यज्ञेश्वरेणाभियुतेषु युक्त्या महीं प्रशासत्सु पृथासुतेषु
एकत्रिंशोऽध्यायः
सर्वशास्त्रतात्पर्यनिर्णयः
औं ॥ यज्ञेश्वरेणाभियुतेषु युक्त्या महीं प्रशासत्सु पृथासुतेषु ।
यियक्षुरागान्निशि विप्रवर्यो युधिष्ठिरं वित्तमभीप्समानः ॥ १॥
प्रातर्ददानीति नृपस्य वाक्यं निशम्य विप्रस्त्वरितो मखार्थे ।
भीमं ययाचे स नृपोक्तमाशु निशम्य चादान्निजहस्तभूषणम् ॥ २॥
अनर्घमग्निप्रतिमं विचित्ररत्नाञ्चितं विप्रवरस्तदाप्य ।
ययौ कृतार्थोऽथ च नन्दिघोषमकारयद् वायुसुतस्तदैव ॥ ३॥
अकालजं तं तु निशम्य राजा पप्रच्छ दूतैस्तमुवाच भीमः ।
यन्मर्त्यदेहोऽपि विनिश्चितायुरभून्नृपस्तेन ममाऽस हर्षः ॥ ४॥
इतीरितोऽसौ नृपतिस्त्वरेत धर्मार्थमित्यस्य मतं प्रपूजयन् ।
जगाद साध्वित्यथ भूय एव धर्मे त्वरावानपि सम्बभूव ॥ ५॥
अथाम्बिकेयं विषयेषु सक्तं दुस्सङ्गदुष्टं कृतभूरिदोषम् ।
समस्तराजाप्ययहेतुभूतं निचाय्य तं मारुतिरन्वकम्पत ॥ ६॥
अकुर्वतस्तीक्ष्णतपः कुतश्चिन्नैवास्य लोकाप्तिरमुष्य भूयात् ।
रागाधिकोऽयं न तपश्च कुर्यादित्यस्य वैराग्यकराणि चक्रे ॥ ७॥
आज्ञां परैरस्य निहन्ति सोदरैर्वधूजनैरप्यतिपूजितेऽस्मिन् ।
स निष्टनत्येवमपीतरैः स सुपूजितो नाऽस तदा विरागः ॥ ८॥
सर्वे हि पार्थास्तमृते सभार्या वैचित्रवीर्यं परमादरेण ।
पर्येव चक्रुः सततं सभार्यं कृष्णा च न स्यात् तनयार्तिमानिति ॥ ९॥
स प्रीयमाणो नितरां च तेषु नैवाधिकं प्रीयते भीमसेने ।
स्मरन् सुतांस्तेन हतान् समस्तानपि प्रभावं परमस्य जानन् ॥ १०॥
तस्यापनेतुं विषयेषु सक्तिं द्वेषं तथैवाऽत्मनि भीमसेनः ।
जगाद माद्रीसुतयोः समक्षमास्फोट्य संशृण्वत एव तस्य ॥ ११॥
ताविमौ मे भुजौ वृत्तौ पीनौ चन्दनरूषितौ ।
ययोरन्तरमासाद्य जरढस्य सुता हताः ॥ १२॥
यमौ तदन्वमोदेतां तत्स्नेहाद् गौरवादपि ।
नैव तत् कृष्णया ज्ञातं पृथया च सपुत्रया ॥ १३॥
तच्छ्रुत्वोत्पन्ननिर्वेदं क्षत्ता ज्येष्ठस्य वर्द्धयन् ।
उवाच जीविताशा ते ननु राजन् महीयसी ।
भीमापवर्जितं पिण्डमादत्से गृहपालवत् ॥ १४॥
नचापराधो भीमस्य ब्रुवतस्त्वामिदं वचः ।
अग्निर्निसृष्टो दत्तश्च गरो दाराश्च दूषिताः ।
हृतं क्षेत्रं धनं यस्य किं भीमेन कृतं त्वयि ॥ १५॥
अलमासज्जतस्तेऽद्य निर्वेदकरमीरितम् ।
उपकाराय भीमेन तव द्वेषं त्यजात्र तत् ॥ १६॥
विमुच्य द्वेषकामौ त्वं वने तीर्थनिषेवकः ।
तपसाऽऽराधय हरिं ततः पूतो भविष्यसि ॥ १७॥
