शशाङ्कपुत्रादभवत् पुरूरवास्तस्याऽयुरायोर्नहुषो ययातिः
एकादशोऽध्यायः
सर्वशास्त्रतात्पर्यनिर्णयः
औं ॥ शशाङ्कपुत्रादभवत् पुरूरवास्तस्याऽयुरायोर्नहुषो ययातिः ।
तस्याऽस पत्नीयुगळं सुताश्च पञ्चाभवन् विष्णुपदैकभक्ताः ॥ । १॥
यदोर्वंशे चक्रवर्ती कार्तवीर्यार्जुनोऽभवत् ।
विष्णोर्दत्तात्रेयनाम्नः प्रसादाद् योगवीर्यवान् ।
तस्यान्ववाये यदवो बभूवुर्विष्णुसंश्रयाः ॥ । ३॥
पूरोर्वंशे तु भरतश्चक्रवर्ती हरिप्रियः ।
तद्वंशजः कुरुर्नाम प्रतीपोऽभूत् तदन्वये ॥।
४॥
प्रतीपस्याभवन् पुत्रास्त्रयस्त्रेताग्निवर्चसः ।
देवापिरथ बाह्लीको गुणज्येष्ठश्च शन्तनुः ॥ । ५॥
त्वग्दोषयुक्तो देवापिर्जगाम तपसे वनम् ।
' विष्णोः प्रसादात् स कृते युगे राजा भविष्यति' ॥ । ६॥ (भा\.पु\. १२\.२\.३७)
पुत्रिकापुत्रतां यातो बाह्लीको राजसत्तमः ।
हिरण्यकशिपोः पुत्रः प्रह्लादो भगवत्परः ॥ । ७॥
वायुना च समाविष्टो महाबलसमन्वितः ।
येनैव जायमानेन तरसा भूर्विदारिता ॥ । ८॥
भूभारक्षपणे विष्णोरङ्गतामाप्तुमेव सः ।
प्रतीपपुत्रतामाप्य बाह्लीकेष्वभवत् पतिः ।
रुद्रेषु पत्रतापाख्यः सोमदत्तोऽस्य चाऽत्मजः ॥ । ९॥
अजैकपादहिर्बुध्निर्विरूपाक्ष इति त्रयः ।
रुद्राणां सोमदत्तस्य बभूवुः प्रथिताः सुताः ।
विष्णोरेवाङ्गतामाप्तुं भूरिर्भूरिश्रवाः शलः ॥ । १०॥
शिवादिसर्वरुद्राणामावेशाद् वरतस्तथा ।
भूरिश्रवा अतिबलस्तत्राऽसीत् परमास्त्रवित् ॥ । ११॥
तदर्थं हि तपश्चीर्णं सोमदत्तेन शम्भवे ।
दत्तो वरश्च तेनास्य त्वत्प्रतीपाभिभूतिकृत् ।
बलवीर्यगुणोपेतो नाम्ना भूरिश्रवाः सुतः ॥ । १२॥
भविष्यति मयाऽऽविष्टो यज्ञशील इति स्म ह ।
तेन भूरिश्रवा जातः सोमदत्तसुतो बली ॥ । १३॥
पूर्वोदधेस्तीरगतेऽब्जसम्भवे गङ्गायुतः पर्वणि घूर्णितोऽब्धिः ।
अवाक्षिपत् तस्य तनौ निजोदबिन्दुं शशापैनमथाब्जयोनिः ॥ । १४॥
महाभिषङ् नाम नरेश्वरस्त्वं भूत्वा पुनः शन्तनुनामधेयः ।
जनिष्यसे विष्णुपदी तथैषा तत्रापि भार्या भवतो भविष्यति ॥ । १५॥
शान्तो भवत्येव मयोदितस्त्वं तनुत्वमाप्तोऽसि ततश्च शन्तनुः ।
इतीरितः सोऽथ नृपो बभूव महाभिषङ् नाम हरेःपदाश्रयः ॥ । १६॥
स तत्र भुक्त्वा चिरकालमुर्वीं तनुं विहायाऽप सदो विधातुः ।
तत्रापि तिष्ठन् सुरवृन्दसन्निधौ ददर्श गङ्गां श्लथिताम्बरां स्वकाम् ॥ । १७॥
अवाङ्मुखेषु द्युसदस्सु रागान्निरीक्षमाणं पुनरात्मसम्भवः ।
उवाच भूमौ नृपतिर्भवाऽशु शप्तो यथा त्वं हि पुरा मयैव ॥ । १८॥
इतीरितस्तत्क्षणतः प्रतीपाद् बभूव नाम्ना नृपतिः स शन्तनुः ।
अवाप्य गङ्गां दयितां स्वकीयां तया मुमोदाब्दगणान् बहूंश्च ॥ । १९॥
अथाष्टमो वसुरासीद् द्युनामा वराङ्गिनाम्न्यस्य बभूव भार्या ।
बभूव तस्याश्च सखी नृपस्य सुविन्दनाम्नो दयिता सनाम्नी ॥ । २०॥
तस्या जरामृतिविध्वंसहेतोर्वसिष्ठधेनुं स्वमृतं क्षरन्तीम् ।
जरापहां नन्दिनिनामधेयां बद्धुं पतिं चोदयामास देवी ॥ । २१॥
तया द्युनामा स वसुः प्रचोदितो भ्रातृस्नेहात् सप्तभिरन्वितोऽपरैः ।
बबन्ध तां गामथ ताञ्छशाप वसिष्ठसंस्थः कमलोद्भवः प्रभुः ॥ । २२॥
अधर्मवृत्ताः प्रतियात मानुषीं योनिं द्रुतं यत्कृते सर्व एव ।
धर्माच्च्युताः स तथाऽष्टायुराप्यतामन्ये पुनः क्षिप्रमतो विमोक्ष्यथ ॥ । २३॥
प्रचोदयामास च या कुमार्गे पतिं हि साऽम्बेति नरेषु जाता ।
अभर्तृका पुंस्त्वसमाश्रयेण पत्युर्मृतौ कारणत्वं व्रजेत ॥ । २४॥
भवत्वसौ ब्रह्मचर्यैकनिष्ठो महान् विरोधश्च तयोर्भवेत ।
स गर्भवासाष्टकदुःखमेव समाप्नुतां शरतल्पे शयानः ॥ । २५॥
मृत्यष्टकोत्थामपि वेदनां सः प्राप्नोतु शस्त्रैर्बहुधा निकृत्तः ।
इतीरितास्ते कमलोद्भवं तं ज्ञात्वा समुत्सृज्य च गां प्रणेमुः ॥ । २६॥
न मानुषीं गर्भमवाप्नुमो वयं भवत्वयं सर्ववित् कीर्तिमांश्च ।
महास्त्रवेत्ता भवदंशयुक्तस्तथा बलं नोऽखिलानामुपैतु ॥ । २७॥
इतीरितेऽस्त्वित्युदिताः स्वयम्भुवा वसिष्ठसंस्थेन सुरापगां ययुः ।
ऊचुस्तथैनामुदरे वयं ते जायेमहि क्षिप्रमस्मान् हन त्वम् ॥ । २८॥
इतीरिता सा वरमाशु वव्रे तेभ्योऽप्यपापत्वमथ प्रयत्वम् ।
तेषां सदैवाऽत्मन एकमेषां दीर्घायुषं तान् सुषुवेऽथ शन्तनोः ॥ । २९॥
अविघ्नतस्तान् विनिहन्तुमेव पुरा प्रतीपस्य हि दक्षिणोरुम् ।
