अखण्डः कालो नाभ्युपेयः

अखण्डकालखण्डनम्

विजयीन्द्र.... विवेचनम् :

क्षणलवाहोरात्रमासर्तुसंवत्सरादिसूक्ष्मखण्डकाल-व्यतिरेकेण अखण्डः कालो नाभ्युपेयः । प्रमाणाभावात् ॥ न च 'कालं स पचते तत्र न कालस्तत्र वै प्रभुः' - इत्यादि- प्रमाणं तत्रेति वाच्यम्, सूक्ष्मकालविषयत्वेनैव तेषामुपपत्तेः ।

परकालयतिः:

'अनादिर्भगवान्कालः नान्तोऽस्य द्विज विद्यते' इत्यस्यैव तत्र प्रमाणत्वात् । न ह्यनादित्वानन्तत्वैकत्वानि क्षणपक्षमासादिषु संभवन्ति । इति ।

खण्डनम् :

तदसारम् । उदाहृतवाक्यस्य कालनामकभगवत्परत्वात् । प्रसिद्धकालपरत्वेऽपि न त्वदभिमतातिरिक्ताखण्डकालपरत्वम् । तज्ज्ञापकाभावात् । अनन्तत्वादीनि विशेषणानि कालप्रवाहपराण्येव । एतेन 'नदीव प्रभवा काचिदित्यादिवाक्योदाहरणमपि प्रत्युक्तम् । एवं तत्रत्यसंवत्सरशब्दस्य क्लेशेनाखण्डकालपरत्व- वर्णनमपि । तस्य कालप्रवाहाविच्छेदपरत्वेन त्वदभिमते प्रमाण- त्वायोगादित्युक्तत्वात् । यच्चात्र 'अथ ह वाव नित्यानि पुरुषः प्रकृतिरात्मा काल' इति भगवत्पादीयभाष्योदाहृतश्रुत्या क्षणाद्य- नित्यकालातिरिक्तनित्यकालोऽपि सिद्ध इति तव वचनं तदनुमत-मेव । प्रवाह्यतिरिक्तस्य नित्यस्य च कालप्रवाहस्य यथाप्रमाणमभ्युपगमात्। प्रवाहप्रवाहिणोरत्यन्तभेदस्तु त्वदभिमतः प्रमाणविरुद्धो नोपेयते । अंशांशिनोरभेदस्यापि तत्र स्वीकारात् । न च तत्र प्रमाणाभावः । 'कलामुहूर्तादिमयश्च काल' इति त्वदुदाहृतवाक्यस्यैव तत्र प्रमाणत्वात् । तत्र मयटा अभेदबोधनात् । न च भेदाभेदयोरेकत्र विरोधः । प्रमिते तदनवकाशात् ।

अवयवावयविनोरत्यन्ताभेदः खलु तव सिद्धान्तः । तस्य तव कालावयवानां अवयविनः कालप्रवाहस्य चात्यन्तभेदवर्णनं कथं न स्वव्याहतम् ।

Load More