अथ कृष्णमनुस्मृत्य भीष्मे स्वां वसुतां गते
त्रिंशोऽध्यायः
सर्वशास्त्रतात्पर्यनिर्णयः
औं ॥ अथ कृष्णमनुस्मृत्य भीष्मे स्वां वसुतां गते ।
कृत्वा कार्याणि सर्वाणि गङ्गामाश्वास्य दुःखिताम् ॥ १॥
आश्वासितश्च कृष्णाभ्यां धर्मजो दुःखितः पुनः ।
पराशरसुतेनोक्तः कृष्णेनानन्तराधसा ॥ २॥
अपापे पापशङ्कित्वादश्वमेधैर्यजाच्युतम् ।
कुरु राज्यं च धर्मेण पालयापालकाः प्रजाः ॥ ३॥
इत्युक्तः स तथा चक्रे त्यक्त्वा भोगांश्च कृत्स्नशः ।
गोव्रतादिव्रतैर्युक्तः पालयामास मेदिनीम् ॥ ४॥
ददौ देयानि मुख्यानि यथाकाममखण्डितम् ।
नैवार्थी विमुखः कश्चिदभूद् योग्यः कदाचन ॥ ५॥
प्रष्टा च दाताऽखिलराजनम्यो यष्टा च धर्मात्मज एव तत्र ।
बभूव पाण्डोर्गृहमावसंश्च राजाधिराजो वनितानिवृत्तः ॥ ६॥
भीमस्तु दौर्योधनमेव सद्म प्रपेदिवानूर्जितवीर्यलब्धम् ।
कृष्णासहायः सुरराजयोग्यानभुङ्क्त भोगान् युवराज एव ॥ ७॥
कृष्णा च पार्थांश्चतुरो विहाय सुव्यक्तसारस्वतशुद्धभावा ।
रराज राजावरजेन नित्यमनन्ययोगेन शिखेव वह्नेः ॥ ८॥
प्रीत्यैव विज्ञानयुजाऽन्यपार्थैः संवादतः परिहृता गतभाविकाले ।
अपि स्वकीयं पतिमेव भीममवाप्य सा पर्यचरन्मुदैव ॥ ९॥
रराज राजावरजस्तया स द्विरूपया सोमककाशिजातया ।
श्रिया भुवा चैव यथाऽब्जनाभो निहत्य सर्वान् दितिजान् महाब्धौ ॥ १०॥
सर्वोत्तुङ्गो नामतः प्राणवायोरंशो निशायां गुरुपुत्रसूदितः ।
माताऽस्य देवीति च रौहिणेयी भीमप्रियाऽऽसीद् या पुराऽस्यैव राका ॥ ११॥
अन्याश्चाऽसुर्वासुदेव्यो दिशो या आपश्च पूर्वं विंशतिरग्र्यरूपाः ।
ताभिर्युतो दैवतैरप्यलभ्यानभुङ्क्त भोगान् विबुधानुगार्चितः ॥ १२॥
ररक्ष धर्मानखिलान् हरेः स निधाय विप्राननुशास्य युक्तान् ।
सद्वैष्णवान् विदुषः पञ्चपञ्च सवेतनान् ग्राममनु स्वकीयान् ॥ १३॥
दधार दण्डं तदवर्तिषु स्वयं जग्राह चान्वेव मुदाऽथ तद्गतान् ।
तद्धृत्तमन्यैरपि विप्रवर्यैः संशोधयन् सर्वमसौ यथा व्यधात् ॥ १४॥
नावैष्णवः कश्चिदभूत् कुतश्चिन्नैवान्यनिष्ठो नच धर्महन्ता ।
न विध्यवर्ती नच दुःखितोऽभून्नापूर्णवित्तश्च तदीयराष्ट्रे ॥ १५॥
वासिष्ठवृष्णिप्रवरौ प्रपश्यतां ताभ्यां च भीमेन मुनीश्वरैश्च ।
संशिक्षितानां प्रथमाद् युगाच्च गुणाधिकः कलिरासीत् प्रजानाम् ॥ १६॥
शुभं महत् स्वल्पफलं कृते हि विपर्ययेणाशुभमेषु दोषः ।
तद्धीनमप्युच्चशुभं कृताद् युगाच्चक्रे कलिं मारुतिरच्युताश्रयात् ॥ १७॥
धनञ्जयः प्रोद्यतदण्ड आसीत् सदाऽन्यचक्रेषु निजाग्रजेरितः ।
विभीषयित्वा नृपतीन् सरत्नान् पदोर्नृपस्याग्रभुवो न्यपातयत् ॥ १८॥
सदैव कृष्णस्य मुखारविन्दाद् विनिस्सृतं तत्त्वविनिर्णयामृतम् ।
पिबन् सुताद्याधिमसौ क्रमेण त्यजंश्च रेमेऽविरतातिभोगः ॥ १९॥