समाश्रिता कामिनीवत्त्वकामा तत्पुत्रभार्या भवितुं विडम्बात् ॥ । ३०॥
तेनैव चोक्ता भव मे सुतस्य भार्या यतो दक्षिणोरुस्थिताऽसि ।
भागो हि दक्षो दुहितुः स्नुषाया भार्याभागो वाम इति प्रसिद्धः ॥ । ३१॥
उवाच सा तं नतु मां सुतस्ते काऽसीति पृच्छेन्नतु मां निवारयेत् ।
अयोग्यकर्त्रीमपि कारणं च मत्कर्मणो नैव पृच्छेत् कदाचित् ॥ । ३२॥
यदा त्रयाणामपि चैकमेष करोति गच्छेयमहं विसृज्य ।
तदा त्वदीयं सुतमित्युदीरिते तथेति राजाऽप्यवदत् प्रतीपः ॥ । ३३॥
तथैव पुत्राय च तेन तद् वचो वधूक्तमुक्तं वचनाद् द्युनद्याः ।
कनीयसे सा ह्यवदत् सुतस्ते नान्यः पतिः शन्तनुरेव मे वृतः ॥ । ३४॥
ततस्तु सा शन्तनुतोऽष्ट पुत्रानवाप्य सप्त न्यहनत् तथाऽष्टमम् ।
गन्तुं ततो मतिमाधाय हन्तुमिवोद्योगं सा हि मृषा चकार ॥ । ३५॥
अवस्थितिर्नातिसुखाय मानुषे यतः सुराणामत एव गन्तुम् ।
ऐच्छन्न तस्या हि बभूव मानुषो देहो नरोत्थो हि तदाऽऽस शन्तनोः ॥ । ३६॥
तां पुत्रनिधनोद्युक्तां न्यवारयत शन्तनुः ।
काऽसि त्वं हेतुना केन हंसि पुत्रान् नृशंसवत् ॥ । ३७॥
रूपं सुरवरस्त्रीणां तव तेन न पापकम् ।
भवेत् कर्म त्वदीयं तन्महत् कारणमत्र हि ॥ । ३८॥
तत् कारणं वद शुभे यदि मच्छ्रोत्रमर्हति ।
इतीरिताऽवदत् सर्वं प्रययौ च सुरापगा ॥ । ३९॥
न धर्मो देवतानां हि ज्ञातवासश्चिरं नृषु ।
कारणादेव हि सुरा नृषु वासं प्रकुर्वते ।
कारणापगमे यान्ति धर्मोऽप्येषां तथाविधः ॥ । ४०॥
अदृश्यत्वमसंस्पर्शो ह्यसम्भाषणमेव च ।
सुरैरपि नृजातैस्तु गुह्यधर्मो दिवौकसाम् ॥ । ४१॥
अतः सा वरुणं देवं पूर्वभर्तारमप्यमुम् ।
नृजातं शन्तनुं त्यक्त्वा प्रययौ वरुणालयम् ॥ । ४२॥
सुतमष्टममादाय भर्तुरेवाप्यनुज्ञया ।
वधोद्योगान्निवृत्ता सा ददौ पुत्रं बृहस्पतौ ॥ । ४३॥
देवव्रतोऽसावनुशासनाय मात्रा दत्तो देवगुरौ शतार्द्धम् ।
संवत्सराणामखिलांश्च वेदान् समभ्यसत् तद्वशगान्तरात्मा ॥ । ४४॥
ततश्च मात्रा जगतां गरीयस्यनन्तपारेऽखिलसद्गुणार्णवे ।
रामे भृगूणामधिपे प्रदत्तः शुश्राव तत्त्वं च शतार्द्धवर्षम् ॥ । ४५॥
स पञ्चविंशत् पुनरब्दकानामस्त्राणि चाभ्यस्य पतेर्भृगूणाम् ।
मात्रा समानीय तटे निजे तु संस्थापितः प्रार्पयितुं स्वपित्रे ॥ । ४६॥
स तत्र बद्ध्वा शरपञ्जरेण गङ्गां विजह्रेऽस्य पिता तदैव ।
व्रजन् मृगार्थी तृषितो विलोकयन् गङ्गामतोयामभवत् सुविस्मितः ॥ । ४७॥
स मार्गयामास ततोऽस्य हेतुज्ञप्त्यै तदा स्वं च ददर्श सूनुम् ।
क्रीडन्तमस्त्रेण बभूव सोऽपि क्षणाददृश्यः पितृदर्शनादनु ॥ । ४८॥
मीमांसमानं तमवाप गङ्गा सुतं समादाय पतिं जगाद च ।
अयं सुतस्ते परमास्त्रवेत्ता समर्पितो वीर्यबलोपपन्नः ॥ । ४९॥
अस्याग्रजाः स्वां स्थितिमेव याता हरेः पदाम्भोजसुपाविते जले ।
तनूर्मदीये प्रणिधाय तत् त्वं तान् मा शुचोऽनेन च मोदमानः ॥ । ५०॥
इति प्रदायामुमदृश्यतामगाद् गङ्गा तमादाय ययौ स्वकं गृहम् ।
राजाऽभिषिच्याथ च यौवराज्ये मुमोद तत्सद्गुणतर्पितो भृशम् ॥ । ५१॥
पुनः स पित्राऽनुमतो बृहस्पतेरवाप वेदान् पुरुषायुषोऽर्द्धतः ।
रामात् तथाऽस्त्राणि पुनस्त्ववाप तावद्भिरब्दैस्त्रिशतैश्च तत्त्वम् ॥ । ५२॥
स सर्ववित्त्वं समवाप्य रामात् समस्तविद्याधिपतेर्गुणार्णवात् ।
पितुं समीपं समवाप्य तं च शुश्रूषमाणः प्रमुमोद वीरः ॥ । ५३॥
यदैव गङ्गा सुषुवेऽष्टमं सुतं तदैव यातो मृगयां स शन्तनुः ।
शरद्वतो जातमपश्यदुत्तमं वने विसृष्टं मिथुनं त्वयोनिजम् ॥ । ५४॥
शरद्वांस्तु तपः कुर्वन् ददर्श सहसोर्वशीम् ।
चस्कन्द रेतस्तस्याथ शरस्तम्बे ततोऽभवत् ॥ । ५५॥
विष्कम्भो नाम रुद्राणां भूभारहरणेऽङ्गताम् ।
हरेः प्राप्तुं तथा तारा भार्या या हि बृहस्पतेः ॥ । ५६॥
तावुभौ शन्तनुर्दृष्ट्वा कृपाविष्टः स्वकं गृहम् ।
निनाय नाम चक्रे च कृपाया विषयौ यतः ।
कृपः कृपीति स कृपस्तपो विष्णोश्चकार ह ॥ । ५७॥
तस्य प्रीतस्तदा विष्णुः सर्वलोकेश्वरेश्वरः ।
प्रादादेष्यत्सप्तर्षित्वमायुः कल्पान्तमेव च ।
स शन्तनुगृहे तिष्ठन् देवव्रतसखाऽभवत् ॥ । ५८॥
पुत्रवच्छन्तनोश्चाऽसीत् स च पुत्रवदेव तत् ।
मिथुनं पालयामास स कृपोऽस्त्राण्यवाप च ॥ । ५९॥
