ते सेने समरारम्भे समेते सागरोपमे

पञ्चविंशोऽध्यायः
सर्वशास्त्रतात्पर्यनिर्णयः

औं ॥ ते सेने समरारम्भे समेते सागरोपमे ।

भीमभीष्ममुखे वीक्ष्य प्राह वासविरच्युतम् ॥ १॥

' सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत' ।

(भ\. गी\. १\.२१) इत्युक्तः स तथा चक्रे पार्थः पश्यंश्च बान्धवान् ।

विससर्ज धनुः पापाशङ्की तत्राऽह माधवः ॥ २॥

स्वधर्मो दुष्टदमनं धर्मज्ञानानुपालनम् ।

क्षत्रियस्य तमुत्सृज्य निन्दितो यात्यधो ध्रुवम् ॥ ३॥

' यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।

स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः' ॥ ४॥ (भ\. गी\. १८\.४६)

नच शोकस्त्वया कार्यो बन्धूनां निधनेक्षया ।

देहस्य सर्वथा नाशादनाशाच्चेतनस्य च ॥ ५॥

सृष्टिस्थित्यप्ययाज्ञानबन्धमोक्षप्रवृत्तयः ।

प्रकाशनियमौ चैव ब्रह्मेशादिक्षरस्य च ।

अक्षरप्रकृतेः सन्तो मत्त एव नचान्यतः ॥ ६॥

न मे कुतश्चित् सर्गाद्याः स्वातन्त्र्याद् गुणपूर्तितः ।

अतः समाधिकाभावान्मम मद्वशमेव च ॥ ७॥

ज्ञात्वैषां निधनाद्यं च जीवादेरस्वतन्त्रताम् ।

अस्वातन्त्र्यान्निवृत्तौ च मामनुस्मर युद्ध्य च ॥ ८॥

' ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।

अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ ९॥

तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।

भवामि नचिरात् पार्थ मय्यावेशितचेतसाम्' ॥ १०॥ (भ\. गी\. १२\.६\-७)

' मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।

मत्स्थानि सर्वभूतानि नचाहं तेष्ववस्थितः' ॥ ११॥ (भ\. गी\. ९\.४)