दुःशासनस्याऽवसथं सुभद्राचित्राङ्गदासहितोऽध्यावसंश्च ।
सचन्द्रिकाकान्तिरनूनबिम्बो नभस्थितश्चन्द्र इवात्यरोचत ॥ २०॥
समस्तभृत्याश्रितवेतनानां माद्रेय आसीत् प्रथमः प्रदाता ।
स दुर्मुखस्याऽवसथेऽवसच्च स मद्रराजात्मजयाऽग्र्यवर्ती ॥ २१॥
सन्धानभेदानुगतप्रवृत्तिस्तिष्ठंश्च दुर्मर्षशुभ्रसद्मनि ।
नृपाङ्गरक्षः प्रगृहीतखड्गस्तस्यानुजो मागधकन्ययाऽऽसीत् ॥ २२॥
सेनापतिः कृप आसीद् युयुत्सुः ससञ्जयो विदुरश्चाऽम्बिकेयम् ।
पार्थेरिताः पर्यचरन् स्वयम् च सर्वे यथा दैवतमादरेण ॥ २३॥
द्विरूपकृष्णप्रहितेषु पाण्डुषु क्षितिं प्रशासत्सु न कश्चनाऽतुरः ।
नचाक्रमान्मृत्युरभून्न नार्यो विभर्तृका नो विधुरा नराश्च ॥ २४॥
शब्दादयश्चाऽसुरतीव हृद्या निकामवर्षी च सुरेश्वरोऽभूत् ।
प्रजा अनास्पृष्टसमस्ततापा अनन्यभक्त्याऽच्युतमर्चयन्ति ॥ २५॥
पृथ्वी च गावः ससरस्वतीका निकामदोहा अभवन् सदैव ।
अब्दाब्धिनद्यो गिरिवृक्षजङ्गमाः सर्वेऽपि रत्नप्रसवा बभूवुः ॥ २६॥
कृष्णाश्रयात् सर्वमिदं वशे ते विधाय सम्यक् परिपालयन्तः ।
दिवीव देवा मुमुदुः सदैव मुनीन्द्रगन्धर्वनृपादिभिर्वृताः ॥ २७॥
समुज्ज्वला पाण्डवकीर्तिनारी पदं विधायासुरपक्षमूर्धसु ।
वराभये चैव सतां कराभ्यां कृष्णप्रसूता जगदण्डमावृणोत् ॥ २८॥
पाताळपादां पृथिवीनितम्बामाकाशमध्यां करसन्तताशाम् ।
ग्रहर्क्षताराभरनद्युवक्षसं विरिञ्चलोकस्थलसन्मुखाम्बुजम् ॥ २९॥
विकुण्ठनाथाभयहस्तमादरान्मूर्ध्ना वहन्तीं वरभारताख्याम् ।
निशम्य तामीक्ष्य समस्तलोकाः पवित्रिता वेदिभवामिवान्याम् ॥ ३०॥
प्रपालयत्स्वेव धरां सकृष्णेष्वद्धैव पार्थेषु कलिर्बलिश्च ।
सुपापदैत्यौ क्वच राष्ट्रविप्लवं सञ्चक्रतुस्तच्छ्रुतमाशु पार्थैः ॥ ३१॥
नृपेण कृष्णेन च साधु चोदितो भीमस्तदा तौ सगणौ विजित्य ।
बलिं प्रविद्राव्य कलिं निबद्ध्य समानयत् कृष्णनृपेन्द्रयोः पुरः ॥ ३२॥
पप्रच्छ तं कृष्णपुरो युधिष्ठिर उदारधीः ।
कले किमिति मे राष्ट्रं विप्लावयसि दुर्मते ॥ ३३॥
इत्युक्त आह कालोऽयं दुर्योधननिपातनम् ।
आरभ्य मम तत्र त्वं बलादाक्रम्य तिष्ठसि ।
ततो मया कृतो राष्ट्रविप्लवस्ते नराधिप ॥ ३४॥
तमाह राजा राज्ञां हि बलाद् राज्यं प्रवर्तते ।
अपि कालभवं राष्ट्रं त्वदीयं मादृशैर्नृपैः ।
ह्रियते बलवद्भिर्हि राज्याशा ते कुतस्तदा ॥ ३५॥
' कालो वा कारणं राज्ञो राजा वा कालकारणम् ।
इति ते संशयो मा भूद् राजा कालस्य कारणम्' ॥ ३६॥ (महा\. १२\.७०\.६)
तमुवाच कलिः काले मदीये त्वादृशः कुतः ।
राजानं पूर्वमाविश्य विप्रांश्च स्यामहं नृप ॥ ३७॥
वासुदेवसहायेषु तेजो युष्मासु मे नहि ।
क्व राजाऽसावृते युष्मान् यो मया नाभिभूयते ॥ ३८॥
मदीयकाले भूपाल विप्रवेदविरोधिनि ।
मद्दृष्टिपाते क्व गुणाः क्व वेदाः क्व सुयुक्तयः ॥ ३९॥
