किं च ब्रह्मानन्दानुभवो मोक्ष इत्यनुपपन्नम्

मुक्तावानन्दतारतम्यसमर्थनम्

विजयोन्द्र.... विवेचनम्

किं च ब्रह्मानन्दानुभवो मोक्ष इत्यनुपपन्नम् । स्वानन्दा- नुभवस्यैव पुरुषार्थत्वात् । 'परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते' इति श्रुतौ ब्रह्मप्राप्तिहेतुकस्वरूपानन्दा- विर्भावस्यैव पुरुषार्थत्वप्रतिपादनेन 'रसं ह्येवायं लब्ध्वा आनन्दीभवति' इत्यादि श्रुतेरपि तदनुसारेण नेयत्वात् । तथा च पारमर्षं सूत्रं 'सम्पद्याविहाय स्वेन शब्दात्' इति ।

परकालयतिः :

सुखानुभव एव हि ब्रह्मण आनन्दः । भूमैव हि सुखम् । तमेवानुभवतो मुक्तस्य स एवानुभवः ब्रह्मण इवानन्दः । इति ।

खण्डनम् :

तत्तुच्छम् ।स्वेन रूपेणाभिनिष्पद्यते' इति श्रुतिविरोधात् । तत्र मुक्तैराविर्भूतस्य स्वस्य स्वस्य स्वरूपसुखस्यैवानुभवोक्तेः । अन्यस्य स्वरूपसुखं अन्येन अनुभूयते इति व्याहतम् । 'तमेवा- नुभवतो मुक्तस्य' इत्येवकारेण पूर्व अभेदावधारणं, पुनस्तत्रैव 'ब्रह्मण इवानन्दः' इति इवकारेण सादृश्योक्तिः इत्येते परस्पर- पराहते ।

'एतस्यैवानन्दस्य अन्यानि भूतानि मात्रामुपजीवन्ति' इति श्रुत्या, ब्रह्मण आनन्दस्य उपजीव्यत्वं अपरिमितत्वं, अन्येषां भूतानां आनन्दस्योपजीवकत्वं, मात्रां इत्यनेन परिमितत्वं च प्रतिपादयन्त्या त्वत्पक्षस्य प्रत्याख्यानात्। श्रुतौ अन्यशब्दः मुक्तेतरपर इति तु परस्यापि चेतसि न चकास्ति । निर्मूलत्वात् । 'मुक्ताः प्राप्य परं विष्णुं तद्भोगान् लेशतः क्वचित् । बहिष्ठान्भुञ्जते' इति विशेषवचन- विरोधाच्च ।

'एतेन स च आनन्दः अन्यूनानधिक' इत्युक्तमपहस्तितम् ।नृपाद्याः शतधृत्यन्ता मुक्तिगा उत्तरोत्तरम् । गुणैः सर्वैः शतगुणा मोदन्ते इति हि श्रुतिः' इति पाद्मपुराणवचनं चात्रानुसन्धेयम् । परस्परमपि मुक्तानां साम्यं नास्ति किमुत परमात्मनेति कैमुत्यन्यायः अत्र सूचितः । इति हि श्रुतिरिति व्याचक्षाणः पुराणकृत् स्वोक्तार्थे 'युवा स्यात्' 'स यो मनुष्याणां राद्धः' इत्यादिश्रुतीः सम्मतित्वेन दर्शयति ॥ तेन च उक्तश्रुतयः संसारिमात्रपरा इत्यपव्याख्यानमपि प्रत्याख्याति ।

परकालयतिः :

एवमैन्द्रियकविषयभोगस्य ब्रह्मणि मुक्तेऽप्यप्रसक्त्या ब्रह्मवाखण्डं ब्रह्मणो मुक्तस्य च भोग्यम् । स च द्वयोरपि विषय-विषयिणोरसङ्कोचादन्यूनानतिरिक्तः । इति ।

खण्डनम् :