इत्युक्तो द्वेषमुत्सृज्य भीमे निर्वेदमागतः ।
अनुज्ञां तपसे प्राप्तुमुपवासपरोऽभवत् ॥ १८॥
अनश्नन्तं चतुर्थेऽह्नि धृतराष्ट्रं युधिष्ठिरः ।
ज्ञात्वा सम्प्रार्थयामास भोजनार्थं पुनःपुनः ॥ १९॥
अनुज्ञां वनवासाय त्वत्तः प्राप्यैव सर्वथा ।
भोक्ष्येऽन्यथा नेति वदन् धृतराष्ट्रः श्रमान्वितः ।
उपवासकृशो भार्यां शिश्रिये मूर्च्छितः क्षणात् ॥ २०॥
शन्तमेन करेणाथ धर्मजस्तं मृदु स्पृशन् ।
शनैः सञ्ज्ञामगमयदब्रवीच्च सुदुःखितः ॥ २१॥
पुरस्कृत्य युयुत्सुं त्वं कुरु राज्यमकण्टकम् ।
वयमेव त्वदर्थाय कुर्मः सर्वे तपो वने ॥ २२॥
नेत्याह धृतराष्ट्रस्तं कुलधर्मो हि नो वने ।
अन्ते देहपरित्यागस्तन्माऽनुज्ञातुमर्हसि ॥ २३॥
तयोर्विवदतोरेवं कृष्णद्वैपायनः प्रभुः ।
सर्वज्ञः सर्वकर्तेश आविर्भूतोऽब्रवीन्नृपम् ॥ २४॥
तपसाऽशेषदोषाणां क्षयकाममिमं नृपम् ।
अनुजानीहि नैवास्य धर्मविघ्नकरो भव ॥ २५॥
काले निर्वेदमापन्नस्तपसा दग्धकिल्बिषः ।
शुभ्रां गतिमयं यायादन्यथा न कथञ्चन ॥ २६॥
इत्युक्तो धर्मराजस्तमनुजज्ञे स चाशितः ।
शिक्षयामास सद्धर्मान् नीतिं च विदुषेऽप्यलम् ।
केवलस्नेहतो राज्ञे शुश्राव विनयाय सः ॥ २७॥
अनुज्ञाय गृहं प्राप्ते धर्मजे विदुरं पुनः ।
श्राद्धाय वित्तमाकाङ्क्षन् प्रेषयामास तद्वचः ॥ २८॥
श्रुत्वा युधिष्ठिरो भीममाह दातव्यमद्य नः ।
पुत्रपौत्राप्तबन्धूनां श्राद्धेच्छोर्वित्तमञ्जसा ॥ २९॥
तमाह भीमः पापानां विमुखानां मधुद्विषः ।
पारलौकिकसाहाय्यं न कार्यमितरार्थतः ।
दत्तेनापि हि वित्तेन पुत्रश्राद्धं करिष्यति ॥ ३०॥
तज्ज्ञात्वा ददतां दोषो भवेदिति विचिन्तयन् ।
कष्टात् कष्टतरं यान्तु सर्वे दुर्योधनादयः ॥ ३१॥
भीष्मादीनां वयं श्राद्धकर्तारस्तेन किं ततः ।
कानीनत्वात्तु कर्णस्य सहास्माभिः पृथैव हि ।
श्राद्धकर्मण्यधिकृता किं तस्मै दीयते धनम् ॥ ३२॥
इत्युक्तवन्तं नृपतिरर्जुनश्चोचतुः पुनः ।
यियासोर्याचमानाय निजबाहुबलार्जितम् ।
देहि वित्तं परमतः किं त्वामेषोऽभियाचते ॥ ३३॥
इत्युक्तमपि नेत्येव ब्रुवाणं शुद्धधार्मिकम् ।
अप्रीत्या जोषमास्वेति प्रोच्योवाच युधिष्ठिरः ॥ ३४॥
कोशतो यद् बहिर्वित्तं दानभोगादिकारणम् ।
मम सन्निहितं सर्वं तत् पित्रेऽद्यार्पितं मया ॥ ३५॥
एवमेवार्जुनोऽप्याह विदुरं पुनरूचतुः ।
मुख्यधर्मरते भीमे न पिता क्रोद्धुमर्हति ।
इत्युक्तो वित्तमादाय गत्वा क्षत्ताऽग्रजेऽब्रवीत् ॥ ३६॥