जगाद नृपतिः सत्यं कले वक्ष्यनृतोऽपि सन् ।
मोचये त्वर्तवचनाद् यदाऽस्मत्सन्ततेः परम् ।
विलुम्पस्यखिलान् धर्मान् करं तत्रापि नोऽर्पय ॥ ४०॥
सीमाधिर्बहुवाक्यं च तुलामाने च मे करः ।
नैवातिक्रममेतेषां कुरु सर्वात्मना क्वचित् ॥ ४१॥
तमाह भगवान् कृष्णो यावत् पाण्डवसन्ततिः ।
तावन्न ते भवेच्छक्तिः प्रवृत्तस्यापि भूतळे ॥ ४२॥
पाण्डवेभ्यः परं यावत् क्षेमकः क्रमवर्द्धिता ।
क्षेमकात् परतः पूर्तिं शक्तिस्ते यास्यति ध्रुवम् ॥ ४३॥
न द्रष्टव्यं भूतळं ते कुत एव स्पृशेर्भुवम् ।
यावत् पार्था अहं चात्र ततो भुवि पदं कुरु ॥ ४४॥
इत्युक्तो वासुदेवेन मोचितो धर्मजेन च ।
तान् प्रणम्य ययौ पारे समुद्रस्याऽश्रयद् गुहाम् ।
पार्थाश्च कृष्णसहिता रक्षन्तः क्ष्मां मुदं ययुः ॥ ४५॥
एवं पार्थान् प्रतिष्ठाप्य शक्रप्रस्थे तु सार्जुनः ।
क्रीडन् दिव्याः कथाः प्राह पुत्रशोकापनुत्तये ।
गीतोक्तं विस्मृतं चास्मै पुनर्विस्तरतोऽवदत् ॥ ४६॥
वाणी प्राणो वासुदेव इत्येतैरखिलं ततम् ।
सर्वोत्तमत्वमेतेषां सर्वमेतद्वशे जगत् ।
उत्तरोत्तरमेतेऽपि गुणोच्चास्तद्वशेऽपरे ॥ ४७॥
इत्थं हरेर्वशे सर्वगुणपूर्णश्च स प्रभुः ।
एक एव नचान्योऽस्ति प्राणोच्चा तदधो रमा ॥ ४८॥
स हुताश इति प्रोक्तो हुतमत्त्यखिलं यतः ।
वाक्प्राणमध्यगो नित्यं धारयत्यखिलं जगत् ।
स ईशो ब्रह्मरुद्राद्या जीवा एव प्रकीर्तिताः ॥ ४९॥
ये तस्यानादिसद्भक्ता मुक्तियोग्या हि ते स्मृताः ।
अनादिद्वेषिणो येऽस्मिन्स्तमोयोग्याः सुपापिनः ॥ ५०॥
मिश्रा मध्या इति ज्ञेयाः संसारपरिवर्तिनः ।
एवं जीवास्त्रिधा प्रोक्ता भवन्त्येते नचान्यथा ॥ ५१॥
तारतम्यं च विज्ञेयं लिङ्गैर्दैहिकमानसैः ।
विष्णोर्लिङ्गानुसारित्वतारतम्यात् तदीक्षणम् ॥ ५२॥
विष्णोस्तदनुगानां च प्रीतिकृद् धर्म ईरितः ।
अधर्मोऽन्य इयं निष्ठा प्रलापः किं करिष्यति ॥ ५३॥
एवमाद्यनुशास्याजः पार्थं पार्थैः सुसत्कृतः ।
कथञ्चित् तानवस्थाप्य सुदूरानुगतान् प्रभुः ।
सुभद्रासहितः प्रायाद् यानेन द्वारकापुरीम् ॥ ५४॥
समाधिविरतोदङ्कपरिपृष्टः पथि प्रभुः ।
हतं दुर्योधनं प्राह सभ्रातृसुतसैनिकम् ॥ ५५॥
तं शिष्यवधकोपेन शप्तुमात्मानमुद्यतम् ।
केशवोऽशमयद् वाक्यैर्विश्वरूपं प्रदर्श्य च ॥ ५६॥
मद्भक्तो नितरामेष मदाराधनतत्परः ।
मामवज्ञाय निरयं माऽनुत्थानं व्रजेदिति ॥ ५७॥
कृपया वासुदेवेन बोधितः शान्तमानसः ।
पश्चात्तापाभितप्तात्मा तमेव शरणं ययौ ॥ ५८॥
तस्मै देवोऽभयं दत्त्वा प्रेषयिष्येऽमृतं तव ।
दातुं शक्रमिति प्रोक्त्वा ययौ द्वारवतीं प्रभुः ॥ ५९॥
अथाऽदिदेश देवेशं वासुदेवोऽमृतं मुनेः ।
देहीति वञ्चयिष्यामीत्याह सोऽपि क्षमापयन् ॥ ६०॥
औंइत्युक्तो भगवता तत्स्नेहात् स शचीपतिः ।