तदसारम् । ब्रह्मणो मुक्तानां च ऐन्द्रियकविषयभोगस्य प्रमितत्वात् । तत्र तावद्ब्रह्मणः इन्द्रियाणि 'सहस्रशीर्षा पुरुषः सहस्राक्षः' ‘अनेकबाहूदरवक्त्रनेत्रंइत्यादि श्रुतिस्मृतिसिद्धानि । एवं मुक्ताना- मपिअक्षण्वन्तः कर्णवन्तः’'श्यामावदाताः शतपत्रलोचनाः' इत्या- दिप्रमाणैः सिद्धानि । ब्रह्मण इन्द्रियैर्विषयभोगश्च 'विश्वो हि स्थूलभुक्' 'तद्य इमे वीणायां गायन्ति एतं ते गायन्ति' इत्यादि श्रुतिभिः च प्रमितः । एवं मुक्तस्य विषयभोगश्च 'स्त्रीभिर्वा यानैर्वा जक्षन् क्रीडन् रममाणः’ ‘सङ्कल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतः' इत्यादिश्रुतिभिःमुक्ताः प्राप्य परं विष्णुं तद्भोगान् लेशतः क्वचित् । बहिष्ठान् भुञ्जते' ‘विद्योतमानप्रमदोत्तमाभिः' इत्यादिस्मृतिभिश्च सिद्धः । एतेन सर्वोऽपि विषयभोगो हेय इति परास्तम् । ब्रह्मणोऽपि तद्भोगोक्तेः ।

यदुक्तं स च द्वयोरपि विषयिविषययोरसङ्कोचात् अन्यूना- नतिरिक्तः इति तत्तुच्छम् । 'परो मात्रया तन्वा वृधान न ते महिन्व- मन्वश्नुवन्ति’‘ब्रह्मेशानादिभिर्देवैर्यत्प्राप्तुं नैव शक्यते' इति ब्रह्मण आनन्दादिमहिम्नः अपरिमितत्वस्य, तथा 'लक्षणं परमानन्दो विष्णोरेव न संशयः । अव्यक्तादितृणान्तास्तु विप्लुडानन्दभागिनः' इति इतरेषां रमादीनामानन्दस्य विप्लुण्मात्रत्वस्य च निरवकाशतयोक्तेः ।

यच्चात्र मुक्तानामानन्दसाम्ये विष्णोः परमानन्दत्वलक्षणस्य मुक्तेष्वतिव्याप्तिमाशङ्क्य समाहितम् 'दिव्यात्मस्वरूपगनिरति- शयानन्दत्वस्य स्वरूपलक्षणत्वेऽपि आनन्दं ब्रह्मण इति श्रुतिबोधि- तधर्मभूतानन्दस्यातथात्वात्' इति तदपि हेयम् । आनन्द एवंविधविभागस्य निर्मूलत्वात् । ब्रह्मणो धर्माणां तस्मात्पृथक्त्व- दर्शनस्यमृत्योः स मृत्युमाप्नोति'' य इह नानेव पश्यति' इति श्रुत्या तमः फलकत्वेन विनिन्दनाच्च ।

एतेनानन्दसाम्ये 'तुल्यशीलवयोवृत्तादिमतोर्दम्पत्योरिव भवति मुक्तब्रह्मणोरपि भोगः' इति यत् उदाहरणं कथितं तदपि निरस्तम्। अव्यक्ततत्त्वाभिमानिन्या नित्यमुक्ताया रमाया अपि आनन्दस्य ब्रह्मानन्दविप्लुण्मात्रत्वप्रतिपादकप्रमाणपराहतत्वात् । ब्रह्मणो मुक्तानां च तुल्यशीलवयोवृत्ताद्यभावात् । लोके तथा- विधयोरपि दम्पत्योरानन्दसाम्यादर्शनाच्च । अतो यत्किञ्चिदेतत् ।

विजयीन्द्र.... विवेचनम्:

किञ्च आनन्दवल्ल्यां 'श्रोत्रियस्य चाकामहतस्य । ते ये शतं देवगन्धर्वाणामानन्दाः' इति मुक्तानां तरतमभावापन्न- मनुष्यगन्धर्वाद्यानन्दसमानानन्दवत्त्वावेदनान्मुक्तौ तारतम्यं दुर्वारम् । अकामहतः श्रोत्रियो, मुक्त इति, त्वयाऽप्यभ्युप- गमात् । न च सर्वत्र श्रोत्रिय एको ब्रह्मानन्दतुल्यानन्दः । तत्र मनुष्यगन्धर्वाद्यानन्दसमानानन्दप्रतिपादनं तु एकदेशानुवाद इति वाच्यम् । अपूर्वार्थत्वे संभवति अनुवादत्वाङ्गीकारा-योगादित्यन्यत्र विस्तरः । तस्मान्मोक्षस्यैकाकारत्वमनुपपन्नम् ॥

परकालयतिः :

आनन्दवल्ल्यां पूर्वपूर्वसंसार्यानन्दात् उत्तरोत्तरसंसार्यानन्दो - त्कर्षकीर्तनवत् मुक्तानन्दोत्कर्षकीर्तनाभावात्। परमसाम्यपर्यव- सिताभेदबोधकैः मुक्तौ देवादिभेदनिषेधकैः श्रुत्यादिभिः मुक्तावानन्दतारतम्यं बाधितम् । इति ।

खण्डनम् :

तत्तुच्छम् । श्रोत्रियः अवृजिनः अकामहतः इत्यादिशब्दानां मुक्तविषयकत्वेन, निरूप्यमाणतारतम्यस्य मुक्तविषयकत्वावश्यंभावात् ।

न चात्र प्रतिपर्यायोक्तमनुष्यगन्धर्वाद्यानन्दानां मौक्तश्रोत्रिया- द्यानन्दस्य एकदेशत्वं अनूद्यते एव न तु मौक्तानन्दो विधीयते इति वाच्यम् । अस्यार्थस्याशाब्दत्वात् । एकदेशत्वानुवादविवक्षायां प्रतिपर्यायं तदुक्तेर्निरर्थकत्वात् । एकवारकथनेनैव पूर्तेः । अपूर्वं मुक्तानन्दतारतम्यमेवात्र विधीयत इत्यस्य समाख्याप्रमाणसिद्धेः । तथा हि- 'अन्येभ्यस्तु विमुक्तेभ्य आनन्दश्चक्रवर्तिनाम् । मुक्तानां हि शतोद्रिक्तः पितॄणां तेभ्य एव च । तेभ्योऽप्यृषीणां मुक्तानां कर्मदेवाभिधायिनाम् । तेभ्यश्च मुक्तदेवानां तेभ्यश्चोमापतेस्तथा । तस्माच्च ब्रह्मणस्त्वेवं मुक्तस्य गरुडादपि । एष एव ततो विष्णुः पूर्णानन्दः प्रकीर्तितः । यस्य ब्रह्मापि मुक्तः सन् विप्लुण्मात्रं समश्रुते' इति । एतेन संसार्यानन्द एवात्रोच्यते स च शीकरस्थानीयः सर्वेषां मुक्तानामानन्दः ब्रह्मानन्दाभिन्नतया सागरस्थानीयः इत्यादि- कुकल्पनामात्रमूला दुरुक्तयो दूरीकृता ज्ञातव्याः ।

