सत्त्वं खल्वीरितं विषमत्वं प्रयाति ..
सत्त्वादेर्द्रव्यत्वसमर्थनम्
विजयीन्द्र... विवेचनम् :
'सत्त्वं खल्वीरितं विषमत्वं प्रयाति रजः खल्वीरितं विषमत्वं प्रयाति तमः खल्वीरितं विषमत्वं प्रयाति' इति सत्त्वरजस्तमसामपि ईश्वरप्रेर्यत्वावस्थायोगित्वयोः प्रतिपादनात् न अद्रव्यत्वमिति ।
परकालयतिः :
यथा आमघटनिष्ठं कुलालेरितरूपरसगन्धस्पर्शादिकं पाकेन विषमत्वं प्रयातीत्युक्तिः शब्दादेः साक्षात्प्रेर्यत्वावस्थायोगित्व- निबन्धनद्रव्यत्वं न संपादयति किं तु तदुभययोगिनि घटे तद्गुणभूत- रूपाद्यन्तरसंबन्धितामेव बोधयति तथा सत्त्वं खल्वीरितं इत्याद्यपि प्रकृतेरेवावस्थाऽन्तरयोगित्वं इति ।
खण्डनम् :
तत्तुच्छम् । विषमोऽयमुपन्यासः । न हि कुलालः रूपादिगुणमीरयतीति कोऽपि व्यवहरति । नापि रूपं विषमावस्थां प्रयातीति । अत्र पुनः सत्त्वादीनामेव साक्षात्प्रेर्यत्वं वैषम्यावस्थाप्राप्तिश्चोच्येते । गुणानां साम्यावस्था प्रलयः वैषम्यावस्था च सृष्टिः इत्येव शास्त्रीय-व्यवहारः । 'द्वितीया प्रकृतिः प्रोक्ता तद्रूपा हि गुणास्त्रयः' इति
(भा.द्वि.ता.) प्रमाणेन सत्त्वादिगुणानां प्रकृतिस्वरूपत्वोक्त्या च तेषां द्रव्यत्वसिद्धिः ।
किं च सत्त्वादीनामद्रव्यत्वे, 'निबध्नन्ति महाबाहो' इत्युक्त- बन्धकत्वं ‘ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत' इत्युक्तं आवरकत्वं 'कारणं गुणसङ्गोऽस्य' इति उक्तं संयोगित्वं 'प्रकृतिसंभवाः' 'प्रकृतिजैर्गुणैः' इत्युक्तमुपादेयत्वं, 'गुणानेतानतीत्य त्रीन्' इत्युक्त- मत्ययनकर्मत्वं, महत्तत्त्वं प्रत्युपादानत्वं इत्यादिकं तत्र तत्रोक्तमयुक्तं स्यात् । न च वाच्यं प्रकृतेरेवावस्थाविशेषो महत्तत्त्वं न गुणत्रयोपा- दानकमिति । एवं तर्हि तूलस्यैवावस्थाविशेषो वस्त्रं न तु तन्तूपा- दानकमित्याद्यतिप्रसङ्गात् । अतो यत्किंचिदेतत् ।