सुजुगुप्सितमातङ्गवेषो भूत्वा मुनिं ययौ ॥ ६१॥
मूत्रस्रोतसि सोऽधश्च निधाय कलशं वशी ।
मूत्रयन्निव तं प्राह वासुदेवः सुधामिमाम् ।
महर्षे प्रेषयामास तवार्थे तत् पिबेति च ॥ ६२॥
स मूत्रमिति मत्वा तं याहीत्येवाऽह भत्सयन् ।
वञ्चयित्वैव तं शक्रो ययौ प्रीतः स्वमालयम् ॥ ६३॥
असाधारणमन्नं हि देवानाममृतं सदा ।
अन्यपीतिस्ततस्तस्य देवानां परमाप्रिया ॥ ६४॥
आत्मदत्तप्रसादाच्च स्वापराधात् प्रचालिते ।
उदङ्के वासुदेवस्तु युक्तिमित्येव मन्यते ॥ ६५॥
स्वपुरीं प्राप्य यदुभिः पूजितः शूरसूनवे ।
वृत्तान्तं कथयामास केशवो यदुसंसदि ॥ ६६॥
वधमन्तरितं सूनोः सात्वतेशेन सात्वती ।
प्रणम्य कथयेत्यूचे तत आह जनार्दनः ॥ ६७॥
ततः सुदुःखिताः शूरपुत्राद्या अभिमन्यवे ।
श्राद्धदानानि बहुशश्चक्रुः केशवसंयुताः ॥ ६८॥
निवसत्यत्र विश्वेशे धर्मपुत्रः क्रतूत्तमम् ।
अश्वमेधमनुष्ठातुं नाविन्दद् वित्तमञ्जसा ॥ ६९॥
हतशेषात् क्षत्रसङ्घात् करं नैच्छद् दयापरः ।
नच मध्यमकल्पेन यष्टुं तस्य मनो गतम् ॥ ७०॥
विज्ञाय नित्यविज्ञातनिखिलो बादरायणः ।
आविर्भूतो हिमवतः शृङ्गं यत्राभिसङ्गतम् ॥ ७१॥
मेरुशृङ्गेण यत्रैव विष्णुः स्वात्मानमव्ययम् ।
लोकस्य सङ्ग्रहायेजे कर्मबन्धोज्झितोऽपि सन् ॥ ७२॥
शङ्कराद्याः सुरा यत्र मरुत्तश्चेजिरे हरिम् ।
दानवो वृषपर्वा च तत्रास्ति धनमक्षयम् ॥ ७३॥
तच्छङ्करशरीरस्थं जामदग्न्यं हरिं परम् ।
इष्ट्वैवानुज्ञया तस्य स्वीकृत्य यज तेन च ।
इत्याह व्यासवाक्यानु भीमोऽप्याह नृपोत्तमम् ॥ ७४॥
धनस्य देवता विष्णुर्जामदग्न्योऽखिलेश्वरः ।
स शङ्करशरीरस्थो यज्ञोच्छिष्टधनाधिपः ॥ ७५॥
तेनैव विष्णुना दत्तमर्जुनायास्त्रमुत्तमम् ।
कार्याण्यन्यानि चास्माकं कृतान्येतेन विष्णुना ॥ ७६॥
स ब्रह्मरुद्रशक्रादिपददाताऽखिलप्रदः ।
स्वतन्त्रः परतन्त्रांस्तानावर्तयति चेच्छया ॥ ७७॥
प्रियोऽस्माकं प्रियास्तस्य सर्वदैव वयं नृप ।
अतस्तदभ्यनुज्ञातधनेनैव यजामहे ॥ ७८॥
सोऽयं पितामहोऽस्माकं व्यासस्तन्नः प्रदास्यति ।
इत्युक्त्वा तं पुरस्कृत्य कृष्णद्वैपायनं ययुः ॥ ७९॥
धनं कृष्णः समादाय समन्ताच्छतयोजनम् ।
ददौ तेषां तेऽपि चोहुर्हस्त्युष्ट्राश्वनरादिभिः ॥ ८०॥
युधिष्ठिरमृते सर्वे भीमसेनपुरोगमाः ।
यज्ञार्थमूहिरे भूरि स्वर्णमुद्यद्रविप्रभम् ॥ ८१॥
तदैव वासुदेवोऽपि सभार्यः सह भद्रया ।
आगच्छन् हस्तिनपुरं पथ्युदङ्केन पूजितः ॥ ८२॥
तत्कामवर्षिणो मेघांस्तस्य दत्वोदकार्थिनः ।
सफलं स्ववरं कृत्वा जगाम गजसाह्वयम् ॥ ८३॥
आसन्नेष्वेव पार्थेषु व्यासे च पुरुषोत्तमे ।
प्रविवेश पुरं कृष्णस्तदाऽसूतोत्तरा मृतम् ॥ ८४॥
द्रौण्यस्त्रसूदितं बालं दृष्ट्वा कुन्त्यादिकाः स्त्रियः ।
शरण्यं शरणं जग्मुर्वासुदेवं जगत्पतिम् ॥ ८५॥
