अथाभ्यवर्धंश्चतुराः कुमारा नृपस्य गेहे पुरुषोत्तमाद्याः

चतुर्थोऽध्यायः
सर्वशास्त्रतात्पर्यनिर्णयः

औं ॥ अथाभ्यवर्धंश्चतुराः कुमारा नृपस्य गेहे पुरुषोत्तमाद्याः ।

नित्यप्रवृद्धस्य च तस्य वृद्धिरपेक्ष्य लोकस्य हि मन्ददृष्टिम् ॥ १॥

निरीक्ष्य नित्यं चतुरः कुमारान् पिता मुदं सन्ततमाप चोच्चम् ।

विशेषतो राममुखेन्दुबिम्बमवेक्ष्य राजा कृतकृत्य आसीत् ॥ २॥

तन्मातरः पौरजना अमात्या अन्तःपुरा वैषयिकाश्च सर्वे ।

अवेक्षमाणाः परमं पुमांसं स्वानन्दतृप्ता इव सम्बभूवुः ॥ ३॥

ततः सुवंशे शशिनः प्रसूतो गाधीति शक्रस्तनुजोऽस्य चाऽसीत् ।

वरेण विप्रत्वमवाप योऽसौ विश्वस्य मित्रं स इहाऽजगाम ॥ ४॥

तेनार्थितो यज्ञरिरक्षयैव कृच्छ्रेण पित्राऽस्य भयाद् विसृष्टः ।

जगाम रामः सह लक्ष्मणेन सिद्धाश्रमं सिद्धजनाभिवन्द्यः ॥ ५॥

अनुग्रहार्थं स ऋषेरवाप सलक्ष्मणोऽस्त्रं मुनितो हि केवलम् ।

ववन्दिरे ब्रह्ममुखाः सुरेशास्तमस्त्ररूपाः प्रकटाः समेत्य ॥ ६॥

अथो जघानाऽऽशु शरेण ताटकां वराद् विधातुस्तदनन्यवध्याम् ।

ररक्ष यज्ञं च मुनेर्निहत्य सुबाहुमीशानगिरा विमृत्युम् ॥ ७॥

शरेण मारीचमथार्णवेऽक्षिपद् वचो विरिञ्चस्य तु मानयानः ।

अवध्यता तेन हि तस्य दत्ता जघान चान्यान् रजनीचरानथ ॥ ८॥

तदा विदेहेन सुतास्वयंवरो विघोषितो दिक्षु विदिक्षु सर्वशः ।

निधार्य तद् गाधिसुतानुयायी ययौ विदेहाननुजानुयातः ॥ ९॥

अथो अहल्यां पतिनाऽभिशप्तां प्रधर्षणादिन्द्रकृताच्छिलीकृताम् ।

स्वदर्शनान्मानुषतामुपेतां सुयोजयामास स गौतमेन ॥ १०॥

बलं स्वभक्तेरधिकं प्रकाशयन्ननुग्रहं च त्रिदशेष्वतुल्यम् ।

अनन्यभक्तां च सुरेशकाङ्क्षया विधाय नारीं प्रययौ तयाऽर्चितः ॥ ११॥

श्यामावदाते जगदेकसारे स्वनन्तचन्द्राधिककान्तिकान्ते ।

सहानुजे कार्मुकबाणपाणौ पुरीं प्रविष्टे तुतुषुर्विदेहजाः ॥ १२॥

पपुर्नितान्तं सरसाक्षिभृङ्गैर्वराननाब्जं पुरुषोत्तमस्य ।

विदेहनारीनरवर्यसङ्घा यथा महापूरुषिकास्तदङ्घ्रिम् ॥ १३॥

तथा विदेहः प्रतिलभ्य रामं सहस्रनेत्रावरजं गविष्ठम् ।

समर्चयामास सहानुजं तमृषिं च साक्षाज्ज्वलनप्रकाशम् ॥ १४॥

मेने च जामातरमात्मकन्यागुणोचितं रूपनवावतारम् ।

उवाच चास्मै ऋषिरुग्रतेजाः कुरुष्व जामातरमेनमाश्विति ॥ १५॥

स आह चैनं परमं वचस्ते करोमि नात्रास्ति विचारणा मे ।

शृणुष्व मेऽथापि यथा प्रतिज्ञा सुताप्रदानाय कृता पुरस्तात् ॥ १६॥

