अथाखिलानां पृथिवीपतीनामाचार्यमग्र्यं रथिनां सुविद्यम्
षड्विंशोऽध्यायः
सर्वशास्त्रतात्पर्यनिर्णयः
औं ॥ अथाखिलानां पृथिवीपतीनामाचार्यमग्र्यं रथिनां सुविद्यम् ।
रामस्य विश्वाधिपतेः सुशिष्यं चक्रे चमूपं धृतराष्ट्रपुत्रः ॥ १॥
कर्णोऽपि भीष्मानुमतो धनुष्मान् युद्धोद्यतोऽभूत् तदसत्कृतः पुरा ।
तस्मिन् स्थितेऽनात्तधनुस्तदैव रथं समास्थाय गुरुं समन्वयात् ॥ २॥
द्रोणो वृतो धार्तराष्ट्रेण धर्मसुतग्रहे तेन कृते प्रतिश्रवे ।
ज्ञात्वा यत्ताः पाण्डवास्तं समीयुर्युद्धाय तत्राभवदुग्रयुद्धम् ॥ ३॥
पतत्रिभिस्तत्र दुधाव शात्रवान् द्रोणो धनुर्मण्डलमन्त्रनिस्सृतैः ।
तमाससादाऽशु वृकोदरो नदंस्तमासदन् द्रौणिकृपौ च मद्रराट् ॥ ४॥
स तान् विधूयाभ्यपतद् रणेऽग्रणीर्द्रोणं तमन्वार्जुनिरभ्ययात् परान् ।
ववार तं मद्रपतिस्तयोरभूद् रणो महांस्तत्र गदां समाददे ।
शल्योऽथ भीमोऽभिययौ गदाधरस्तमेतयोरत्र बभूव सङ्गरः ॥ ५॥
उभावजेयौ गदिनामनुत्तमावतुल्यवीर्यौ प्रवरौ बलीयसाम् ।
विचेरतुश्चित्रतमं प्रपश्यतां मनोहरं तावभिनर्दमानौ ।
गदाप्रपाताङ्कितवज्रगात्रौ ददर्श लोकोऽखिल एव तौ रणे ॥ ६॥
गदाभिघातेन वृकोदरस्य विचेतनः प्रापतदत्र मद्रराट् ।
भीमोऽपि कोपात् प्रचलत्पदः क्षितौ निधाय जानुं सहसोत्थितः क्षणात् ॥ ७॥
विचेतनं पतितं मद्रराजं विलोक्य भीमं च तमाह्वयन्तम् ।
रथं समारोप्य जनस्य पश्यतः पुरश्च भीमस्य कृपोऽपजग्मिवान् ॥ ८॥
विजित्य मद्राधिपमोजसाऽरिहा नदन् रथं प्राप्य निजं स मारुतिः ।
व्यद्रावयद् बाणगणैः परेषामनीकिनीं द्रोणसमक्षमेव ॥ ९॥
विद्रावयत्याशु कुरून् वृकोदरे विधूय सौभद्रमुखान् ससात्यकीन् ।
द्रोणोऽभिपेदे नृपतिं गृहीतुं तमाससादाऽशु धनञ्जयो रथी ॥ १०॥
स वासुदेवप्रयते रथे स्थितः शरैः शरीरान्तकरैः समन्ततः ।
निहत्य नागाश्वनरान् प्रवर्तयन्नदृश्यताऽश्वेव च शोणितापगाः ॥ ११॥
निहन्यमानासु किरीटिना चमूष्वारक्षिते धर्मसुते तथाऽपदः ।
चमूं च भीमार्जुनबाणभग्नां द्रोणोऽपहृत्यापययौ निशागमे ॥ १२॥
स धार्तराष्ट्रेण युधिष्ठिराग्रहात् संश्रावितः क्रूरवचो निशायाम् ।
जगाद दूरं समराद् विनीयतां पार्थस्ततो धर्मसुतं ग्रहीष्ये ॥ १३॥
ततः सुशर्मा सहितो महारथैः संशप्तकैर्दूरतरं प्रणेतुम् ।
युद्धाय भीमानुजमाशु क्लृप्तो दुर्योधनेनोमिति सोऽप्यवादीत् ॥ १४॥
समाह्वयामासुरथार्जुनं ते प्रातर्हुताशस्य दिशं रणाय ।
अयोधयत् तान् स च तत्र गत्वा भीमो गजानीकमथात्र चावधीत् ॥ १५॥
निहन्यमानेषु गजेषु सर्वशो विद्राप्यमाणेष्वखिलेषु राजसु ।
प्राग्ज्योतिषो धार्तराष्ट्रार्थितस्तं समासदत् सुप्रतीकेन धन्वी ॥ १६॥
विभीषिताः सुप्रतीकेन भीमहया न तस्थुस्तदनु स्म सात्यकिः ।
सौभद्रमुख्याश्च गजं तमभ्ययुश्चिक्षेप तेषां स रथानथाम्बरे ॥ १७॥
शैनेयपूर्वेषु रथोज्झितेषु भूमाववप्लुत्य कथञ्चिदेव ।
स्थितेषु भीमे च विभीषिताश्वान् संयम्य युद्ध्यत्यपि कृष्ण ऐक्षत् ॥ १८॥
सङ्क्लेशितो वैष्णवास्त्रं प्रमुञ्चेत् प्राग्ज्योतिषो भीमसेने ततोऽहम् ।
याम्यार्जुनेनैव तदस्त्रमात्मनः स्वीकर्तुमन्येन वरादधार्यम् ॥ १९॥
इति स्म सञ्चिन्त्य सहार्जुनेन तत्राऽययावथ पार्थं त्रिगर्ताः ।
न्यवारयंस्त्वाष्ट्रमस्त्रं स तेषु व्यवासृजन्मोहनायाऽशु वीरः ॥ २०॥
तदस्त्रवीर्येण विमोहितास्ते परस्परं कृष्णपार्थाविति स्म ।
जघ्नुस्तदा वासविस्तान् विसृज्य प्राग्ज्योतिषं हन्तुमिहाभ्यगाद् द्रुतम् ॥ २१॥
विसृज्यं भीमं स च पार्थमेव ययौ गजस्कन्धगतो गजं तम् ।
प्रचोदयामास रथाय तस्य चक्रेऽपसव्यं हरिरेनमाशु ॥ २२॥
मनोजवेनैव रथे परेण सम्भ्राम्यमाणे नतु तं गजः सः ।
प्राप्तुं शशाकाथ शरैः सुतीक्ष्णैरभ्यर्द्दयामास नृपं स वासविः ॥ २३॥
अस्त्रैश्च शस्त्रैः सुचिरं नृवीरावयुद्ध्यतां तौ बलिनां प्रबर्हौ ।
अथो चकर्तास्य धनुः स पार्थः स वैष्णवास्त्रं च तदाऽङ्कुशेऽकरोत् ॥ २४॥
तस्मिन्नस्त्रे तेन तदा प्रमुक्ते दधार तद् वासुदेवोऽमितौजाः ।
तदंसदेशस्य तु वैजयन्ती बभूव मालाऽखिललोकभर्तुः ॥ २५॥
दृष्ट्वैव तद् धारितमच्युतेन पार्थः किमर्थं विधृतं त्वयेति ।
ऊचे तमाहाऽशु जगन्निवासो मयाऽखिलं धार्यते सर्वदैव ॥ २६॥
न मादृशोऽन्योऽस्ति कुतः परो मत् सोऽहं चतुर्धा जगतो हिताय ।
स्थितोऽस्मि मोक्षप्रळयस्थितीनां सृष्टेश्च कर्ता क्रमशः स्वमूर्तिभिः ।
स वासुदेवादिचतुःस्वरूपः स्थितोऽनिरुद्धो हृदि चाखिलस्य ॥ २७॥
स एव च क्रोडतनुः पराऽहं भूमिप्रियार्थं नरकाय चादाम् ।
अस्त्रं मदीयं वरमस्य चादामवध्यतां यावदस्त्रं ससूनोः ॥ २८॥
अस्त्रस्य चान्यो नतु कश्चिदस्ति योऽवध्य एतस्य कुतश्च मत्तः ।
इति स्म तेनैव मया धृतं तदस्त्रं तदेनं जहि चास्त्रहीनम् ॥ २९॥
इत्युक्तमाकर्ण्य स केशवेन सम्मन्त्र्य बाणं हृदये मुमोच ।
प्राग्ज्योतिषस्यापरमुत्तमं शरं गजेन्द्रकुम्भस्थल आश्वमज्जयत् ॥ ३०॥
उभौ च तौ पेततुरद्रिसन्निभौ महेन्द्रवज्राभिहताविवाऽशु ।
निहत्य तौ वासविरुग्रपौरुषो मुमोद साधु स्वजनाभिपूजितः ॥ ३१॥
अथाचलं वृषकं चैव हत्वा कनीयसौ शकुनेस्तं च बाणैः ।
विव्याध मायामसृजत् स तां च विज्ञानास्त्रेणाऽशु नाशाय चक्रे ॥ ३२॥
स नष्टमायः प्राद्रवत् पापकर्मा ततः पार्थः शरपूगैश्चमूं ताम् ।
विद्रावयामास तदा गुरोः सुतो माहिष्मतीपतिमाजौ जघान ॥ ३३॥
तदा भीमस्तस्य निहत्य वाहान् व्यद्रावयद् धार्तराष्ट्रीं चमूं च ।
भीमार्जुनाभ्यां हन्यमानां चमूं तां दृष्ट्वा द्रोणः क्षिप्रमपाजहार ॥ ३४॥
प्राग्ज्योतिषे निहतेऽथाग्रहाच्च युधिष्ठिरस्यातिविषण्णरूपः ।
दुर्योधनोऽश्रावयद् दीनवाक्यान्यत्र द्रोणं सोऽपि नृपं जगाद ॥ ३५॥
