ततः सम्मन्त्र्यानुमते कृष्णस्य स्वपुरोहितम्
चतुर्विंशोऽध्यायः
सर्वशास्त्रतात्पर्यनिर्णयः
औं ॥ ततः सम्मन्त्र्यानुमते कृष्णस्य स्वपुरोहितम् ।
द्रुपदः प्रेषयामास धृतराष्ट्राय शान्तये ॥ १॥
स गत्वा धृतराष्ट्रं तं भीष्मद्रोणादिभिर्युतम् ।
उवाच न विरोधस्त उत्पाद्यो धर्मसूनुना ।
यस्य भीमार्जुनौ यौधौ नेता यस्य जनार्दनः ॥ २॥
श्रुतास्ते भीमनिहता जरासन्धादयोऽखिलाः ।
यथा च रुद्रवचनादवध्या राक्षसाधिपाः ॥ ३॥
तीर्थविघ्नकराः सर्वतीर्थान्याच्छाद्य संस्थिताः ।
तिस्रः कोट्यो महावीर्या भीमेनैव निसूदिताः ॥ ४॥
भ्रात्Qणां ब्राह्मणानां च लोकानां च हितैषिणा ।
ततो हि सर्वतीर्थानि गम्यान्यासन् नृणां क्षितौ ॥ ५॥
यथा जटासुरः पापः शर्वाणीवरसंश्रयात् ।
अवध्यो विप्ररूपेण वञ्चयन्नेव पाण्डवान् ॥ ६॥
ज्ञात्वाऽपि भीमसेनेन विप्ररूपस्य नो वधः ।
योग्य इत्यहतो भीमे मृगयार्थं गते क्वचित् ॥ ७॥
यमौ युधिष्ठिरं कृष्णां चाऽदायैव पराद्रवत् ।
दृष्टो भीमेन तांस्त्यक्त्वा संसक्तस्तेन सङ्गरे ॥ ८॥
निपात्य भूमौ पादेन सञ्चूर्णितशिरास्तमः ।
जगाम किमु ते पुत्राः शक्या हन्तुमिति स्म ह ॥ ९॥
निवातकवचाश्चैव हताः पार्थेन ते श्रुताः ।
जानासि च हरेर्वीर्यं यस्येदमखिलं वशे ।
सब्रह्मरुद्रशक्राद्यं चेतनाचेतनात्मकम् ॥ १०॥
तस्मादेतैः पालितस्य धर्मजस्य स्वकं वसु ।
दीयतामिति तेनोक्तो धृतराष्ट्रो नचाकरोत् ॥ ११॥
ततः सहैव यदुभिः कृष्णं द्वारवतीं गतम् ।
युद्धसाहाय्यमिच्छन्तौ धार्तराष्ट्रधनञ्जयौ ॥ १२॥
युगपद् ययतुस्तत्र वेगेनाजयदर्जुनम् ।
दुर्योधनः शिरस्थान आसीनोऽभूद्धरेस्तदा ॥ १३॥
दर्पान्नाहं राजराज उपास्ये पादयोरिति ।
तयोरागमनं पूर्वं ज्ञात्वैव हि हरिः प्रभुः ॥ १४॥
असुप्तः सुप्तवच्छिश्ये तत्रातिष्ठद् धनञ्जयः ।
प्रणम्य पादयोः प्रह्वो भक्त्युद्रेकात् कृताञ्जलिः ॥ १५॥
तमैक्षत् प्रथमं देवो जानन्नपि सुयोधनम् ।
स्वागतं फल्गुनेत्युक्ते पूर्वमागामहं त्विति ।
आह दुर्योधनस्तं च स्वागतेनाभ्यपूजयत् ॥ १६॥
तयोरागमने हेतुं श्रुत्वा प्राह जनार्दनः ।
एकः पूर्वागतोऽत्रान्यः पूर्वदृष्टो मया यतः ॥ १७॥