सुपूर्णसत्सर्वगुणदेहोऽहं सर्वदा प्रभुः ।

अस्पृष्टाखिलदोषैकनित्यसत्तनुरव्ययः ।

इत्युक्तो वासविः प्राह व्याप्तं ते दर्शयेश मे ॥ १२॥

अथ दिव्यदृशं तस्य दत्वा व्याप्तं निजं वपुः ।

देशतः कालतश्चैव पूर्णं सर्वगुणैः सदा ।

दर्शयामास भगवान् यावत्यर्जुनयोग्यता ॥ १३॥

तत्प्रार्थितः पुनः कृष्णस्तद् रूपं लोकमानतः ।

पूर्ववद् दर्शयामास पुनश्चैनमशिक्षयत् ॥ १४॥

ज्ञानज्ञेयप्रकृत्यादि ज्ञापयन् पुरुषोत्तमः ।

तेनानुशिष्टः पार्थस्तु सशरं धनुराददे ॥ १५॥

अथ व्यूढेष्वनीकेषु नदन् वायुसुतोऽभ्ययात् ।

समितिं धार्तराष्ट्राणां ते तं सर्वेऽभ्यवारयन् ।

ससृजुः शरवृष्टिं च भीमसेनस्य मूर्द्धनि ॥ १६॥

क्षिप्रं नैव प्रहर्तव्यं ज्ञातिषु प्रहरत्स्वपि ।

इत्येवाप्रहरत्यस्मिन् शत्रुभिः शरविक्षते ॥ १७॥

अमुचन् धार्तराष्ट्रेषु शस्त्रवृष्टिं दुरासदाम् ।

सौभद्रप्रमुखा वीराः सर्वे पाण्डुसुतात्मजाः ॥ १८॥

अपीडयंस्ताञ्छस्त्रौघैर्धार्तराष्ट्राः समन्ततः ।

ररक्ष तान् वायुसुतो विसृजञ्छरसञ्चयान् ॥ १९॥

तत्र भीमशरैर्नुन्ना धार्तराष्ट्राः समन्ततः ।

भग्नास्तानथ गाङ्गेयो दिव्यास्त्रविदधारयत् ॥ २०॥

अथ द्वन्द्वानि युद्धानि बभूवुर्विजिगीषताम् ।

द्रोणपार्षतयोश्चैव शैनेयकृतवर्मणोः ॥ २१॥

दुःशासनेन वीरस्य माद्रेयस्य यवीयसः ।

नकुलस्य विकर्णस्य कार्ष्णेयैर्दुर्मुखादिनाम् ॥ २२॥

वृत्ते द्वन्द्वमहायुद्धे तत्र धर्मजपक्षगाः ।

जिता विनैव शैनेयं सोऽजयद्धृदिकात्मजम् ॥ २३॥

अथ भीष्मद्रोणमुखैर्भगदत्तादिभिस्तथा ।

विद्राप्यमाणं स्वबलं स्थापयामास मारुतिः ॥ २४॥

द्रोणं च भगदत्तं च कृपं दुर्योधनं तथा ।

केवलं बाहुवीर्येण व्यजयद् भीमविक्रमः ।

हत्वोत्तरं मद्रराजो व्यद्रावयदनीकिनीम् ॥ २५॥

अथ भीष्ममुदीर्णास्त्रं द्रावयन्तं वरूथिनीम् ।

ससौमदत्तिं सौभद्रसहायोऽर्जुन आसदत् ॥ २६॥

सौभद्रं तत्र विक्रान्तमतीत्य द्युसरित्सुतः ।

द्रावयामास पाञ्चालान् पश्यतः सव्यसाचिनः ॥ २७॥

तस्य विक्रममालक्ष्य पार्थं तद्गौरवानुगम् ।

दृष्ट्वा युधिष्ठिरो राजा क्रुद्धः सेनामपाहरत् ॥ २८॥

रात्रौ युधिष्ठिरश्चिन्तामाप्य पार्थं व्यगर्हयत् ।

स कृष्णाद्यैः सान्त्वितश्च पुनर्युद्धाय निर्ययौ ॥ २९॥

एवं भीष्मो दशाहानि सेनापत्यं चकार ह ।

कृत्वाऽपि पाण्डवैर्युद्धं तत् कर्तुमकृतोपमम् ॥ ३०॥

कर्णोऽर्द्धरथ इत्युक्त्वा तावद् युद्धात् प्रयापितः ।

यावत् त्वं योत्स्यसे तावन्न योत्स्यामीति निर्गते ॥ ३१॥

कर्णेऽयुतरथानां स नित्यशो वधमाहवे ।

प्रतिजज्ञेऽकरोत् तच्च पुनश्चास्त्रविदां वरः ॥ ३२॥

