द्रव्यं षड्विधमित्ययुक्तम्

वर्णात्मकशब्दस्य नित्यद्रव्यत्वसमर्थनम्

विजयीन्द्र.... विवेचनम् :

द्रव्यं षड्विधमित्ययुक्तम् । वर्णात्मकशब्दादेर्द्रव्या-न्तरस्य सत्त्वात् ।यस्य वेदाः शरीरम्इति वेदानां ब्रह्म- शरीरत्वोक्त्या द्रव्यत्वसिद्धेः । त्वन्मते अद्रव्यस्य शरीरत्वायोगात् । न च तेषां शरीरत्वं गौणम्, पृथिव्या-दीनामपि तथात्वापातात् ।

परकालयतिः :

'यस्य वेदाः शरीरमिति' श्रुतिः अभिमानिदेवताचतुष्टयस्य भगवच्छरीरत्वपरा । इति ।

खण्डनम् :

तदसारम् । पृथिव्यादिशब्दानामपि तदभिमानिदेवतापर- त्वस्य वक्तुं शक्यत्वेन पृथिव्यादीनामपि परमात्मशरीरत्वासिद्ध्या तेषामपि तथा सति द्रव्यत्वाभावप्रसङ्गात् इत्युक्तदोषस्य तादव-स्थ्यात् । परमात्मनः शरीरनिषेधश्रुतीनां प्राकृतशरीरविषयत्वं वदतस्तव मते मुख्यं शरीरत्वं न देवतानां न वा पृथिव्यादीनाम् । अमुख्यं तु वेदानामपीति वर्णानामपि द्रव्यत्वमेव ।

विजयीन्द्र.... विवेचनम्

तस्य प्रकृतिलीनस्य इत्यत्र सर्ववेदप्रकृतिरोङ्कार इत्या- द्यर्थं वदता त्वया वर्णेष्वपि द्रव्यत्वस्याभ्युपगन्तव्यत्वाच्च । न च तत्र प्रकृतिशब्दितोपादानत्वं गौणमिति वाच्यम् । 'मायां तु' इत्यादावपि तथात्वापातात् ।

परकालयतिः :

प्रकृतिशब्दो नोपादानात्मकः । गुणेषु परस्परमुपादानोपादेय-भावायोगात् । किं तु औपचारिकः । अकारात्मकवर्णरूपशब्दगुण- कवायुशरीरकत्वात् । इति ।

खण्डनम्

तदसारम् । अन्योन्याश्रयात् । सिद्धे वर्णानां गुणत्वे प्रकृति- शब्दस्योपचारकल्पना । उपचारसिद्धौ वर्णानां गुणत्वसिद्धिरिति । वायुगुणत्वं तच्छरीरकत्वादिकं तु कपोणिगुडायितम् । एवमेवोप-चारकल्पनं तु 'मायां तु प्रकृति' इत्यत्रापि प्रसजतीत्युक्तम् । इदं च पररीत्यैव परस्य दूषणाभिधानमिति मन्तव्यम् ।

विजयीन्द्र.... विवेचनम्

वस्तुतस्तु वर्णात्मकशब्दानां नित्यसर्वगतत्वमेव दुर्वारम् । 'वाचा विरूपनित्यया' 'यावद् ब्रह्म विष्ठितं ता- वती वाक्' इत्यादिश्रुतेः ।

परकालयतिः :

अनेकश्रुत्यादिबाधितार्थेष्वनिरूपकस्य एकभ्रमजनकैक- श्रुतिमात्रेण वस्तुस्वरूपान्यथाकरणायोगात् । इति ।

खण्डनम् :

तदसारम् । यावत्तावच्छब्दप्रयोगपुरस्सरं ब्रह्मदृष्टान्तेन वेदानां विष्ठितत्वरूपं सर्वदेशकालव्यापित्वं निरवकाशतया प्रतिपाद-यन्त्याः श्रुतेर्भ्रमजनकत्वोक्तेरेव तवैव महाभ्रममूलत्वात् । अनेक-श्रुत्यादिबाधितार्थेष्वित्यादिकमपि प्रजल्पमात्रम् । 'ऋचः सामानि जज्ञिरे' इत्यादिषु त्वदुक्तश्रुतिषु यत्र क्वाप्युक्तायाः जनेः प्रादुर्भावा-त्मकत्वात्। अवान्तराभिमानिदेवानां शरीरजन्मविषयकत्वाद्वा । तथा हि ब्रह्माण्डे :- 'वेदानां सृष्टिवाक्यानि भवेयुर्व्यक्त्यपेक्षया । अवान्तराभिमानानां देवानां वा व्यपेक्षया । नानित्यत्वं कुतस्तेषा- मनित्यत्वं स्थिरात्मनाम् ॥' इति । 'एकश्रुतिमात्रेण' इत्युक्तिरपि निर्मूला । वेदनित्यत्वप्रतिपादकानां 'नित्या वेदाः समस्ताश्च' 'श्रुतिर्वाव नित्या' 'शाश्वता विष्णुबुद्धिगाः' 'वेदास्ते नित्यविन्न-त्वात्’‘तत्क्रमेणैव तैर्वर्णैःतैः स्वरैरेव नान्यथा' इत्यादीनां परःशतानां प्रमाणानां जागरूकत्वात् ।

यदपि वर्णानां अद्रव्यत्वसाधनाय स्फोटनिराकरणं तदसङ्ग- तम् । न हि कोऽपि स्वस्थात्मा वर्णानां द्रव्यत्वसाधनाय तेषां स्फोट प्रत्युपादानत्वमाह येन तत्सङ्गच्छेत । अद्रव्यत्वे उपन्यस्तः संयोगा-भावहेतुश्च असिद्धः उक्तप्रमाणबाधितश्च । एवं अवस्थावत्त्वविरह-हेतुश्च । वर्णानामपि व्यक्त्यव्यक्त्यवस्थयोः प्रमितत्वात् । 'शब्द- गुणकवायुशरीरत्वादिति त्वदुक्तं वायुविशेषगुणत्वं तु बधिराणामपि शब्दश्रवणापत्तिप्रसङ्गपराहतम् ।

'स एवायं गकार' इति बलीयसी प्रत्यभिज्ञा तु सर्वत्र विजयते । सेयं सावधारणा श्रुतश्रूयमाणयोरत्यन्ताभेदं गोचरयन्ती त्वदुक्तमुच्चारणजन्यत्वादिकं निरवकाशतया निरुणद्धि ।