युधिष्ठिरार्जुनौ भक्तिं नितरां त्वयि चक्रतुः ।
नातिहृष्टस्त्वदाज्ञायां भीमस्तन्मा क्रुधोऽत्र च ॥ ३७॥
शुद्धे क्षत्रियधर्मे हि नितरोऽयं वृकोदरः ।
नृपार्जुनौ धर्मरतावपि लोककृपापरौ ॥ ३८॥
अजातकोपस्तच्छ्रुत्वा धृतराष्ट्रः प्रशान्तधीः ।
कृत्वा श्राद्धानि सर्वेषां महादानान्यनारतम् ।
दशरात्रं ददौ शुद्धमनसा निर्.हृणत्वधीः ॥ ३९॥
सर्वं समर्प्य गोविन्दे पार्थेभ्योऽन्येभ्य एव च ।
स्वजनेभ्यः समादाय स्रवन्नेत्रेभ्य उच्चधीः ।
अनुज्ञां निर्गतः प्राह पौरजानपदान् नृपः ॥ ४०॥
धर्मतो रक्षिता यूयमस्मत्पूर्वैर्महात्मभिः ।
नचाहं परमस्नेहाद् युष्माभिः सुकृपालुभिः ।
अरक्षितेति कथितः प्रमादादपि सज्जनाः ॥ ४१॥
इष्टं च यज्ञैः पूर्तैश्च चरितं युष्मदाश्रयात् ।
पुत्रस्तु मम पापात्मा सर्वक्षत्रविनाशकः ।
सर्वातिशङ्की मूढश्च वृद्धानां शासनातिगः ॥ ४२॥
सौभ्रात्रं येन सन्त्यज्य पाण्डवेषु महात्मसु ।
कृतं विरूपं सुमहत् कुर्याद् यन्नापरः क्वचित् ॥ ४३॥
अप्रियाणि च कृष्णस्य सुबहून्याचरत् कुधीः ।
प्रायस्तेनापि मन्देन न युष्मास्वशिवं कृतम् ॥ ४४॥
भ्रातरोऽस्य च सर्वेऽपि तच्छीलमनुवर्तिनः ।
हताश्च स्वेन पापेन ससुतामात्यबान्धवाः ॥ ४५॥
सोऽहं वयोगतश्चैव पुत्राधिभिरभिप्लुतः ।
तत्सम्बन्धकृतं पापं स्वकृतं चात्यपेशलम् ।
पाण्डवेषु सकृष्णेषु तपसा मार्ष्टुमुद्यतः ॥ ४६॥
तत्र मामनुजानीध्वं कृपया मित्रवत्सलाः ।
मत्प्रियार्थमपि स्नेहः पाण्डवेषु महात्मसु ॥ ४७॥
क्रियमाणोऽपि कर्तव्यो भूय एव सदाऽचलः ।
ते हि मे पुत्रकाः सन्त इहामुत्र च सौख्यदाः ॥ ४८॥
इत्युक्तैः स्वगुणानुच्चैः कीर्तयद्भिः सुदुःखितैः ।
पर्यश्रुनयनैः कृच्छ्रात् पौरजानपदैश्चिरात् ।
अनुज्ञातो ययौ पार्थैरनुयातः सुदूरतः ॥ ४९॥
सञ्जयो विदुरश्चैनं सभार्यमनुजग्मतुः ।
अनुवव्राज तं कुन्ती वनाय कृतनिश्चया ॥ ५०॥
वार्यमाणाऽपि तनयैः सभार्यैर्भृशदुःखितैः ।
संस्थाप्य तान् सुकृच्छ्रेण ययौ साऽन्वेव तं नृपम् ॥ ५१॥
संन्दर्शितपथो राजा कुन्तीविदुरसञ्जयैः ।
गान्धारीसहितः प्राप कुरुक्षेत्रे जगद्गुरोः ।
क्रमेणैवाऽश्रमं व्यासदेवस्य सुरपूजितम् ॥ ५२॥
त्रिवत्सरादस्य निजस्य लोकस्याऽप्तिं सभार्यस्य जगाद तत्र ।
ब्रह्माङ्कजस्तेन भृशं प्रतीतो व्यासोपदिष्टं व्यचरत् तपोऽग्र्यम् ॥ ५३॥
सक्षत्तृगान्धारिपृथे ससञ्जये तपोभिराराधयति प्रभुं हरिम् ।
