यच्चोक्तं ‘एवं धर्मान् पृथक् पश्यन्निति श्रौतार्थापत्तिरपि..
विशेषे श्रौतार्थापत्तिसमर्थनम्
यच्चोक्तं ‘एवं धर्मान् पृथक् पश्यन्निति श्रौतार्थापत्तिरपि न विशेषे प्रमाणं इति तदप्यसारम् । इयं खलु श्रुतिर्भेदनिन्दनेन अभेदं समर्थयन्ती एवमपि धर्मिधर्मभावाभिधानेन तद्घटनाय विशेषं च व्यवस्थापयन्ती स्फुटमुपलभ्यते ।
यदत्रोक्तं गुणगुणिनोर्गुणानां च परस्परं भेदस्यैव बहुश्रुतिप्रतिपन्नतया एवं धर्मानि'ति श्रुतेस्तदभेदप्रतिपादकत्वासंभव इति तत्तुच्छम् । तादृशभेदप्रतिपादकश्रुतेरेकस्या अप्यभावात् । त्वदु- दाहृतासु ‘आनन्दं ब्रह्मणो विद्वान्' 'यः सर्वज्ञः' इत्यादिषु भेदा-श्रवणात्। संबन्धोक्तिमात्रेण तत्र भेदकल्पनं तु न युक्तम् । निरवकाशया 'एवं धर्मान्' इति श्रुत्या भेदस्य प्रतिषिद्धत्वेन तत्कल्पनाऽनवकाशात् । सावकाशनिरवकाशयोर्निरवकाशस्यैव खलु प्राबल्यम् ।
यच्चोक्तं ब्रह्मणो विज्ञानानन्दाभिन्नत्वेऽपि विज्ञानत्वानन्दत्व- रूपप्रवृत्तिनिमित्तभेदमादाय अपरिशेषापर्यायत्वयोः संभव इति तदप्यसारम् । एवं धर्मानिति श्रुत्या तयोरपि भेदनिषेधात् । अर्थ- प्रकाशत्वनिरुपाधिकेष्टत्वरूपयोः तयोरर्थप्रकाशनिरुपाधिकेष्टरू- पाश्रयविशेषसापेक्षत्वाच्च । (न्यायामृतम् प. ५६३)
यश्चात्र उक्तदोषपरिहाराय विज्ञानानन्दयोर्भेदसमर्थनाडम्बरः 'श्रूयतामवधानेन' इत्यादिना प्रदर्शितः स स्वाभ्युपगमविरुद्धः । अभेदेऽपि प्रवृत्तिनिमित्तभेदमाश्रित्य स्वसमर्थितव्यवहारनिर्वाह- पराहतः । ' एवं धर्मानि 'ति श्रुतिप्रतिषिद्धश्च ।
ज्ञानानन्दयोरेकतरपरिशेषे च मोक्षे आनन्दप्रकाशो न स्यात् । यश्च आकाशशब्दस्य शब्दाश्रयत्वादन्यनिमित्तप्रदर्शनप्रयासः सोऽपि घट्टकुटीप्रभातन्यायपुरस्कारः । अन्यस्यापि निमित्तस्य आकाशाभिन्नत्वेन विशेषं विना व्यवहारनिर्वहणाक्षमत्वात् ।
यत्तु विशेषस्य क्लृप्तपदार्थेष्वन्तर्भावाभावकथनेन निरसनं तच्छलमेव । तस्य तत्तत्पदार्थस्वरूपत्वाङ्गीकारात् ।