मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च

आनन्दतारतम्यानुमानसमर्थनम्

यच्च तारतम्यसाधकयुक्तीनां 'परमं साम्यमुपैति' इति श्रुत्या बाधवचनं तदपि भ्रान्तिविलसितम् । अत्रोक्तसाम्यस्य 'मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च' इति स्मृत्यैव व्याख्यातत्वेनात्रोक्तपरमत्वस्य तदनुसारेण सङ्कोचनीय- त्वात् । न च सङ्कोचो न युक्त इति वाच्यम् ।

त्वयाऽपि हि जगद्व्यापारादिभिन्नत्वेन साम्यमिति सङ्कोच आश्रितः । तत्कुत इति वक्तव्यम् ॥ श्रुत्यन्तरविरोधादिति

चेत्समम्॥ आनन्दसाम्यस्य 'मनोजवेष्वसमा बभूवुः' इत्यादि- निरवकाशपरःसहस्रश्रुतिस्मृतिविरुद्धत्वात् ।

ब्रह्मवन्निरतिशयानन्दवत्त्वं, न मुक्तगामि, ब्रह्मलक्षणत्वात्, जगत्कारणत्ववत्, इत्यनुमानदूषणमुपक्रम्य यदुक्तं निरतिशयानन्दः न ब्रह्मलक्षणपर्याप्त्यधिकरणं किं तु स्वगतयावद्गुणतः परिच्छित्ति- रहितत्वं इत्यादि तदपि हेयम् । 'नेह नानास्ति किञ्चने'त्यादिश्रुतिभिः ब्रह्मणि स्वगतभेदनिषेधेनानन्दादिप्रत्येकगुणोऽपि लक्षणपर्याप्त्य- धिकरणमेव ।विज्ञानमानन्दं ब्रह्म' 'कं ब्रह्म खं ब्रह्म' इत्यादौ सामानाधिकरण्येन 'स्वाभाविकी ज्ञानबलक्रिया च' इति स्वाभा- विकत्ववचनेन ज्ञानादीनां तत्स्वरूपत्वावगमात् ॥ 'लक्षणं परमानन्दो विष्मोरेव न संशयः । अव्यक्तादितॄणान्तास्तु

विप्लुडानन्दभागिनः' इति इतरेषां निषेधपूर्वकं परमानन्दस्य विष्णु- लक्षणत्वेनावधारणात् । 'को ह्येवान्यादिति श्रुत्या जंगच्चेष्टकत्व- लिङ्गेन तस्यैव परमानन्दरूपताया उपपादनाच्च । न हि त्वत्पक्षेऽपि मुक्तस्य जगच्चेष्टकत्वमस्ति ॥

यदपिमुक्तानन्दः परमसाम्यरहितः' इति प्रतिज्ञायां अप्रसिद्धविशेषणत्वमुक्तं तदपि तुच्छम् । त्वत्कुसमयप्राप्तस्य निषेधोप- पत्तेः । न हि निषेधाय प्रमितिरावश्यकी किं तु प्रसक्तिमात्रम् । अन्यथा कथा बधिरकलहः स्यात् ।

यदपि सजातीयान्तरसत्त्वे एव साम्यशब्दप्रयोग इति तदपि मन्दम् ।निर्दोषं हि समं ब्रह्म'' पण्डिताः समदर्शिनः' इत्यादौ विष्णोः स्वस्मिन्नेव स्वसमत्वव्यवहारदर्शनात् । एवं भागवतेऽपि कृष्णेन पितरौ प्रति 'अदृष्ट्वान्यतमं लोके शीलौदार्यगुणैः समम् । अहं सुतो वामभवमिति स्वस्यैव स्वसमत्वोक्तेश्च ।

यच्चापि ब्रह्मस्वरूपगुणादिकं न मुक्तभोग्यमतदीयत्वात् इत्यनुमाने तदीयत्वं विकल्प्य तच्छेषत्वं चेद् व्यभिचारः तत्संब- न्धित्वं चेत्स्वरूपासिद्धिरित्युक्तं तदपि दुरुक्तम् । तत्संबन्धित्वं नाम तद्वृत्तित्वम् । तच्च मोक्षे स्वरूपतयैव स्वीयतया अनुसन्धीयमानत्वं इति न कश्चित्क्षुद्रोपद्रवः । ईश्वरानन्दो मुक्तानन्दादुत्कृष्टः शेष्यानन्द- त्वात् इत्यत्र अपि न त्वदुक्तकुचोद्यावकाशः । अत्र उत्कर्षः स्वरूपत आधिक्यम् । तच्चयतो वाचो निवर्तन्ते' इति श्रुतिसिद्धम् । हेतुश्च 'मात्रामुपजीवन्ति' इति श्रुतिसिद्धः ।

एतदनुमानस्य यः त्वदुक्तः अकर्मवश्यानन्दत्वात् निकर्षशून्यः इति सत्प्रतिपक्षः सोऽपि अत एव उक्तप्रमाणबाधितः ।

यच्चेक्षुक्षीरसेवनेन ईशमुक्तयोः समानानन्दत्ववचनं तत् आत्मनः प्राकाम्यसिद्धिलक्षणानभिज्ञतां ज्ञापयति । योगिनो जीव- स्यापि प्राकाम्यसिद्धिमतः समानफलभक्षणादिना अयोगिनः सकाशादुत्कृष्टा यथेष्टानन्दसंप्राप्तिः सिद्धा यदा, तदा किमु योगे- श्वरस्य हरेरिति जानीहि ।

अस्मदादिमुक्तभोगः मुक्तचतुर्मुखभोगान्निकृष्टः अस्मदादि- मुक्तभोगत्वादित्यादीन्यपि अनया दिशा समाहितानि वेदि-तव्यानि ।

सर्वे शतगुणोद्रिक्ताः पूर्वस्मादुत्तरोत्तरम् ।

पूज्यन्ते चावरैस्ते तु सर्वपूज्यश्चतुर्मुखः ॥

.....................................................

भुञ्जते मुक्तिरेवं ते विस्पष्टं समुदाहृता ॥

इति गारुडवचनेन निरवकाशेन सर्वक्षुद्रोपद्रवनिरासात् ।स्यादेतत् मुक्ततारतम्यानुमानं कालात्ययापदिष्टं परमं साम्यमुपैति इति श्रुतिविरुद्धत्वात्' इति आशंक्यश्रुतेः श्रुतिस्मृतिबाधितत्वेन बाधकत्वासंभवात्इति सुधोक्त्याक्षेपेण यत् प्रलपितं 'न हि कश्चिद्वैदिकः श्रुतेर्बाध इति वक्तुमीहते' इति, तत् 'शास्त्रं हि शब्द- विज्ञानादसन्निकृष्टेऽर्थे विज्ञानमिति शाबरभाष्यतद्वार्तिकाज्ञान- विजृम्भितम् । न ह्यत्र, न्यायसुधायां श्रुतेः बाधो नामाप्रामाण्यमुक्तं येन वैदिकत्वहानिः । किं नाम निरवकाशश्रुतिस्मृतिबाधितत्वेन सङ्कोचनमेव । तच्च 'वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना' इति व्यासस्मृतितः मीमांसापरिशुद्धम् । स्थितेऽप्येवं परतत्वप्रद्वेषिण- स्तव दुर्भाषणं स्वस्यैव तमःपाताभिमुखतां प्रख्यापयति ।