प्रत्यक्षमात्मना गर्भे रक्षितं प्रसवे हतम् ।
पुनरुज्जीवयामास केशवः पार्थतन्तवे ॥ ८६॥
तदैव विविशुः पार्था सकृष्णाः सधनोच्चयाः ।
सर्वे मुमुदिरे दृष्ट्वा पौत्रं केशवरक्षितम् ॥ ८७॥
ददौ दानानि बहुशो धर्मपुत्रो युधिष्ठिरः ।
पौत्रजन्मनि हृष्टात्मा वासुदेवं ननाम च ॥ ८८॥
कुन्तीकृष्णासुभद्राभिर्वैराट्याऽन्याभिरेव च ।
पाण्डवैः पुरुषैश्चान्यैः संस्तुतः प्रणतो हरिः ॥ ८९॥
ततः कृष्णाभ्यनुज्ञाता पाराशर्यसदस्यकाः ।
आरेभिरेऽश्वमेधं ते मुनिभिर्ब्रह्मवादिभिः ॥ ९०॥
सर्वयज्ञात्मकं तेषामश्वमेधं जगत्पतिः ।
कारयामास भगवान् कृष्णद्वैपायनः स्वयम् ॥ ९१॥
साधनानि तु सर्वाणि शालां चैव हिरण्मयीम् ।
पवमानसुतश्चक्रे कृष्णद्वैपायनेरितः ॥ ९२॥
अथानुमन्त्रितोत्सृष्टं पुरोहितपुरस्कृतम् ।
तुरगं कृष्णसारङ्गमनुवव्राज वासविः ॥ ९३॥
स जित्वा रुन्धतः सर्वान् नृपतीञ्छस्त्रतेजसा ।
चारयामास सर्वेषु राष्ट्रेष्वविजितोऽरिभिः ॥ ९४॥
युधिष्ठिराज्ञया तेन न कश्चिन्निहतस्तदा ।
आहूताश्च नृपास्तेन यज्ञार्थं प्रीयताऽखिलाः ॥ ९५॥
मणलूरं क्रमात् प्राप्तस्तत्रैनं बभ्रुवाहनः ।
अभ्ययादर्घ्यपाद्याद्यैस्तमाह विजयः सुतम् ॥ ९६॥
योद्धुकामोऽर्घ्यमादाय त्वयाऽद्याभिगतो ह्यहम् ।
न प्रीये पौरुषं धिक् ते यन्मेध्याश्वो न वारितः ॥ ९७॥
तदाऽपि पितृभक्त्यैनमयुद्ध्यन्तमुलूपिका ।
प्राह युद्ध्यस्व यत् प्रीत्यै गुरोः कार्यमसंशयम् ।
प्रीणनायैव युद्ध्यस्व पित्रे सन्धर्शयन् बलम् ॥ ९८॥
इत्युक्तो युयुधे पित्रा बलं सर्वं प्रदर्शयन् ।
अर्जुनस्तु सुतस्नेहान्मन्दं योधयति स्मयन् ॥ ९९॥
स तु सर्वायुधक्षेपेऽप्यविकारं धनञ्जयम् ।
दृष्ट्वा बाल्यात् परीक्षायै मन्त्रपूतं महाशरम् ।
चिक्षेप पित्रे दैवेन तेनैनं मोह आविशत् ॥ १००॥
मूर्च्छितं तं गुरुं दृष्ट्वा तद्भक्त्या भृशदुःखितः ।
प्रायोपविष्टस्तन्माता विललापातिदुःखिता ॥ १०१॥
विजगर्ह तदोलूपीं धिग् जगत्त्रयपूजितम् ।
अजीघनो मे भर्तारं पुत्रेणैवाविजानता ॥ १०२॥
लोकवीरं पतिं हित्वा न मे कार्यं सुतेन च ।
पतिलोकमहं यास्ये तृप्ता भव कलिप्रिये ॥ १०३॥
इत्युक्त्वा मरणायैव तां विनिश्चितमानसाम् ।
धरायां विलुठन्तीं च दृष्ट्वा भुजगनन्दिनी ॥ १०४॥
नागलोकात् समादाय विशल्यकरणीं क्षणात् ।
उत्थापयामास पतिं त्रिलोकातिरथं तया ॥ १०५॥
प्रहस्योवाच च तदा श्रुतं वाक्यं पुरा मया ।
सुरलोके सुरैः प्रोक्तं भीष्माद्या नातिधर्मतः ॥ १०६॥
यद्धतास्तेन दोषेण पार्थस्तेनातिवेदनाम् ।
रणे व्रजेदिति न तत् परतः स्यादिति ह्यहम् ।
वचनादेव देवानां युद्ध्येत्यात्मजमब्रुवम् ॥ १०७॥
देवानामेव सङ्कल्पान्मूर्च्छितश्चार्जुनोऽभवत् ।
भुक्तदोषफलश्चायं पुनर्भोक्ष्यति नान्यतः ॥ १०८॥
