'तन्तवः पटः' ‘शुक्लः पटः' इत्याद्यभेदव्यवहारयोग्यता..
प्रत्यक्षेण विशेषसिद्धिसमर्थनम्
'तन्तवः पटः' ‘शुक्लः पटः' इत्याद्यभेदव्यवहारयोग्यताऽ- वच्छेदको विशेषोऽपि अभेदप्रत्यक्षबुद्धिविषयः इति प्रत्यक्षमेव विशेषे प्रमाणम्' ” इति सिद्धान्तोक्तं विशेषे प्रत्यक्षं प्रमाणमनूद्य,यदुक्तम् अत्र, तन्तुत्वावस्था पटत्वावस्था चेति प्रकारयोः, शौक्ल्य- पटत्वयोः गुणजात्योर्वा नाभेदप्रतीतिः किं तु तदवच्छिन्नस्य द्रव्य- स्यैव । तेन तन्तुपटयोः शौक्ल्यपटयोर्वाऽभेदस्य प्रत्यक्षाविषयत्वेन न विशेषे प्रत्यक्षमिदं प्रमाणम् इति तत्तुच्छम् । पटत्वशुक्लत्वयो- रेकस्थत्वभाने पटशुक्लयोरैक्यस्यापि तदन्तर्गतेः । अन्यथा क्वाप्यभेदो न सिद्ध्येत् ॥ घटः पटो नेति धीश्च भेदविषया न स्यात् । पटस्य तन्त्वन्यत्वे च गुरुत्वद्वयं स्यात् । तन्तुयुक्ते भूतले पटवृत्तिश्च न स्यात् । मूर्तानां समानाधिकरणताऽयोगात् । (न्याया- मृतम्) । व्यतिषङ्गविशेषविशिष्टास्तन्तव एव पट; शौक्ल्यं पटत्वं चापि पटाभिन्ने एवेति प्रत्यक्षप्रतीत्या सुस्फुटमवगाहनात् तदप- लापो दुराग्रहमूल एवेति भवत्येवैतत्प्रत्यक्षं विशेषे प्रमाणम् । यथैतत्तथोपपादितमधस्ताद्द्रव्याद्रव्यविभागखण्डनावसरे ।