सर्ववेदानधिजगौ सर्वशास्त्राणि कौशिकात् ।
तत्त्वज्ञानं तथा व्यासादाप्य सर्वज्ञतां गतः ॥ । ६०॥
यदा हि जातः स कृपस्तदैव बृहस्पतेः सूनुरगाच्च गङ्गाम् ।
स्नातुं घृताचीं स ददर्श तत्र श्लथद्दुकूलां सुरवर्यकामिनीम् ॥ । ६१॥
तद्दर्शनात् स्कन्नमथेन्द्रियं स द्रोणे दधाराऽशु ततोऽभवत् स्वयम् ।
अम्भोजजावेशयुतो बृहस्पतिः कर्तुं हरेः कर्म भुवो भरोद्धृतौ ॥ । ६२॥
द्रोणेतिनामास्य चकार तातो मुनिर्भरद्वाज उतास्य वेदान् ।
अध्यापयामास सशास्त्रसङ्घान् सर्वज्ञतामाप च सोऽचिरेण ॥ । ६३॥
काले च तस्मिन् पृषतोऽनपत्यो वने तु पाञ्चालपतिश्चचार ।
तपो महत् तस्य तथा वराप्सरावलोकनात् स्कन्दितमाशु रेतः ॥ । ६४॥
स तद् विलज्जावशतः पदेन समाक्रमत् तस्य बभूव सूनुः ।
हहू तु नाम्ना स विरिञ्चगायको नाम्नाऽऽवहो यो मरुतां तदंशयुक् ॥ । ६५॥
स द्रोणतातात् समवाप वेदानस्त्राणि विद्याश्च तथा समस्ताः ।
द्रोणेन युक्तः स तदा गुरोः सुतं सहैव नौ राज्यमिति ह्यवादीत् ॥ । ६६॥
पदे द्रुतत्वाद् द्रुपदाभिधेयः स राज्यमापाथ निजां कृपीं सः ।
द्रोणोऽपि भार्यां समवाप्य सर्वप्रतिग्रहोज्झश्च पुरेऽवसत् सुखी ॥ । ६७॥
सिलोञ्छवृत्त्यैव हि वर्तयन् स धर्मं महान्तं विरजं जुषाणः ।
उवास नागाख्यपुरे सखा स देवव्रतस्याथ कृपस्य चैव ॥ । ६८॥
तेषां समानो वयसा विराटस्त्वभूद्धहा नाम विधातृगायकः ।
मरुत्सु यो विवहो नाम तस्याप्यंशेन युक्तो निजधर्मवर्ती ॥ । ६९॥
ततः कदाचिन्मृगयां गतः स ददर्श कन्याप्रवरां तु शन्तनुः ।
या पूर्वसर्गे पितृपुत्रिका सती चचार विष्णोस्तप उत्तमं चिरम् ॥ । ७०॥
यस्यै वरं विष्णुरदात् पुराऽहं सुतस्तव स्यामिति या वसोः सुता ।
जाता पुनर्दाशगृहे विवर्द्धिता व्यासात्मना विष्णुरभूच्च यस्याम् ॥ । ७१॥
तद्दर्शनान्नृपतिर्जातहृच्छ्रयो वव्रे प्रदानाय च दाशराजम् ।
ऋते स तस्यास्तनयस्य राज्यं नैच्छद् दातुं तामथाऽयाद् गृहं स्वम् ॥ । ७२॥
तच्चिन्तया ग्लानमुखं जनित्रं दृष्ट्वैव देवव्रत आश्वपृच्छत् ।
तत्कारणं सारथिमस्य तस्माच्छ्रुत्वाऽखिलं दाशगृहं जगाम ॥ । ७३॥
स तस्य विश्वासकृते प्रतिज्ञां चकार नाहं करवाणि राज्यम् ।
तथैव मे सन्ततितो भयं ते व्यैतूर्ध्वरेताः सततं भवानि ॥ । ७४॥
भीमव्रतत्वाद्धि तदाऽस्य नाम कृत्वा देवा भीष्म इति ह्यचीक्लृपन् ।
प्रसूनवृष्टिं स च दाशदत्तां काळीं समादाय पितुः समर्पयत् ॥ । ७५॥
ज्ञात्वा तु तां राजपुत्रीं गुणाढ्यां सत्यस्य विष्णोर्मातरं नामतस्तत् ।
लोके प्रसिद्धां सत्यवतीत्युदारां विवाहयामास पितुः स भीष्मः ॥ । ७६॥
प्रायः सतां न मनः पापमार्गे गच्छेदिति ह्यात्ममनश्च सक्तम् ।
ज्ञात्वाऽपि तां दाशगृहे विवर्द्धितां जग्राह सद्धर्मरतश्च शन्तनुः ॥ । ७७॥
स्वच्छन्दमृत्युत्ववरं प्रदाय तथाऽप्यजेयत्वमधृष्यतां च ।
युद्धेषु भीष्मस्य नृपोत्तमः स रेमे तयैवाब्दगणान् बहूंश्च ॥ । ७८॥
लेभे स चित्राङ्गदमत्र पुत्रं तथा द्वितीयं च विचित्रवीर्यम् ।
तयोश्च बाल्ये व्यधुनोच्छरीरं जीर्णेन देहेन हि किं ममेति ॥ । ७९॥
स्वेच्छया वरुणत्वं स प्राप नानिच्छया तनुः ।
तस्मिन् काले त्यज्यते हि बलवद्भिर्वधं विना ॥ । ८०॥
अतिसक्तास्तपोहीनाः कथञ्चिन्मृतिमाप्नुयुः ।
अनिच्छयाऽपि हि यथा मृतश्चित्राङ्गदानुजः ॥ । ८१॥
अथौर्ध्वदैहिकं कृत्वा पितुर्भीष्मोऽभ्यषेचयत् ।
राज्ये चित्राङ्गदं वीरं यौवराज्येऽस्य चानुजम् ॥ । ८२॥
चित्राङ्गदेन निहतो नाम स्वं त्वपरित्यजन् ।
चित्राङ्गदोऽकृतोद्वाहो गन्धर्वेण महारणे ।
विचित्रवीर्यं राजानं कृत्वा भीष्मोऽन्वपालयत् ॥ । ८३॥
अथ काशिसुतास्तिस्रस्तदर्थं भीष्म आहरत् ।
अम्बामप्यम्बिकानाम्नीं तथैवाम्बालिकां पराम् ॥ । ८४॥
पाणिग्रहणकाले तु ब्रह्मदत्तस्य वीर्यवान् ।
विजित्य तं साल्वराजं समेतान् क्षत्रियानपि ॥ । ८५॥
अम्बिकाम्बालिके तत्र संवादं चक्रतुः शुभे ।
अम्बा सा भीष्मभार्यैव पूर्वदेहे तु नैच्छत ॥ । ८६॥
शापाद्धिरण्यगर्भस्य साल्वकामाऽहमित्यपि ।
उवाच तां स तत्याज साऽगमत् साल्वमेव च ॥ । ८७॥
तेनापि सम्परित्यक्ता परामृष्टेति सा पुनः ।
भीष्ममाप स नागृह्णात् प्रययौ साऽपि भार्गवम् ॥ । ८८॥
भ्रातुर्विवाहयामास सोऽम्बिकाम्बालिके ततः ।