यदत्रोक्तंपरमसाम्यपर्यवसिताभेदबोधकैः मुक्तौ देवादिभेद-निषेधकैः श्रुत्यादिभिः मुक्तावानन्दतारतम्यं बाधितमिति तदप्य- सारम् । साम्यस्य भेदव्याप्तत्वेन अभेदः परमसाम्यपर्यवसितः इत्यस्यायोगात् ।परमं साम्यमुपैति' इति श्रुत्या अभेदस्या- बोधनात् । साम्यस्य पारम्यं च निरञ्जनत्वेनैव । निरञ्जन इति विशे- षणात् ।सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च' इति गीतायां जन्ममरणराहित्येनैव साधर्म्यं न तु सर्वात्मनेति स्पष्टीकरणात् । 'न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः' इति साम्यनिषेधात् । तेन 'परां सिद्धिमितो गता' इत्यत्रापि मुक्तिं गता इत्येवार्थः । न पुनरानन्द- साम्यमिति । भगवत आनन्दस्य 'परो मात्रया 'यतो वाचो निवर्तन्ते' इत्यादिप्रमाणैः अपरिमितत्वस्य वाङ्मनसागोचरत्वस्य च श्रवणेन 'न ते महित्वमन्वश्रुवन्ति' इति इतराप्राप्यत्वश्रवणेन च मुक्तानां तत्साम्यस्यासंभवदुक्तिकत्वात् । उक्तं च वेदान्तदेशिककृताधिकरणसारावल्यां ब्रह्मण आनन्दस्यापरिमितत्वं वाङ्मनसागोचरत्वं च । तथा हि 'आनन्दानन्त्यमाह श्रुतिरिह हि यतो वाच इत्यादिका' इत्यादि तद्वाक्यम् । तत्र इहेत्यस्य आनन्दवल्ल्यामित्यर्थः । व्याख्यातं च चिन्तामणिटीकायां पदयोजनाटीकायां च तथैव । एवं च यः ब्रह्मणः अनन्तानन्दः वाङ्मनसाधिदेवतया श्रुत्यभिमानिन्या नित्यमुक्तया रमया अपि वर्णयितुमप्यशक्यः सः कादाचित्कमुक्तैः प्राप्यते इति कथनं कथं न तिरस्करणीयम् ।

किं च 'परमं साम्यमुपैति' इत्यत्राधीतं पारम्यं न सर्वथा किं तु यावत्प्रमाणानुसारेणाबाधितं तावदेवे 'ति अधिकरणसारावल्यां 'पारम्यं यच्च साम्ये श्रुतमिह न हि तत्सर्वथेत्यप्यधीतं ग्राव्णो हेम्नश्च यद्गत्समधरणधृतौ स्यात्तदुक्तिस्तथाऽत्र' इति दृष्टान्तोक्त्या स्पष्टी- कृतम् । यथा पाषाणसुवर्णयोः परिमाणतः समानयोरपि न वर्णादिना साम्यं तथा मुक्तेश्वरयोरपीति । व्याख्यातं च चिन्तामणि- पदयोजनाटीकयोस्तथैव । तथा च स्वस्वयोग्यसर्वकामानामेव मुक्तानां भोगः न तु ब्रह्मतत्कल्याणगुणानां इति पर्यवस्यति । कल्याणगुणाष्टकभोगं वदद्भिरपि रङ्गरामानुजाचार्यैस्तत्राष्टके आनन्दस्य समावेशो न कृतः । किं तु अपहतपाप्मत्वादिकमन्यदेवेत्यवधेयम् । अधिकरणसारावल्यां, ब्रह्मण आनन्दस्य वाङ्मनसा- गोचरत्वेनापरिमितत्वं कथितम् । पुनः पाषाणसुवर्णदृष्टान्तेन मुक्तब्रह्मणोरानन्दस्य परिमाणतः समानत्वमुक्तम् । तत्तु परस्पर- व्याहतत्वादुपेक्षणीयमित्यन्यदेतत् । न हि अपरिमितस्य परिमाणसामान्यं संभवि ।