अन्येन पातितस्त्यास्य यशो नश्येत् त्रिलोकगम् ।
नार्जुनस्य यशो नश्येदिति दैवैरिदं कृतम् ॥ १०९॥
इत्युक्तः प्रीतिमापेदे पुत्रभार्यायुतोऽर्जुनः ।
यज्ञार्थं तावथाऽहूय पूजितः प्रययौ ततः ॥ ११०॥
द्वारकायाः समीपस्थं प्रद्युम्नाद्याः सुता हरेः ।
प्रसह्याश्वमपाजह्रुराह्वयन्तोऽर्जुनं युधे ॥ १११॥
सुभद्राहरणं मार्ष्टुं नीतेऽश्वे तैर्धनञ्जयः ।
गौरवाद् वासुदेवस्य मातुलस्य च केवलम् ॥ ११२॥
मातुलायाब्रवीदश्वं हृतं पौत्रैरबन्धुवत् ।
स निर्भत्स्य कुमारांस्तान् मेध्यमश्वममोचयत् ॥ ११३॥
मातुलं स प्रणम्याथ यज्ञार्थं तान् निमन्त्र्य च ।
गच्छन् गजाह्वयं दूतमग्रतोऽयापयन्नृपे ॥ ११४॥
सकृष्णः सहसोदर्यः श्रुत्वाऽसौ प्राप्तमर्जुनम् ।
प्रीतो बाष्पाभिपूर्णाक्षो भ्रातृस्नेहादभाषत ॥ ११५॥
वासुदेव न पश्यामि दुर्लक्षणमजार्जुने ।
केन दुर्लक्षणेनायं बहुदुःखी प्रवासगः ॥ ११६॥
पृष्टस्तं केशवः प्राह भ्राता ते दीर्घपिण्डिकः ।
तेनायं दुःखबहुल इत्युक्त्वा पुनरेव च ।
वदन्तमेव पाञ्चाली कटाक्षेण न्यवारयत् ॥ ११७॥
समस्तलक्षणाभिज्ञाः कृष्णः सत्या वृकोदरः ।
कृष्णा च पञ्चमो नास्ति विद्या शुद्धेयमञ्जसा ॥ ११८॥
प्रसङ्गात् प्राप्तुमिच्छेत् तां विद्याशीलो युधिष्ठिरः ।
इति लोभात् तु पाञ्चाली वासुदेवं न्यवारयत् ॥ ११९॥
तद्गौरवाद् वासुदेवो नोत्तरं प्रत्यभाषत ।
विस्मारयामास च तं पब्रुवाणः कथान्तरम् ॥ १२०॥
उदरस्य किञ्चिदाधिक्यं वृषणाधिक्यमेव च ।
सव्यबाहोस्तथाऽऽधिक्यं दुर्लक्षणमतोऽर्जुने ॥ १२१॥
नैवोक्तं वासुदेवेन दृश्यमानमपि स्फुटम् ।
ज्ञानानन्दह्रासकरा ह्येते दोषाः सदातनाः ॥ १२२॥
समस्तजीवराशौ तद् दुष्टलक्षणवर्जितौ ।
पूर्णचित्सुखशक्त्यादेर्योग्यौ कृष्णा च मारुतिः ॥ १२३॥
अनादिदुःखहीनत्वे सुखाधिक्ये च लक्षणम् ।
रुग्मिणीसत्यभामादिरूपायाः श्रिय एव तु ॥ १२४॥
मुख्यं ततोऽपि मुख्यं तु स्वान्तन्त्र्यादेरशेषतः ।
गुणराशेः परं लिङ्गं नित्यं व्यासादिरूपिणः ।
विष्णोरेव नचान्यस्य स ह्येकः पूर्णसद्गुणः ॥ १२५॥
साश्वेऽर्जुने यज्ञवाटं प्रविष्टेऽस्य सहोदराः ।
पूजिताः पूजयामासुर्मुदिताः सहकेशवाः ॥ १२६॥
ततः स यज्ञो यदुवीररक्षितो व्यासोपदिष्टो मुनिभिः प्रवर्तितः ।
अशोभतालं सकलैर्नृपैश्च समागतैर्विप्रवरैश्च जुष्टः ॥ १२७॥
स कृष्णयुग्मेन च भार्गवेण त्रिधा विभक्तेन परेण पुंसा ।
अधिष्ठितोऽशोभत विश्वमेतद् विश्वादिरूपेण यथैव तेन ॥ १२८॥
यथा विरिञ्चस्य पुराऽऽस यज्ञो यथैव शक्रस्य शतक्रतुत्वे ।
तथैव सोऽभूद् विधिशर्वशक्रपूर्वैः सुरैराविरलङ्कृतोऽधिकम् ॥ १२९॥
न देवगन्धर्वमुनिस्वधर्ममर्त्यादिकेष्वास स योऽत्र नाऽस ।
स्वलङ्कृतैर्नाकिजनैः सकान्तैररूरुचन्नाकवदेतदोकः ॥ १३०॥
