वरतः स्वयम्भुवो युगान्तकालार्णवघूर्णितोपमम् ।

प्रगृह्य नानाविधमस्त्रशस्त्रं बलं कपीञ्छीघ्रतमं जगाम ॥ १८०॥

आगच्छमानं तदपारमेयं बलं सुघोरं प्रळयार्णवोपमम् ।

भयात् समुद्विग्नविषण्णचेतसः कपिप्रवीरा नितरां प्रदुद्रुवुः ॥ १८१॥

वरो हि दत्तोऽस्य पुरा स्वयम्भुवा धरातळेऽल्पेऽपि निवासशक्तिः ।

अजेयता चेत्यत एव सार्कजाः प्लवङ्गमा द्रष्टुमपि स्म नाशकन् ॥ १८२॥

प्रगृह्य रामोऽथ धनुः शरांश्च समन्ततस्तानवधीच्छरौघैः ।

स एव सर्वत्र च दृश्यमानो विदिक्षु दिक्षु प्रजहार सर्वशः ॥ १८३॥

क्षणेन सर्वांश्च निहत्य राघवः प्लवङ्गमानामृषभैः स पूजितः ।

अभिष्टुतः सर्वसुरोत्तमैर्मुदा भृशं प्रसूनोत्करवर्षिभिः प्रभुः ॥ १८४॥

अथाऽययौ सर्वनिशाचरेश्वरो हतावशिष्टेन बलेन संवृतः ।

विमानमारुह्य च पुष्पकं त्वरन् शरीरनाशाय महायुधोद्धतः ॥ १८५॥

विरूपनेत्रोऽथच यूपनेत्रस्तथा महापार्श्वमहोदरौ च ।

ययुस्तमावृत्य सहैव मन्त्रिणो मृतिं पुरोधाय रणाय यान्तम् ॥ १८६॥

अथास्य सैन्यानि निजघ्नुरोजसा समन्ततः शैलशिलाभिवृष्टिभिः ।

प्लवङ्गमास्तानभिवीक्ष्य वीर्यवान् ससार वेगेन महोदरो रुषा ॥ १८७॥

वीक्ष्यातिकायं तमभिद्रवन्तं स कुम्भकर्णोऽयमिति ब्रुवन्तः ।

प्रदुद्रुवुर्वानरवीरसङ्घास्तमाससादाऽशु सुतोऽथ वालिनः ॥ १८८॥

वदन् स तिष्ठध्वमिति स्म वीरो विभीषिकामात्रमिदं न यात ।

इतीरयन्नग्रत एष पुप्लुवे महोदरस्येन्द्रसुतात्मजो बली ॥ १८९॥

अथो शरानाशु विमुञ्चमानं शिरः परामृश्य निपात्य भूतळे ।

ममर्द पद्भ्यामभवद् गतासुर्महोदरो वालिसुतेन चूर्णितः ॥ १९०॥

अथो महापार्श्व उपाजगाम प्रवर्षमाणोऽस्य शराम्बुधाराः ।

प्रसँह्य चाऽच्छिद्य धनुः करस्थं समाददे खड्गममुष्य सोऽङ्गदः ॥ १९१॥

निगृह्य केशेषु निपात्य भूतळे चकर्त वामांसत ओदरं परम् ।

यथोपवीतं स तथा द्विधाकृतो ममार मन्त्री रजनीचरेशितुः ॥ १९२॥

अथैनमाजग्मतुरुद्यतायुधौ विरूपनेत्रोऽप्यथ यूपनेत्रः ।

यथैव मेघौ दिवि तिग्मरश्मिं तथा समाच्छादयतां शरौघैः ॥ १९३॥

ताभ्यां स बद्धः शरपञ्जरेण विचेष्टितुं नाशकदत्र वीरः ।

हरीश्वरः शैलमतिप्रमाणमुत्पाट्य चिक्षेप तयोः शरीरे ॥ १९४॥

उभौ च तौ तेन विचूर्णितौ रणे रवेः सुतस्योरुबलेरितेन ।

निशाचरेशोऽथ शरेण सूर्यजं बिभेद वक्षस्यपि सोऽपतद् भुवि ॥ १९५॥

ततः स सर्वांश्च हरिप्रवीरान् विधूय बाणैर्बलवान् दशाननः ।

जगाम रामाभिमुखस्तदैनं रुरोध रामावरजं शरौघैः ॥ १९६॥

तदा दशास्योऽन्तकदण्डकल्पां मयाय दत्तां कमलोद्भवेन ।

मयाद्गृहीतां च विवाहकाले प्रगृह्य शक्तिं विससर्ज लक्ष्मणे ॥ १९७॥

