यदैव कृष्णौ सकलाधिराज्ये युधिष्ठिरं यौवराज्ये च भीमम्

एकोनत्रिंशोऽध्यायः
सर्वशास्त्रतात्पर्यनिर्णयः

औं ॥ यदैव कृष्णौ सकलाधिराज्ये युधिष्ठिरं यौवराज्ये च भीमम् ।

विप्रैर्युतावभिषिच्याऽशिषश्च युक्ता दत्वा हर्षयामासतुस्तौ ॥ १॥

तदैव चार्वाक इति प्रसिद्धं रक्षस्त्रिदण्डी यतिरेव भूत्वा ।

युधिष्ठिरं गर्हयामास विप्रास्त्वां गर्हयन्तीति सुपापशीलम् ॥ २॥

श्रुत्वैव तद् दुःखितमाशु धर्मजं दृष्ट्वा विप्राः शेपुरमुं भृशार्ताः ।

अगर्हितं नित्यमस्माभिरेनं यतोऽवोचो गर्हितमद्य पाप ।

भस्मीभवाऽश्वेव ततस्त्वितीरिते क्षणादभूत् पापतमः स भस्मसात् ॥ ३॥

भस्मीकृतेऽस्मिन् यतिवेषधारिणि युधिष्ठिरं दुःखितं वृष्णिसिंहः ।

प्रोवाच नायं यतिरुग्रकर्मा सुयोधनस्यैव सखा सुपापः ॥ ४॥

रक्षोऽधमोऽयं निहतोऽद्य विप्रैस्तमा शुचः कृतकार्योऽसि राजन् ।

इतीरितः शान्तमनाः स विप्रान् सन्तर्पयामास धनैश्च भक्त्या ॥ ५॥

असान्त्वयच्च बान्धवान् स पौरसंश्रितादिकान् ।

ददौ यथेष्टतो धनं ररक्ष चानु पुत्रवत् ॥ ६॥

स भीष्मद्रोणकर्णानां वधाद् दुर्योधनस्य च ।

पापाशङ्की तप्यमानो राज्यत्यागे मनो दधे ॥ ७॥

सोऽनुजैः कृष्णया विप्रैरप्युक्तो धर्मशासनम् ।

भीमं सम्प्रार्थयित्वैव न वेत्थ्सीत्याह फल्गुनम् ॥ ८॥

तस्मिन् क्रुद्धे नृपं प्राहुर्विप्रास्त्वत्तोऽपि तत्त्ववित् ।

शक्रोऽर्जुन इति श्रुत्वाऽप्येतद्धर्मे ससंशयम् ॥ ९॥

मत्स्नेहादेव सर्वेऽपि धर्मोऽयमिति वादिनः ।

इत्येवं शङ्कमानं तमूचतुर्विप्रयादवौ ।

कृष्णो धर्मोऽयमित्येव शास्त्रयुक्त्या पुनःपुनः ॥ १०॥

नातिनिश्चितबुद्धिं तं तदाऽपि पुरुषोत्तमौ ।

हतपक्षगतत्वेन तच्छङ्काया अगोचरः ।

यतो भीष्मस्ततो याहि तमित्यूचतुरव्ययौ ॥ ११॥

स ताभ्यां भ्रातृभिश्चैव मुनिभिश्च समन्वितः ।

भीष्मं ययौ लज्जितेऽस्मिन्स्तं भीष्मायाऽह केशवः ॥ १२॥

पृच्छेत्युक्तः स भीष्मेण पप्रच्छाखिलमञ्जसा ।

तत्रोवाचाखिलान् धर्मान् कृष्णो भीष्मशरीरगः ॥ १३॥

भीष्मो ह्याह हरिं पार्था बोधनीयास्त्वयैव हि ।

का शक्तिर्मम देवेश पार्थान् बोधयितुं प्रभो ॥ १४॥

इत्युक्तो भगवानाह त्वत्कीर्त्यै त्वयि संस्थितः ।

प्रवक्ष्याम्यखिलान् धर्मान् सूक्ष्मं तत्त्वमपीति ह ॥ १५॥

राज्ञः प्रथमतो धर्मो भगवद्धर्मपालनम् ।

तदर्थं कण्टकोद्धारो धर्मा भागवता अपि ।

मनोवाक्कर्मभिर्विष्णोरच्छिद्रत्वेन चार्चनम् ॥ १६॥

पूर्णाशेषगुणो विष्णुः स्वतन्त्रश्चैक एव तु ।

तद्वशं सर्वमन्यच्च सर्वदेति विनिश्चयः ॥ १७॥

देवताक्रमविज्ञानमपूजाऽन्यस्य वै हरेः ।

पूजा भागवतत्वेन देवादीनां च सर्वशः ॥ १८॥

वृथा कर्माकृतिः क्वापि निराशीस्त्वं सदैव च ।