तदेवं ब्रह्मानन्दानुभवसाम्यवादः स्वाचार्यवचनव्याहतोऽपि इत्यतिरोहितम् ।

यदत्रोक्तं मुक्तौ देवादिभेदनिषेधकैः श्रुत्यादिभिः मुक्तावानन्द- तारतम्यं बाधितमिति तत्तुच्छम् । आनन्दवल्ल्यां, मुक्तौ इतरत्र च,मनुष्यगन्धर्वादीनां तदानन्दतारतम्यस्य च मीमांसया समर्थित- त्वात् । तन्निषेधकश्रुत्यादीनामभावात् च । त्वदुदाहृतानि तु भेद- साधकान्येव । तथा हि । 'शुनि चैव श्वपाके च पण्डिताः समदर्शिनः' 'निर्दोषं हि समं ब्रह्म' इत्यत्र सर्वत्रावस्थितस्य ब्रह्मणो निर्दोषत्वेन समत्वमेव प्रतिपाद्यते । 'विभेदजनकेऽज्ञाने' इत्यत्र विभेदः मतिभेद एव ।कथमेकात्मनां भेदः' इति भागवते, मित्रभेदः इति लोके च तत्र प्रयोगदर्शनात् । भेदापलापस्य 'ते मुह्यन्ति शुचार्पिताः' इति निन्दनात् । अन्यथा एवमीदृशानां वाक्यानां स्वरूपभेदनिषेधार्थक- त्वाङ्गीकारे छद्मना विनैव तवाद्वैतमतप्रवेशापत्तेः ।

'तदा विद्वान्पुण्यपापे विधूय' इत्यत्र विद्वच्छब्दः ब्रह्मज्ञानि- मात्रपरः न तु त्वदुक्तरीत्या ब्रह्मसमानवेदनवान् इत्यर्थकः ॥ 'मां तु न वेद न कश्चन’‘स्वयमेवात्मनाऽऽत्मानं वेत्थ त्वं पुरुषोत्तम' इत्यादिप्रमाणविरोधात् ।

'परमं ब्रह्म वेद ब्रह्मैव भवति' इत्यत्र यथायोग्यं पूर्णः सन् जीवभावेनैवावतिष्ठत इत्येवार्थः । न हि ब्राह्मणपूजकः शूद्रः स एव ब्राह्मणो भवति । 'एवं मुनेर्विजानत आत्मा भवति गौतम' इत्यत्र 'यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति' इति सदृष्टान्तं शुद्ध- त्वस्यैव प्राप्त्यभिधानात् । अतः कुत्रापि वाक्ये न भेदनिषेधः ।

यश्चात्र साधने फले मुक्तौ च तारतम्याभिधायिनां विस्पष्टानामपि वाक्यानां अन्यथयितुं दुरुपक्रमः सोऽपि विफलः ।

तथाहि :-

'मनोजवेष्वसमा बभूवुः' इत्यत्र आनन्दातिरिक्ततारतम्यमेव प्रतिपाद्यते इत्यर्थकरणं अशाब्दम् । स्वरूपाविर्भावभाजां अंशेन साम्यं अंशांतरेण वैषम्यमित्यस्यासंभावितत्वात् । अन्यथा स्वरूप एव भेदप्रसक्तेः ।

अत्र संसारिभिः एव समत्वाभाव उच्यते न तु मुक्तानां मिथस्तारतम्यमिति तु निर्मूला कल्पना । खद्योतभानू असमावित्यत्र मिथः तारतम्यस्यैव प्रतीतिसिद्धत्वात् । अक्षण्वन्त इत्यादिना मुक्ता- नामेव पूर्वं प्रकृतत्वात् ॥ अन्यथा 'सखायः' इत्यस्यापि संसारिभिः सख्यवन्त इत्येवार्थः स्यात् । न त्वन्योन्यमिति ।

'एवमेवायमात्मा इदं शरीरं निहत्यान्यत्कल्याणतरं रूपं कुरुते पित्र्यं वा गान्धर्वं वा' इत्यादौ कल्याणतरं रूपं पित्र्यादिरूपं मुक्तजीवस्यैव । न च मुक्तौ पितृत्वादिजातिविरहः । तत्सद्भावस्य 'क्षितिपा मनुष्यगन्धर्वाः देवाश्च पितरश्चिराः । आजानजाः कर्मजाश्च देवा इन्द्रः पुरन्दरः । रुद्रः सरस्वती वायुर्मुक्ताः शतगुणोत्तराः' इत्यादि वेदवाक्यैरवगमात् । न च स्वरूपस्य 'कुरुते' इत्युक्तकृतिविषयत्वा- नुपपत्तिः । आवरणनिवृत्त्या स्वरूपाविर्भावस्य कृतिविषयत्वात् ॥