सुसमर्थावपि वधे तस्य भीमधनञ्जयौ ।

स्नेहेन यन्त्रितौ तस्य गौरवाच्चान्ववर्तताम् ॥ ३३॥

बभूवुस्तत्र युद्धानि चित्राणि सुबहूनि च ।

तान्यम्बरे विमानस्था ब्रह्मरुद्रपुरस्सराः ।

अपश्यन् देवताः सर्वा गन्धर्वाप्सरसोऽसुराः ॥ ३४॥

धृष्टद्युम्नो महेष्वासः प्रतिव्यूह्याऽपगासुतम् ।

चक्रे युद्धानि सुबहून्यजेयः शत्रुभी रणे ॥ ३५॥

तत्रोद्दधार कृष्णोऽपि फल्गुनं मृदुयोधिनम् ।

दृष्ट्वा चक्रं तथोद्यम्य बाहुं भीष्माय जग्मिवान् ॥ ३६॥

तेन स्तुतो गृहीतश्च फल्गुनेन प्रणम्य च ।

प्रार्थितो रथमारूढः पुनः शङ्खमपूरयत् ॥ ३७॥

ततो भीष्मोऽर्जुनश्चैव शस्त्रास्त्रैरभ्यवर्षताम् ।

अयत्नेन जितश्चैव फल्गुनेनाऽपगासुतः ॥ ३८॥

अयुतानि बहून्याजौ रथानां निजघान च ।

जिताः सेनापहारं च चक्रुर्भीष्ममुखास्ततः ॥ ३९॥

कदाचिदग्रगो भीमो भीष्मद्रोणौ विसारथी ।

कृत्वा विद्राप्य तानश्वान् भित्वा व्यूहं विवेश ह ॥ ४०॥

पुनः संस्थापितरथौ विजित्यायत्नतो बली ।

यतमानौ महेष्वासौ धार्तराष्ट्रान् जघान ह ।

पञ्चविंशद्धतास्तत्र धार्तराष्ट्रा महाबलाः ॥ ४१॥

भगदत्तद्रौणिकृपशल्यदुर्योधनादयः ।

सर्वे जिता द्राविताश्च सेना च बहुला हता ॥ ४२॥

विरथो व्यायुधश्चैव दृढवेधविमूर्च्छितः ।

कृतो दुर्योधनः सर्वराज्ञां भीमेन पश्यताम् ॥ ४३॥

ततोऽपहारं सैन्यस्य जिताश्चक्रुश्च कौरवाः ।

दुर्योधनो निशायां च ययौ यत्र नदीसुतः ।

पीडितो भीमबाणैश्च क्षरद्गात्रो ननाम तम् ॥ ४४॥

उवाच हेतुना केन वयं क्षीयाम सर्वदा ।

पाण्डवाश्च जयं नित्यं लब्ध्वा हर्षमवाप्नुवन् ॥ ४५॥

तमाह भीष्मस्तेऽजेया देवास्ते धरणीं गताः ।

विशेषतः केशवेन पालितास्तत्प्रियाः सदा ॥ ४६॥

मानसोत्तरशैले हि पुरा ब्रह्मपुरस्सराः ।

स्थिता देवास्तदाऽपश्यद् ब्रह्मैको हरिमम्बरे ॥ ४७॥

स्तुत्वा सम्पूज्य भूमेः स भारावतरणाय तम् ।

प्रार्थयामास तेनोक्तं देवानामवदद् विभुः ॥ ४८॥

अयं नारायणो देवः पुर्णानन्तगुणार्णवः ।

आज्ञापयति वः सर्वान् प्रादुर्भावाय भूतळे ।

स्वयं च देवकीपुत्रो भविष्यति जगत्पतिः ॥ ४९॥

एवं तेन समादिष्टा धर्मवाय्वादयोऽखिलाः ।

अभवन् पाण्डवाद्यास्ते सेन्द्राः सहमरुद्गणाः ॥ ५०॥

स च नारायणो देवो देवकीनन्दनोऽभवत् ।

तेनैते पालिताः पार्था अजेया देवसर्गिणः ।

तस्मात् तैः सन्धिमन्विच्छ यदीच्छस्यपराभवम् ॥ ५१॥

इत्युक्तो डम्भबुद्ध्यैव नत्वा विष्णुं ततो ययौ ।

प्रातर्निर्यातयामास सेनां युद्धाय दुर्मतिः ॥ ५२॥

दिव्यौषधेन भीष्मस्य भूत्वा च निरुजस्ततः ।

भीष्ममग्रे निधायैव ययौ युद्धाय दंसितः ॥ ५३॥