समं करिष्ये युवयोरेकत्राहं निरायुधः ।
अन्यत्र दशलक्षं मे पुत्राः शूराः पदातयः ॥ १८॥
इत्युक्ते फल्गुनः कृष्णं वव्रे तद्भक्तिमान् यतः ।
अन्यस्तत्राभक्तिमत्त्वाद् वव्रे गोपान् प्रयुद्ध्यतः ॥ १९॥
पार्थानामेव साहाय्यं करिष्यन्नपि केशवः ।
तस्याभक्तिं दर्शयितुं चक्रे समवदीश्वरः ॥ २०॥
ततः पार्थेन सहितः पाण्डवान् केशवो ययौ ।
दुर्योधनो ययौ रामं स भयात् केशवस्य च ।
न साहाय्यं करोमीति प्राह तत्स्नेहवानपि ॥ २१॥
उपप्लाव्ये सभायां हि तत्पक्षीयं वचो ब्रुवन् ।
निराकृतः सात्यकिना समक्षं केशवस्य च ॥ २२॥
ततो दुर्योधनं नायात् स च हार्दिक्यसंयुतः ।
जगाम हस्तिनपुरमक्षोहिण्यो दशाभवन् ।
एका च धार्तराष्ट्रस्य नानादेश्यैर्नृपैर्युताः ॥ २३॥
सप्त पाण्डुसुतानां च मात्स्यद्रुपदकेकयैः ।
धृष्टकेतुजरासन्धसुतकाशीनृपैर्युताः ॥ २४॥
पुरुजित् कुन्तिभोजश्च चेकितानश्च सात्यकिः ।
पाण्डवान् सेनया युक्ताः समीयुर्देवपक्षिणः ॥ २५॥
विन्दानुविन्दावावन्त्यौ जयत्सेनोऽन्यकेकयाः ।
क्षेमधूर्तिर्दण्डधारः कलिङ्गोऽम्बष्ठ एव च ॥ २६॥
श्रुतायुरच्युतायुश्च बृहद्बलसुदक्षिणौ ।
श्रुतायुधः सैन्धवश्च राक्षसोऽलम्बुसस्तथा ॥ २७॥
अलायुधोऽलम्बलश्च दैत्या दुर्योधनं ययुः ।
गत्वा दुर्योधनाहूतो भगदत्तोऽपि तं ययौ ॥ २८॥
सपुत्रपौत्रो बाह्लीको भीष्मद्रोणकृपा अपि ।
प्रीत्यर्थं धृतराष्ट्रस्य बभूवुस्तत्सुतानुगाः ॥ २९॥
पाण्ड्यश्च वीरसेनाख्यः पाण्डवानेव संश्रितः ।
शल्यं च पाण्डवानेव यान्तं ज्ञात्वा सुयोधनः ।
सुसभाः कारयामास सर्वभोगसमन्विताः ॥ ३०॥
ता युधिष्ठिरक्लृप्ताः स मत्वा शल्योऽब्रवीदिदम् ।
य एताः कारयामास तदभीष्टं करोम्यहम् ॥ ३१॥
लीनः श्रुत्वा धार्तराष्ट्रः सत्यं कुर्वित्यभाषत ।
देहि मे युद्धसाहाय्यमिति सोऽपि यशोऽर्थयन् ।
रक्षार्थमात्मवाक्यस्य तथेत्येवाभ्यभाषत ॥ ३२॥
स पाण्डवांस्ततो गत्वा तैरनुज्ञात एव च ।
तेजोवधार्थं कर्णस्य धनञ्जयकृतेऽर्थितः ।
तथेत्युक्त्वा ययौ धर्मनन्दनं कौरवान् प्रति ॥ ३३॥
सञ्जयं प्रेषयामास धृतराष्ट्रोऽथ शान्तये ।
पाण्डवान् प्रत्यधर्मं च युद्धं स प्रत्यपादयत् ॥ ३४॥
हठवादेऽवदद् भीमो यं धर्मं द्रौपदी तथा ।