तपो मया चीर्णमुमापतेः पुरा वरायुधावाप्तिधृतेन चेतसा ।

स मे ददौ दिव्यमिदं धनुस्तदा कथञ्चनाचाल्यमृते पिनाकिनम् ॥ १७॥

न देवदैत्योरगदेवगायका अलं धनुश्चालयितुं सवासवाः ।

कुतो नरास्तद्वरतो हि किङ्करा सहानसैवात्र कृषन्ति कृच्छ्रतः ॥ १८॥

अधार्यमेतद् धनुराप्य शङ्करादहं नृणां वीर्यपरीक्षणे धृतः ।

सुतार्थमेतां चकर प्रतिज्ञां ददामि कन्यां य इदं हि पूरयेत् ॥ १९॥

इतीरितां मे गिरमभ्यवेत्य दितेः सुता दानवयक्षराक्षसाः ।

समेत्य भूपाश्च समीपमाशु प्रगृह्य तच्चालयितुं न शेकुः ॥ २०॥

संस्विन्नगात्राः परिवृत्तनेत्रा दशाननाद्याः पतिता विमूर्छिताः ।

तथाऽपि मां धर्षयितुं न शेकुः सुताकृते ते वचनां स्वयम्भुवः ॥ २१॥

पुरा हि मेऽदात् प्रभुरब्जजो वरं प्रसादितो मे तपसा कथञ्चन ।

बलान्न ते कश्चिदुपैति कन्यकां तदिच्छुभिस्ते न च धर्षणेति ॥ २२॥

ततस्तु ते नष्टमदा इतो गताः समस्तशो ह्यस्तन एव पार्थिवाः ।

ततो ममायं प्रतिपूर्य मानसं वृणोतु कन्यामयमेव मेऽर्थितः ॥ २३॥

तथेति चोक्ते मुनिना स किङ्करैरनन्तभोगोपममाश्वथाऽनयत् ।

समीक्ष्य तद् वामकरेण राघवः सलीलमुद्धृत्य हसन्नपूरयत् ॥ २४॥

विकृष्यमाणं तदनन्तराधसा परेण निःसीमबलेन लीलया ।

अभज्यतासह्यममुष्य तद् बलं प्रसोढुमीशं कुत एव तद् भवेत् ॥ २५॥

स मध्यतस्तत् प्रविभज्य लीलया यथेक्षुदण्डं शतमन्युकुञ्जरः ।

विलोकयन् वक्त्रमृषेरवस्थितः सलक्ष्मणः पूर्णतनुर्यथा शशी ॥ २६॥

तमब्जनेत्रं पृथुतुङ्गवक्षसं श्यामावदातं चलकुण्डलोज्ज्वलम् ।

शशक्षतोत्थोपमचन्दनोक्षितं ददर्श विद्युद्वसनं नृपात्मजा ॥ २७॥

अथो कराभ्यां प्रतिगृह्य मालामम्लानपद्मां जलजायताक्षी ।

उपेत्य मन्दं लळितैः पदैस्तां तदंस आसज्य च पार्श्वतोऽभवत् ॥ २८॥

ततः प्रमोदो नितरां जनानां विदेहपुर्यामभवत् समन्तात् ।

रामं समालोक्य नरेन्द्रपुत्र्या समेतमानन्दनिधिं परेशम् ॥ २९॥

लक्ष्म्या समेते प्रकटं रमेशे सम्प्रेषयामास तदाऽऽशु पित्रे ।

' विदेहराजो दशदिग्रथाय स तन्निशम्याऽशु तुतोष भूमिपः' ॥ ३०॥

(भा\.पु\. ७\.८\.३६) अथाऽत्मजाभ्यां सहितः सभार्यो ययौ गजस्यन्दनपत्तियुक्तया ।

स्वसेनयाऽग्रे प्रणिधाय धातृजं वसिष्ठमाश्वेव स यत्र मैथिलः ॥ ३१॥

स मैथिलेनातितरां समर्चितो विवाहयामास सुतं मुदम्भरः ।

पुरोहितो गाधिसुतानुमोदितो जुहाव वह्निं विधिना वसिष्ठः ॥ ३२॥

तदा विमानावलिभिर्नभस्तळं दिदृक्षतां सङ्कुलमास नाकिनाम् ।