तया स वीरः सुविदारितोराः पपात भूमौ सुभृशं विमूर्च्छितः ।

मरुत्सुतः शैलमतिप्रमाणं चिक्षेप रक्षःपतिवक्षसि द्रुतम् ॥ १९८॥

तेनातिगाढं व्यथितो दशाननो मुखैर्वमञ्छोणितपूरमाशु ।

तदन्तरेण प्रतिगृह्य लक्ष्मणं जगाम शक्त्या सह रामसन्निधिम् ॥ १९९॥

समुद्बबर्हाथ च तां स राघवो दिदेश च प्राणवरात्मजं पुनः ।

प्रभुः समानेतुमथो वरौषधीः स चाऽनिनायाऽशु गिरिं पुनस्तम् ॥ २००॥

तद्गन्धमात्रेण समुत्थितोऽसौ सौमित्रिरात्तोरुबलश्च पूर्ववत् ।

शशंस चाश्लिष्य मरुत्सुतं प्रभुः स राघवोऽगण्यगुणार्णवः स्मयन् ॥ २०१॥

प्राक्षिपत् तं गिरिवरं लङ्कास्थः सन् स मारुतिः ।

अर्धलक्षे योजनानां यत्रासौ पूर्वसंस्थितः ॥ २०२॥

तद्बाहुवेगात् संश्लेष प्राप पूर्ववदेव सः ।

मृताश्च ये प्लवङ्गास्तु तद्गन्धात् तेऽपि जीविताः ॥ २०३॥

रामाज्ञयैव रक्षांसि हरयोऽब्धाववाक्षिपन् ।

नोज्जीवितास्ततस्ते तु वानरा निरुजोऽभवन् ॥ २०४॥

छिन्नप्ररोहिणश्चैव विशल्याः पूर्ववर्णिनः ।

औषधीनां प्रभावेन सर्वेऽपि हरयोऽभवन् ॥ २०५॥

अथाऽससादोत्तमपूरुषं प्रभुं विमानगो रावण आयुधौघान् ।

प्रवर्षमाणो रघुवंशनाथं तमात्तधन्वाऽभिययौ च रामः ॥ २०६॥

सम्मानयन् राघवमादिपूरुषं निर्यातयामास रथं पुरन्दरः ।

सहायुधं मातलिसङ्गृहीतं समारुरोहाऽशु स लक्ष्मणाग्रजः ॥ २०७॥

आरुह्य तं रथवरं जगदेकनाथो लोकाभयाय रजनीचरनाथमाशु ।

अभ्युद्ययौ दशशतांशुरिवान्धकारं लोकानशेषत इमान् निगिरन्तमुद्यन् ॥ २०८॥

आयान्तमीक्ष्य रजनीचरलोकनाथः शस्त्राण्यथास्त्रसहितानि मुमोच रामे ।

रामस्तु तानि विनिहत्य निजैर्महास्त्रैस्तस्योत्तमाङ्गदशकं युगपन्न्यकृन्तत् ॥ २०९॥

कृत्तानि तानि पुनरेव समुत्थितानि दृष्ट्वा वराच्छतधृतेर्हृदयं विभेद ।

बाणेन वज्रसदृशेन स भिन्नहृत्को रक्तं वमन् न्यपतदाशु महाविमानात् ॥ २१०॥

तस्मिन् हते त्रिजगतां परमप्रतीपे ब्रह्मा शिवेन सहितः सह लोकपालैः ।

अभ्येत्य पादयुगळं जगदेकभर्तू रामस्य भक्तिभरितः शिरसा ननाम ॥ २११॥

अथैनमस्तौत् पितरं कृताञ्जलिर्गुणाभिरामं जगतः पितामहः ।

जितं जितं तेऽजित लोकभावन प्रपन्नपालाय नताः स्म ते वयम् ॥ २१२॥

त्वमेक ईशोऽस्य नचाऽदिरन्तस्तवेड्य कालेन तथैव देशतः ।

गुणा ह्यगण्यास्तव तेप्यनन्ताः प्रत्येकशश्चाऽदिविनाशवर्जिताः ॥ २१३॥

नचोद्भवो नैव तिरस्कृतिस्ते क्वचिद् गुणानां परतः स्वतो वा ।

त्वमेक आद्यः परमः स्वतन्त्रो भृत्यास्तवाहं शिवपूर्वकाश्च ये ॥ २१४॥

यथाऽर्चिषोऽग्नेः पवनस्य वेगा मरीचयोऽर्कस्य नदीषु चाऽपः ।