पार्थे गते श्वो नृपतिं ग्रहीष्ये निहन्मि वा तत्सदृशं तदीयम् ।
इति प्रतिज्ञां स विधाय भूयः प्रातर्ययौ युद्धमाकाङ्क्षमाणः ॥ ३६॥
पद्मव्यूहं व्यूह्य परैरभेद्यं वराद् विष्णोस्तस्य मन्त्रं ह्यजप्त्वा ।
पार्थाश्च तं प्रापुर्.हृतेऽर्जुनेन संशप्तकैर्युयुधे सोऽपि वीरः ॥ ३७॥
पार्था व्यूहं तु तं प्राप्य नाशकन् भेत्तुमुद्यताः ।
जानंश्च प्रतिभायोगात् काम्यं नैवाजपन्मनुम् ॥ ३८॥
भीमो युधिष्ठिरस्तत्र तज्ज्ञं सौभद्रमब्रवीत् ।
भिन्धि व्यूहमिमं तात वयं त्वामनुयामहे ॥ ३९॥
स एवमुक्तो रथिनां प्रबर्हो विवेश भित्त्वा द्विषतां चमूं ताम् ।
अन्वेव तं वायुसुतादयश्च विविक्षवः सैन्धवेनैव रुद्धाः ॥ ४०॥
वरेण रुद्रस्य निरुद्ध्यमानो जयद्रथेनात्र वृकोदरस्तु ।
विष्णोरभीष्टं वधमार्जुनेस्तदा विज्ञाय शक्तोऽपि नचात्यवर्तत ॥ ४१॥
जयद्रथस्थेन वृषध्वजेन प्रयुद्ध्यमानेषु वृकोदरादिषु ।
प्रविश्य वीरः स धनञ्जयात्मजो विलोळयामास परोरुसेनाम् ॥ ४२॥
स द्रोणदुर्योधनकर्णशल्यैर्द्रोण्यग्रणीभिः कृतवर्मयुक्तैः ।
रुद्धश्चचारारिबलेष्वभीतः शिरांसि कृन्तंस्तदनुब्रतानाम् ॥ ४३॥
स लक्षणं राजसुतं प्रसह्य पितुः समीपेऽनयदाशु मृत्यवे ।
बृहद्बलं चोत्तमवीर्यकर्मा वरं रथानामयुतं च पत्रिभिः ॥ ४४॥
द्रोणादयस्तं हरिकोपभीताः प्रत्यक्षतो हन्तुमशक्नुवन्तः ।
सम्मन्त्र्य कर्णं पुरतो निधाय चक्रुर्विचापाश्वरथं क्षणेन ॥ ४५॥
कर्णो धनुस्तस्य कृपश्च सारथी द्रोणो हयानाशु विधम्य सायकैः ।
सचर्मखड्गं रथचक्रमस्य प्रणुद्य हस्तस्थितमेव तस्थुः ॥ ४६॥
भीतेषु कृष्णादथ तद्वधाय तेष्वाससादाऽशु गदायुधं गदी ।
दौःशासनिस्तौ युगपच्च मम्रतुर्गदाभिघातेन मिथोऽतिपौरुषौ ॥ ४७॥
तस्मिन् हते शत्रुरवं निशम्य हर्षोद्भवं मारुतिरुग्रविक्रमः ।
विजित्य सर्वानपि सैन्धवादीन् युधिष्ठिरस्यानुमते न्यषीदत् ॥ ४८॥
व्यासस्तदा तानमितात्मवैभवो युधिष्ठिरादीन् ग्लपितानबोधयत् ।
विजित्य संशप्तकपूगमुग्रो निशागमे वासविराप साच्युतः ॥ ४९॥
निशम्य पुत्रस्य वधं भृशार्तः प्रतिश्रवं सोऽथ चकार वीरः ।
जयद्रथस्यैव वधे निशायां स्वप्नेऽनयत् तं गिरिशान्तिकं हरिः ॥ ५०॥
स्वयमेवाखिलजगद्रक्षाद्यमितशक्तिमान् ।
अप्यच्युतो गुरुद्वारा प्रसादकृदहं त्विति ॥ ५१॥
ज्ञापयन् फल्गुनस्यास्त्रगुरुं गिरिशमञ्जसा ।
प्रापयित्वैनमेवैतत्प्रसादादस्त्रमुद्बणम् ।
चक्रे तदर्थमेवास्य रक्षां चक्रे तदात्मिकाम् ॥ ५२॥
सान्त्वयित्वा सुभद्रां च गत्वोपप्लाव्यमच्युतः ।
योजयित्वा रथं प्रातः सार्जुनो युद्धमभ्ययात् ॥ ५३॥
श्रुत्वा प्रतिज्ञां पुरुहूतसूनोर्दुर्योधनेनार्थितः सिन्धुराजम् ।
त्रातास्म्यहं सर्वथेति प्रतिज्ञां कृत्वा द्रोणो व्यूहमभेद्यमातनोत् ॥ ५४॥
स दिव्यमग्र्यं शकटाब्जचक्रं कृत्वा स्वयं व्यूहमुखे व्यवस्थितः ।
पृष्ठे कर्णद्रौणिकृपैः सशल्यैर्जयद्रथं गुप्तमधात् परैश्च ॥ ५५॥
अथार्जुनो दिव्यरथोपरिस्थितः सुरक्षितः केशवेनाव्ययेन ।
विजित्य दुर्मर्षणमग्रतोऽभ्ययाद् द्रोणं सुधन्वा गुरुमुग्रपौरुषः ॥ ५६॥
प्रदक्षिणीकृत्य तमाश्वगात् ततः कालात्ययं त्वेव विशङ्कमानः ।
रथं मनोवेगमथानयद्धरिर्यथा शराः पेतुरमुष्य पृष्ठतः ॥ ५७॥
विजित्य हार्दिक्यमथाप्रयत्नः स इन्द्रसूनुः प्रविवेश तद् बलम् ।
विलोळयामास च सायकोत्तमैर्यथा गजेन्द्रो नळिनीं बलोद्धतः ॥ ५८॥
स उच्चकाशेऽतिरथो रथोत्तमे सवासुदेवो हरिणा यथेन्द्रः ।
चकर्त चोग्रो द्विषतां शिरांसि शरैः शरीरान्तकरैः समन्ततः ॥ ५९॥
दृढायुमच्युतायुं च हत्वा विन्दानुविन्दकौ ।
शराभ्यां प्रेषयामास यमाय विजयो युधि ॥ ६०॥
सुदक्षिणं च काम्बोजं निहत्याम्बष्ठमेव च ।
श्रुतायुधं नदीजातं वरुणादाससाद ह ।
यस्यादाद् वरुणो दिव्याममोघां महतीं गदाम् ॥ ६१॥
स तु तेन शरैस्तीक्ष्णैरर्पितो विरथं क्षणात् ।
चकार पार्थस्य रथमारुह्यारिधराय ताम् ॥ ६२॥
गदां चिक्षेप सा तस्य वारुणेः शिर एव तु ।
बिभेद शतधा शीर्णमस्तिष्कः सोऽपतद् भुवि ॥ ६३॥
अयुद्ध्यन्तं स्वगदया यदि ताडयसि स्वयम् ।
तया विशीर्णमस्तिष्को मरिष्यसि न संशयः ।
अमोघा चान्यथा सेयं गदा तव भविष्यति ॥ ६४॥
इत्यब्रवीत् तं वरुणः पुरा तेन स केशवे ।
अयुद्ध्यति गदाक्षेपात् तया शीर्णशिरा अभूत् ॥ ६५॥
हतेषु वीरेषु निजेषु सङ्घशो विद्रावितेष्वालुळिते च सैन्ये ।
दुर्योधनो द्रोणमुपेत्य दीनमुवाच हा पार्थ उपेक्षितस्त्वया ॥ ६६॥
इतीरितेऽभेद्यममुष्य वर्म बद्ध्वा महामन्त्रबलात् स विप्रः ।
जगाद येनैव बलेन पार्थैर्विरुद्ध्यसे तेन हि याहि फल्गुनम् ॥ ६७॥
इतीरितो धार्तराष्ट्रः स चापमादाय सौवर्णरथोपरिस्थः ।
जगाम पार्थं तमवारयच्च शरैरनेकैरनलप्रकाशैः ॥ ६८॥
विव्याध पार्थोऽपि तमुग्रवेगैः शरैर्न ते तस्य च वर्मभेदम् ।
चक्रुस्ततो वासविर्दिव्यमस्त्रं तद्वर्मभेदाय समाददे रुषा ॥ ६९॥
सन्धीयमानं तु गुरोः सुतस्तच्चिच्छेद पार्थोऽथ सुयोधनाश्वान् ।
हत्वा तळेऽविद्ध्यदथैनमुग्रैर्द्रौणिः शरैः पार्थमवारयद् युधि ॥ ७०॥
स द्रौणिकर्णप्रमुखैर्धनञ्जयो युयोध ते चैनमवारयञ्छरैः ।
बभूव युद्धं तदतुल्यमद्भुतं जयद्रथार्थेऽद्भुतवीर्यकर्मणाम् ॥ ७१॥
पार्थे प्रविष्टे कुरुसैन्यमध्यं द्रोणोऽविशत् पाण्डवसैन्यमाशु ।
स तद्रथानीकमुदग्रवेगैः शरैर्विधूय न्यहनच्च वीरान् ॥ ७२॥
स वीरवर्यः स्थविरोऽपि यूनां युवेव मध्ये प्रचचार धन्विनाम् ।
प्रपातयन् वीरशिरांसि बाणैर्युधिष्ठिरं चाऽसददुग्रवीर्यः ॥ ७३॥
नृपग्रहेच्छुं तमवेत्य सत्यजिन्न्यवारयद् द्रौपदिराशु वीर्यवान् ।
निवारितस्तेन शिरः शरेण चकर्त पाञ्चालसुतस्य विप्रः ॥ ७४॥