तमेवोक्त्वा धर्मजस्तु चकार च निरुत्तरम् ।
कृष्णोऽपि तस्य धर्मस्य प्रामाण्यं प्रत्यपादयत् ॥ ३५॥
ततो निरुत्तरः कृष्णं पाण्डवांश्च प्रणम्य सः ।
धृतराष्ट्रं ययौ तं च विनिन्द्य प्रययौ गृहम् ॥ ३६॥
निन्दितः सञ्जयेनासावाहूय विदुरं निशि ।
पप्रच्छ सोऽवदद् धर्मं पार्थानां राज्यदापनम् ॥ ३७॥
ऐहिकस्य सुखस्यापि कारणं तदनिन्दितम् ।
अन्यथा सर्वपुत्राणां नाशं धर्मातिलङ्घनम् ॥ ३८॥
तत्र भावमकृत्वा स ज्ञानादिच्छन्नघक्षयम् ।
विष्णोः स्वरूपं पप्रच्छ सोऽस्मरच्च सनातनम् ॥ ३९॥
स आगत्यावदत् तत्त्वं विष्णोर्मायाविनः शुभा ।
न गतिश्चेत्यथ प्रातः सञ्जयः पाण्डवोदितम् ।
अवदद् धृतराष्ट्राय सभायां कुरुसन्निधौ ॥ ४०॥
तच्छ्रुत्वा स तु भीतोऽपि पुत्रस्नेहानुगो नृपः ।
राज्यं नादात् पाण्डवानां ततो धर्मसुतो नृपः ॥ ४१॥
यदुक्तवान् सञ्जयाय यदि दित्सतिः नः पिता ।
राज्यं तदा त्वमागच्छ विदुरो वा न चेन्नच ।
तावथानागतौ ज्ञात्वा मन्त्रयामास शौरिणा ॥ ४२॥
सोऽप्याहाहं गमिष्यामि सभायामृषिसन्निधौ ।
वक्ष्ये पथ्यानि युक्तानि यदि नासौ ग्रहीष्यति ।
वध्यः सर्वस्य लोकस्य स भवेत् सर्वधर्महा ॥ ४३॥
इत्युक्ते वैरमात्मोत्थं लोकमध्ये प्रहापयन् ।
लोकसङ्ग्रहणार्थाय भीमसेनोऽब्रवीद् वचः ॥ ४४॥
नास्मन्निमित्तनाशः स्यात् कुलस्यापि वयं कुलम् ।
रक्षितुं धार्तराष्ट्रस्य भवेमाधश्चरा इति ॥ ४५॥
इच्छताऽप्यखिलान् हन्तुं धार्तराष्ट्रान् दृढात्मना ।
भीमेनोक्तो वासुदेवो लोकसङ्ग्रहणेच्छया ॥ ४६॥
वधं तेषां धर्ममेव लोके ज्ञापयितुं हरिः ।
आक्षिपन्निव भीमं तं युद्धाय प्रेरयद् दृढम् ॥ ४७॥
अभिप्रायं केशवस्य जानन् भीमो निजं बलम् ।
राज्ञां मध्येऽवदत् तच्च कृष्णोऽभ्यधिकमेव हि ॥ ४८॥
शशंस सत्यैः सद्वाक्यै राज्ञां मध्ये प्रकाशयन् ।
वधं कुरूणां सद्धर्मं गुणान् भीमस्य चामितान् ॥ ४९॥
नित्यमेकमनस्कौ तावपि केशवमारुती ।
एवं लोकस्य संवादहेतोः संवादमक्रताम् ॥ ५०॥
ततः कृष्णोऽर्जुनं चैव कृपालुं सन्धिकामुकम् ।
हेतुमद्भिः शुभैर्वाक्यैरनुनीय जगत्पतिः ।
उक्तो मानुषया बुद्ध्या नकुलेन सुनीतिवत् ॥ ५१॥
शौर्यप्रकाशनायैव युद्धं योजयतां भवान् ।