गच्छन्ति चाऽयन्ति च सन्ततास्त्त्वत् तद्वन्मदाद्याः शिवपूर्वकाश्च ये ॥ २१५॥

ये ये च मुक्तास्त्वथ ये च बद्धाः सर्वे तवेशेश वशे सदैव ।

वयं सदा त्वद्गुणपूगमुच्चैः सर्वे वदन्तोऽपि न पारगामिनः ॥ २१६॥

किमेष ईदृग्गुणकस्य ते प्रभो रक्षोवधोऽशेषसुरप्रपालनम् ।

अनन्यसाध्यं हि तथाऽपि तद् द्वयं कृतं त्वया तस्य नमोनमस्ते ॥ २१७॥

इतीरिते त्वब्जभवेन शूली समाह्वयद् राघवमाहवाय ।

वरं मदीयं त्वगणय्य रक्षो हतं त्वया तेन रणाय मेहि ॥ २१८॥

इतीरितेऽस्त्वित्यभिधाय राघवो धनुः प्रगृह्याऽशु शरं च सन्दधे ।

विकृष्यमाणे चलिता वसुन्धरा पपात रुद्रोऽपि धराप्रकम्पतः ॥ २१९॥

अथोत्थितश्चाऽसुरभाववर्जितः क्षमस्व देवेति ननाम पादयोः ।

उवाच च त्वद्वशगोऽस्मि सर्वदा प्रसीद मे त्वद्विषयं मनः कुरु ॥ २२०॥

अथेन्द्रमुख्याश्च तमूचिरे सुरास्त्वयाऽविताः स्मोऽद्य निशाचराद् वयम् ।

तथैव सर्वापद एव नस्त्वं प्रपाहि सर्वे भवदीयकाः स्म ॥ २२१॥

सीताकृतिं तामथ तत्र चाऽगतां दिव्यच्छलेन प्रणिधाय पावके ।

कैलासतस्तां पुनरेव चाऽगतां सीतामगृह्णाद्धुतभुक्समर्पिताम् ॥ २२२॥

जानन् गिरीशालयगां स सीतां समग्रहीत् पावकसम्प्रदत्ताम् ।

मुमोद सम्प्राप्य च तां स रामः सा चैव देवी भगवन्तमाप्य ॥ २२३॥

अथो गिरेरानयनात् परस्ताद् ये वानरा रावणबाणपीडिताः ।

तारापिता तान् निरुजश्चकार सुषेणनामा भिषजां वरिष्ठः ॥ २२४॥

तदा मृतान् राघव आनिनाय यमक्षयाद् देवगणांश्च सर्वशः ।

समन्वजानात् पितरं च तत्र समागतं गन्तुमियेष चाथ ॥ २२५॥

विभीषणेनार्पितमारुरोह स पुष्पकं तत्सहितः सवानरः ।

पुरीं जगामाऽशु निजामयोध्यां पुरो हनूमन्तमथ न्ययोजयत् ॥ २२६॥

ददर्श चासौ भरतं हुताशनं प्रवेष्टुकामं जगदीश्वरस्य ।

अदर्शनात् तं विनिवार्य रामं समागतं चास्य शशंस मारुतिः ॥ २२७॥

श्रुत्वा प्रमोदोरुभरः स तेन सहैव पौरैः सहितः समातृकः ।

शत्रुघ्नयुक्तोऽभिसमेत्य राघवं ननाम बाष्पाकुललोचनाननः ॥ २२८॥

उत्थाप्य तं रघुपतिः सस्वजे प्रणयान्वितः ।

शत्रुघ्नं च तदन्येषु प्रतिपेदे यथावयः ॥ २२९॥

पुरीं प्रविश्य मुनिभिः साम्राज्ये चाभिषेचितः ।

यथोचितं च सम्मान्य सर्वानाहेदमीश्वरः ॥ २३०॥

सर्वैर्भवद्भिः सुकृतं विधाय देहं मनोवाक्सहितं मदीयम् ।

एतावदेवाखिलसद्विधेयं यत् कायवाक्चित्तभवं मदर्चनम् ॥ २३१॥

मुक्तिप्रदानात् प्रतिकर्तृता मे सर्वस्य चाथो भवतां भवेत् ।

हनूमतो न प्रतिकर्तृता स्यात् स्वभावभक्तस्य निरौपधं मे ॥ २३२॥

मद्भक्तौ ज्ञानपूर्तावनुपधिकबलप्रोन्नतौ स्थैर्यधैर्य\- स्वाभाव्याधिक्यतेजःसुमतिदमशमेष्वस्य तुल्यो न कश्चित् ।