विष्णोर्भागवतानां च प्रतीपस्याकृतिः सदा ।

परस्परविरोधे तु विशिष्टस्यानुकूलता ॥ १९॥

प्रियं विष्णोस्तदीयानामपि सर्वं समाचरेत् ।

धर्ममप्यप्रियं तेषां नैव किञ्चित् समाचरेत् ॥ २०॥

साम्ये विरोधे च बहूननुवर्तेत वैष्णवान् ।

एते साधारणा धर्मा ज्ञेया भागवता इति ॥ २१॥

तत्त्वविज्ञापनं धर्मो विप्रस्य तु विशेषतः ।

शारीरदण्डसन्त्यागः पुत्रभार्यादिकानृते ।

तत्रापि नाङ्गहानिः स्याद् वेदना वा चिरं नतु ॥ २२॥

नचार्थदण्डः कर्तव्यो विप्रवैश्यादिभिः क्वचित् ।

शारीरदण्डविषये वैश्यादीनां च विप्रवत् ॥ २३॥

यथालब्धेन वर्तेत भिक्षया वा द्विजोत्तमः ।

शिष्ययाज्योपलब्धैर्वा क्षत्रधर्मेण वाऽऽपदि ॥ २४॥

महापदि विशां धर्मैः क्षत्रियः सुरविप्रयोः ।

अन्यत्र सर्ववित्तेन वर्तेतैतांश्च पालयन् ॥ २५॥

विरोधिनः क्षत्रियाच्च प्रसह्यैव हरेद् धनम् ।

सामादिक्रमतो धर्मान् वर्तयेद् दण्डतोऽन्ततः ।

अपलायी सदा युद्धे सतां कार्यमृते भवेत् ॥ २६॥

कृषिवाणिज्य गोरक्षा कुसीदं वैश्यजीवनम् ।

परिचर्यैव शूद्रस्य वृत्तिरन्ये स्वपूर्ववत् ।

वर्तेयुर्ब्राह्मणाद्याश्च क्रमात् पूज्या हरिप्रियाः ॥ २७॥

हरिभक्तावनुच्चस्तु वर्णोच्चो नातिपूज्यते ।

विना प्रणामं पूज्यस्तु वर्णहीनो हरिप्रियः ।

आदरस्तत्र कर्तव्यो यत्र भक्तिर्हरेर्वरा ॥ २८॥

ज्ञापनं क्षत्रियाणां च धर्मो विप्राभ्यनुज्ञया ।

तदभावे तु वैश्यानां शूद्रस्य परमापदि ॥ २९॥

' वर्णेष्वज्ञेष्ववर्णस्तु न ज्ञानी स्यात् कथञ्चन' ।

इति श्रुतेरवर्णस्य ज्ञापनप्राप्तिरेव न ॥ ३०॥

ज्ञेयं सर्वत्रिवर्णस्थस्त्रीभिर्वेदान् विनाऽखिलम् ।

स्वीयपुन्नियतिः स्त्रीणां स्वदारनियतिर्नृणाम् ॥ ३१॥

धर्मो गुणोत्तमानां तु स्मृत्यैवान्धं तमो व्रजेत् ।

गुणसर्वस्वहानिः स्यादुत्तरोत्तरतोऽत्र च ॥ ३२॥

अधोऽधोऽधिकदोषः स्यात् स्त्रीणामन्यत्र मध्यतः ।

वेदा अप्युत्तमस्त्रीभिः कृष्णाद्याभिरिवाखिलाः ॥ ३३॥

देव्यो मुनिस्त्रियश्चैव नरादिकुलजा अपि ।

उत्तमा इति विज्ञेयास्तच्छूद्रैरप्यवैदिकम् ।

ज्ञेयमन्यैर्हरेर्नाम निजकर्तव्यमेव च ॥ ३४॥

सर्वथाऽन्धं तमो याति वरं सदृशमेव वा ।

यो विष्णोर्मन्यते किञ्चिद् गुणैः कैश्चिदपि क्वचित् ॥ ३५॥

ब्रह्मेशानादिकमपि भेदं यो वा न मन्यते ।

भेददृक् तद्गुणादौ च प्रादुर्भावगतेऽपि यः ॥ ३६॥

प्राकृतं देहमथवा दुःखाज्ञानश्रमादिकम् ।

मन्यते तारतम्यं वा तद्भक्तेष्वन्यथैव यः ॥ ३७॥

मनोवाक्तनुभिर्यो वा तस्मिन्स्तद्भक्त एव वा ।

विरोधकृद् विष्ण्वधीनादन्यत् किञ्चिदपि स्मरन् ॥ ३८॥

अन्याधीनत्वविच्चास्य सर्वपूर्त्यविदेव च ।

भक्तिहीनश्च ते सर्वे तमोऽन्धं यान्त्यसंशयम् ॥ ३९॥