सुरानका दुन्दभयो' विनेदिरे जगुश्व गन्धर्ववराः सहस्रशः ॥ ३३॥

विजानमाना जगतां हि मातरं पुराऽर्थितुं नाऽययुरत्र देवताः ।

तदा तु रामं रमया युतं प्रभुं दिदृक्षवश्चक्रुरलं नभस्तळम् ॥ ३४॥

यथा पुरा सागरजास्वयंवरे सुमानसानामभवत् समागमः ।

तथा ह्यभूत् सर्वदिवौकसां तदा तथा मुनीनां सहभूभृतां भुवि ॥ ३५॥

प्रगृह्य पाणिं च नृपात्मजाया रराज राजीवसमाननेत्रः ।

यथा पुरा सागरजासमेतः सुरासुराणाममृताब्धिमन्थने ॥ ३६॥

स्वलङ्कृतास्तत्र विचेरुरङ्गना विदेहराजस्य च या हि योषितः ।

मुदा समेतं रमया रमापतिं विलोक्य रामाय ददौ धनं नृपः ॥ ३७॥

प्रियाणि वस्त्राणि रथान् सकुञ्जरान् परार्द्ध्यरत्नान्यखिलस्य चेशितुः ।

ददौ च कन्यात्रयमुत्तमं मुदा तदा स रामावरजेभ्य एव ॥ ३८॥

महोत्सवं तं त्वनुभूय देवता नराश्च सर्वे प्रययुर्यथागतम् ।

पिता च रामस्य सुतैः समन्वितो ययावयोध्यां स्वपुरीं मुदा ततः ॥ ३९॥

तदन्तरे सोऽथ ददर्श भार्गवं सहस्रलक्षामितभानुदीधितिम् ।

विभासमानं निजरश्मिमण्डले धनुर्धरं दीप्तपरश्वधायुधम् ॥ ४०॥

अजानतां राघवमादिपूरुषं समागतं ज्ञापयितुं निदर्शनैः ।

समाह्वयन्तं रघुपं स्पृधेव नृपो ययाचे प्रणिपत्य भीतः ॥ ४१॥

न मे सुतं हन्तुमिहार्हसि प्रभो वयोगतस्येत्युदितः स भार्गवः ।

सुतत्रयं ते प्रददामि राघवं रणे स्थितं द्रष्टुमिहाऽऽगतोऽस्म्यहम् ॥ ४२॥

स इत्थमुक्त्वा नृपतिं रघूत्तमं भृगूत्तमः प्राह निजां तनुं हरिः ।

अभेदमज्ञेष्वभिदर्शयन् परं पुरातनोऽहं हरिरेष इत्यपि ॥ ४३॥

शृणुष्व राम त्वमिहोदितं मया धनुर्द्वयं पूर्वमभून्महाद्भुतम् ।

उमापतिस्त्वेकमधारयत् ततो रमापतिश्चापरमुत्तमोत्तमम् ॥ ४४॥

तदा तु लोकस्य निदर्शनार्थिभिः समर्थितौ तौ हरिशङ्करौ सुरैः ।

रणस्थितौ वां प्रसमीक्षितुं वयं समर्थयामोऽत्र निदर्शनार्थिनः ॥ ४५॥

ततो हि युद्धाय रमेशशङ्करौ व्यवस्थितौ तौ धनुषी प्रगृह्य ।

यतोऽन्तरस्यैष नियामको हरिस्ततो हरोऽग्रेऽस्य शिलोपमोऽभवत् ॥ ४६॥

शशाक नैवाथ यदाऽभिवीक्षितुं प्रस्पन्दितुं वा कुत एव योद्धुम् ।

शिवस्तदा देवगणः समस्ताः शशंसुरुच्चैर्जगतो हरेर्बलम् ॥ ४७॥

यदीरणेनैव विनैष शङ्करः शशाक न प्रश्वसितुं च केवलम् ।

किमत्र वक्तव्यमतो हरेर्बलं हरात् परं सर्वत एव चेति ॥ ४८॥

ततः प्रणम्याऽऽशु जनार्दनं हरः प्रसन्नदृष्ट्या हरिणाऽभिवीक्षितः ।

जगाम कैलासममुष्य तद् धनुस्त्वया प्रभग्नं किल लोकसन्निधौ ॥ ४९॥