तत्राऽसीद् युद्धमतुलं भीमभीष्मानुयायिनाम् ।

पाण्डवानां कुरूणां च शूराणामनिवर्तिनाम् ॥ ५४॥

धृष्टद्युम्नस्तत्र भीमानुयायी दुर्योधनस्यावरजैः प्रयुद्ध्यन् ।

सम्मोहनास्त्रेण विमोहयित्वा विकर्णपूर्वानहनच्च सेनाम् ॥ ५५॥

ततो द्रोणस्तान् समुत्थाप्य सर्वान् विज्ञानास्त्रेणाऽसदत् पार्षतं च ।

तं भीमसेनः सूतहीनं विधाय व्यद्रावयच्छत्रुगणाञ्छरौघैः ॥ ५६॥

अथाऽसदत् कृतवर्मा रथेन धृष्टद्युम्नं सोऽभ्ययात् तावुभौ च ।

ववर्षतुः शरवर्षैरथोग्रैस्तत्राकरोद् विरथं द्रौपदिस्तम् ॥ ५७॥

तस्मिन् जिते रथवीरे स्वयं तं दुर्योधनः पार्षतमाससाद ।

तं भीमसेनो विरथायुधं च कृत्वा बाणेनाहनज्जत्रुदेशे ॥ ५८॥

विमूर्च्छितं तं रुधिरौघमुच्चैर्वमन्तमाशु स्वरथे निधाय ।

कृपो ययौ मारुतिर्धार्तराष्ट्रीं व्यद्रावयत् पृतनां बाणपूगैः ॥ ५९॥

अथेन्द्रसूनुः केशवप्रेरितेन रथेन शत्रून् विधमञ्छरौघैः ।

रथान् रणे पञ्चविंशत्सहस्रान् निनाय वैवस्वतसादनाय ॥ ६०॥

तमन्वयाद् युयुधानः सुधन्वा विद्रावयन् धार्तराष्ट्रस्य सेनाम् ।

तमभ्ययात् सौमदत्तिस्तयोश्च सुयुद्धमासीदतिभैरवास्त्रम् ॥ ६१॥

पुत्रान् दशास्याऽशु निहत्य वीरः स सात्यकेः सौमदत्तिः सकाशे ।

समर्पयामास शरीरदारणैः शरैरुभौ तौ विरथौ च चक्रतुः ॥ ६२॥

अथासिपाणिं युयुधानमाशु महासिहस्तेन च सौमदत्तिना ।

आसादितं वीक्ष्य रथं स्वकीयमारोपयामास सुतोऽनिलस्य ॥ ६३॥

सुयोधनः सौमदत्तिं स्वकीयरथे व्यवस्थाप्य च भीमसेनात् ।

अपाद्रवद् वासविर्भीष्ममाजौ समाससादाऽशु महेन्द्रकल्पः ॥ ६४॥

उभौ च तावस्त्रविदां प्रबर्हौ शरैर्महाशीविषसन्निकाशैः ।

ततक्षतुर्नाकसदां समक्षं महाबलौ संयति जातदर्पौ ॥ ६५॥

स्वबाहुवीर्येण जितः स भीष्मः किरीटिना लोकमहारथेन ।

सेनामपाहृत्य ययौ निशायामासादितायामथ पाण्डवाश्च ॥ ६६॥

ततः परेद्युः पुनरेव भीमभीष्मौ पुरस्कृत्य समीयतुस्ते ।

सेने तदा सारथिहीनमाशु भीष्मं कृत्वा मारुतिरभ्यगात् परान् ।

निपापितास्तेन रथेभवाजिनः प्रदुद्रुवुश्चावशिष्टाः समस्ताः ॥ ६७॥

दुर्योधनाद्येषु पराजितेषु भीष्मद्रोणद्रौणिपुरस्सरेषु ।

महागजस्थो भगदत्त आगादायन् बाणं भीमसेनेऽमुचच्च ॥ ६८॥

तेनातिविद्धे भीमसेनेऽस्य पुत्र उद्यच्छमानं पितरं निवार्य ।

घटोत्कचोऽभ्यद्रवदाशु वीरः स्वमायया हस्तिचतुष्टयस्थः ॥ ६९॥

स वैष्णवास्त्रं भगदत्तसंस्थं विज्ञाय विष्णोर्वरतो विशेषतः ।

अमोघमन्यत्र हरेर्मरुत्सुतः पुत्रे याते न स्वयमभ्यधावत् ॥ ७०॥

अनुग्रहादभ्यधिकादवध्यं जानन्नपि स्वं वासुदेवस्य नित्यम् ।