शेषो रुद्रः सुपर्णोऽप्युरुगुणसमितौ नो सहस्रांशतुल्या अस्येत्यस्मान्मदैशं पदमहममुना सार्धमेवोपभोक्ष्ये ॥ २३३॥

पूर्वं जिगाय भुवनं दशकन्धरोऽसावब्जोद्भवस्य वरतो नतु तं कदाचित् ।

कश्चिज्जिगाय पुरुहूतसुतः कपित्वाद् विष्णोर्वरादजयदर्जुन एव चैनम् ॥ २३४॥

दत्तो वरो न मनुजान् प्रति वानरांश्च धात्राऽस्य तेन विजितो युधि वालिनैषः ।

अब्जोद्भवस्य वरमाश्वभिभूय रक्षो जिग्ये त्वहं रणमुखे बलिमाह्वयन्तम् ॥ २३५॥

बलेर्द्वारस्थोऽहं वरमस्मै सम्प्रदाय पूर्वं तु ।

तेन मया रक्षोऽस्तं योजनमयुतं पदाङ्गुल्या ॥ २३६॥

पुनश्च युद्धाय समाह्वयन्तं न्यपातयं रावणमेकमुष्टिना ।

महाबलोऽहं कपिलाख्यरूपस्त्रिकोटिरूपः पवनश्च मे सुतः ॥ २३७॥

आवां स्वशक्त्या जयिनाविति स्म शिवो वरान्मेऽजयदेनमेवम् ।

ज्ञात्वा सुराजेयमिमं हि वव्रे हरो जयेयाहममुं दशाननम् ॥ २३८॥

अतः स्वभावाज्जयिनावहं च वायुश्च वायुर्हनुमान् स एषः ।

अमुष्य हेतोस्तु पुरा हि वायुना शिवेन्द्रपूर्वा अपि काष्ठवत् कृताः ॥ २३९॥

अतो हनूमान् पदमेतु धातुर्मदाज्ञया सृष्ट्यवनादि कर्म ।

मोक्षं च लोकस्य सदैव कुर्वन् मुक्तश्च मुक्तान् सुखयन् प्रवर्तताम् ॥ २४०॥

भोगाश्च ये यानि च कर्मजातान्यनाद्यनन्तानि ममेह सन्ति ।

मदाज्ञया तान्यखिलानि सन्ति धातुः पदे तत् सहभोगनाम ॥ २४१॥

एतादृशं मे सहभोजनं ते मया प्रदत्तं हनुमन् सदैव ।

इतीरितस्तं हनुमान् प्रणम्य जगाद वाक्यं स्थिरभक्तिनम्रः ॥ २४२॥

को न्वीश ते पादसरोजभाजां सुदुर्लभोऽर्थेषु चतुर्ष्वपीह ।

तथाऽपि नाहं प्रवृणोमि भूमन् भवत्पदाम्भोजनिषेवणादृते ॥ २४३॥

त्वमेव साक्षात् परमस्वतन्त्रस्त्वमेव साक्षादखिलोरुशक्तिः ।

त्वमेव चागण्यगुणार्णवः सदा रमाविरिञ्चादिभिरप्यशेषैः ॥ २४४॥

समेत्य सर्वेऽपि सदा वदन्तोऽप्यनन्तकालाच्च नवै समाप्नुयुः ।

गुणांस्त्वदीयान् परिपूर्णसौख्यज्ञानात्मकस्त्वं हि सदाऽतिशुद्धः ॥ २४५॥

यस्ते कथासेवक एव सर्वदा सदारतिस्त्वय्यचलैकभक्तिः ।

स जीवमानो न परः कथञ्चित् तज्जीवनं मेऽस्त्वधिकं समस्तात् ॥ २४६॥

प्रवर्द्धतां भक्तिरलं क्षणेक्षणे त्वयीश मे ह्रासविवर्जिता सदा ।

अनुग्रहस्ते मयि चैवमेव निरौपधौ तौ मम सर्वकामः ॥ २४७॥

इतीरितस्तस्य ददौ स तद्द्वयं पदं विधातुं सकलैश्च शोभनम् ।

समाश्लिषच्चैनमथाऽर्द्रया धिया यथोचितं सर्वजनानपूजयत् ॥ २४८॥

{इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते}

{श्रीमहाभारततात्पर्यनिर्णये}

{श्रीरामचरिते (हनूमति श्रीरामदयादानं नाम) अष्टमोऽध्यायः}