अव्याकृताकाशस्य द्रव्यान्तरस्य सत्त्वादुक्तसंख्याऽयोगः
अव्याकृताकाशस्य द्रव्यान्तरत्वसमर्थनम्
विजयीन्द्र.... विवेचनम् :
अव्याकृताकाशस्य द्रव्यान्तरस्य सत्त्वादुक्तसंख्याऽयोगः । न च तत्र मानाभावः । 'यावान्वा अय-माकाशः तावानेषोऽन्तर्हृदय आकाश' 'आकाशवत्सर्वगतश्च नित्यः' 'अनादिर्वा अयमाकाश' 'एवमनन्त आत्मा वेदि-तव्यः' इत्यादीनां सत्त्वात् । न च तत्राकाशशब्दः परमात्म-परः । उपमानोपमेयभावस्य भेदनियतत्वात् ।
परकालयतिः:
'प्रसिद्धस्य नासिद्धं निदर्शनं' इति न्यायेन 'अन्तर्बहिश्च तत्सर्वं ' 'नित्यो नित्यानाम्' 'सत्यं ज्ञानमनन्तं' इत्यादिभिरेवानन्तत्वावगमेन गगनकुसुमायितोपमानमुखेन उक्तधर्माणां भगवत्यनुपदेश्यत्वात् इति ।
खण्डनम् :
तत्तुच्छम् । अव्याकृताकाशस्य तदानन्त्यस्य च साक्षिप्रत्यक्षेण सिद्धत्वात्। तस्य शब्दानुमानवेद्यत्वे जातिबधिरमूकानां गगनानिश्चयेन सञ्चार एव कुण्ठितः स्यात् । तदेवं प्रमितस्य गगन- कुसुमायितत्वोक्तिस्त्वदुन्मादमूलैव । संवादेन स्वोक्तस्थिरीकरणाय वेदेऽपि 'दिवीव चक्षुराततम्' इत्यदिषु बहुत्र ब्रह्मणो व्याप्त्यादि-विषये निदर्शनाभिधानस्य श्लिष्टत्वात् । त्वयाऽपि 'ज्योतिरिवा-धूमकः' इत्यादिनिदर्शनानामुदाहरणात् । अल्पत्वनिवृत्त्यादिना धर्मेण सादृश्यपरमपीदं वाक्यं भवति इति तव वचनाच्च । अतो व्याहतमेवंविधं वचनं तिरस्करणीयमेव ।
विजयीन्द्र.... विवेचनम् :
“न चैवं त्वन्मते आकाशाधिकरणे अनन्तत्वादिलिङ्गेन 'आकाशादेवे' त्यादिवाक्यस्य विष्णुपरत्वसाधनमयुक्तं स्यात् । अनन्तत्वस्य अव्याकृताकाशेऽपि सत्त्वादि"ति वाच्यम् । गुणतोऽप्यानन्त्यस्यानन्तशब्दार्थत्वेन तेन तस्य विष्णुपरत्वनिर्णयसंभवात् । परोवरीयस्त्वादिधर्मेण विष्णु-परत्वसिद्धेश्च ।
परकालयतिः :
गुणानन्त्यरहिताकाशदृष्टान्तेन आनन्त्यप्रकारमतिदिशता त्वदुदाहृतवाक्येन 'सत्यं ज्ञानमनन्तं ब्रह्म' इति ब्रह्मलक्षणस्य ब्रह्मण्यनन्तत्वांशे गुणेष्वसंभवसंपादनमेव फलमिति पर्यवसानात् इति ।
खण्डनम् :
तदसारम्। देशकालानन्त्यमात्रे दृष्टान्तीकृतस्य गुण-विषयेऽपि व्यापारं परिकल्प्य दूषणस्य छलोत्तरत्वात् । अन्यथा लेपाभावमात्रे निदर्शनोक्तिपरे 'यथा सर्वगतं सौक्ष्म्यादाक्शं नोपलिप्यते' इत्यादिकेऽप्येवं दोषप्रसरात् ।
परकालयतिः :
हिरण्यगर्भादिषु व्यभिचरितस्य इतराप्रसिद्धस्य त्वदीयसङ्केत-मात्रसिद्धपरोवरीयस्त्वादिकस्य पूर्वपक्षिणं प्रति लिङ्गत्वेन उपन्यस-नायोगाच्च ।
खण्डनम् :
तत्तुच्छम् । परोवरीयश्शब्दः खलु सर्वोत्तमं वक्ति । सच, 'परो मात्रया तन्वा वृधान' इति भाष्योदाहृतश्रुत्या विष्णुमात्रपरः । एवं ‘उद्गीयमान उद्गीथो भगवान्पुरुषोत्तमः' इति स्मृत्या विष्णुमात्रपरएवोद्गीथशब्दः। अतः सङ्केतमात्रत्वाभावात् तल्लिङ्गयोर्व्यभिचारः अन्यतरासिद्धिर्वा न शङ्कार्हा ।
परकालयतिः :
'अनादिर्वा अयमाकाशः' इति आकाशानुत्पत्तिश्रुतिश्च 'गौण्यसंभवात्' इति सूत्रेण गौणीति त्वयैवोक्ता । अतो न साऽप्यत्र प्रमाणम् इति ।
खण्डनम् :
तदप्यसारम् । अवकाशस्यापि पराधीनविशेषलाभलक्षणो-त्पत्तिरिति सर्वविषयत्वादुत्पत्तिश्रुतिर्मुख्यार्था । अनादित्वश्रुतिस्तु न सर्वविषयेति भवति गौणी इति अव्याकृताकाशस्य पराधीन-विशेषावाप्तिरेव तत्रोक्ता । न तु स्वरूपत उत्पत्तिः । अतः स्वरूपत उत्पत्तिमद्भूताकाशापेक्षया भिन्नस्य अतादृशस्य अव्याकृता-काशस्य सद्भाव एतच्छ्रुत्युदाहरणं युक्तमेव । यत्तु प्रमाणसिद्धस्याप्यव्याकृताकाशस्य प्रयोजनाभाव-व्युत्पादनेन पराकरणं तदप्यसारम् । प्रमाणाधीनत्वादेव प्रमेय- सिद्धेः ।