निहत्य तं वीरतमं रणोत्कटं युधिष्ठिरं बाणगणैः समार्दयत् ।
स शक्तिस्तेन विधाय सङ्गरं निरायुधो व्यश्वरथः कृतः क्षणात् ॥ ७५॥
स ऊर्ध्वबाहुर्भुवि संस्थितोऽपि गृहीतुमाजौ गुरुणाऽभिपन्नः ।
माद्रीसुतस्यावरजस्य यानमारुह्य वेगादपजग्मिवांस्ततः ॥ ७६॥
द्रोणं ततः शैशुपालिः सपुत्रो जारासन्धिः काशिराजः सशैव्यः ।
समासदन् केकयाश्चैव पञ्च समार्दयन् बाणगणैश्च सर्वशः ॥ ७७॥
स तान् क्रमेणैव निकृत्तकन्धराञ्छरोत्तमैरत्र विधाय विप्रः ।
निनाय लोकं परमर्कमण्डलं व्रजन्ति निर्भिद्य यमूर्ध्वरेतसः ॥ ७८॥
विधूयमाने गुरुणोरुसैन्ये पृथासुतानां पृतनाः परेषाम् ।
प्रायो रणे मारुतसूनुनैव हतप्रवीरा मृदिताः पराद्रवन् ॥ ७९॥
अलम्बुसो नाम तदैव राक्षसः समासदन्मारुतिमुग्रपौरुषम् ।
स पीडितस्तेन शरैः सुतेजनैः क्षणाददृश्यत्वमवाप मायया ॥ ८०॥
सोऽदृश्यरूपोऽनुचरानपीडयद् भीमस्य तद् वीक्ष्य चुकोप मारुतिः ।
अस्त्रज्ञतामात्मनिकेशवाज्ञया सन्दर्शयन्नागतधर्मसङ्कटः ॥ ८१॥
त्वाष्ट्रास्त्रमादत्त स काम्यकर्महीनोऽपि भीमस्तत उत्थिताः शराः ।
ते बाणवर्यास्तददृश्यवेधिनो रक्षो विदार्याऽविविशुर्धरातळम् ॥ ८२॥
तद्धन्यमानं प्रविहाय भीममपाद्रवद् दूरतरं सुभीतम् ।
ततस्तु भीमो द्विषतां वरूथिनीं विद्रावयामास शरैः सुमुक्तैः ॥ ८३॥
तदैव कृष्णातनयाः समेता जघ्नुः शलं संयति सौमदत्तिम् ।
अलम्बुसं प्राप तदा घटोत्कचः परस्परं तौ रथिनावयुद्ध्यताम् ॥ ८४॥
घटोत्कचस्तं विरथं विधाय खस्थं ख एवाभियुयोध संस्थितः ।
ततस्तु तं भीमसुतो निगृह्य निपात्य भूमौ प्रददौ प्रहारम् ॥ ८५॥
पदा शिरस्येव स पिष्टमस्तको ममार मध्ये पृथिवीपतीनाम् ।
तस्मिन् हते भैमसेनिः कुरूणां व्यद्रावयद् रथवृन्दं समन्तात् ॥ ८६॥
तदाऽऽसदत् कृतवर्मा रथेन सेनां पाण्डूनां शरवर्षं प्रमुञ्चन् ।
ददौ वरं तस्य हि पूर्वमच्युतः प्रीतः स्तुत्या सर्वजयं मुहूर्ते ॥ ८७॥
स तेन पाञ्चालगणान् विजिग्ये यमौ च भीमस्य पुरोऽथ तं च ।
विव्याध बाणेन स वासुदेववरं विजानन् न तदा समभ्ययात् ॥ ८८॥
विनैव वृष्णीन् विजये वरो यदमुष्य तेनास्य हयान् स सात्यकिः ।
निहत्य बाणैरतुदत् स यानमन्यत् समास्थाय ततोऽपजग्मिवान् ॥ ८९॥
तदा हरिः पाञ्चजन्यं सुघोषमापूरयामास जयेऽभियुद्ध्यति ।
कर्णादिभिर्द्रौणिमुखै रिपूणां बलप्रहाणाय परः परेभ्यः ॥ ९०॥
स पाञ्चजन्योऽच्युतवक्त्रवायुना भृशं सुपूर्णोदरनिस्सृतध्वनिः ।
जगद् विरिञ्चेशसुरेन्द्रपूर्वकं प्रकम्पयामास युगात्यये यथा ॥ ९१॥
गाण्डीवघोषे च तदाऽभिभूते युधिष्ठिरो भीतभीतस्तदेत्य ।
शैनेयमूचे परसैन्यमग्ने पार्थे स्वयं युद्ध्यति केशवः स्म ॥ ९२॥
न श्रूयते गाण्डीवस्याद्य घोषः संश्रूयते पाञ्चजन्यस्य घोषः ।
तद् याहि जानीहि तमद्य पार्थं यदि स्म जीवत्यसहाय एषः ॥ ९३॥
% % हृषीकेशतीर्थीये तु `गाण्डीवस्य' इति पठ्यते ।
छन्दःस्वारस्यात् % `गाण्डिवस्य' इत्येव पाठः स्यादिति सम्भाव्यते -- इति ब. गोविन्दाचार्यः ।
इतीरितः सात्यकिरत्र विप्रान् सम्पूज्य वित्तैः परमाशिषश्च ।
जयाय तेभ्यः प्रतिगृह्य सेनामुखं ययौ भीमसेनानुयातः ॥ ९४॥
भीमस्तु सेनामुखमाशु भित्त्वा प्रावेशयद् युयुधानं चमूं ताम् ।
स युद्ध्यमानो गुरुणाऽभ्युपेक्षितः सूतं निहत्य द्रावयामास चाश्वान् ॥ ९५॥
बलं विवृद्धं च तदाऽस्य सात्यकेर्विप्राशीर्भिः कृष्णवरादपि स्म ।
बलस्य वृद्धिर्हि पुराऽस्य दत्ता कृष्णेन तुष्टेन दिने हि तस्मिन् ॥ ९६॥
ततो विवृद्धोरुबलात् स सात्यकिः संस्थाप्य भीमं प्रययौ रथेन ।
तं बाणवर्षैः पृतनां समन्तान्निघ्नन्तमाजौ हृदिकात्मजोऽभ्ययात् ॥ ९७॥
तयोरभूद् युद्धमतीव दारुणं तत्राकरोत् तं विरथं स सात्यकिः ।
विजित्य तं सात्यकिरुग्रधन्वा ययावतीत्यैव शिरांसि यूनाम् ।
कृन्तन् शरैस्तं जलसन्ध आगमद् रणे गजस्कन्धगतोऽभियोद्धुम् ॥ ९८॥
निवारयन्तं तमसँह्यविक्रमं निहत्य बाणैः समरे स सात्यकिः ।
विलोळयामास बलं कुरूणां निघ्नन् गजस्यन्दनवाजिपत्तिनः ॥ ९९॥
स पार्वतीयांश्च शिलाप्रवर्षिणो निहत्य विद्राप्य च सर्वसैनिकान् ।
समासदत् केशवफल्गुनौ च बली तमाराऽशु च यूपकेतुः ॥ १००॥
तयोरभूद् युद्धमतीव घोरं चिरं विचित्रं च महद् विभीषणम् ।
परस्परं तौ तुरगान् निहत्य निपात्य सूतौ धनुषी निकृत्य ।
समीयतुश्चर्ममहासिधारिणौ विचित्रमार्गान् युधि सञ्चरन्तौ ॥ १०१॥
स सौमदत्तिर्भुवि सात्यकिं रणे निपात्य केशेषु च सम्प्रगृह्य ।
पदाऽस्य वक्षस्यधिरुह्य खड्गमुदग्रहीदाशु शिरोऽपहर्तुम् ॥ १०२॥
तद् वासुदेवस्तु निरीक्ष्य विश्वतश्चक्षुर्जगादाऽशु धनञ्जयं रणे ।
त्रायस्व शैनेयमिति स्म सोऽपि भल्लेन चिच्छेद भुजं परस्य ॥ १०३॥
स तेन चोत्कृत्तसखड्गबाहुर्विनिन्द्य पार्थं निषसाद भूमौ ।
प्रायोपविष्टः शरसंस्तरे हरिं द्ध्यायन् विनिन्दन्नसुरप्रवेशात् ॥ १०४॥
गतेऽसुरावेश उतातिभक्त्या ध्यायत्यमुष्मिन् गरुडध्वजं तम् ।
शैनेय उत्थाय निवार्यमाणः कृष्णार्जुनाद्यैरहरच्छिरोऽस्य ॥ १०५॥
तदा स्वकीयं रथमेतदर्थं क्लृप्तं ददौ सात्यकये ससूतम् ।
कृष्णोऽथ पार्थस्य हयास्तृषाऽर्दितास्तदाऽसृजद् वारुणास्त्रं स पार्थः ॥ १०६॥
तेनैव तीर्थं परमं चकार तथाऽश्वशालामपि बाणरूपाम् ।
ततो विमुच्यात्र हयानपाययद्धरिस्तदा वासविरार्दयत् परान् ॥ १०७॥
युयोज कृष्णस्तुरगान् रथे पुनर्गतश्रमानुद्धृतसायकान् प्रभुः ।
प्रचोदिते तेन रथे स्थितः पुनस्तथैव बीभत्सुररीनयोधयत् ॥ १०८॥
शिनिप्रवीरे तु गते युधिष्ठिरः पुनश्च चिन्ताकुलितो बभूव ह ।
जगाद भीमं च न गाण्डिवध्वनिः संश्रूयते पाञ्चजन्यस्य रावः ॥ १०९॥