भीष्माय तु यशो दातुं युयुधे तेन भार्गवः ॥ । ८९॥
अनन्तशक्तिरपि स न भीष्मं निजघान ह ।
नचाम्बां ग्राहयामास भीष्मकारुण्ययन्त्रितः ॥ । ९०॥
अनन्तशक्तिः सकलान्तरात्मा यः सर्ववित् सर्ववशी च सर्वजित् ।
न यत्समोऽन्योऽस्ति कथञ्च कुत्रचित् कथं ह्यशक्तिः परमस्य तस्य ॥ । ९१॥
भीष्मं स्वभक्तं यशसाऽभिपूरयन् विमोहयन्नासुरांश्चैव रामः ।
जित्वैव भीष्मं न जघान देवो वाचं च सत्यामकरोत् स तस्य ॥ । ९२॥
' विद्धवन्मुग्धवच्चैव केशवो वेदनार्तवत् ।
दर्शयन्नपि मोहाय नैव विष्णुस्तथा भवेत्' ॥ एवमादिपुराणोत्थवाक्याद् रामः सदा जयी ॥ । ९३॥
यशो भीष्मस्य दत्वा तु सोऽम्बां च शरणागताम् ।
उन्मुच्य भर्तृद्वेषोत्थात् पापात् तेनाऽश्वयोजयत् ॥ । ९४॥
अनन्तरं शिखण्डित्वात् तदा सा शाङ्करं तपः ।
भीष्मस्य निधनार्थाय पुंस्त्वार्थं च चकार ह ॥ । ९५॥
भीष्मो यथा त्वां गृह्णीयात् तथा कुर्यामितीरितम् ।
रामेण सत्यं तच्चक्रे भीष्मे देहान्तरं गते ॥ । ९६॥
रुद्रस्तु तस्यास्तपसा तुष्टः प्रादाद् वरं तदा ।
भीष्मस्य मृतिहेतुत्वं कालात् पुन्देहसम्भवम् ॥ । ९७॥
मालां च य इमां मालां गृह्णीयात् स हनिष्यति ।
भीष्ममित्येव तां मालां गृहीत्वा सा नृपान् ययौ ॥ । ९८॥
तां न भीष्मभयात् केऽपि जगृहुस्तां हि सा ततः ।
द्रुपदस्य गृहद्वारि न्यस्य योगात् तनुं जहौ ॥ । ९९॥
एतस्मिन्नेव काले तु सुतार्थं द्रुपदस्तपः ।
चकार शम्भवे चैनं सोऽब्रवीत् कन्यका तव ॥ । १००॥
भूत्वा भविष्यति पुमानिति साम्बा ततोऽजनि ।
नाम्ना शिखण्डिनी तस्याः पुंवत् कर्माणि चाकरोत् ॥ । १०१॥
तस्यै पाञ्चालराजः स दर्शणाधिपतेः सुताम् ।
उद्वाहयामास सा तां पुंवेषेणैव गूहिताम् ।
अन्यत्र मातापित्रोस्तु न विज्ञातां बुबोध ह ॥ । १०२॥
धात्र्यै न्यवेदयत् साऽथ तत्पित्रे सा न्यवेदयत् ।
स क्रुद्धः प्रेषयामास निहन्मि त्वां सबान्धवम् ।
इति पाञ्चालराजाय निर्जगाम च सेनया ॥ । १०३॥
विश्वस्य वाक्यं रुद्रस्य पुमानेवेति पार्षतः ।
प्रेषयामास धिग् बुद्धिर्भिन्ना ते बालवाक्यतः ।
अपरीक्षकस्य ते राष्ट्रं कथमित्येव नर्मकृत् ॥ । १०४॥
अथ भार्यासमेतं तं पितरं चिन्तयाऽऽकुलम् ।
दृष्ट्वा शिखण्डिनी दुःखान्मन्निमित्तान्न नश्यतु ॥ । १०५॥
इति मत्वा वनायैव ययौ तत्र च तुम्बुरुः ।
स्थूणाकर्णाभिधेयस्तामपश्यद् दृढकर्णतः ॥ । १०६॥
स तस्या अखिलं श्रुत्वा कृपां चक्रे महामनाः ।
स तस्यै स्वं वपुः प्रादात् तदीयं जगृहे तथा ।
अंशेन पुंस्वभावार्थं पूर्वदेहे समास्थितः ॥ । १०७॥
पुंसां स्त्रीत्वं भवेत् क्वापि तथाऽप्यन्ते पुमान् भवेत् ।
स्त्रीणां नैव हि पुंस्त्वं स्याद् बलवत्कारणैरपि ॥ । १०८॥
अतः शिववरेऽप्येषां जज्ञे योषैव नान्यथा ।
पश्चात् पुन्देहमपि सा प्रविवेशैव पुंयुतम् ॥ । १०९॥
नास्या देहः पुंस्त्वमाप नच पुंसाऽनधिष्ठिते ।
पुंदेहे न्यवसत् साऽथ गन्धर्वेण त्वधिष्ठितम् ।
गान्धर्वं देहमाविश्य स्वकीयं भवनं ययौ ॥ । ११०॥
तस्यास्तद्देहसादृश्यं गन्धर्वस्य प्रसादतः ।
प्राप गन्धर्वदेहोऽपि तया पश्चादधिष्ठितः ॥ । १११॥
श्वो देहि मम देहं मे स्वं च देहं समाविश ।
इत्युक्त्वा स तु गन्धर्वः कन्यादेहं समास्थितः ।
उवासैव वने तस्मिन् धनदस्तत्र चाऽगमत् ॥ । ११२॥
अप्रत्युत्थायिनं तन्तुलीयमानं विलज्जया ।
शशाप धनदो देवश्चिरमित्थं भवेति तम् ॥ । ११३॥
यदा युद्धे मृतिं याति सा कन्या पुन्तनुस्थिता ।
तदा पुंस्त्वं पुनर्यासि चपलत्वादितीरितः ॥ । ११४॥
तथाऽवसत् स गन्धर्वः कन्या पित्रोरशेषतः ।
कथयामासानुभूतं तौ भृशं मुदमापतुः ॥ । ११५॥
परीक्ष्य तामुपायैश्च श्वशुरो लज्जितो ययौ ।
श्वोभूते सा तु गन्धर्वं प्राप्य तद्वचनात् पुनः ॥ । ११६॥
ययौ तेनैव देहेन पुंस्त्वमेव समाश्रिता ।
स शिखण्डी नामतोऽभूदस्त्रशस्त्रप्रतापवान् ॥ । ११७॥
विचित्रवीर्यः प्रमदाद्वयं तत् सम्प्राप्य रेमेऽब्दगणान् सुसक्तः ।
तत्याज देहं च स यक्ष्मणाऽर्दितस्ततोऽस्य माताऽस्मरदाशु कृष्णम् ॥ । ११८॥
आविर्बभूवाऽशु जगज्जनित्रो जनार्दनो जन्मजराभयापहः ।
समस्तविज्ञानतनुः सुखार्णवः सम्पूजयामास च तं जनित्री ॥ । ११९॥
तं भीष्मपूर्वैः परमादरार्चितं स्वभिष्टुतं चावददस्य माता ।
पुत्रौ मृतौ मे नतु राज्यमैच्छद् भीष्मो मया नितरामर्थितोऽपि ॥ । १२०॥