तद्भक्तिवैशेष्यत एव तस्य सत्यं वाक्यं कर्तुमरिं नचायात् ।

यदा स्वपुत्रेण जितो भवेत् स किम्वात्मनेत्येव तदा प्रवेत्तुम् ॥ ७१॥

स विस्मृतास्त्रस्तु यदा भवेत् तदा भीमो भगदत्तं प्रयाति ।

ऋते भीमं वाऽर्जुनं नास्त्रमेष प्रमुञ्चतीत्येव हि वेद भीमः ॥ ७२॥

चतुर्गजात्मोपरिगात्मकश्च घटोत्कचः सुप्रतीकं च तं च ।

नानाप्रहारैर्वितुदंश्चकार सन्दिग्धजीवौ जगतां समक्षम् ॥ ७३॥

गजार्तनादं तु निशम्य भीष्ममुखाः समापेतुरमुं च दृष्ट्वा ।

महाकायं भीमममुष्य पृष्ठगोपं च वाय्वात्मजमत्रसन् भृशम् ।

ते भीतभीताः पृतनापहारं कृत्वाऽपजग्मुः शिबिराय शीघ्रम् ॥ ७४॥

दिने परे चैव पुनः समेताः परस्परं पाण्डवकौरवास्ते ।

तत्राऽसदन्नागसुतासमुद्भवः पार्थात्मजः शाकुनेयान् षळेकः ॥ ७५॥

तैः प्रासहस्तैः क्षतकायोऽतिरूढकोपः स खड्गेन चकर्त तेषाम् ।

शिरांसि वीरो बलवानिरावान् भयं दधद् धार्तराष्ट्रेषु चोग्रम् ॥ ७६॥

दृष्ट्वा तमुग्रं धृतराष्ट्रपुत्रो दिदेश रक्षोऽलम्बुसनामधेयम् ।

जह्यार्जुनिं क्षिप्रमिति स्म तच्च समासदन्नागसुतातनूजम् ॥ ७७॥

तयोरभूद् युद्धमतीव दारुणं मायायुजोर्वीर्यवतोर्महाद्भुतम् ।

ससादिनोऽश्वान् स तु राक्षसोऽसृजत् ते पार्थपुत्रस्य च सादिनोऽहनन् ।

ततस्त्वनन्ताकृतिमाप्तमार्जुनिं सुपर्णरूपोऽहनदाशु राक्षसः ॥ ७८॥

हतं निशम्याऽर्जुनिमुग्रपौरुषो ननाद कोपेन वृकोदरात्मजः ।

चचाल भूर्नानदतोऽस्य रावतः ससागरागेन्द्रनगा भृशं तदा ॥ ७९॥

अलम्बुसस्तं प्रसमीक्ष्य मारुतेः सुतं बलाढ्यं भयतः पराद्रवत् ।

पराद्रवन् धार्तराष्ट्रस्य सेनाः सर्वास्तमाराथ सुयोधनो नृपः ॥ ८०॥

स भीमपुत्रस्य जघान मन्त्रिणो महाबलांश्चतुरोऽन्यांस्तथैव ।

हतावशेषेषु च विद्रवत्सु घटोत्कचोऽभ्याहनदाशु तं नृपम् ॥ ८१॥

स पीड्यमानो युधि तेन रक्षसा प्रवेशयामास शरं घटोत्कचे ।

दृढाहतस्तेन तदा वलीयसा घटोत्कचः प्रव्यथितेन्द्रियो भृशम् ।

तस्थौ कथञ्चिद् भुवि पात्यमानः पुनः शरानप्यसृजत् सुयोधने ॥ ८२॥

चिरप्रयुद्धौ नृपराक्षसाधिपौ परस्पराजेयतमौ रणाजिरे ।

द्रोणादयो वीक्ष्य रिरक्षिषन्तः सुयोधनं प्रापुरमित्रसाहाः ॥ ८३॥

स द्रोणशल्यौ गुरुपुत्रगौतमौ भूरिश्रवःकृतवर्मादिकांश्च ।

ववर्ष बाणैर्गगनं समाश्रितो घटोत्कचः स्थूलतमै सुवेगैः ॥ ८४॥

तमेकग्र्यै रथिभिः परिष्कृतं निरीक्ष्य भीमोऽभ्यगमत् समस्तान् ।

द्रोणोऽत्र भीमप्रहितैः शरोत्तमैः सुपीडितः प्राप्तमूर्च्छः पपात ॥ ८५॥

द्रौणिं कृपाद्यान् ससुयोधनांश्च चकार भीमो विरथान् क्षणेन ।

निवार्यमाणांस्तु वृकोदरेण घटोत्कचस्तान् प्रववर्ष सायकैः ॥ ८६॥