पूर्ववाक्ये उत्क्रान्तिप्रतिपादनेनैव पितृत्वादीनां मुक्तपरत्व- सिद्धिः । उत्क्रान्त्या भगवन्तं उपसंक्रान्तस्य बद्धत्वायोगात् । प्रजा- पत्यादिशब्दानां च रूढ्या बद्धमुक्तोभयतत्तत्परत्वम् । । अवस्थाभेदेऽपि व्यक्तेरेकत्वात् ।

श्रीसुधायां 'आदध्नासः उपकक्षा' इत्यादिनाऽभिहितं तारतम्यं इन्द्रियोपभोग्यविषयसाक्षात्काराभिव्यक्तस्वरूपानन्द- निमित्तक एव । यदत्र विकल्पितं, विषयः ब्रह्म वा गन्धमाल्यादिकं वा इति तत्रोभयमपि इति ब्रूमः । न चाद्ये विषयैक्यात् तत्कृतानन्द-तारतम्यस्य दुरुपपादता । विषयस्यैकत्वेऽपि 'नाविशेषादित्युक्त- साधनतारतम्यानुगुणस्य साक्षात्कारेऽपि तारतम्यस्योपगमात् । नापि द्वितीये विषयवासनावतां मुक्तत्वव्याघातः । दुर्विषय- वासनायां एव स्यात्तथा। स्वयोग्यानां शुभानां सङ्कल्पमात्रादेव पूर्यमाणानां कामस्य मुक्तत्वोपोद्बलकत्वात् । काममात्रस्याभावेअकामहत' इत्यत्र हतशब्दवैयर्थ्यापातात् । अकाम इत्येत्यताव- न्मात्रेण पूर्तेः ।

यदप्युक्तं, आनन्दे तारतम्याङ्गीकारे मुक्तानां द्वेषेर्ष्यादिमत्त्वं प्रसज्यते तारतम्यस्य द्वेषेर्ष्याद्यविनाभूतत्वादिति, तदतितुच्छम् । सच्छिष्येषु व्यभिराचात् । दोषवत्त्वस्योपाधेश्च । त्वदादिदुष्टशिष्येषु साध्यव्यापकत्वात् । मुक्तानां विगतदोषत्वेन साधनाव्यापक- त्वाच्च । समेष्वपि लोके द्वेषेर्ष्यादीनां दोषवशात्सुबहुलमुप- लम्भात् । प्रत्युत विषमसाधनवतामपि फलसाम्य एव द्वेषाद्युत्पत्तिनियमात् परानुकूल एव त्वत्तर्काभासः । अन्यथा साधनाननुरूपफलदातुरीश्वरस्य वैषम्यनैर्घृण्यादिदोषप्रसक्तिश्च ।

यदपि प्रलपितं, ‘नरकेऽपि वसन्नीशो मासौ दुःखभुगीर्यते । नीचोच्चतैव दुःखानां भोग इत्यभिधीयते ।' इति त्वदीये भागवत-तन्त्रे नीचोच्चताया एव दुःखत्वोक्त्या 'निर्दुःखत्वं परानन्दः' इत्युक्तं निर्दुःखत्वमपि मुक्तौ न सिध्येदिति तदपि उन्मादमूलम् । न हि 'नीचोच्चतैव दुःखानां भोग इत्यभिधीयते' इत्यत्र दुःखस्वरूपं विवृतम् । किं तु तद्भोगस्वरूपं एव । नीचोच्चतेत्यस्य च न तारतम्यमर्थः । किं तु दुःखकृतनीचत्वलक्षणविकारः एव । कथमन्यथा नरके नियामकतया वसतः सर्वोत्तमत्वेन तारतम्या- न्तगस्य च दुःखलेपाभाव उपपादितः स्यात् । मुक्तानां च निर्दोष- त्वात् तारतम्यनिबन्धनो नीचत्वलक्षणो विकारो नास्त्येवेति कथं तेषां निर्दुःखत्वासिद्धिः ।