मया नियुक्तश्च गतः स सात्यकिर्भारं च तस्याधिकमेव मन्ये ।
तत् पाहि पार्थं युयुधानमेव च त्वं भीम गत्वा यदि जीवतस्तौ ॥ ११०॥
इतीरितः प्राह वृकोदरस्तं न रक्षितं वासुदेवेन पार्थम् ।
ब्रह्मेशानावपि जेतुं समर्थौ किं द्रौणिकर्णादिधनुर्भृतोऽत्र ॥ १११॥
अतो भयं नास्ति धनञ्जयस्य न सात्यकेश्चैव हरेः प्रसादात् ।
रक्ष्यस्त्वमेवात्र मतो ममाद्य द्रोणो ह्ययं यतते त्वां गृहीतुम् ॥ ११२॥
इतीरितः प्राह युधिष्ठिरस्तं न जीवमाने युधि मां घटोत्कचे ।
धृष्टद्युम्ने चास्त्रविदां वरिष्ठे द्रोणो वशं नेतुमिह प्रभुः क्वचित् ॥ ११३॥
यदि प्रियं कर्तुमिहेच्छसि त्वं मम प्रयाह्याशु च पार्थसात्यकी ।
रक्षस्व सञ्ज्ञामपि सिंहनादात् कुरुष्व मे पार्थशैनेयदृष्टौ ॥ ११४॥
तथा हते चैव जयद्रथे मे कुरुष्व सञ्ज्ञामिति तेन भीमः ।
उक्तस्तु हैडिम्बममुष्य रक्षणे व्यधाच्च सेनापतिमेव सम्यक् ॥ ११५॥
स चाऽह सेनापतिरत्र भीमं प्रयाहि तौ यत्र च केशवार्जुनौ ।
न जीवमाने मयि धर्षितुं क्षमो द्रोणो नृपं मृत्युरहं च तस्य ॥ ११६॥
इति ब्रुवाणे प्रणिधाय भीमः पुनःपुनस्तं नृपतिं गदाधरः ।
ययौ परानीकमधिज्यधन्वा निरन्तरं प्रवपन् बाणपूगान् ॥ ११७॥
न्यवारयत् तं शरवर्षधारो द्रोणो वचश्चेदमुवाच भीमम् ।
शिष्यस्नेहाद् वासविः सात्यकिश्च मया प्रमुक्तो भृशमानतौ मयि ॥ ११८॥
स्वीया प्रतिज्ञाऽपि हि सैन्धवस्य गुप्तौ मया पार्थकृते विसृष्टा ।
दास्ये न ते मार्गमहं कथञ्चित् पश्यास्त्रवीर्यं मम दिव्यमद्भुतम् ॥ ११९॥
इत्युक्तवाक्यः स गदां समाददे चिक्षेप तां द्रोणरथाय भीमः ।
उवाच चाहं पितृवन्मानये त्वां सदा मृदुस्त्वां प्रति नान्यथा क्वचित् ॥ १२०॥
अमार्दवे पश्य च यादृशं बलं ममेति तस्याऽशु विचूर्णितो रथः ।
गदाभिपातेन वृकोदरस्य ससूतवाजिध्वजयन्त्रकूबरः ॥ १२१॥
द्रोणो गदामापततीं निरीक्ष्य त्ववप्लुतो लाघवतो धरातळे ।
तदैव दुर्योधनयापितं रथं परं समास्थाय शरान् ववर्ष ह ॥ १२२॥
शरैस्तदीयैः परमास्त्रमन्त्रितैः प्रवृष्यमाणो जगदीरणात्मजः ।
शिरो निधायाऽशु पुरो वृषो यथा तमभ्ययादेव रथादवप्लुतः ॥ १२३॥
अमोजवादेव तमाप्य भीमो रथं गृहीत्वाऽम्बर आक्षिपत् क्षणात् ।
शक्तोऽप्यहं त्वां न निहन्मि गौरवादित्येव सुज्ञापयितुं तदस्य ॥ १२४॥
सुवाजिसूतः स रथः क्षितौ पतन् विचूर्णितोऽस्माद् गुरुरप्यवप्लुतः ।
तदा विशोकोऽस्य रथं समानयत् तमारुहद् भीम उदारविक्रमः ॥ १२५॥
द्रोणोऽपि दुर्योधनदत्तमन्यं रथं समास्थाय युधिष्ठिरं ययौ ।
गृहीतुकामं नृपतिं प्रयान्तं न्यवारयत् संयति वाहिनीपतिः ॥ १२६॥
विदारितां द्रोणशरैः स्वसेनां संस्थाप्य भूयो द्रुपदात्मजः शरैः ।
द्रोणं निवार्यैव चमूं परेषां विद्रावयामास च तस्य पश्यतः ॥ १२७॥
तयोरभूद् युद्धमतीव रौद्रं जयैषिणोः पाण्डवधार्तराष्ट्रयोः ।
अत्यद्भुतं सन्ततबाणवर्षतमनारतं सुचिरं निर्विशेषम् ॥ १२८॥
ततः प्रायाद् भीमसेनोऽमितौजा मृद्गञ्छरैः कौरवराजसेनाम् ।
विन्दानुविन्दप्रमुखा धार्तराष्ट्रास्तमासेदुर्द्वादश वीरमुख्याः ।
विद्धः शरैस्तैर्बहुभिर्वृकोदरः शिरांसि तेषां युगपच्चकर्त ॥ १२९॥
हतेषु तेषु प्रवरेषु धन्विनां सत्यव्रतः पुरमित्रो जयश्च ।
वृन्दारकः पौरवश्चेत्यमात्याः समासेदुर्धार्तराष्ट्रस्य भीमम् ॥ १३०॥
स तैः पृषत्कैरवकीर्यमाणः शितान् विपाठान् युगपत् समाददे ।
जहार तैरेव शिरांसि तेषां हतेषु तेष्वेव परे प्रदुद्रुवुः ॥ १३१॥
स सिंहवत् क्षुद्रमृगान् समन्ततो विद्राप्य शत्रून् हृदिकात्मजं रणे ।
अभ्यागमत् तेन निवारितः शरैः क्षणेन चक्रे विरथाश्वसूतम् ।
स गाढविद्धस्तु वृकोदरेण रणं विसृज्यापययौ क्षणेन ॥ १३२॥
विजित्य हार्दिक्यमथाऽशु भीमो विद्रावयामास वरूथिनीं ताम् ।
सम्प्रेषयन् सर्वनराश्वकुञ्जरान् यमाय यातो हरिपार्थपार्श्वम् ॥ १३३॥
दृष्ट्वैव कृष्णविजयौ परमप्रहृष्टस्ताभ्यां निरीक्षित उत प्रतिभाषितश्च ।
सञ्ज्ञां नृपस्य स ददावपि सिंहनादान् श्रुत्वा परां मुदमवाप स चाग्र्यबुद्धिः ॥ १३४॥
भीमस्य नानदत एव महास्वनेन विण्मूत्रशोणितमथो मृतिमापुरेके ।
भीतेषु सर्वनृपतिष्वमुमाप तूर्णं कर्णो विकर्णमुखरा अपि धार्तराष्ट्राः ॥ १३५॥
हत्वा विकर्णमुत तत्र च चित्रसेनं सञ्चूर्णितं च विदधे रथमर्कसूनोः ।
घोरैः शरैः पुनरपि स्म समर्द्यमानः कर्णोऽपयानमकरोद् द्रुतमेव भीमात् ॥ १३६॥
आश्वास्य चैव सुचिरं पुनरेव भीमं युद्धाय याति धृतराष्ट्रसुतैस्तथाऽन्यैः ।
तांश्चैव तत्र विनिहत्य तथैव कर्णो व्यश्वायुधः कृत उतापययौ क्षणेन ॥ १३७॥
विकर्णचित्रसेनाद्या एवं वीरतमाः सुताः ।
कर्णस्य पश्यतो भीमबाणकृत्तशिरोधराः ॥ १३८॥
निपेतुर्धृतराष्ट्रस्य रथेभ्यः पृथिवीतळे ।
त्रयोविंशतिरेवात्र कर्णसाहाय्यकाङ्क्षिणः ॥ १३९॥
एकवींशतिवारं च व्यश्वसूतरथध्वजः ।
गाढमभ्यर्द्दितस्तीक्ष्णैः शरैर्भीमेन संयुगे ॥ १४०॥
प्राणसंशयमापन्नः सर्वलोकस्य पश्यतः ।
रणं त्यक्त्वा प्रदुद्राव रुदन् दुःखात् पुनःपुनः ॥ १४१॥
द्वाविंशतिमयुद्धे तु रामदत्तं सुभास्वरम् ।
अभेद्यं रथमारुह्य विजयं धनुरेव च ॥ १४२॥
तद्दत्तमेव सङ्गृह्य तूणी चाक्षयसायकौ ।
आससाद रणे भीमं कर्णो वैकर्तनो वृषा ॥ १४३॥
सुघोर आसीत् स तयोर्विमर्दो भीमस्य कर्णस्य च दीर्घकालम् ।
आकाशमाच्छादयतोः शरौघैः परस्परं चैव सुरक्तनेत्रयोः ॥ १४४॥
ततो भीमो महाबाहुः सहजाभ्यां च संयुतम् ।
त्वां तु कुण्डलवर्मभ्यां शक्नुयां हन्तुमञ्जसा ॥ १४५॥
इति ज्ञापयितुं तस्य कुण्डले कवचं तथा ।
शरैरुत्कृत्य समरे पातयामास भूतळे ॥ १४६॥
एवं तान्यपकृष्याहं हन्यां त्वामिति वेदयन् ।
पुनश्च बहुभिस्तीक्ष्णैः शरैरेनं समार्दयत् ॥ १४७॥