तेनाम्बरस्थेन तरुप्रमाणैरभ्यर्दिताः कुरवः सायकौघैः ।

भूमौ च भीमेन शरौघपीडिताः पेतुर्नेदुः प्राद्रवंश्चातिभीताः ॥ ८७॥

सर्वांश्च ताञ्छिबिरं प्रापयित्वा विना भीष्मं कौरवान् भीमसेनः ।

घटोत्कचश्चानदतां महास्वनौ नादेन लोकानभिपूरयन्तौ ॥ ८८॥

दुर्योधनोऽथ स्वजनैः समेतः पुनः प्रायाद् रणभूमिं स भीष्मम् ।

जयोपायं भैमसेनेरपृच्छत् स्वस्यैव स प्राह न तं व्रजेति ॥ ८९॥

प्राग्ज्योतिषं चैव घटोत्कचाय सम्प्रेषयामास सुरापगासुतः ।

स प्राप्य हैडिम्बमयोधयद् बली स चार्दयामास सकुञ्जरं तम् ॥ ९०॥

तेनार्दितः प्राहिणोच्छूलमस्मै वियत्यभिप्लुत्य तदा घटोत्कचः ।

प्रगृह्य शूलं प्रबभञ्ज जानुमारोप्य देवा जहृषुस्तदीक्ष्य ॥ ९१॥

तदा स तस्यैव पदानुगान् नृपो जघान तं मारुतिरभ्ययाद् रणे ।

स प्राहिणोद् भीमसेनाय वीरो गजं तमस्तम्भयदाशु सायकैः ॥ ९२॥

संस्तम्भिते बाणवरैस्तु नागे भीमस्याश्वान् सायकैरार्दयत् सः ।

सोऽभ्यर्दिताश्वोऽथ गदां प्रगृह्य हन्तुं नृपं तं सगजं समासदत् ॥ ९३॥

स हन्तुकामेन रुषाऽभिपन्नो भीमेन राजा पुरतः पृष्ठतश्च ।

कृष्णेनास्त्रं वैष्णवं तद् गृहीतुं सहार्जुनेनापययौ सुभीतः ॥ ९४॥

तस्मिन् गते भीमसेनार्जुनाभ्यां विद्राविते राजसङ्घे समस्ते ।

भीष्मः सेनामपहृत्यापयातो दुर्योधनस्तं निशि चोपजग्मिवान् ॥ ९५॥

संश्रावितः क्रूरवचः स तेन चक्रे सत्यं मृत्युभयं विहाय ।

शक्त्या हनिष्यामि परानिति स्म चक्रे च तत् कर्म तथा परेद्युः ॥ ९६॥

तं शक्तितो जुगुपुर्धार्तराष्ट्रास्तेनार्दिताश्चेदिपाञ्चालमत्स्याः ।

पराद्रवन् भीष्मबाणोरुभीताः सिंहार्दिताः क्षुद्रमृगा इवाऽर्ताः ॥ ९७॥

संस्थाप्य तान् भीष्ममभिप्रयान्तमलम्बुसोऽवारयत् पार्थसूनुम् ।

विजित्य तं केशवभागिनेयो ययौ भीष्मं धार्तराष्ट्रोऽमुमार ॥ ९८॥

तद् युद्धमासीन्नृपपार्थपुत्रयोर्विचित्रमत्यद्भुतमुग्ररूपम् ।

समं चिरं तत्र धनुश्चकर्त ध्वजं च राजा सहसाऽभिमन्योः ॥ ९९॥

अथैनमुग्रैश्च शरैर्ववर्ष सूतं च तस्याऽशु जघान वीरः ।

तदाऽऽसदद् भीमसेनो नृपं तं जघान चाश्वान् धृतराष्ट्रजस्य ॥ १००॥

द्रोणो द्रौणिर्भगदत्तः कृपश्च सचित्रसेना अभ्ययुर्भीमसेनम् ।

सर्वांश्च तान् विमुखीकृत्य भीमः स चित्रसेनाय गदां समाददे ॥ १०१॥

तामुद्यतां वीक्ष्य पराद्रवंस्ते स चित्रसेनश्च रथादवप्लुतः ।

सञ्चूर्णितो गदया तद्रथश्च तज्जीवनेनोद्धृषिताश्च कौरवाः ॥ १०२॥

भीष्मस्तु पाञ्चालकरूशचेदिष्वहन् सहस्राणि चतुर्दशोग्रः ।

रथप्रबर्हानतितिग्मतेजा विद्रावयामास परानवीनिव ॥ १०३॥

