उपादेयमुपादानातिरिक्तम्
उपादानातिरिक्तोपादेयसमर्थनम्
विजयीन्द्र.... विवेचनम् :
उपादेयमुपादानातिरिक्तम् । प्रत्यक्षस्यैव तत्र प्रमाणत्वात् । अस्ति तावत् स्थूलं नीलमेकं साक्षात्करोमीति प्रतीतिः । न चैवं भूतसूक्ष्मेषु अनुद्भूतरूपेषु अनेकेष्वतीन्द्रियेषु च भवितुमर्हति । न वा नीरूपायां प्रकृतौ । घटस्य कपालाद्युपादानकत्वेऽपि तेषामप्यन्ततः प्रकृतिकारणकत्वात् उक्तदोषानिस्तारात् घटगतैकत्वोपपादकस्य कस्याप्य- भावात् ।
परकालयतिः :
श्रुतिस्मृत्यादिषु उपादानानतिरिक्तत्वस्यैव तदुपादेयेषु निरङ्कुशं श्रूयमाणत्वात् इति ।
खण्डनम् :
तत्तुच्छम् । प्रत्यक्षविरुद्धार्थे श्रुत्यादीनामनवकाशात् । न सन्ति चानतिरिक्तत्वप्रतिपादिकाः श्रुतयः । त्वदुदाहृतासु सर्वत्र भेदस्य प्रतिपादनात् । तथा हि । 'सदेव सौम्येदमग्र आसीत्' इत्यत्र सदिदंशब्दयोर्न सामानाधिकरण्यम् । येन इदंशब्दार्थप्रपञ्चेन सच्छब्दार्थब्रह्मणोऽभेदकल्पनाऽवकाशः । सामानाधिकरण्येऽपि इदंशब्दार्थो ब्रह्मैवास्तु । तस्यापि बुद्धिसन्निधानात् । प्रप- ञ्चार्थत्वेऽपि 'यदधीना यस्य सत्ता' इति न्यायेन प्रपञ्चो ब्रह्माधीन- सत्ताक इत्यर्थः अस्तु । उपादानोपादेयभावनिबन्धनं सामानाधिकरण्यमिति तु निर्मूलमेव । 'स्थूलोऽहं' 'तत्त्वमसि' इत्यादिके त्वयाऽपि तथाभावानङ्गीकारादेव ।
'येनाश्रुतं श्रुतं भवति' इत्यादिकं, प्रधानज्ञानेन अप्रधानं ज्ञात- फलं भवतीत्येतदर्थकम् । न तु पुनरुपादानोपादेयभावोक्त्याऽभेद- परम् । दृष्टान्तानानुगुण्यादेव । न हि एकं मृत्पिण्डं सर्वेषां मृण्मयानां घटशरावोदञ्चनादीनामुपादानम् । न वा तेषां मृत्पिण्डेनैकेनाभेदः । अर्थक्रियादिभेदस्य सुस्फुटमुपलम्भात् ।
यदप्युक्तं तदेवेदमिति उपादाने उपादेयप्रत्यभिज्ञा सर्वसंमता इति तदपि न चारु । सर्वोऽपि मृत्तिका घटात्मना परिणता इत्येव जानाति । न तु पुनः मृत्तिकैव घट इति कोऽपि स्वस्थात्मा प्रत्यभिजानाति । विलक्षणशब्दव्यवहार्यत्वं कार्यभेदः, कालभेद; आकार- भेदः, सत्यामेव मृदि घटस्य नाशः, संख्याभेदः, कारकव्यापारवैय्यर्थ्य इत्यादीनां उपादेयस्योपादानाद्भेदं विना अनुपपत्तेः । न चैतेषां, तदनन्यत्वनये त्वद्भाष्यकृदुक्तरीत्या, उपादानस्यैव संस्थानान्तर- भाक्त्वमात्रेणोपपत्तिः । एवं सति जीवेश्वराव्यक्तकालादीनामपि विरुद्धधर्मयोगित्वेन भेदो न सिध्येत् । त्वन्मते प्राकृततमः प्रकाश- दहनतुहिनादिष्वपि एवं संस्थानान्तरभाक्त्वमात्रेण विरुद्धधर्माधि- करणत्वोपपत्तिवचनसौलभ्येन भेदवार्तैव सर्वत्रोच्छिद्येत । यद्यदभिन्नाभिन्नं तत्तदभिन्नमिति न्यायेन उपादानप्रकृत्यभिन्नयोः तमःप्रकाशयोरभेदस्यावर्जनीयत्वात् ।