तत्त्वे संशययुक्ता ये सर्वे ते निरयोपगाः ।

दोषेभ्यस्ते गुणाधिक्ये नैव यान्त्यधमां गतिम् ।

गुणदोषसाम्ये मानुष्यं सर्वदैव पुनःपुनः ॥ ४०॥

यावद् दोषक्षयश्चोर्ध्वा गतिः क्रमश एव तु ।

सर्वदोषक्षये मुक्तिरात्मयोग्यानुसारतः ॥ ४१॥

भक्तिज्ञानोन्नतावेव स्वर्गश्च शुभकर्मणः ।

विष्णुवैष्णववाक्येन हानिः पापस्य कर्मणः ॥ ४२॥

इत्यादि धर्मसर्वस्वं भीष्मस्थेनैव विष्णुना ।

पार्थानां गदितं तच्च श्रुत्वा धर्मसुतोऽनुजान् ।

पप्रच्छ विदुरं चैव सारं धर्मादिषु त्रिषु ॥ ४३॥

आह क्षत्ता धर्ममेव सारमर्थं च मध्यमम् ।

नीचं कामं निष्फलत्वादर्थमेवार्जुनोऽब्रवीत् ॥ ४४॥

सारं स द्विविधो ज्ञेयो दैवो मानुष एव च ।

दैवो विद्या हिरण्यादिर्मानुषः परिकीर्तितः ॥ ४५॥

मध्यमो धर्म एवात्र साध्यं साधनमेव च ।

विद्याह्वयोऽर्थो धर्मस्य विद्ययैव च मुच्यते ॥ ४६॥

मानुषोऽर्थोऽपि विद्यायाः कारणं सुप्रयोजितः ।

तुष्टोऽर्थेन गुरुर्यस्मात् कैवल्यं दातुमप्यलम् ॥ ४७॥

धर्मार्थतां विनाऽप्यर्थैस्तुष्येयुर्गुरुदेवताः ।

यद्यनुद्देशितो धर्मोऽप्यर्थमेवानुसंव्रजेत् ॥ ४८॥

गुरुताऽर्थगतैव स्यात् कामोऽवस्ताद्धि निष्फलः ।

यमावत्र विदां श्रेष्ठावर्जुनोक्तमनूचतुः ॥ ४९॥

अथाह भीमः प्रवरः सुतत्त्वदृशां समस्तानभिभाष्य हर्षात् ।

स्मयन् न कामादतिरिक्तमस्ति किञ्चिच्छुभं क्कावरतां स यायात् ॥ ५०॥

काम्यं हि कामाभिधमाहुरार्याः काम्याः पुमर्थाः सह साधनैर्यत् ।

अकाम्यतां यात्यपुमर्थ एव पुमर्थितत्वाद्धि पुमर्थ उक्तः ॥ ५१॥

विज्ञानभक्त्यादिकमप्यतीव सत्साधनं कामबहिष्कृतं चेत् ।

न साधनं स्यात् परमोऽपि मोक्षो न साध्यतां याति विना हि कामात् ॥ ५२॥

परात् परोऽप्यादिपुमान् हरिश्च स्वस्येतरेषामपि काम्य एव ।

अकामितोऽवाग्गतिमेव दद्यात् कामः पुमर्थोऽखिल एव तेन ॥ ५३॥

इच्छैव कामोऽस्तु तथाऽपि नैतामृते हि चित्त्वं घटकुड्यवत् स्यात् ।

सारस्ततः सैव चिदात्मकाऽपि सा चेतना गूढतनुः सदैव ॥ ५४॥

न प्रश्नयोग्यः पृथगेव कामस्तेनैष राजन् यदि तारतम्यम् ।

इच्छस्ययं ते त्रिविधो हि वेद्यो धर्मार्थयुक्तः परमो मतोऽत्र ।

एकाविरोधी यदि मध्यमोऽसौ द्वयोर्विरोधी तु स एव नीचः ॥ ५५॥

तस्मात् स्वबुद्धिप्रमदाभिरेव कामं रमेथा अनुरूपकामः ।

राजन् न कामादपरं शुभं हि परो हि कामो हरिरेव येन ॥ ५६॥

प्राज्ञः सुहृच्चन्दनसारलिप्तो विचित्रमाल्याभरणैरुपेतः ।

इदं वचो व्याससमासयुक्तं सम्प्रोच्य भीमो वरराम वीरः ॥ ५७॥

प्रशस्य भीममन्यांश्च राजा मोक्षमथास्तुवत् ।

स्वयुक्तेरप्रतीपत्वान्निराचक्रे न मारुतिः ॥ ५८॥

{इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते}

{श्रीमहाभारततात्पर्यनिर्णये}