विद्राप्य सर्वामपि पाण्डुसेनां विश्राव्य लोकेषु च कीर्तिमात्मनः ।

सेनां समाहृत्य ययौ निशागमे सम्पूज्यमानो धृतराष्ट्रपुत्रैः ॥ १०४॥

द्रोणो विराटस्य पुरो निहत्य शङ्खं सुतं तस्य विजित्य तं च ।

विद्राप्य सेनामपि पाण्डवानां ययौ नदीजेन सहैव हृष्टः ॥ १०५॥

भीमार्जुनावपि शत्रून् निहत्य विद्राप्य सर्वांश्च युधि प्रवीरान् ।

युधिष्ठिरेणापहृते स्वसैन्ये भीतेन भीष्माच्छिबिरं प्रजग्मतुः ॥ १०६॥

युधिष्ठिरो भीष्मपराक्रमेण भीतो भीष्मं स्ववधोपायमेव ।

प्रष्टुं ययौ निशि कृष्णोऽनुजाश्च तस्यान्वयुस्तं स पितामहो यत् ॥ १०७॥

भीमार्जुनौ शक्नुवन्तावपि स्म नर्तेऽनुज्ञां हन्तुमिमं तदैच्छताम् ।

पूज्यो यतो भीष्म उदारकर्मा कृष्णोऽप्ययात् तेन हि पाण्डवार्थे ॥ १०८॥

प्राप्यानुज्ञां भीष्मतस्ते वधाय शिखण्डिनं तद्वचसाऽग्रयायिनम् ।

कृत्वा परेद्युर्युधये विनिर्गता भिष्मं पुरस्कृत्य तथा परेऽपि ॥ १०९॥

शिखण्डिनो रक्षकः फल्गुनोऽभूद् भीष्मस्य दुःशासन आस चाग्रे ।

अन्ये च सर्वे जुगुपुर्भीष्ममेव न्यवारयन् भीमसेनादयस्तान् ॥ ११०॥

भीष्माय यान्तं युयुधानमाजौ न्यवारयद् राक्षसोऽलम्बुसोऽथ ।

तं वज्रकल्पैरतुदद् वृष्णिवीरः शरैः स मायामसृजत् तदोग्राम् ॥ १११॥

अस्त्रेण मायामपनुद्य वीरो व्यद्रावयद् राक्षसं सात्यकिस्तम् ।

तस्मिन् गते युयुधानो रथेन ययौ भीष्मं पार्थमन्वेव धन्वी ॥ ११२॥

द्रोणो द्रौणिर्धार्तराष्ट्रश्च राजा भूरिश्रवा भगदत्तः कृपश्च ।

शल्यो बाह्लीकः कृतवर्मा सुशर्मा सर्वाश्च सेना वारिता वायुजेन ॥ ११३॥

स तान् मुहुर्विरथीकृत्य वीरः प्राग्ज्योतिषं सगजं द्रावयित्वा ।

न्यवारयत् फल्गुनं रोद्धुकामं पार्थश्च देवव्रतमाससाद ॥ ११४॥

युधिष्ठिरं भीष्ममभिप्रयान्तं माद्रीसुताभ्यां सहितं नृवीरम् ।

न्यवारयच्छकुनिः सादिनां च युतोऽयुतेनैव वराश्वगेन ॥ ११५॥

तान् सादिनोऽश्वांश्च निहत्य सर्वान् विजित्य तं शकुनिं पाण्डवास्ते ।

प्रापुर्भीष्मं द्रौपदेयाश्च सर्वे तथा विराटद्रुपदौ कुन्तिभोजः ॥ ११६॥

धृष्टद्युम्नं भीष्ममभिप्रयान्तं न्यवारयत् सैन्धवस्तं स बाणैः ।

हताश्वसूतं सगणं द्रावयित्वा समासदद् भीष्ममेवाऽशु वीरः ॥ ११७॥

गुप्तोऽथ पार्थेन रणे शिखण्डी भीष्मं समासाद्य शरैरताडयत् ।

भीष्मः स्त्रीत्वं तस्य जानन् न तस्मै मुमोच बाणान् स तु तं तुतोद ॥ ११८॥

शिखण्डिनं वारयामास बाणैर्दुर्मर्षणोऽमर्षणविह्वलेक्षणः ।

नात्येतुमेनमशकच्छिखण्डी दुःशासनः पार्थमवारयत् तदा ॥ ११९॥

स लोकवीरोऽपि दुरात्मनाऽमुना रुद्धोऽशकन्नैनमतीत्य यातुम् ।