क्षेत्रे ततो भ्रातुरपत्यमुत्तममुत्पादयास्मत्परमादरार्थितः ।
इतीरितः प्रणतश्चाप्यभिष्टुतो भीष्मादिभिश्चाऽह जगद्गुरुर्वचः ॥ । १२१॥
ऋते रमां जातु ममाङ्गयोगयोग्याऽङ्गना नैव सुरालयेऽपि ।
तथाऽपि ते वाक्यमहं करिष्ये सांवत्सरं सा चरतु व्रतं च ॥ । १२२॥
सा पूतदेहाऽथ च वैष्णवव्रतान्मत्तः समाप्नोतु सुतं वरिष्ठम् ।
इतीरिते राष्ट्रमुपैति नाशमिति ब्रुवन्तीं पुनराह वाक्यम् ॥ । १२३॥
सौम्यस्वरूपोऽप्यतिभीषणं मृषा तच्चक्षुषो रूपमहं प्रदर्शये ।
सहेत सा तद् यदि पुत्रकोऽस्या भवेद् गुणाढ्यो बलवीर्ययुक्तः ॥ । १२४॥
इतीरितेऽस्त्वित्युदितस्तयाऽगमत् कृष्णोऽम्बिकां सा तु भिया न्यमीलयत् ।
अभूच्च तस्यां धृतराष्ट्रनामको गन्धर्वराट् पवनावेशयुक्तः ॥ । १२५॥
स मारुतावेशबलाद् बलाधिको बभूव राजा धृतराष्ट्रनामा ।
अदाद् वरं चास्य बलाधिकत्वं कृष्णोऽन्ध आसीत् स तु मातृदोषतः ॥ । १२६॥
ज्ञात्वा तमन्धं पुनरेव कृष्णं माताऽब्रवीज्जनयान्यं गुणाढ्यम् ।
अम्बालिकायामिति तत् तथाऽकरोद् भयात्तु सा पाण्डुरभून्मृषादृक् ॥ । १२७॥
परावहो नाम मरुत् ततोऽभवद् वर्णेन पाण्डुः स हि नामतश्च ।
स चाऽस वीर्याधिक एव वायोरावेशतः सर्वशस्त्रास्त्रवेत्ता ॥ । १२८॥
तस्मै तथा बलवीर्याधिकत्ववरं प्रादात् कृष्ण एवाथ पाण्डुम् ।
विज्ञाय तं प्राह पुनश्च माता निर्दोषमन्यं जनयोत्तमं सुतम् ॥ । १२९॥
उक्त्वेति कृष्णं पुनरेव च स्नुषामाह त्वयाऽक्ष्णोर्हि निमीलनं पुरा ।
कृतं ततस्ते सुत आस चान्धस्ततः पुनः कृष्णमुपास्व भक्तितः ॥ । १३०॥
इतीरिताऽप्यस्य हि मायया सा भीता भुजिष्यां कुमतिर्न्ययोजयत् ।
सा तं परानन्दतनुं गुणार्णवं सम्प्राप्य भक्त्या परयैव रेमे ॥ । १३१॥
तस्यां स देवोऽजनि धर्मराजो माण्डव्यशापाद् य उवाह शूद्रताम् ।
वसिष्ठसाम्यं समभीप्समानं प्राच्यावयन्निच्छया शापमाप ॥ । १३२॥
अयोग्यसम्प्राप्तिकृतप्रयत्नदोषात् समारोपितमेव शूले ।
चोरैर्हृतेऽर्थेऽपितु चोरबुद्ध्या मक्षीवधादित्यवदद् यमस्तम् ॥ । १३३॥
नासत्यता तस्य च तत्र हेतुतः शापं गृहीतुं स तथैव चोक्त्वा ।
अवाप शूद्रत्वमथास्य नाम चक्रे कृष्णः सर्ववित्त्वं तथाऽदात् ॥ । १३४॥
विद्यारतेर्विदुरो नाम चायं भविष्यति ज्ञानबलोपपन्नः ।
महाधनुर्बाहुबलाधिकश्च सुनीतिमानित्यवदत् स कृष्णः ॥ । १३५॥
ज्ञात्वाऽस्य शूद्रत्वमथास्य माता पुनश्च कृष्णं प्रणता ययाचे ।
अम्बालिकायां जनयान्यमित्यथो नैच्छत् स कृष्णोऽभवदप्यदृश्यः ॥ । १३६॥
योग्यानि कर्माणि ततस्तु तेषां चकार भीष्मो मुनिभिर्यथावत् ।
विद्याः समस्ता अददाच्च कृष्णस्तेषां पाण्डोरस्त्रशस्त्राणि भीष्मः ॥ । १३७॥
ते सर्वविद्याप्रवरा बभूवुर्विशेषतो विदुरः सर्ववेत्ता ।
पाण्डुः समस्तास्त्रविदेकवीरो जिगाय पृथ्वीमखिलां धनुर्धरः ॥ । १३८॥
गवद्गणादास तथैव सूतात् समस्तगन्धर्वपतिः स तुम्बुरुः ।
य उद्वहो नाम मरुत् तदंशयुक्तो वशी सञ्जयनामधेयः ॥ । १३९॥
विचित्रवीर्यस्य स सूतपुत्रः सखा च तेषामभवत् प्रियश्च ।
समस्तविन्मतिमान् व्यासशिष्यो विशेषतो धृतराष्ट्रानुवर्ती ॥ । १४०॥
गान्धारराजस्य सुतामुवाह गान्धारिनाम्नीं सुबलस्य राजा ।
ज्येष्ठो ज्येष्ठां शकुनेर्द्वापरस्य नास्तिक्यरूपस्य कुकर्महेतोः ॥ । १४१॥
शूरस्य पुत्री गुणशीलरूपयुक्ता दत्ता सख्युरेव स्वपित्रा ।
नाम्ना पृथा कुन्तिभोजस्य तेन कुन्ती भार्या पूर्वदेहेऽपि पाण्डोः ॥ । १४२॥
कूर्मश्च नाम्ना मरुदेव कुन्तिभोजोऽथैनां वर्द्धयामास सम्यक् ।
तत्राऽगमच्छङ्करांशोऽतिकोपो दुर्वासास्तं प्राह मां वासयेति ॥ । १४३॥
तमाह राजा यदि कन्यकायाः क्षमिष्यसे शक्तितः कर्म कर्त्र्याः ।
सुखं वसेत्योमिति तेन चोक्तः शुश्रूषणायाऽदिशदाशु कुन्तीम् ॥ । १४४॥
चकार कर्म सा पृथा मुनेः सुकोपनस्य हि ।
यथा न शक्यते परैः शरीरवाङ्मनोनुगा ॥ । १४५॥
स वत्सरत्रयोदशं तया यथावदर्चितः ।
उपादिशत् परं मनुं समस्तदेववश्यदम् ॥ । १४६॥
ऋतौ तु सा समाप्लुता परीक्षणाय तन्मनोः ।
समाह्वयद् दिवाकरं स चाऽजगाम तत्क्षणात् ॥ । १४७॥
ततो न सा विसर्जितुं शशाक तं विना रतिम् ।
सुवाक्यप्रयत्नतोऽपि तामथाऽससाद भास्करः ॥ । १४८॥
स तत्र जज्ञिवान् स्वयं द्वितीयरूपको विभुः ।