ततस्तु भीमस्य बभूव बुद्धिरस्पर्धिनः सर्वजयो हि दत्तः ।
अमुष्य रामेण नच स्पृधाऽयं कर्णो मया युद्ध्यति कृच्छ्रगो ह्ययम् ॥ १४८॥
तथाऽपि मे भगवानत्यनुग्रहाज्जयं ददात्यात्मवचोऽपहाय ।
मया तु मान्यं वचनं हरेः सदा तस्माद् दास्ये विवरं त्वद्य शत्रोः ॥ १४९॥
एवं स्मृत्वा तेन रन्ध्रे प्रदत्ते कर्णोऽस्त्रवीर्येण धनुर्न्यकृन्तत् ।
रश्मीन् हयानां च ततो रथं स तत्याज नैजं बलमेव वेदयन् ॥ १५०॥
न मे रथाद्यैर्धनुषाऽपि कार्यमित्येव स ख्यापयितुं वृकोदरः ।
खमुत्पपातोत्तमवीर्यतेजा रथं च कर्णस्य समास्थितः क्षणात् ॥ १५१॥
भीतस्तु कर्णो रथकूबरे तदा व्यलीयतातः स वृकोदरो रथात् ।
अवप्लुतो ज्ञापयितुं स्वशक्तिं निरायुधत्वेऽप्यरिनिग्रहादौ ॥ १५२॥
नैच्छद् गृहीतुं विनिहन्तुमेव वा रथं धनुर्वाऽस्य रणेऽपहर्तुम् ।
द्रोणस्य यद्वत् पूर्वमतीव शक्तोऽप्यमानयद् रामवचोऽस्य भक्त्या ॥ १५३॥
सत्यां कर्तुं वासवेश्च प्रतिज्ञां सम्मानयन् वैष्णवत्वाच्च कर्णम् ।
दातुं रन्ध्रं सूर्यजस्य प्रयातः शरक्षेपार्थं दुरमतिष्ठदत्र ॥ १५४॥
ततः कर्णो दूरगतं वृकोदरं सम्मानयन्तं रामवाक्यं विजानन् ।
शरैरविध्यत् स च तानवारयद् गजैर्मृतैस्तांश्च चकर्त कर्णः ॥ १५५॥
व्यसून् गजान् प्रक्षिपन्तं समेत्य संस्पृश्य चापेन वचश्च दुष्टम् ।
संश्रावयामास सुयोधनस्य प्रीत्यै प्रजानन्नपि तस्य वीर्यम् ॥ १५६॥
संश्रावयन्तं वचनानि रूक्षाण्यपाहनद् बाणवरैस्तदाऽर्जुनः ।
स वर्महीनः पार्थबाणाभितप्तो व्यपागमद् भीम आपाऽत्मयानम् ॥ १५७॥
कर्णो भीमे वासवीं नैव शक्तिं विमोक्तुमैच्छन्नैव बीभत्सुतोऽन्यान् ।
हन्यामिति प्राह यतः स कुन्त्यै यद्यप्यवध्यः स तयाऽपि भीमः ॥ १५८॥
नारायणास्त्रं शिरसि प्रपातितं न यस्य लोमाप्यदहच्चिरस्थितम् ।
किं तस्य शक्तिः प्रकरोति वासवी तथाऽन्यदप्यस्त्रशस्त्रं महच्च ॥ १५९॥
भीमः कर्णरथं प्राप्तः शक्तिं नाऽदातुमैच्छत ।
अभिप्रायं केशवस्य जानन् हैडिम्बमृत्यवे ।
ततः कर्णोऽन्यमास्थाय रथमर्जुनमभ्ययात् ॥ १६०॥
दिव्यं रथं धनुश्चैव कृष्णबुद्ध्योऽर्जुनो हरेत् ।
इति भीतस्तु तां शक्तिमादायार्जुनमृत्यवे ।
युद्धायायाद् रथं चापं शक्तिं चैकत्र नाकरोत् ॥ १६१॥
एकं हृतं चेदन्यत् स्यादिति मत्वा भयाकुलः ।
बिभेति सर्वदा नीतेः कृष्णस्यामिततेजसः ॥ १६२॥
निश्चितो मरणायैव मृतिकाले तु तं रथम् ।
आरुह्यागाद्धि पूर्वं तु न कालं मन्यते मृतेः ॥ १६३॥
शक्तिं तु तद्रथगतां प्रसमीक्ष्य कृष्णः संस्थाप्य पार्थमपि सात्यकिमेव योद्धुम् ।
दत्त्वा स्वकीयरथमेव विरोचनस्य पुत्रेण सोऽदिशदमुष्य बलं प्रदाय ॥ १६४॥
शिष्यं त्वशक्तमिह मे प्रतियोधनाय पार्थो ह्यदादिति स सात्यकिमीक्षमाणः ।
संस्पर्धयैव युयुधे विरथं चकार तेनैव सात्यकिरमुं हरियानसंस्थः ॥ १६५॥
न केशवरथे कश्चित् स्थितो याति पराजयम् ।
अतश्च सात्यकिर्नाप कर्णेनात्र पराजयम् ॥ १६६॥
शस्त्रसङ्ग्रहकाले तु कुमाराणां व्रतं भवेत् ।
इत्युक्तं जामदग्न्येन धनुर्विद्यापुराकृता ॥ १६७॥
तच्छत्रुवधरूपं च पूर्वासिद्धं च गूहितम् ।
अविरुद्धं च धर्मस्य कार्यं रामस्य तुष्टिदम् ॥ १६८॥
अनुपद्रवं च लोकस्येत्यतो भीमो व्रतं त्विदम् ।
चकार तूबरेत्युक्ते हन्यामिति रहः प्रभुः ॥ १६९॥
अनुपद्रवाय लोकस्य सुव्यञ्जच्श्मश्रुमण्डलः ।
सुश्मश्रुं मां न कश्चिद्धि तथा ब्रूयादिति स्फुटम् ।
तदर्जुनो विजानाति स्नेहाद् भीमोदितं रहः ॥ १७०॥
अर्जुनस्यापि गाण्डीवं देहीत्युक्तो निहन्म्यहम् ।
इति तच्च विजानाति भीम एको नचापरः ।
गाण्डीवस्याऽगमं पूर्वं जानात्येव हि नारदात् ॥ १७१॥
प्रतिज्ञां भीमसेनस्य ब्रुवतः फल्गुने रहः ।
दुर्योधनस्तु शुश्राव तां च कर्णाय सोऽब्रवीत् ॥ १७२॥
अतूबरोऽपि तेनासौ तस्मात् तूबर इत्यलम् ।
उक्तः प्रकोपनायैव तस्मादर्जुनमब्रवीत् ॥ १७३॥
जानासि मत्प्रतिज्ञां त्वं त्वत्प्रतिज्ञामहं तथा ।
तत्र हन्तव्यतां प्राप्तो मम वैकर्तनोऽत्रहि ॥ १७४॥
प्रतिज्ञातो वधश्चास्य त्वयाऽपि मदनुज्ञया ।
अतस्त्वया मया वाऽयं हन्तव्यः सूतनन्दनः ॥ १७५॥
इत्युक्तो वासविः प्राह हन्तव्योऽयं मयैव हि ।
त्वदीयोऽहं यतस्तेन मत्कृतं त्वत्कृतं भवेत् ॥ १७६॥
न त्वत्कृतं मत्कृतं स्याद् गुरुर्मम यतो भवान् ।
अतो मयैव हन्तव्य इत्युक्त्वा कर्णमब्रवीत् ॥ १७७॥
रूक्षा वाचः श्रावितोऽयं भीमः कृष्णस्य शृण्वतः ।
यच्चाभिमन्युर्युष्माभिरेकः सम्भूय पातितः ॥ १७८॥
अतस्त्वां निहनिष्यामि त्वत्पुत्रं च तवाग्रतः ।
इत्युक्तोऽन्यरथं प्राप्य कर्ण आवीज्जयद्रथम् ॥ १७९॥
द्रौणिकर्णाभिगुप्तं तं नाशकद्धन्तुमर्जुनः ।
तत्र वेगं परं चक्रे द्रौणिः पार्थनिवारणे ॥ १८०॥
नचैनमशकत् तर्तुं यत्नवानपि फल्गुनः ।
तयोरासीच्चिरं युद्धं चित्रं लघु च सुष्ठु च ॥ १८१॥
तद् दृष्ट्वा भगवान् कृष्णो लोहितायति भास्करे ।
अजिते द्रोणतनये त्वहते च जयद्रथे ।
अर्जुनस्य जयाकाङ्क्षी ससर्ज तम ऊर्जितम् ॥ १८२॥
तमोव्याप्ते गगने सूर्यमस्तं गतं मत्वा द्रौणिपूर्वाः समस्ताः ।
विशश्रमुः सैन्धवश्चार्जुनस्य हतप्रतिज्ञस्य मुखं समैक्षत ॥ १८३॥
तदा हरेराज्ञया शक्रसूनुश्चकर्त बाणेन जयद्रथस्य ।
अग्निं विविक्षन्निव दर्शितः शिरस्तदा वचः प्राह जनार्दनस्तम् ॥ १८४॥
नैतच्छिरः पातय भूतळे त्वमितीरितः पाशुपतास्त्रतेजसा ।
दधार बाणैरनुपुङ्खपुङ्खैः पुनस्तमूचे गरुडध्वजो वचः ॥ १८५॥
इदं पितुस्तस्य करे निपात्यतां वरोऽस्य दत्तो हि पुराऽमुनाऽयम् ।
शिरो निकृत्तं भुवि पातयेद् यस्तवास्य भूयाच्च शिरः सहस्रधा ॥ १८६॥
इति स्म वध्यः स पिताऽपि तेनेत्युदीरिते तस्य सन्ध्याक्रियस्य ।