वैचित्रवीर्येऽत्र सदारबन्धुभृत्यास्तु पार्था दृशये समाययुः ॥ ५४॥
क्षत्तैकतामत्र युधिष्ठिरेण प्राप्तोऽथ भार्यासहितं ससञ्जयम् ।
उपासमानेषु विचित्रवीर्यपुत्रं पृथां चैव पृथासुतेषु ॥ ५५॥
प्रादुर्बभूवामितशक्तितेजोज्ञानाद्भुतैश्वर्यसुखादिरूपः ।
व्यासो हरिस्तत्र समीक्ष्य सर्वे सम्पूजयामासुरुदग्रभक्त्या ॥ ५६॥
तैः पूजितस्तत्र निषण्ण आह यद्यद् यदिष्टं प्रवदन्तु तत्तत् ।
दास्यामि तस्याद्य तदित्यमुष्मिन् भक्त्युच्छ्रयः पाण्डुसुतैः सदारैः ।
वृतोऽत्र कुन्ती रविसूनुजन्ममृत्यूत्थदोषापगमं ययाचे ॥ ५७॥
तेषां प्रदत्तेष्वभिवाञ्छितेषु वैचित्रवीर्यः सह भार्ययैव ।
सम्मन्त्र्य निःशेषरणेहतानां सन्दर्शनं प्रार्थितवांस्तमीशम् ॥ ५८॥
ततस्तु ते सत्यवतीसुतस्य सर्वेश्वरस्याऽज्ञया सर्व एव ।
समागताः स्वर्गलोकात् क्षणेन दत्ता च दिव्या दृगमुष्य राज्ञः ॥ ५९॥
ऊषुश्च रात्रिं परमाज्ञयैव सर्वे स्वभार्यासहिता यथा पुरा ।
तृप्तः सदारो नृपतिश्च तत्र सर्वेऽपि दृष्ट्वा महदद्भुतं तत् ॥ ६०॥
अथाऽज्ञयैवास्य परस्य सर्वाः स्त्रियो निजेशैः सहिता ययुः स्वम् ।
विनोत्तरां तां तु कथां निशम्य पारीक्षितोऽयाचत तातदृष्टिम् ॥ ६१॥
तं चाऽनयामास तदैव कृष्णो ह्यचिन्त्यशक्तिः स विकुण्ठलोकात् ।
दृष्ट्वा स पारीक्षित आप तुष्टिं स्वतातमीशेन समाहृतं पुनः ॥ ६२॥
सम्पूज्य तं कृष्णमपीशवन्द्यं क्षमापयामास परीक्षिदात्मजः ।
चक्रे च विस्रम्भमतीव भारते पुनश्च तत्रत्यजनैः समेतः ॥ ६३॥
पार्थाः पुनः प्राप्य पुरं स्वकीयं धर्मेण पृथ्वीं परिपालयन्तः ।
भोगानरागा अजुषन्त योग्यान् युक्ता जगद्धातरि वासुदेवे ॥ ६४॥
वर्षत्रयान्ते त्मसमाहिताग्निं त्यक्ताग्निभिस्तैर्वनमालिहद्भिः ।
ते शुश्रुवुर्धृतराष्ट्रं सभार्यं सहैव कुन्त्या परिदग्धदेहम् ॥ ६५॥
व्रीळामुखा ध्यानपरा निशम्य स्वर्यातमात्मीयपितृव्यमाशु ।
समेत्य भर्त्रा प्रतिपूज्यमानां कुन्तीं च तप्ता विदधुः क्रियाश्च ॥ ६६॥
ते विष्णुभक्त्या परिपूतकर्मभिर्ज्ञानेन चान्ते तमनुस्मरन्तः ।
पार्थैः सुपुत्रैः सुकृतोर्ध्वकर्मभिर्वृद्धिं सुखस्याऽपुरनप्ययां शुभाम् ॥ ६७॥
गावद्गणिर्व्याससकाशमेत्य शुश्रूषया तस्य पुनर्निजां गतिम् ।
प्रपेदिवान् पाण्डुसुताश्च कृष्णं प्रतीक्षमाणाः पृथिवीमशासन् ॥ ६८॥
अष्टादशाब्दाः पृथिवीं समस्तां प्रशासतामेवमगुर्महात्मनाम् ।
अरिक्तधर्मार्थसुखोत्तमानामनुज्झितानन्तपदस्मृतीनाम् ॥ ६९॥