सवर्मदिव्यकुण्डलो ज्वलन्निव स्वतेजसा ॥ । १४९॥
पुरा स वालिमारणप्रभूतदोषकारणात् ।
सहस्रवर्मनामिनाऽसुरेण वेष्टितोऽजनि ॥ । १५०॥
यथा ग्रहैर्विदूष्यते मतिर्नृणां तथैव हि ।
अभूच्च दैत्यदूषिता मतिर्दिवाकरात्मनः ॥ । १५१॥
तथाऽपि रामसेवनाद्धरेश्च सन्निधानयुक् ।
सुदर्शनीयकर्णतः स कर्णनामकोऽभवत् ॥ । १५२॥
स रत्नपूर्णमञ्जुषागतो विसर्जितो जले ।
जनापवादभीतितस्तया यमस्वसुर्द्रुतम् ॥ । १५३॥
नदीप्रवाहतो गतं ददर्श सूतनन्दनः ।
तमग्रहीत् सरत्नकं चकार पुत्रकं निजम् ॥ । १५४॥
सूतेनाधिरथेन लाळिततनुस्तद्भार्यया राधया ।
संवृद्धो निखिलाः श्रुतीरधिजगौ शास्त्राणि सर्वाणि च ।
बाल्यादेव महाबलो निजगुणैः सम्भासमानोऽवस\- न्नाम्नाऽसौ वसुषेणतामगमदस्याऽसीद्ध्यमा तद् वसु ॥ । १५५॥
अथ कुन्ती दत्ता सा पाण्डोः सोऽप्येतया चिरं रेमे ।
शूराच्छूद्र्यां जातां विदुरोऽवहदारुणीं गुणाढ्यां च ॥ । १५६॥
अथ चर्तायननामा मद्रेशः शक्रतुल्यपुत्रार्थी ।
कन्यारत्नं चेच्छंश्चक्रे ब्राह्मं तपो वरं चाऽप ॥ । १५७॥
प्रह्लादावरजो यः सह्लादो नामतो हरेर्भक्तः ।
सोऽभूद् ब्रह्मवरान्ते वायोरावेशयुक् सुतो राज्ञः ॥ । १५८॥
स मारुतावेशवशात् पृथिव्यां बलाधिकोऽभूद् वरतश्च धातुः ।
शल्यश्च नाम्नाऽखिलशत्रुशल्यो बभूव कन्याऽस्य च माद्रिनाम्नी ॥ । १५९॥
सा पाण्डुभार्यैव च पूर्वजन्मन्यभूत् पुनश्च प्रतिपादिताऽस्मै ।
शल्यश्च राज्यं पितृदत्तमञ्जो जुगोप धर्मेण समस्तशास्त्रवित् ॥ । १६०॥
अथाङ्गनारत्नमवाप्य तद् द्वयं पाण्डुस्तु भोगान् बुभुजे यथेष्टतः ।
अपीपलद् धर्मसमाश्रयो महीं ज्येष्ठापचायी विदुरोक्तमार्गतः ॥ । १६१॥
भीष्मो हि राष्ट्रे धृतराष्ट्रमेव संस्थाप्य पाण्डुं युवराजमेव ।
चक्रे तथाऽप्यन्ध इति स्म राज्यं चकार नासावकरोच्च पाण्डुः ॥ । १६२॥
भीष्माम्बिकेयोक्तिपरः सदैव पाण्डुः शशासावनिमेकवीरः ।
अथाऽम्बिकेयो बहुभिश्च यज्ञैरीजे सपाण्डुश्च महाधनौघैः ॥ । १६३॥
नैषा विरोधे कुरुपाण्डवानां तिष्ठेदिति व्यास उदीर्णसद्गुणः ।
स्वमातरं स्वाश्रममेव निन्ये स्नुषे च तस्या ययतुः स्म तामनु ॥ । १६४॥
सुतोक्तमार्गेण विचिन्त्य तं हरिं सुतात्मना ब्रह्मतया च सा ययौ ।
परं पदं वैष्णवमेव कृष्णप्रसादतः स्वर्ययतुः स्नुषे च ॥ । १६५॥
माता च सा विदुरस्याऽप लोकं वैरिञ्चमन्वेव गताऽम्बिकां सती ।
व्यासप्रसादात् सुतसद्गुणैश्च कालेन मुक्तिं च जगाम सन्मतिः ॥ । १६६॥
अम्बालिकाऽपि क्रमयोगतोऽगात् परां गतिं नैव तथाऽम्बिका ययौ ।
यथायथा विष्णुपरश्चिदात्मा तथातथा ह्यस्य गतिः परत्र ॥ । १६७॥
पाण्डुस्ततो राज्यभरं निधाय ज्येष्ठेऽनुजे चैव वनं जगाम ।
पत्नीद्वयेनानुगतो बदर्यामुवास नारायणपालितायाम् ॥ । १६८॥
गृहाश्रमेणैव वने निवासं कुर्वन् स भोगान् बभुजे तपश्च ।
चक्रे मुनीन्द्रैः सहितो जगत्पतिं रमापतिं भक्तियुतोऽभिपूजयन् ॥ । १६९॥
स कामतो हरिणत्वं प्रपन्नं दैवादृषिं ग्राम्यकर्मानुषक्तम् ।
विद्ध्वा शापं प्राप तस्मात् स्त्रिया युङ् मरिष्यसीत्येव बभूव चाऽर्तः ॥ । १७०॥
न्यसिष्णुरुक्तः पृथया स नेति प्रणामपूर्वं न्यवसत् तथैव ।
ताभ्यां समेतः शतशृङ्गपर्वते नारायणस्याऽश्रममध्यगे पुरः ॥ । १७१॥
तपो नितान्तं स चचार ताभ्यां समन्वितः कृष्णपदाम्बुजाश्रयः ।
तत्सङ्गपूतद्युसरिद्वराम्भःसदावगाहातिपवित्रिताङ्गः ॥ । १७२॥
एतस्मिन्नेव काले कमलभवशिवाग्रेसराः शक्रपूर्वा ।
भूम्या पापात्मदैत्यैर्भुवि कृतनिलयैराक्रमं चासहन्त्या ।
ईयुर्देवादिदेवं शरणमजमुरुं पूर्णषाड्गुण्यमूर्तिं क्षीराब्धौ नागभोगे शयितमनुपमानन्दसन्दोहदेहम् ॥ । १७३॥
ऊचुः परं पुरुषमेनमनन्तशक्तिं सूक्तेन तेऽब्जजमुखा अपि पौरुषेण ।
स्तुत्वा धराऽसुरवराक्रमणात् परेश खिन्ना यतो हि विमुखास्तव तेऽतिपापाः ॥ । १७४॥
दुस्सङ्गतिर्भवति भारवदेव देव नित्यं सतामपि हि नः शृणु वाक्यमीश ।
पूर्वं हता दितिसुता भवता रणेषु ह्यस्मत्प्रियार्थमधुना भुवि तेऽभिजाताः ॥ । १७५॥
आसीत् पुरा दितिसुतैरमरोत्तमानां सङ्ग्राम उत्तमगजाश्वरथद्विपद्भिः ।
अक्षोहिणी शतमहौघमहौघमेव सैन्यं सुरात्मकमभूत् परमास्त्रयुक्तम् ।
तस्मान्महौघगुणमास महासुराणां सैन्यं शिलागिरिमहास्त्रधरं सुघोरम् ॥ । १७६॥