अङ्के व्यधात् तच्छिर आशु वासविः स सम्भ्रमात् तद् भुवि च न्यपातयत् ॥ १८७॥
ततोऽभवत् तस्य शिरः सहस्रधा हरिश्च चक्रे तमसो लयं पुनः ।
तदैव सूर्ये सकलैश्च दृष्टे हाहेति वादः सुमहानथाऽसीत् ॥ १८८॥
भीमस्तदा शल्यसुयोधनादीन् कृपं च जित्वा व्यनदत् सुभैरवम् ।
कुर्वन् साहाय्यं फल्गुनस्यैव तुष्टो बभूव शैनेय उतो हते रिपौ ॥ १८९॥
अपूरयत् पाञ्चजन्यं च कृष्णो मुदा तदा देवदत्तं च पार्थः ।
भीमस्य नादं सहपाञ्चजन्यघोषं श्रुत्वा निहतं सिन्धुराजम् ।
ज्ञात्वा राजा धर्मसुतो मुमोद दुर्योधनश्चाऽस सुदुःखितस्तदा ॥ १९०॥
ततो द्रौणिमुखां सेनां सर्वां भीमोऽभ्यवर्तत।
पार्थः कर्णमुखाञ्छिष्टान् ततोऽभज्यत तद् बलम् ॥ १९१॥
शीर्णां सेनां प्रविविशुर्धृष्टद्युम्नपुरोगमाः ।
ततस्तं देशमापुस्ते यत्र भीमधनञ्जयौ ॥ १९२॥
तत एकीकृताः सर्वे पाण्डवाः सहसोमकाः ।
परान् विद्रावयामासुस्ते भीताः प्राद्रवन् दिशः ॥ १९३॥
विद्राप्यमाणं सैन्यं तं दृष्ट्वा दुर्योधनो नृपः ।
जयद्रथवधाच्चैव कुपितोऽभ्यद्रवत् परान् ॥ १९४॥
स भीमसेनं च धनञ्जयं च युधिष्ठिरं माद्रवतीसुतौ च ।
धृष्टद्युम्नं सात्यकिं द्रौपदेयान् सर्वानेकः शरवर्षैर्ववर्ष ॥ १९५॥
ते विव्यधुस्तं बहुभिः शिलीमुखैः स ताननादृत्य चकर्त बाणैः ।
धनूंषि चित्राणि महारथानां चकार सङ्खे विरथौ यमौ च ॥ १९६॥
आदाय चापानि पराणि तेऽपि दुर्योधनं ववृषुः सायकौघैः ।
अचिन्तयित्वैव शरान्स एको न्यवारयत् तानखिलांश्च बाणैः ॥ १९७॥
तं गाहमानं द्विषतां बहूनां मध्ये द्रोणद्रौणिकृपप्रधानाः ।
दृष्ट्वा सर्वे जुगुपुः स्वात्तचापा अनारतं बाणगणान् सृजन्तः ॥ १९८॥
सुयोधनः कर्णमाह जहि भीममिमं युधि ।
स आह नैष शक्यो हि जेतुं देवैः सवासवैः ॥ १९९॥
दैवाज्जीवाम्यहं राजन् युद्ध्यनेनातिपीडितः ।
अतो घटामहे शक्त्या जयो दैवे समाहितः ॥ २००॥
दुर्योधनो द्रोणमाह सैन्धवस्त्वदुपेक्षया ।
पार्थेन निहतो भीमसात्यकिभ्यां च मे बलम् ॥ २०१॥
प्रतिज्ञा च परित्यक्ता पाण्डवस्नेहतस्त्वया ।
इत्युक्तः कुपितो द्रोणः प्रतिज्ञामकरोत् ततः ॥ २०२॥
इतः परं नैव रणाद् रात्रावहनि वा क्वचित् ।
गच्छेयं नच मोक्ष्यामि वर्म बद्धं कथश्चन ॥ २०३॥
मत्पुत्रश्च त्वया वाच्यः पाञ्चालान् नैव शेषयेः ।
सदौहित्रानितीत्युक्त्वा विजगाहे निशागमे ॥ २०४॥
चमूं परेषामभ्यागाद् धृष्टद्युम्नस्तमाशु च ।
द्रौणिदुर्योधनौ तत्र विरथीकृत्य मारुतिः ।
द्रावयामास तत् सैन्यं पश्यतां सर्वभूभृताम् ॥ २०५॥
अक्षोहिण्यस्तु सप्तैव सेनयोरुभयोरपि ।
हतास्तासां च भीमेन तिस्रो द्वे फल्गुनेन च ॥ २०६॥
सौभद्रसात्यकिमुखैस्तन्मध्ये षोडशांशकः ।
हैडिम्बपार्षतमुखैस्त्रयाच्च दशमांशकः ॥ २०७॥
भीष्मद्रोणद्रौणिभिश्च द्वे समं निहते तदा ।
तदन्यैर्मिळितैः सर्वैस्तच्चतुर्थांश एव च ॥ २०८॥
ततो रात्रौ पञ्चभिश्च पार्थाः षड्भिश्च कौरवाः ।
अक्षोहिणीभिः संव्यूह्य युद्धं चक्रुः सुदारुणम् ।
भीमं सेनां द्रावयन्तं पुनः कर्णः समासदत् ॥ २०९॥
स कर्णपुरतो भीमो दुष्कर्णं कर्णमेव च ।
दुर्योधनस्यावरजौ निष्पिपेष पदा क्षणात् ।
रथाश्वध्वजसूतैश्च सह तौ न व्यदृश्यताम् ॥ २१०॥
निरायुधोऽहमिति मां त्वमात्थ पुरुषं वचः ।
निरायुधः पदैवाहं त्वां हन्तुमशकं तदा ॥ २११॥
इति कर्णस्य तौ भीमः सञ्ज्ञया ज्ञापयन् भुवि ।
पदा पिपेष कालिङ्गं मुष्टिनैव जघान ह ॥ २१२॥
मुष्टिना त्वद्वधायाहं समर्थ इति किं वदे ।
तस्मान्मया रक्षितस्त्वमिति ज्ञापयितुं प्रभुः ।
साश्वसूतध्वजरथः कालिङ्गो मुष्टिचूर्णितः ॥ २१३॥
केतुमांश्च पिता तस्य शक्रदेवः श्रुतायुधः ।
अक्षोहिण्या सेनया च सह भीमेन पातिताः ।
खड्गयुद्धे पुरा भीष्मे सेनापत्यं प्रकुर्वति ॥ २१४॥
कर्णानुजान् ध्रुवाद्यांश्च बहून् जघ्ने स वै निशि ।
सञ्ज्ञां भीमकृतां ज्ञात्वा शक्तिं चिक्षेप चापराम् ।
कर्णः शक्तिर्मया दिव्या न मुक्ता तेन जीवसि ॥ २१५॥
इति ज्ञापयितुं तां तु ज्ञात्वा भीमः क्षणात् तदा ।
खमुत्पत्य गृहीत्वा च कर्णे चिक्षेप सत्वरः ॥ २१६॥
यदि त्वया तदा मुक्ता शक्तिस्त्वां सा हनिष्यति ।
इति ज्ञापयितुं सा च कर्णरक्षणकाङ्क्षिणा ॥ २१७॥
मुक्ता दक्षभुजे साऽथ विदार्य धरणीं तथा ।
भित्त्वा विवेश कर्णस्य दर्शयन्ती निदर्शनम् ॥ २१८॥
ततो भीमः पुनः स्वं तु रथमास्थाय चापभृत् ।
कर्णस्य पुरतः शत्रून् द्रावयामास सर्वतः ॥ २१९॥
तं कर्णो वारयामास शरैः सन्नतपर्वभिः ।
भीमः कर्णरथायैव गदां चिक्षेप वेगतः ॥ २२०॥
स तद्गदाविघाताय स्थूणाकर्णास्त्रमासृजत् ।
तेनास्त्रेण प्रतिहता सा गदा भीममाब्रजत् ॥ २२१॥
भीमो गदां समादाय कर्णस्य रथमारुहत् ।
तया सञ्चूर्णयामास कर्णस्य रथकूबरम् ॥ २२२॥
एवं त्वच्चूर्णने शक्तो मत्कामात् त्वं हि जीवसि ।
एवं निदर्शयित्वैव पुनः स्वं रथमाब्रजत् ॥ २२३॥
पुनः कर्णपुरः सेनां जघान बहुशो रणे ।
कर्णस्तु तं परित्यज्य सहदेवमुपाद्रवत् ॥ २२४॥
स तु तं विरथीकृत्य धनुः कण्ठेऽवसज्य च ।
कुत्सयामास बहुशः स तु निर्वेदमागमत् ॥ २२५॥
न हन्तुमैच्छत् तं कर्णः पृथायै स्वं वचः स्मरन् ।
तं विजित्य रणे कर्णो जघ्ने पार्थवरूथिनीम् ॥ २२६॥
ततो द्रौणिर्विविधैर्बाणसङ्घैर्जघान पार्थस्य चमूं समन्ततः ।
सा हन्यमाना रणकोविदेन न शं लेभे मृत्युनाऽऽर्ता प्रजेव ॥ २२७॥
दृष्ट्वा सेनां द्रौणिबलाभिभूतां तमाह्वयामास घटोत्कचो युधे ।
द्रौणिस्तमाहाऽलमलं न वत्स पुत्रस्तातं योधयस्वाद्य मां त्वम् ॥ २२८॥
इत्युक्त ऊचे न पिता मम त्वं सखा पितुर्यद्यपि शत्रुसंश्रयात् ।
अरिश्च मेऽसीति तमाह यद्यरिं मां मन्यसे तद्वदहं करोमि ते ॥ २२९॥