भीष्मं पार्थः सायकाश्चास्य तस्मिन् ससज्जिरे पर्वतेष्वप्यसक्ताः ॥ १२०॥

अमर्षयुक्तौ चिरमेव वीरावयुद्ध्यतामर्जुनधार्तराष्ट्रौ ।

समं तदासीन्महदद्भुतं च दिवौकसां पश्यतां भूभृतां च ॥ १२१॥

तदा विराटद्रुपदौ कुन्तिभोजं कृष्णासुतान् केकयांश्चेकितानम् ।

भूरिः शलः सोमदत्तो विकर्णः सकेकया वारयामासुरुच्चैः ॥ १२२॥

जित्वैव तांस्तेऽभिययुश्च भीष्मं ततोऽर्जुनोऽतीत्य दुःशासनं च ।

भीष्मं शरैरार्च्छदरिप्रमाथिभिः शिखण्डिनं धार्तराष्ट्राद् विमुच्य ॥ १२३॥

स तैः समस्तैर्बहुशस्त्रपूगैर्भृशं मर्मस्वर्दितश्चापमुक्तैः ।

शरैः समस्तान् विरथांश्चकार शैनैयपाञ्चाल्ययुधिष्ठिराद्यान् ॥ १२४॥

स चेदिपाञ्चालकरूशमुख्यान् रथोत्तमान् पञ्चविंशत्सहस्रान् ।

सम्प्रेषयामास यमाय बाणैर्युगान्तकालेऽग्निरिव प्रवृद्धः ॥ १२५॥

निरीक्ष्य तं सूर्यमिवाऽतपन्तं सञ्चोदितो वासुदेवेन पार्थः ।

चिच्छेद तत्कार्मुकं लोकवीरो रणेऽर्द्धचन्द्रेण स चान्यदाददे ॥ १२६॥

चिच्छेद तच्चैवमष्टौ धनूंषि शक्तिं च चर्मासिवरं पराणि च ।

धनूंषि दत्तानि नृभिर्नृपस्य सर्वाणि चिच्छेद स पाकशासनिः ॥ १२७॥

ततः शरैः सूर्यकरप्रकाशैर्विव्याध सर्वे च युधिष्ठिराद्याः ।

तैरर्दितो न्यपतद् भूतेळे स प्राणान् दधारापि तथोत्तरायणात् ॥ १२८॥

निपापितेऽस्मिन् मारुतिद्रोणमुख्यान् विद्राप्य तत्राऽगमदाशु तेऽपि ।

तदायुधानि प्रणिधाय वीराः पार्थाः परे चैनमुपासदन् स्म ॥ १२९॥

प्रणम्यतं तद्वचनात् समीयुस्तस्मिन् दिने शिबिराण्येव सर्वे ।

परे दिने सर्व एवोपतस्थुर्भीष्मं यदूनाम्पतिना सहैव ॥ १३०॥

स पूर्वदिवसे पार्थदत्तबाणोपबर्हणः ।

तदाऽपि तृट्परीतात्मा योग्यं पेयमयाचत ॥ १३१॥

धार्तराष्ट्रैरविज्ञातं तदभिज्ञाय वासविः ।

वारुणास्त्रेण भित्त्वा स भूमिं वारि सुगन्धि च ।

ऊर्ध्वधारमदादास्ये तर्पितोऽनेन सोऽवदत् ॥ १३२॥

यादृश्यस्त्रज्ञता पार्थे दृष्टाऽत्र कुरुनन्दनाः ।

यादृग् बाह्वोर्बलं भीमे संयुगेषु पुनःपुनः ॥ १३३॥

यादृशं चैव माहात्म्यमनन्तमजरं हरेः ।

विज्ञातं सर्वलोकस्य सभायां दृष्टमेव च ॥ १३४॥

उपारमत तद् युद्धं सुखिनः सन्तु भूमिपाः ।

यथोचितविभक्तां च भुङ्ग्ध्वं भूपाः सदा भुवम् ।

इत्युक्तः प्रययौ तूष्णीं धार्तराष्ट्रः स्वकं गृहम् ॥ १३५॥

व्यासदत्तोरुविज्ञानात् सञ्जयादखिलं पिता ।

श्रुत्वा तदा पर्यतप्यत् पाण्डवाः कृष्णदेवताः ।

मुमुदुः शिबिरं प्राप्य सर्वे कृष्णानुमोदिताः ॥ १३६॥

{इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते}

{श्रीमहाभारततात्पर्यनिर्णये}

{भीष्मपातो नाम पञ्चविंशोऽध्यायः}