नित्यविभूतिरूपं अण्डाद्बहिर्भूतमप्रमाणकं देशमात्रस्य मूलप्रकृतिव्याप्तत्वात्

अण्डाद्बहिर्भूतशुद्धसत्त्वरूपद्रव्यखण्डनम्

विजयीन्द्र.... विवेचनम् :

नित्यविभूतिरूपं अण्डाद्बहिर्भूतमप्रमाणकं देशमात्रस्य मूलप्रकृतिव्याप्तत्वात् ॥ 'महान्तं च समावृत्य प्रधानं समव- स्थितम् । अनन्तस्य न तस्यान्तः संख्यानं वाऽपि विद्यते । तदनन्तमसंख्यातप्रमाणं चापि वै मतम् ।' इत्यादिना प्रकृत्या- नन्त्योक्त्या तत्सिद्धेः 'तमसः परस्तात्' इत्यादिकाश्च श्रुतयः ब्रह्मणः प्रकृत्यवश्यत्वप्रतिपादनपराः । न तु प्रकृत्यतिरिक्त- स्थानविशेषसद्भावनिर्धारणपराः । अतः अण्डाद्बहिर्भूतशुद्ध-सत्त्वाख्यद्रव्यस्याप्रमाणकत्वात् न तमादाय षाड्विध्योक्तिर्युक्ता इति ।

परकालयतिः :

द्रव्यतिमिरतेजसोरिव अतिविरुद्धस्वभावयोः प्रकृतिशुद्धसत्त्वयोः अन्योन्यव्यापनासंभवात् । प्रसिद्धा हि प्रकृतिः जडत्वेन बन्धकत्वेन च । ..... । शुद्धसत्त्वं तु एवमुक्ताकारविरुद्धाकारतया शास्त्रसिद्धं इति ।

खण्डनम् :

तदसारम्। विरुद्धस्वभावयोः सहानवस्थानमिति नास्ति नियमः । परमात्मनो जगद्व्यापित्वाभावप्रसङ्गात् । सामर्थ्य- विशेषात्तस्य लेपाभावश्चेन्मुक्तानामपि तदनुग्रहसामर्थ्यादेवे- त्यवेहि । यत्तु कालस्य प्रकृतितत्कार्यभिन्नत्ववचनं तदप्यप्रामाणिकमेव । अत एव भागवते 'न च कालविक्रमः' इति मुक्तौ कालादीनां अबन्धकत्वमेवोक्तम् । न पुनस्तस्याप्राकृतत्वम् । एवं 'न कालः तत्र वै प्रभुः' इति त्वदुदाहृतमोक्षधर्मवचनेऽपि ।

'महान्तं च समावृत्य' इत्यादिप्रमाणोक्तं प्रकृतेरानन्त्यं सङ्कोचनीयमिति त्वदुक्तिरत एव निर्मूला । अभ्यासेन निरव- काशतयोक्तस्य संकोचासंभवात् । त्वदुक्तबाधकस्य च परिहृतत्वात् ।

'तमसस्तु पारे' इत्यत्र तमः शब्दोऽन्धकारपर एव न तु त्वदुक्तरीत्या प्रकृतिपर इति न तद्विरोधोऽपि ।