तेषां रथाश्च बहुनल्वपरिप्रमाणा देवासुरप्रवरकार्मुकबाणपूर्णाः ।
नानाम्बराभरणवेषवरायुधाढ्या देवासुराः ससृपुराशु परस्परं ते ॥ । १७७॥
जघ्नुर्गिरीन्द्रतळमुष्टिमहास्त्रशस्त्रैश्चक्रुर्नदीश्च रुधिरौघवहा महौघम् ।
तत्र स्म देववृषभैरसुरेशचम्वा युद्धे निसूदित उतौघबलैः शतांशः ॥ । १७८॥
अथाऽत्मसेनामवमृद्यमानां वीक्ष्यासुरः शम्बरनामधेयः ।
ससार मायाविदसँह्यमायो वरादुमेशस्य सुरान् विमोहयन् ॥ । १७९॥
मायासहस्रेण सुराः समर्द्दिता रणे विषेदुः शशिसूर्यमुख्याः ।
तान् वीक्ष्य वज्री परमां तु विद्यां स्वयम्भुदत्तां प्रयुयोज वैष्णवीम् ॥ । १८०॥
समस्तमायापहया तयैव वराद् रमेशस्य सदाऽप्यसँह्यया ।
माया विनेशुर्दितिजेन्द्रसृष्टा वारीशवह्नीन्द्रमुखाश्च मोचिताः ॥ । १८१॥
यमेन्दुसूर्यादिसुरास्ततोऽसुरान् निजघ्नुराप्यायितविक्रमास्तदा ।
सुरेश्वरेणोर्जितपौरुषा बहून् वज्रेण वज्री निजघान शम्बरम् ॥ । १८२॥
तस्मिन् हते दानवलोकपाले दितेः सुता दुद्रुवुरिन्द्रभीषिताः ।
तान् विप्रचित्तिर्विनिवार्य धन्वी ससार शक्रप्रमुखान् सुरोत्तमान् ॥ । १८३॥
वरादजेयेन विधातुरेव सुरोत्तमांस्तेन शरैर्निपातितान् ।
निरीक्ष्य शक्रं च विमोहितं द्रुतं न्यवारयत् तं पवनः शरौघैः ॥ । १८४॥
अस्त्राणि तस्यास्त्रवरैर्निवार्य चिक्षेप तस्योरसि काञ्चनीं गदाम् ।
विचूर्णितोऽसौ निपपात मेरौ महाबलो वायुबलाभिनुन्नः ॥ । १८५॥
अथाऽससादाऽशु स कालनेमिस्त्वदाज्ञया यस्य वरं ददौ पुरा ।
सर्वैरजेयत्वमजोऽसुरः ससहस्रशीर्षो द्विसहस्रबाहुयुक् ॥ । १८६॥
तमापतन्तं प्रसमीक्ष्य मारुतस्त्वदाज्ञया दत्तवरस्त्वयैव ।
हन्तव्य इत्यस्मरदाशु हि त्वां तदाऽऽविरासीस्त्वमनन्तपौरुषः ॥ । १८७॥
तमस्त्रशस्त्राणि बहूनि बाहुभिः प्रवर्षमाणं भुवनाप्तदेहम् ।
चक्रेण बाहून् विनिकृत्य कानि च न्यवेदयश्चाऽशु यमाय पापम् ॥ । १८८॥
ततोऽसुरास्ते निहता अशेषास्त्वया त्रिभागा निहताश्चतुर्थम् ।
जघान वायुः पुनरेव जातास्ते भूतळे धर्मबलोपपन्नाः ॥ । १८९॥
राज्ञां महावंशसुजन्मनां तु तेषामभूद् धर्ममतिर्विपापा ।
शिक्षामवाप्य द्विजपुङ्गवानां त्वद्भक्तिरप्येषु हि काचन स्यात् ॥ । १९०॥
त्वद्भक्तिलेशाभियुतः सुकर्मा व्रजेन्न पापां तु गतिं कथञ्चित् ।
दैत्येश्वराणां च तमोऽन्धमेव त्वयैव क्लृप्तं ननु सत्यकाम ॥ । १९१॥
धर्मस्य मिथ्यात्वभयाद् वयं त्वामथापिवा दैत्यशुभाप्तिभीषा ।
सम्प्रार्थयामो दितिजान् सुकर्मणस्त्वद्भक्तितश्च्यावयितुं च शीघ्रम् ॥ । १९२॥
य उग्रसेनः सुरगायकः स जातो यदुष्वेष तथाऽभिधेयः ।
तवैव सेवार्थममुष्य पुत्रो जातोऽसुरः कालनेमिः स ईश ॥ । १९३॥
यस्त्वत्प्रियार्थं न हतो हि वायुना भवत्प्रसादात् परमीशिताऽपि ।
स एष भोजेषु पुनश्च जातो वरादुमेशस्य परैरजेयः ॥ । १९४॥
स औग्रसेने जनितोऽसुरेण क्षेत्रे हि तद्रूपधरेण मायया ।
गन्धर्विजेन द्रमिळेन नाम्ना कंसो जितो येन वराच्छचीपतिः ॥ । १९५॥
जित्वा जलेशं च हृतानि येन रत्नानि यक्षाश्च जिताः शिवस्य ।
कन्यावनार्थं मगधाधिपेन प्रयोजितास्ते च हृते बलेन ॥ । १९६॥
स विप्रचित्तिश्च जरासुतोऽभूद् वराद् विधातुर्गिरिशस्य चैव ।
सर्वैरजेयो बलमुत्तमं ततो ज्ञात्वैव कंसस्य मुदा सुते ददौ ॥ । १९७॥
निवारयामास न कंसमुद्धतं शक्तोऽपि यो यस्य बले न कश्चित् ।
तुल्यः पृथिव्यां विवरेषु वा क्वचिद् वशे बलाद् यो नृपतीश्च चक्रे ॥ । १९८॥
हतौ पुरा यौ मधुकैटभाख्यौ त्वयैव हंसो डिभकश्च जातौ ।
वरादजेयौ गिरिशस्य वीरौ भक्तौ जरासन्धमनु स्म तौ शिवे ॥ । १९९॥
अन्येऽपि भूमावसुराः प्रजातास्त्वया हता ये सुरदैत्यसङ्गरे ।
अन्ये तथैवान्धतमः प्रपेदिरे कार्या तथैषां च तमोगतिस्त्वया ॥ । २००॥
व्यासावतारे निहतस्त्वयायः कलिः सुशास्त्रोक्तिभिरेव चाद्य ।
श्रुत्वा त्वदुक्तीः पुरुषेषु तिष्ठन्नीषच्चकारेव मनस्त्वयीश ॥ । २०१॥
रामात्मना ये निहताश्च राक्षसा दृष्ट्वा बलं तेऽपि तदा तवाद्य ।
समं तवान्यं नहि चिन्तयन्ति सुपापिनोऽपीश तथा हनूमतः ॥ । २०२॥
ये केशव त्वद्बहुमानयुक्तास्तथैव वायौ नहि ते तमोऽन्धम् ।
योग्याः प्रवेष्टुं तदतो हि मार्गाच्चाल्यास्त्वया जनयित्वैव भूमौ ॥ । २०३॥