परकालयतिः :
प्रपञ्चान्तर्गतयावज्जन्यपदार्थेषु उत्तरक्षणावस्थं प्रति पूर्वक्षणावस्थत्वेनोपादानतया कारणभूतेषु क्षणभेदेन भेदाभ्युपगमे तेष्वेकत्वग्राहिप्रत्यभिज्ञाविरोधः इति ।
खण्डनम्:
तदप्यसारम् । सर्वत्र प्रतिक्षणं पदार्थेषु विशेषसद्भावे प्रमाणाभावात् । क्वचित्सद्भावेऽपि न प्रत्यभिज्ञाविरोधः । तत्राभेदस्याप्यभ्युपगमात् । न तावता तवेष्टसिद्धिः । त्वदभिमतायाः सावधारणायाः ‘स एवायं देवदत्तः' इत्याद्यत्यन्ताभेदविषयिण्याः प्रत्यभिज्ञाया अनङ्गीकारात् । परिणामवादे भेदस्याप्यङ्गीकारात् । निरन्वयविनाशानङ्गीकारेण न त्वदापादितक्षणिकवादाविशेषापत्तिश्चेति दिक् ।
परकालयतिः :
अत एवोक्तं सूत्रकृता 'तदनन्यत्वमारंभणशब्दादिभ्यः' इति । तद्विषया श्रुतिरपि च 'वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्' इति । इति ।
खण्डनम्ः
नेमे श्रुतिसूत्रे ब्रह्मजगतोरुपादानोपादेयभावं तयोरभेदं वा ब्रुवाते । अक्षरानानुगुण्यादेव । सूक्ष्माव्यक्तादिविशिष्टस्य कारणस्य ब्रह्मणः स्थूलमहदादिविशिष्टेन कार्येण ब्रह्मणाऽनन्यत्वमत्रोच्यते इति हि त्वदीयभाष्यार्थः । न तद्युक्तम् । शुद्धाचेतनात्मकस्य विशिष्टरूपकार्यगतस्य विशेषणांशस्य महदादेर्विशिष्टचेतन- कार्यत्वाभावेन विशिष्टब्रह्माभेदाभावात् 'इदं सर्वं यदयमात्मा' 'सर्वं खल्विदं ब्रह्म' इत्यादि श्रुत्यनिर्वाहात् । सर्वान्तर्यामित्वादिनैव तन्निर्वाहे च किं विशिष्टाभेदव्युत्पादनेन ॥
किं च, विशिष्टकार्यत्वे ‘तत्सृष्ट्वा तदेवानुप्राविशदि'त्या- द्ययुक्तम् । स्वविशिष्टे स्वानुप्रवेशायोगात् ।
यच्चोक्तम् :- श्रुतौ 'वाचारंभण'मित्यारभ्यते आलभ्यते स्पृश्यते इत्यारंभणं इति व्यस्तं पदम् । तथा च विकारो घटादि नामधेयं च वाचा वाक्पूर्वजलाहरणादिव्यवहाराय मृद्रव्येण स्पृश्यते । एवं च मृद्द्रव्यमेव व्यवहाराय विकारादिभाग्भवतीति श्रुत्यर्थ इति तन्न । श्रुतौ वाक्प्रातिपदिके लक्षणायाः तृतीयाविभक्तौ चतुर्थ्यर्थतायाः आरंभणशब्दे रलयोरभेदेनालंभनार्थतायाः नाम- धेयमित्यत्र चशब्दाध्याहारस्य मृद्द्रव्येणेत्यस्याध्याहारस्य चायोगात् । मृद्द्रव्येण घटादेः स्पृश्यमानत्वोक्त्या तयोर्भेदस्यैवा- पाताच्च । मद्रीत्या सूत्राणां साक्षाद्ब्रह्मविषयत्वे संभवति लौकिककुंडलहिरण्मयत्वादिमात्रविषयत्वं न युक्तम् ।