धनुर्यदन्यद्धरिहस्तयोग्यं तत्कार्मुकात् कोटिगुणं पुनश्च ।

वरं हि हस्ते तदिदं गृहीतं मया गृहाणैतदतो हि वैष्णवम् ॥ ५०॥

यदीदमागृह्य विकर्षसि त्वं तदा हरिर्नात्र विचार्यमस्ति ।

इति ब्रुवाणः प्रददौ धनुर्वरं प्रदर्शयत् विष्णुबलं हराद् वरम् ॥ ५१॥

प्रगृह्य तच्चापवरं स राघवश्चकार सज्यं निमिषेण लीलया ।

चकर्ष सन्धाय शरं च पश्यतः समस्तलोकस्य च संशयं नुदन् ॥ ५२॥

प्रदर्शिते विष्णुबले समस्ततो हराच्च निःसङ्ख्यतया महाधिके ।

जगाद मेघौघगभीरया गिरा स राघवं भार्गव आदिपूरुषः ॥ ५३॥

अलं बलं ते जगतोऽखिलाद् वरं परोऽसि नारायण एव नान्यथा ।

विसर्जयस्वेह शरं तपोमये महासुरे लोकमये वराद् विभोः ॥ ५४॥

पुरोऽतुलो नाम महासुरोऽभवद् वरात् स तु ब्रह्मण आप लोकताम् ।

पुनश्च तं प्राह जगद्गुरुर्यदा हरिर्जितः स्याद्धि तदैव वध्यसे ॥ ५५॥

अतो वधार्थं जगदन्तकस्य सर्वाजितोऽहं जितवद् व्यवस्थितः ।

इतीरिते लोकमये स राघवो मुमोच बाणं जगदन्तकेऽसुरे ॥ ५६॥

पुरा वरोऽनेन शिवोपलम्भितो मुमुक्षया विष्णुतनुप्रवेशनम् ।

स तेन रामोदरगो बहिर्गतस्तदाज्ञयैवाऽऽशु बभूव भस्मसात् ॥ ५७॥

इतीव रामाय स राघवः शरं विकर्षमाणो विनिहत्य चासुरम् ।

तपस्तदीयं प्रवदन् मुमोद तदीयमेव ह्यभवत् समस्तम् ॥ ५८॥

निरन्तरानन्तविबोधसारः स जानमानोऽखिलमादिपूरुषः ।

वदञ्छृणोतीव विनोदतो हरिः स एक एव द्वितनुर्मुमोद ॥ ५९॥

स चेष्टितं चैव निजाश्रयस्य जनस्य सत्तत्त्वविबोधकारणम् ।

विमोहकं चान्यतमस्य कुर्वन् चिक्रीड एकोऽपि नरान्तरे यथा ॥ ६०॥

ततः स कारुण्यनिधिर्निजे जने नितान्तमैक्यं स्वगतं प्रकाशयन् ।

द्विधेव भूत्वा भृगुवर्य आत्मना रघूत्तमेनैक्यमगात् समक्षम् ॥ ६१॥

समेत्य चैक्यं जगतोऽभिपश्यतः प्रणुद्य शङ्कामखिलां जनस्य ।

प्रदाय रामाय धनुर्वरं तदा जगाम रामानुमतो रमापतिः ॥ ६२॥

ततो नृपोऽत्यर्थमुदाऽभिपूरितः सुतैः समस्तैः स्वपुरीमवाप ह ।

रेमेऽथ रामोऽपि रमास्वरूपया तयैव राजात्मजया हि सीतया ॥ ६३॥

यथा पुरा श्रीरमणः श्रिया तया रतो नितान्तं हि पयोब्धिमध्ये ।

तथा त्वयोध्यापुरिगो रघूत्तमोऽप्युवास कालं सुचिरं रतस्तया ॥ ६४॥

इमानि कर्माणि रघूत्तमस्य हरेर्विचित्राण्यपि नाद्भुतानि ।

दुरन्तशक्तेरथ चास्य वैभवं स्वकीयकर्तव्यतयाऽनुवर्ण्यते ॥ ६५॥

{इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते}

{श्रीमहाभारततात्पर्यनिर्णये}

{रामावतारे अयोध्याप्रवेशो नाम चतुर्थोऽध्यायः}