तत्रैव तत्त्वानि ससंशयानि निस्संशयान्यासुरलं विवादे ।
परस्परोत्थे हरिणा त्रिरूपिणा संस्थापितान्यग्र्यवचोभिरुच्चैः ॥ १३१॥
प्रगीतगन्धर्ववरः प्रनृत्तसदप्सराः सन्ततवादिविप्रः ।
विवेचयद्देवनृपौघ एको रराज राजाऽखिलसत्क्रतूनाम् ॥ १३२॥
समस्तदेव्यः सहवासुदेव्यः स्वलङ्कृताः फुल्लमुखारविन्दाः ।
विचेरुरत्रैव सहाप्सरोभिर्निषेदुरप्यच्युतसत्कथारमाः ॥ १३३॥
न वै मुमुक्षुर्न बभूषुरत्र न वै प्रपित्सुश्च कुतो बुभुक्षुः ।
असत्यकामा अभवन् कुतश्चित् प्रदातरि प्राज्ञवरेऽनिलात्मजे ॥ १३४॥
दिनेदिने तत्र महान्नपर्वताः सभक्षसारा रसवन्त ऊर्जिताः ।
नद्यः पयःसर्पिरजस्रपूर्णाः समाक्षिकाद्या अपि पायसह्रदाः ॥ १३५॥
ह्रदा महान्तस्त्रिदशादियोग्याः सुयोगयुक्ता हरिचन्दनादेः ।
तथाऽञ्जनालक्तकमुख्यमण्डनद्रव्याग्र्यवाप्यो मणिकाञ्चनोद्भवाः ॥ १३६॥
यथेष्टपानाशनभोगशिष्टाः सहस्रशो मारुतिना तु कारिताः ।
गन्धा रसाद्याश्च समस्तभोगा दिवीव तत्राऽसुरतीव हृद्याः ॥ १३७॥
नैतादृशः कश्चन भूतपूर्वो मखो विना रामविरिञ्चवज्रिणाम् ।
मखानिति प्रोचुरशेषलोका दृष्ट्वा मखं तं पुरुषोत्तमेरितम् ॥ १३८॥
स एवमद्धा हरिदैवतः क्रतुः पञ्चाश्वमेधात्मक उच्चकल्पः ।
दिनेदिने स्वृद्धगुणो बभूव मुदावहो वत्सरपञ्चकत्रयम् ॥ १३९॥
यज्ञावसाने निखिलाश्च पाण्डवाः कृष्णा च पृथ्वीमखिलां सवित्ताम् ।
मङ्गल्यमात्रं दयिताशरीरे निधाय सर्वाभरणानि चैव ।
समर्पयामासुरजे वरेण्ये व्यासे विभागाय यथोक्तमृत्विजाम् ॥ १४०॥
प्रियो विभागो यदमुष्य विष्णोरतो विभागार्थमिवाऽर्पयंस्ते ।
हृदा समस्तं हरयेऽर्पितं तैः स हि द्विजस्थोऽपि समस्तकर्ता ॥ १४१॥
देहेन्द्रियप्राणमनांसि चेतनैः सहैव तस्मा अतिसृज्य नेमुः ।
त्वदीयमेतन्निखिलं वयं च नास्त्यस्मदीयं क्वच किञ्चनेश ।
स्वन्त्र एकोऽसि न कश्चिदन्यः सर्वत्र पूर्णोऽसि सदेति हृष्टाः ॥ १४२॥
ततो विभक्ते मुनयोऽवदंस्ते प्रत्यर्पयामो वयमेषु राज्यम् ।
पूर्णा हिरण्येन वयं धरायाः प्रपालने योग्यतमा इमे हि ॥ १४३॥
पार्थाः सभार्या द्विजवाक्यमेतन्निशम्य कृष्णाय पुनः प्रणम्य ।
ऊचुस्तपो नोऽस्तु वनेऽर्पयित्वा राज्यं मुखान्ते त्वयि धर्मलब्धम् ॥ १४४॥
इतीरितः प्राह स बादरायणो मुनीश्वरैरप्यनुयाचितः प्रभुः ।
हिरण्यमेव स्वमिदं मुनीनां मदाज्ञया भूङ्ग्ध्वमशेषराज्यम् ॥ १४५॥
समर्पितं मे फलवच्च तत् स्यात् पुनर्ग्रहो नैव च दोषकारी ।
पितामहोऽहं भवतां विशेषतो गुरुः पतिश्चैव ततो मदर्हथ ॥ १४६॥
इतीरितास्ते प्रतिपद्य राज्यं ददुर्हिरण्यं निखिलं च तस्मै ।
विभज्य विप्रान् स निजं तु भागमदात् पृथायै निखिलम् प्रसन्नः ॥ १४७॥
सभार्यकाणां वररत्नभूषणान्यशेषतः पुत्रभुवां प्रदाय ।
पृथक्पृथग् योग्यवरानथैभ्यः प्रादात् प्रभुस्ते मुदिताः प्रणेमुः ॥ १४८॥