इत्युक्तः सहदेवेन युयुधानेन चाच्युतः ॥ ५२॥
दस्यूनां निग्रहो धर्मः क्षत्रियाणां यतः परः ।
अतो न धार्तराष्ट्रैर्नः सन्धिः स्यादिति पार्षती ।
जगाद कृष्णं सोऽप्येनां औंइत्युक्त्वा विनिर्ययौ ॥ ५३॥
ससात्यकिः स्यन्दनवर्यसंस्थितः पृथातनूजैरखिलैः स भूमिपैः ।
अन्वागतो दूरतरं गिरा तान् संस्थाप्य विप्रप्रवरैः कुरून् ययौ ॥ ५४॥
एकोऽपि विष्णुः स तु भार्गवात्मा व्यासः सशिष्यस्तदनन्यदृश्यः ।
ययौ तदुक्तेर्हि गुणान् प्रवेत्तुं नान्यो हि शक्तस्तमृते यतः प्रभुम् ॥ ५५॥
स वन्द्यमानोऽखिलराष्ट्रवासिभिः प्रसूनवर्षैरभिवर्षितः सुरैः ।
संस्तूयमानः प्रणतोऽब्जजादिभिर्गजाह्वयं प्राप परोऽप्रमेयः ॥ ५६॥
स भीष्ममुख्यैः सरसाभियातः सहैव तै प्रययौ राजमार्गे ।
दिदृक्षवस्तं जगदेकसुन्दरं गुणार्णवं प्राययुरत्र सर्वे ॥ ५७॥
सभाजितस्तैः परमादरेण विवेश गेहं नृपतेरनन्तः ।
स भीष्ममुख्यान् पुरतो निधाय वैचित्रवीर्येण समर्चितोऽजः ।
रौग्मे निषण्णः परमासने प्रभुर्बभौ स्वभासा ककुभोऽवभासयन् ॥ ५८॥
यथोचितं तेषु विधाय केशवो दौर्योधनं प्राप्य गृहं च पूजितः ।
पूजां तदीयां गुणवद्द्विडित्यसौ जग्राह नो विदुरं चाऽजगाम ॥ ५९॥
स भीष्मपूर्वैरभियाचितोऽपि जगाम नैषां गृहमादिदेवः ।
उपेक्षिता द्रौपदीयप्रमेयो जगाम गेहं विदुरस्य शीघ्रम् ॥ ६०॥
स तेन भक्त्याऽभिगतः प्रसन्नः प्रविश्य चान्तर्गृहमीश्वरोऽजः ।
भक्त्याऽभिपूर्णेन ससम्भ्रमेण सम्पूजितः सर्वसमर्पणेन ॥ ६१॥
परे दिनेऽसौ धृतराष्ट्रसूनुना समानीतः संसदि कौरवाणाम् ।
विवेश दिव्ये मणिकाञ्चनासने सार्द्धं मुनीन्द्रैः परमार्थवेदिभिः ॥ ६२॥
सम्पूजितो भीष्ममुख्यैः समस्तै रराज राजीवसमाननेत्रः ।
यथोचितास्तत्र विधाय वार्ता जगाद काले कलिकल्मषापहः ॥ ६३॥
वैचित्रवीर्य स्वकुलस्य वृद्ध्यै प्रदेहि राज्यं तव सत्सुताय ।
यशश्च धर्मं परमं प्रसादं मम त्वमाप्नोषि तदैव राजन् ।
अतोऽन्यथा यशसो धर्मतश्च हीनः प्रतीपत्वमुपैषि मेऽतः ॥ ६४॥
इतीरितः प्राह ममातिवर्तिनः सुतं स्वयं मे प्रतिबोधयेति ।
स वासुदेवेन विबोधितोऽपि पापाभिसन्धिर्धृतराष्ट्रसूनुः ।