इत्यूचिवाञ्छक्रधनुःप्रकाशं विष्फार्य चापं प्रकिरञ्छरौघान् ।
अभ्यागमद् राक्षसमुग्रवेगः स्वसेनया सोऽपि तमभ्यवर्तत ॥ २३०॥
स रक्षसां लक्षसमावृतो बली नृभिश्च वीरैर्बहुभिः सुशिक्षितैः ।
अक्षोहिणीमात्रबलेन राक्षसः सङ्क्षोभयामास गुरोः सुतं शरैः ॥ २३१॥
स तेन बाणैर्बहुभिः प्रपीडितो विभिन्नगात्रः क्षतजाप्लुताङ्गः ।
व्यावृत्य नेत्रे कुपितो महद् धनुर्विष्फार्य बाणै रजनीं चकार ॥ २३२॥
सोऽक्षोहिणीं तां क्षणमात्रतः क्षरन् महाशरांस्तानपि राक्षसान् क्षयम् ।
निनाय पुत्रं च घटोत्कचस्य निष्ट्यं पुरा योऽञ्जनवर्मनामकः ॥ २३३॥
निरीक्ष्य सेनां स्वसुतं च पातितं घटोत्कचो द्रोणसुतं शरेण ।
विव्याध गाढं स तु विह्वलो ध्वजं समाश्रितश्चाऽशु ससञ्ज्ञकोऽभवत् ॥ २३४॥
उत्थाय बाणं यमदण्डकल्पं सन्धाय चापे प्रविकृष्य राक्षसे ।
मुमोच तेनाभिहतः पपात विनष्टसञ्ज्ञः स्वरथे घटोत्कचः ॥ २३५॥
विमूर्च्छितं सारथिरस्य दूरं निनाय युद्धाज्जगतो विपश्यतः ।
द्रौणिश्च सेनां निशि तैः शरोत्तमैर्व्यद्रावयत् पाण्डवसोमकानाम् ॥ २३६॥
सञ्ज्ञामवाप्याथ घटोत्कचोऽपि क्रुद्धोऽविशत् कौरवसैन्यमाशु ।
विद्रावयामास स बाणवर्षैः प्रकम्पयामास महारथांस्तथा ॥ २३७॥
तदैव पार्थं प्रति योद्धुमागतं वैकर्तनं वीक्ष्य जगत्पतिर्हरिः ।
घटोत्कचं प्राहिणोच्छक्तिमुग्रां तस्मिन् मोक्तुं पार्थरक्षार्थमेव ॥ २३८॥
स कर्णमाहूय युयोध तेन तस्यानु दुर्योधनपूर्वकाश्च ये ।
द्रोणेन चैतान् समरे स एको निवारयामास ममर्द चाधिकम् ॥ २३९॥
ते बाध्यमाना बहुशो बलीयसा कर्णं पुरोधाय तमभ्ययोधयन् ।
न विव्यथे तत्र रणे स कर्णः स्ववीर्यमास्थाय महास्त्रवेत्ता ॥ २४०॥
निवारयामास गुरोः सुतं तदा भीमस्त्रिगर्ताञ्छतमन्युनन्दनः ।
अलम्बलो नाम तदैव राक्षसः समागमद् भीमसुतं निहन्तुम् ॥ २४१॥
युद्ध्वा प्रगृह्यैनमथो निपात्य घटोत्कचो भूमितळेऽसिनाऽस्य ।
उत्कृत्य शीर्षं तु सुयोधनेऽक्षिपद् विषेदुरत्राखिलभूमिपालाः ॥ २४२॥
अलायुधोऽथाऽगमदुग्रवीर्यो नराशनस्तं स घटोत्कचोऽभ्ययात् ।
युद्ध्वा मुहूर्तं स तु तेन भूमौ निपात्य तं यज्ञपशुं चकार ॥ २४३॥
अथास्य शिर उद्धृत्य क्रोधाद् दुर्योधनोरसि ।
चिक्षेप तेन सम्भ्रान्ताः सर्वे दुर्योधनादयः ॥ २४४॥
घटोत्कचबलख्यात्यै समर्थेनापि यो रणे ।
न हतो भीमसेनेन हतोऽस्मिन् भैमसेनिना ॥ २४५॥
सर्वे सञ्चोदयामासुः कर्णं शक्तिविमोक्षणे ।
अस्मिन् हते हतं सर्वं किं नः पार्थः करिष्यति ॥ २४६॥
एवं सञ्चोद्यमानः स धार्तराष्ट्रैः पुनः पुनः ।
हैडिम्बेनार्द्यमानैस्तु स्वयं च भृशपीडितः ।
आदत्त शक्तिं विपुलां पाकशासनसम्मताम् ॥ २४७॥
तामम्बरस्थाय घटोत्कचाय शैलोपमायातुलविक्रमाय ।
चिक्षेप मृत्यो रसनोपमामलं प्रकाशयन्तीं प्रदिशो दिशश्च ॥ २४८॥
निर्भिण्णवक्षाः स तया पपात विचूर्णयञ्छत्रुबलं हतोऽपि ।
तस्मिन् हते जहृषुधार्तराष्ट्रा उच्चुक्रुशुर्दुधुवुश्चाम्बराणि ॥ २४९॥
तदा ननर्त केशवः समाश्लिषच्च फल्गुनम् ।
ननाद शङ्खमाधमज्जहास चोरुनिस्वनः ॥ २५०॥
तमपृच्छद् गुडाकेशः किमेतदिति दुर्मनाः ।
हते सुतेऽग्रजेऽस्माकं वीरे किं नन्दसि प्रभो ॥ २५१॥
तमाह भगवान् कृष्णो दिष्ट्या जीवसि फल्गुन ।
त्वदर्थं निहिता शक्तिर्विमुक्ताऽस्मिन् हि राक्षसे ॥ २५२॥
ततो युधिष्ठिरो दुःखादमर्षाच्चाभ्यवर्तत ।
कर्णं प्रति तमाहाथ कृष्णद्वैपायनः प्रभुः ॥ २५३॥
ययाऽर्जुनो निहन्तव्यस्तयाऽसौ राक्षसो हतः ।
तन्मा शुचस्त्वं राजेन्द्र दिष्ट्या जीवति फल्गुनः ।
इत्युक्त्वा प्रययौ व्यासस्ततो युद्धमवर्तत ॥ २५४॥
भीमार्जुनाभ्यामिह हन्यमाने बले कुरूणामितरैश्च पाण्डवे ।
प्रदीपहस्ता अथ योधकाश्च सर्वेऽपि निद्रावशगा बभूवुः ॥ २५५॥
दृष्ट्वैव तानाह धनञ्जयस्तदा स्वप्स्यन्तु यावच्छशिनः प्रकाशः ।
इतीरिता आशिषः फल्गुनाय प्रयुज्य सर्वे सुषुपुर्यथास्थिताः ॥ २५६॥
पुनश्च चन्द्रेऽभ्युदिते युधे ते समाययुः शस्त्रमहास्त्रवर्षाः ।
तत्राऽयातः सात्यकिं सोमदत्तो भूरिश्च ताभ्यां युयुधे स एकः ॥ २५७॥
हतौ च तौ पेततुस्तेन भूमौ बाह्लीक एनं समरे त्वयोधयत् ।
स सात्यकिं विरथीकृत्य बाणं वधाय तस्याऽशु मुमोच वीरः ॥ २५८॥
चिच्छेद तं भीमसेनस्त्रिधैव तस्मै शतघ्नीं प्रजहार बाह्लिकः ।
तया हतो विह्वलितो वृकोदरो जघान तं गदया सोऽपतच्च ॥ २५९॥
बाह्लीकः प्रार्थयामास पूर्वं स्नेहपुरस्सरम् ।
भीमं त्वयैव हन्तव्यो रणेऽहं प्रीतिमिच्छता ।
तदा यशश्च धर्मं च लोकं च प्राप्नुयामहम् ॥ २६०॥
इत्युक्त आह तं भीमो नितरां व्यथितस्तदा ।
हन्यां नैवान्यथा युद्धे तत् ते शुश्रूषणं भवेत् ।
इति तेन हतस्तत्र भीमसेनेन बाह्लिकः ॥ २६१॥
हते बाह्लीके कौरवा भीमसेनमभ्याजग्मुः कर्णदुर्योधनाद्याः ।
द्रौणिं पुरस्कृत्य गुरुं च पार्षतः सभ्रातृकः सात्यकिना समभ्ययात् ॥ २६२॥
संशप्तकैरेव पार्थो युयोध तद् युद्धमासीदति रौद्रमद्भुतम् ।
अक्षोहिणी तत्र भीमार्जुनाभ्यां निसूदिता रात्रियुद्धे समस्ता ॥ २६३॥
ततः सूर्यश्चाभ्युदितस्तदाऽतिघोरं द्रोणः कर्म युद्धे चकार ।
स पाञ्चालानां रथवृन्दं प्रविश्य जघान हस्त्यश्वरथान् नरांश्च ॥ २६४॥
विद्रावितास्तेन महारथाश्च नैवाविन्दञ्छर्म बाणान्धकारे ।
युवेव वृद्धोऽपि चचार युद्धे स उग्रधन्वा परमास्त्रवेत्ता ॥ २६५॥
रथार्बुदं तेन हतं च तत्र ततः सहस्रं गुणितं नराणाम् ।
ततो दशांशो निहतो हयानां गजार्बुदं चैव रणोत्कटेन ॥ २६६॥
तथा विराटद्रुपदौ शराभ्यां निनाय लोकं परमाजिमध्ये ।
ततो विजित्यैव गुरोः सुतादीन् धृष्टद्युम्नं भीमसेनो जुगोप ॥ २६७॥
धृष्टद्युम्नो भीमसेनाभिगुप्तो द्रोणं हन्तुं यत्नमुच्चैश्चकार ।