‘सैव मृदयं घटः' इति सावधारणप्रत्यभिज्ञा तु नास्त्येवेत्युक्तम् ।
यदत्रास्मद्भाष्यार्थास्वारस्यसाधनमुपक्रम्य बह्वसंबद्धं प्रलपितं तदप्रस्तुतं अकाण्डताण्डवायितं असदनुवादात्मकं आत्मनोऽज्ञाना- तिशयमेवाविष्करोति । न हि तत्र विश्वं ब्रह्मानन्यदित्युक्तं येन त्वदुक्तदोषप्रसरः । किं नाम स्वतन्त्रकारणं ब्रह्मणोऽनन्यदित्येव । 'किंस्विदासीदधिष्ठानमित्यत्र किंशब्द आक्षेपार्थक इति भाष्ये स्पष्टमुक्तत्वेऽपि तत्र प्रश्नार्थो वा वितर्कार्थो वा कुत्सितार्थो वेति विकल्पः तवैव कुत्सितत्वं ज्ञापयति ।
स्वतन्त्रसाधनसापेक्षमित्यत्र स्वातन्त्र्यं कर्त्रनधीनसत्तादि- मत्त्वम् । यदा मृदादिकं कुलालानधीनसत्ताकं तथा महदादिकमपि ईश्वरानधीनसत्ताकं इति युक्तिप्राप्तस्यात्र निषेधान्नैवात्र त्वदुक्ताप्रसक्तनिषेधशङ्काऽवकाशः ।
विजयीन्द्र... विवेचनम् :
अवयवातिरिक्तावयव्यनङ्गीकारे घटोऽयं पटोऽयमित्यादिप्रत्यया निरालम्बनाः स्युः । कपाल-तन्तुरूपत्वोपगमात् । तावतामवयवानामिन्द्रियसन्निकर्षा-भावात् । तथाच घटपटाद्येकदेशप्रतीतिरेव स्यात् न घट-पटादिप्रतीतिः ।
परकालयतिः :
मन्मते इन्द्रियसन्निकृष्टसंस्थानविशेषविशिष्टकपालद्वयस्यैव घटबुद्ध्यालम्बनत्वात् । इति ।
खण्डनम्ः
तदसारम् । न हि कपालद्वयस्यापि यावदवयवाः इन्द्रियेण सन्निकृष्यन्ते । न वा कतिपयावयवानामेव घटाभेदः त्वन्मते । येनो-क्तदोषनिस्तारः । कतिपयावयवयाप्रतीतावपि अवयविप्रतीतिः भेदेन वा विशेषेण वा निर्वाह्या । न च तदुभयं त्वया स्वीकृतम् । मम तु उक्तस्थले भेदाभेदाभ्युपगमेन सर्वोऽपि निर्वाहः सुलभः ।
अत एव भेदाभ्युपगमे मूर्तानां समानदेशताविरोधाभावः गुरुत्वान्तरकार्यादर्शनादिकं च मन्मते अभेदाङ्गीकारेण भविष्यति । संयोगप्राप्त्यभावाश्चात्यन्ताभेदाभावादुपपत्स्यन्ते ।
उपादानोपादेययोर्निर्विशेषात्यन्ताभाववादिनस्तु तव, सत्कार्यवादिनः सांख्यस्येव, अपर्यायशब्दभेदः द्वित्वादिसंख्याभेदः तत्तदर्थक्रियाभेदः वृत्तचतुरस्राद्याकारभेदः इत्यादीनां दुरुपपादतैव । न चावस्थाभेदोक्तिमात्रेण निस्तारः । तस्यापि भेदविशेषान्यतरेण विनाऽनुपपत्तेरेवेति दिक् ।