तद् यज्ञपञ्चकमजस्त्रिगुणां स एभ्यः सद्दक्षिणां क्रतुपतिर्निखिलामवाप्य ।
चक्रेऽश्वमेधत्रयमेकमेकं तेषां हरिर्बहुसुवर्णकनामधेयम् ॥ १४९॥
सकृष्णेष्वथ पार्थेषु सस्नातावभृथेष्वलम् ।
पञ्चेन्द्रवद् विराजत्सु स्तूयमानेष्वृषीश्वरैः ॥ १५०॥
स्तूयमाने च तद्यज्ञे क्रोधो नकुलतां गतः ।
कृत्वोग्रगर्जनं यज्ञं तांश्च यज्ञकृतोऽखिलान् ॥ १५१॥
गर्हयन्नूचिवानित्थं भार्यापुत्रस्नुषायुतः ।
सक्तुप्रस्थमदाद् विप्र उञ्छवृत्तिः सुभक्तितः ॥ १५२॥
धर्मायातिथये तस्य कलां नार्हति षोडशीम् ।
यज्ञोऽयमिति हेतुं च विप्रैः पृष्टोऽभ्यभाषत ॥ १५३॥
अतिथेस्तस्य पादोदक्लिन्नः पार्श्वो हिरण्मयः ।
एको ममाभूदपरः सर्वतीर्थादिकेष्वपि ॥ १५४॥
मज्जतोऽवभृथेष्वद्धा यज्ञानामत्र चाऽदरात् ।
नाभूदित्यथ तत्तत्त्ववेदिभिर्मुनिपुङ्गवैः ॥ १५५॥
कृष्णेन च तमोऽन्धं तं प्रापयद्भिः स्मिते कृते ।
अदर्शनं जगामाऽशु तमः प्राप च कालतः ।
तदर्थमेव हैरण्यः पार्श्वस्तस्याभवत् पुरा ॥ १५६॥
कृष्णस्य पाण्डवानां च मखादेश्च गुणान् बहून् ।
वदन्तो भत्सयाञ्चक्रुस्तन्मतज्ञा मधुद्विषः ॥ १५७॥
श्राद्धार्थं हि पयः पूर्वं जमदग्नेरदूषयत् ।
नाकुलेनैव रूपेण क्रोधस्तं पितरोऽशपन् ॥ १५८॥
भव त्वं नकुलस्तावद् यावद् धर्मादिकान् सुरान् ।
क्षेप्स्यसीति तमो घोरं भूयः पापेन यात्वयम् ।
इत्यभिप्रेत्यः तैः शप्तस्तथा कृत्वा तमोऽभ्ययात् ॥ १५९॥
यद्यप्यल्पधनत्यक्तं वित्तं बहुफलं भवेत् ।
तथाऽप्यनन्तफलदाः कर्तुरेव महागुणाः ॥ १६०॥
सतां प्रीतिश्च तत्रापि सद्वरो हरिरेव हि ।
पार्थेभ्योऽभ्यधिकः कर्ता समो वा को गुणैर्भवेत् ॥ १६१॥
सतां च प्रवरो विष्णुः सद्भिर्मुनिवरैर्युतः ।
प्रत्यक्षतः कारयति पार्थैः प्रियतमैश्च तैः ।
यं मखप्रवरं तस्य समं किं शुभसाधनम् ॥ १६२॥
पठन्ति पैङ्गिनश्चैतान् मन्त्रानन्वर्थकानिह ।
' अवैष्णवकृतं कर्म सर्वमन्तवदुच्यते ।
अनन्तं वैष्णवकृतं तत्र वर्णक्रमात् परम् ॥ १६३॥
वैष्णवेष्वपि मर्त्यैर्यत् कृतं शतगुणं ततः ।
गान्धर्वं कर्म तस्माच्च मुनिभिः पितृभिस्ततः ॥ १६४॥
देवशक्रशिवब्रह्मकृतं तस्मात् क्रमेण च ।
शतोत्तरमिति ज्ञेयं नान्यद् ब्रह्मकृतोपमम् ॥ १६५॥
वैष्णवत्वं क्रमोद्वृद्धं ब्रह्मान्तं जीवराशिषु ।
फलाधिक्यं कर्मणां हि विष्णोः प्रीत्यैव नान्यथा' ॥ १६६॥
इति तेन न पार्थानां कर्मणाऽन्यत् समं क्वचित् ।
गुणैर्ज्ञानादिभिर्वाऽपि तस्मात् क्रोधः स तामसः ।
विनिन्द्य तान् सुसत्त्वस्थांस्तमोऽन्धमुपजग्मिवान् ॥ १६७॥
अथ पृष्टो वासुदेवः सुरविप्रादिसंसदि ।
युधिष्ठिरेण संहृष्टो जगादाशेषतः प्रभुः ॥ १६८॥
ते च श्रुत्वाऽखिलान् धर्मान् भक्त्या परमया युताः ।
पूजयन्तो जगन्नाथमापुश्च परमां मुदम् ॥ १६९॥