उत्थाय तस्मादनुजैरमात्यैर्नियन्तुमीशं कुमतिर्व्यधान्मतिम् ॥ ६५॥
येये तदा केशवसंयमाय न्यमन्त्रयंस्ते विबुधप्रतीपाः ।
अतो विकर्णप्रमुखा अपि स्म वध्यत्वमायन्नशुभां गतिं च ॥ ६६॥
कर्णः सुराग्र्योऽपि सुयोधनार्थे न्यमन्त्रयद् भावतो नैव दुष्टः ।
अतो गतिश्चास्य सुशोभनाऽभूद् येऽत्रानुकूलाः परमस्य ते शुभाः ॥ ६७॥
ऋषिभिर्जामदग्न्येन व्यासेनाप्यमितौजसा ।
वासुदेवात्मना चैव त्रिरूपेणैव विष्णुना ॥ ६८॥
मातापितृभ्यां भीष्माद्यैरनुशिष्टोऽपि दुर्मतिः ।
दुर्योधनो मन्त्रयते मुकुन्दस्याऽशु बन्धनम् ॥ ६९॥
सात्यकिः कृतवर्मा च तच्छुश्रुवतुरञ्जसा ।
संस्थाप्य कृतवर्माणं रहः सात्यकिरत्र च ।
अभ्येत्य केशवं प्राह दुर्योधनविनिश्चयम् ॥ ७०॥
जानन्नप्यखिलं कृष्णस्तच्छ्रुत्वा सात्यकेर्मुखात् ।
वैचित्रवीर्यमवदत् पश्य मामिति सर्वगम् ॥ ७१॥
अथ तेनाऽहुते पुत्रे सामात्ये पुरुषोत्तमः ।
स्वं रूपं दर्शयामास सर्वगं पूर्णसद्गुणम् ॥ ७२॥
तत् कालसूर्यामितदीप्ति सर्वजगद्भरं शाश्वतमप्रमेयम् ।
दृष्ट्वैव चक्षूंषि सुयोधनाद्या न्यमीलयन् दीधितिवारितानि ॥ ७३॥
पिधाय रूपं पुनरेव तद्धरिर्वैचित्रवीर्येण समर्थितः पुनः ।
कृत्वाऽन्धमेव प्रययौ सुयोधनं सहानुगं पापतमं प्रकाश्य ॥ ७४॥
अनन्तशक्तिः पुरुषोत्तमोऽसौ शक्तोऽपि दुर्योधनचित्तनिग्रहे ।
नैव व्यधादेनमथोक्तकारिणं निपातयन्नन्धतमस्यनन्तः ॥ ७५॥
पुनश्च कुन्तीगृहमेत्य कृष्णस्तयोद्योगं धर्मसुतस्य शिष्टम् ।
श्रुत्वा ययौ सूर्यजमात्मयाने निधाय तस्यावददात्मजन्म ॥ ७६॥
आयाहि पाण्डूनिति तद्वचः स नैवाकरोन्मानितो धार्तराष्ट्रैः ।
संस्थाप्य तं भगवान् द्रौणये च रहोऽवदन्मित्रभावं पृथाजैः ॥ ७७॥
यावत् पितुर्मरणं सोऽपि मैत्रीं वव्रे पार्थैस्तं च विसृज्य कृष्णः ।
ययौ कुरून् पूर्वमेवोद्विसृज्य पृथासुतानां स सकाशमीशः ॥ ७८॥
सम्प्रार्थितः पृथया चैव कर्णः पार्थैर्योगं याहि सूनुर्ममासि ।
तेनाप्युक्ता वासविना विनाऽहं हन्यां सुतांस्ते न कथञ्चनेति ॥ ७९॥
ततो ययुः कौरवाः पाण्डवाश्च कुरुक्षेत्रं योद्धुकामाः सकृष्णाः ।
चक्रुश्च ते शिबिराण्यत्र सर्वे शुभे देशे पाण्डवाः कृष्णबुद्ध्या ॥ ८०॥