नितान्तमुत्पाद्य भवद्विरोधं तथाच वायौ बहुभिः प्रकारैः ।
सर्वेषु देवेषु च पातनीयास्तमस्यथान्धे कलिपूर्वकासुराः ॥ । २०४॥
हतौ च यौ रावणकुम्भकर्णौ त्वया त्वदीयौ प्रतिहारपालौ ।
महासुरावेशयुतौ हि शापात् त्वयैव तावद्य विमोचनीयौ ॥ । २०५॥
यौ तौ तवारी ह तयोः प्रविष्टौ दैत्यौ तु तावन्धतमः प्रवेश्यौ ।
यौ तौ त्वदीयौ भवदीयवेश्म त्वया पुनः प्रापणीयौ परेश ॥ । २०६॥
आविश्य यो बलिमञ्जश्चकार प्रतीपमस्मासु तथा त्वयीश ।
स चासुरो बलिनामैव भूमौ साल्वो नाम्ना ब्रह्मदत्तस्य जातः ॥ । २०७॥
मायामयं तेन विमानमग्र्यमभेद्यमाप्तं सकलैर्गिरीशात् ।
विद्रावितो यो बहुशस्त्वयैव रामस्वरूपेण भृगूद्वहेन ॥ । २०८॥
नासौ हतः शक्तिमताऽपि तत्र कृष्णावतारे स मयैव वध्यः ।
इत्यात्मसङ्कल्पमृतं विधातुं स चात्र वध्यो भवताऽतिपापी ॥ । २०९॥
यदीयमारुह्य विमानमस्य पिताऽभवत् सौभपतिश्च नाम्ना ।
यदा स भीष्मेण जितः पिताऽस्य तदा स साल्वस्तपसि स्थितोऽभूत् ॥ । २१०॥
स चाद्य तस्मात् तपसो निवृत्तो जरासुतस्यानुमते स्थितो हि ।
अनन्यवध्यो भवताऽद्य वध्यः स प्रापणीयश्च तमस्यथोग्रे ॥ । २११॥
यो बाणमाविश्य महासुरोऽभूत् स्थितः स नाम्ना प्रथितोऽपि बाणः ।
स कीचको नाम बभूव रुद्रवरादवध्यः स तमः प्रवेश्यः ॥ । २१२॥
अतस्त्वया भुव्यवतीर्य देवकार्याणि कार्याण्यखिलानि देव ।
त्वमेव देवेश गतिः सुराणां ब्रह्मेशशक्रेन्दुयमादिकानाम् ॥ । २१३॥
त्वमेव नित्योदितपूर्णशक्तिस्त्वमेव नित्योदितपूर्णचिद्धनः ।
त्वमेव नित्योदितपूर्णसत्सुखस्त्वाद्दृङ् न कश्चित् कुत एव तेऽधिकः ॥ । २१४॥
इतीरितो देववरैरुदारगुणार्णवोऽक्षोभ्यतमामृताकृतिः ।
उत्थाय तस्मात् प्रययावनन्तसोमार्ककान्तिद्युतिरन्वितोऽमरैः ॥ । २१५॥
स मेरुमाप्याऽह चतुर्मुखं प्रभुर्यत्र त्वयोक्तोऽस्मि हि तत्र सर्वथा ।
प्रादुर्भविष्ये भवतो हि भक्त्या वशस्त्विवाहं स्ववशोऽपि चेच्छया ॥ । २१६॥
ब्रह्मा प्रणम्याऽह तमात्मकारणं प्रादां पुराऽहं वरुणाय गाः शुभाः ।
जहार तास्तस्य पिताऽमृतस्रवाः स कश्यपो द्राक् सहसाऽतिगर्वितः ॥ । २१७॥
मात्रा त्वदित्या च तथा सुरभ्या प्रचोदितेनैव हृतासु तासु ।
श्रुत्वा जलेशात् स मया तु शप्तः क्षत्रेषु गोजीवनको भवेति ॥ । २१८॥
शूरात् स जातो बहुगोधनाढ्यो भूमौ यमाहुर्वसुदेव इत्यपि ।
तस्यैव भार्या त्वदितिश्च देवकी बभूव चान्या सुरभिश्च रोहिणी ॥ । २१९॥
तत् त्वं भवस्वाऽशु च देवकीसुतस्तथैव यो द्रोणनामा वसुः सः ।
स्वभार्यया धरया त्वत्पितृत्वं प्राप्तुं तपस्तेप उदारमानसः ॥ । २२०॥
तस्मै वरः स मया सन्निसृष्टः स चाऽस नन्दाख्य उतास्य भार्या ।
नम्ना यशोदा स च शूरतातसुतस्य वैश्याप्रभवोऽथ गोपः ॥ । २२१॥
तौ देवकीवसुदेवौ च तेपतुस्तपस्त्वदीयं सुतमिच्छमानौ ।
त्वामेव तस्मात् प्रथमं प्रदर्श्य तत्र स्वरूपं हि ततो व्रजं व्रज ॥ । २२२॥
इतीरिते सोऽब्जभवेन केशवस्तथेति चोक्त्वा पुनराह देवताः ।
सर्वे भवन्तो भवताऽशु मानुषे कार्यानुसारेण यथानुरूपतः ॥ । २२३॥
अथावतीर्णाः सकलाश्च देवता यथायथैवाऽह हरिस्तथातथा ।
वित्तेश्वरः पूर्वमभूद्धि भौमाद्धरेः सुतत्वेऽपि तदिच्छयाऽसुरात् ॥ । २२४॥
पापेन तेनापहृतो हि हस्ती शिवप्रदत्तः सुप्रतीकाभिधानः ।
तदर्थमेवास्य सुतोऽभिजातो धनेश्वरो भगदत्ताभिधानः ॥ । २२५॥
महासुरस्यांशयुतः स एव रुद्रावेशाद् बलवानस्त्रवांश्च ।
शिष्यो महेन्द्रस्य हते बभूव ताते स्वधर्माभिरतश्च नित्यम् ॥ । २२६॥
अभूच्छिनिर्नाम यदुप्रवीरस्तस्याऽत्मजः सत्यक आस तस्मात् ।
कृष्णः पक्षो युयुधानाभिधेयो गुरुत्मतोऽंशेन युतो बभूव ॥ । २२७॥
यः संवहो नाम मरुत् तदंशश्चक्रस्य विष्णोश्च बभूव तस्मिन् ।
यदुष्वभूद्धृदिको भोजवंशे सितः पक्षस्तस्य सुतो बभूव ॥ । २२८॥
स पाञ्चजन्यांशयुतो मरुत्सु तथाऽंशयुक्तः प्रवहस्य वीरः ।
नामास्य चाभूत् कृतवर्मेत्यथान्ये ये यादवास्तेऽपि सुराः सगोपाः ॥ । २२९॥
ये पाण्डवानामभवन् सहाया देवाश्च देवानुचराः समस्ताः ।
अन्ये तु सर्वेऽप्यसुरा हि मध्यमा ये मानुषास्ते चलबुद्धिप्रवृत्तयः ॥ । २३०॥
लिङ्गं सुराणां हि परैव भक्तिर्विष्णौ तदन्येषु च तत्प्रतीपता ।
अतोऽत्र येये हरिभक्तितत्परास्तेते सुरास्तद्भरिता विशेषतः ॥ । २३१॥