निवारयामास गुरुः शरौघैर्धृष्टद्युम्नं सोऽपि तं सायकेन ।
विव्याध तेनाभिहतः स मूर्च्छामवाप विप्रो निषसाद चाऽशु ॥ २६८॥
धृष्टद्युम्नः सत्वरं खड्गचर्मणी आदाय तस्याऽरुरुहे रथोत्तमम् ।
सञ्ज्ञामवाप्याथ गुरुः शरौघैः प्रादेशमात्रैर्व्यथयामास तं च ॥ २६९॥
स तैरतिव्यथितस्तद्रथाच्च परावृत्तः स्वं रथमारुरोह ।
सुसंरब्धौ तौ पुनरेव युद्धं सञ्चक्रतुर्वृष्टशराम्बुधारौ ॥ २७०॥
निवार्य शत्रुं स शरैर्ब्रह्मास्त्रमसृजद् द्विजः ।
तेन सन्दाहयामास पाञ्चालान् सुबहून् रणे ।
पुरुजित् कुन्तिभोजश्च तेनान्ये च हतास्तदा ॥ २७१॥
भीमोऽर्जुनः सात्यकिश्च पर्यायेण गुरोः सुतम् ।
दूरतो वारयामासुर्महत्या सेनया सह ॥ २७२॥
कर्णदुर्योधनादींश्च शल्यं भोजं कृपं तथा ।
भीमार्जुनौ शरौघेण वारयामासतू रणे ॥ २७३॥
तत्र भीमो गजानीकं जयत्सेनं च मागधम् ।
जघान सुबहूंश्चैव मागधानां रथव्रजान् ॥ २७४॥
अथ माळवराजस्य त्वश्वत्थामाभिधं गजम् ।
भीमसेनहतं दृष्ट्वा वासुदेवप्रचोदितः ।
अश्वत्थामा हत इति प्राह राजा युधिष्ठिरः ॥ २७५॥
अश्वत्थामवधं श्रुत्वा नाहं योत्स्य इति स्वयम् ।
पुरोक्तं धर्मजायैव तेन द्रोणो युधिष्ठिरम् ॥ २७६॥
ब्रूहि सत्यमिति प्राह सत्यमित्येव सोऽब्रवीत् ।
उपांशु कुञ्जरश्चेति द्रोणोऽतो व्यथितोऽभवत् ॥ २७७॥
तस्य भीमो रथेषां च गृहीत्वा न तवेदृशम् ।
योग्यं गुणवतो नित्यं परधर्मोपजीवनम् ॥ २७८॥
इत्याह खस्था मुनयश्चालमेहीति तं तदा ।
ऊचुस्तदखिलं ज्ञात्वा द्रोणः शस्त्रमवासृजत् ॥ २७९॥
स न्यस्य कर्माणि तदाऽखिलानि योगारूढः परमं वासुदेवम् ।
सर्वेश्वरं नित्यनिरस्तदोषं ध्यायन् मुक्त्वा देहमगात् स्वधाम ।
तं केशवः पाण्डवा गौतमश्च यान्तं स्वलोकं दद्दशुर्विहायसा ॥ २८०॥
धृष्टद्युम्नः पाण्डवैर्वार्यमाणोऽप्यगात् खड्गं चर्म चाऽदाय तत्र ।
छित्वाऽसिना तस्य शिरः पुनश्च रथं स्वकीयं त्वरया समास्थितः ।
दृष्ट्वा कृपस्तं सुभृशं भयार्दितः सम्प्राद्रवद् वाजिनमेकमास्थितः ॥ २८१॥
सञ्छिन्ने द्रोणशिरसि गर्हयामास वासविः ।
युधिष्ठिरं च पाञ्चाल्यं सात्यकिश्चापि कोपितः ॥ २८२॥
धृष्टद्युम्नस्तु तावाह कथं भूरिश्रवा हतः ।
इति तं सात्यकिः क्रुद्धो गदापाणिः समभ्ययात् ।
आह्वयामास पाञ्चाल्यस्तं धृतासिरविस्मयः ॥ २८३॥
तदा जग्राह शैनेयं भीमः कृष्णप्रचोदितः ।
शमयामास पार्थं च पाञ्चाल्यस्नेहयन्त्रितः ॥ २८४॥
ते वासुदेवेन तदाऽनुशिक्षिताः स्नेहं पुनः पूर्ववदापुरुत्तमम् ।
यत्ताश्च युद्धाय समुद्यताश्च तदाऽऽगमद् द्रौणिरप्यात्तधन्वा ॥ २८५॥
आश्रुत्य तातं निहतं प्रतिज्ञां चकार निःशेषरिपुप्रमाथने ।
नारायणास्त्रं विससर्ज कोपात् तदा भीता भीममृते समस्ताः ॥ २८६॥
युधिष्ठिरः प्राह विषण्णचेतनः शैनेयपूर्वाः प्रतियान्तु सर्वे ।
सभ्रातृकोऽहं द्रौणिवरास्त्रमग्नो भवेयमित्यत्र जगाद केशवः ॥ २८७॥
नमध्वमस्त्रस्य ततो विमोक्ष्यथेत्यथ प्रणेमुश्च धनञ्जयादिकाः ।
सर्वे न भीमस्तदमुष्य मूर्ध्नि पपात सोऽग्नाविव संस्थितोऽग्निः ॥ २८८॥
अदह्यमाने भीमेऽपि वह्नौ वह्निरिव स्थिते ।
अवेष्टयद् वारुणेन पार्थोऽत्राऽत्मप्रपत्तये ॥ २८९॥
न देहे पतितास्त्रस्य बहिर्वेष्टनतः फलम् ।
तथाऽपि स्नेहवशगो वेष्टयामास फल्गुनः ॥ २९०॥
अमोघत्वं निजास्त्रस्य भीमस्यावध्यतामपि ।
साधयन् सार्जुनः कृष्णो भीमस्य रथमारुहत् ॥ २९१॥
वेष्टितं वारुणास्त्रेण प्रविष्टं बाह्यतस्तदा ।
सहितत्वात् केशवेन नरत्वादथ फल्गुनम् ॥ २९२॥
तदस्त्रं नादहत् ताभ्यां स्वरथादवरोपिते ।
भीम आच्छिन्नहेतौ च तदस्त्रं शान्तिमागमत् ॥ २९३॥
शुद्धक्षत्रियधर्मेषु निरतत्वाद् वृकोदरः ।
वाहनादवतीर्यान्यैः प्रणतेऽपि निरायुधैः ।
सायुधः सरथोऽयुद्ध्यदविषह्यमपीश्वरैः ॥ २९४॥
स्वधर्महानौ मित्राणां कर्तव्यं यन्निषेधनम् ।
अतः सोऽन्यानपि प्राह मा गमध्वमिति स्वयम् ॥ २९५॥
नमस्कार्यमपि ह्यस्त्रं न नम्यं जीवनेच्छया ।
समरे शत्रुणा मुक्तं तस्मात् तन्न चकार सः ॥ २९६॥
अस्त्राभिमानी वायुर्हि देवताऽस्य हरिः स्वयम् ।
तस्माद् भीमं स्वरूपत्वान्नादहच्चाग्निमग्निवत् ॥ २९७॥
मनसैवाऽदरं चक्रे भीमोऽस्त्रे च हरौ तदा ।
क्षत्रधर्मानुसारेण न ननाम च बाह्यतः ॥ २९८॥
वासुदेवः स्वकीयास्त्रं भीमं चामोघमेव तु ।
साधयित्वाऽनन्तशक्तिः पुनरश्वानचोदयत् ॥ २९९॥
पुनः प्रयोक्तुमस्त्रं तं धार्तराष्ट्रोऽभ्यचोदयत् ।
द्रौणिर्न शक्यमित्युक्त्वा धृष्टद्युम्नं समभ्ययात् ॥ ३००॥
आयान्तमीक्ष्यैव गुरोः सुतं तं धृष्टद्युम्नं सात्यकिरन्वयाद् रणे ।
उभौ च तौ सायकाभ्यामविध्यन्निपेततुस्तौ च विमूर्च्छितौ रणे ॥ ३०१॥
भीमस्याभ्यागतस्याश्वान् द्रौणिर्व्यद्रावयद् रणे ।
संस्थापयति तान् भीमे ददर्श द्रौणिमर्जुनः ॥ ३०२॥
ततोऽर्जुनस्तं प्रतियोद्धुमागमद् रुक्षा वाचः श्रावयन् क्रुद्धरूपः ।
तत्राऽग्नेयं द्रौणिरमुञ्चदस्त्रं तेन व्याप्ता पृतना पाण्डवानाम् ॥ ३०३॥
अक्षोहिणी निहता चात्र सेना पार्थं सयानं हरिरुज्जहार ।
जीवन्तमालोक्य सुरेन्द्रनन्दनं द्रौणिः कोपात् कार्मुकं चापहाय ।
ययौ तमागत्य जगाद कृष्णो वेदान्तकृत् पूर्णषाड्गुण्यदेहः ॥ ३०४॥
मा याहि साक्षाद् गिरिशः सुराणां कार्याय भूमौ बलवानजायथाः ।
महच्च कार्यं पुनरस्ति दृष्टं तवाऽशु तच्च प्रतिपादयेति ॥ ३०५॥
तथोदितः प्रातरिति ब्रुवाणो ययौ प्रणम्याखिलवेदयोनिम् ।
ययुस्तमन्वेव सुयोधनादयो दुःखानतास्ते शिबिराय भीताः ॥ ३०६॥
पार्थाश्च सर्वे मुदिता जनार्दनं परं स्तुवन्तः शिबिराय जग्मुः ।
तत्रापि रात्रावमितान् हरेर्गुणाननुस्मरन्तो मुमुदुः समेताः ॥ ३०७॥