यच्चोक्तं, 'ब्राह्मणक्षत्रियवैश्यादिजीवानामिव श्वसूकरचण्डा- लादिजीवानामपि तदाकारत्वात् तथा तथा आविर्भूतस्वरूपेषु मुक्तेषु परस्परकुत्सनादिप्रसङ्गः । स्वरूपतः श्वसूकरत्वादिकं श्लाघ्य- मित्यत्र नियामकाभावात्' इति । तदप्यसारम् । दोषाभावान्न परस्प- रकुत्सनादिप्रसङ्गः इत्युक्तत्वात् । नियामकाभावश्चासिद्धः ।

'ज्योतिर्मयेषु देहेषु स्वेच्छया विश्वमोक्षिणः । भुञ्जते सुसुखा- न्येव न दुःखादीन् कदाचन ॥' इत्यादीनां ब्रह्मवैवर्तादिप्रमाणानां जागरूकत्वात् । कल्याणतरं रूपं कुरुते इत्यादिश्रुतीनां च । किं च कथमिदमवगतं आयुष्मता वराहसूकराद्याकारमात्रमेव कुत्सित- मिति । तथा सति भगवतो मत्स्यकूर्मवराहाद्याकाराणां मौक्त- गरुडशेषादिदेवाकाराणां च कुत्सितत्वापत्तेः । भागवते वैकुण्ठवर्णनावसरे 'पारावतान्यभृतसारसचक्रवाकदात्यूहहंस-शुकतित्तिरिबर्हिणां यः' इत्यादिना नानाजातीयानां पक्षिणां वैकुण्ठे सद्भावस्य वर्णितत्वात् ।

'रसं ह्येवायं लब्ध्वा' इत्यत्र रसं निरतिशयभोग्यत्वं इति त्वदुक्तोऽर्थः त्वत्कुकल्पनामात्रमूलः । रसशब्दो हि सारवाची सन् विष्णुमभिदधाति । 'रसः सारो वरश्चेति शब्दाः पर्यायवाचकाः' इति वचनात् ॥ लब्ध्वेत्यस्य उपसंक्रम्य प्राप्येत्यर्थः । आनन्दीभवती- त्यस्य आविर्भूतस्वरूपानन्दवान् भवतीत्येवार्थः ।

इन्द्रयेभ्यः परा अर्थाइत्यत्र वशीकार्येषु काष्ठारूपः परमपुरुष इति प्रतिपाद्यते इति यदुक्तं तन्निन्द्यम् । 'उतामृतत्वस्येशानः' इत्या- दिप्रमाणसिद्धमुक्ताधिपतेर्वशीकार्यत्वासंभवात् ।

'तमेव यूयं भजतात्मवृत्तिभिः मनोवचःकायगुणैः स्वक- र्मभिः । अमायिनः कामदुघांघ्रिपङ्कजं यथाऽधिकारावसितार्थसि- द्धये' इति भागवते ऐहिकतत्तत्फलकामे एव तारतम्यं प्रतिपाद्यतेइति यदुक्तं तदसारम् । अत्र 'अमायिनः' इति विशेषणेन निष्काम- कर्मणां लाभेन तत्फलं मोक्ष एव । स एवात्र अर्थसिद्धये इत्यत्रार्थ- शब्देन बोध्यते न त्वैहिकफलम् । चतुर्षु पुरुषार्थेषु प्रधानस्य मोक्षस्यैव ग्रहणं अत्र आवश्यकम् । 'तत्रापि मोक्ष एवार्थः आत्यन्तिकतयेष्यते' इति स्मृतेः । 'अर्थः स्याद्विषये मोक्षे शब्दवाच्ये प्रयोजने' इति अभिधानात् । किं चेदं पृथोर्मुनीन् प्रति वाक्यम् । नैवात्र ऐहिकफलककर्मण उपदेशोऽवकाशमासादयति । 'स्वर्मणा समभ्यर्च्य सिद्धिं विन्दति मानवः' इति गीतायां सिद्धिशब्देन मोक्षस्यैवोक्तेः । व्याख्यातश्चायं श्लोकः मोक्षपरत्वेन बालप्रबोधिन्याम् । तथा वीरराघवकृतटीकायां च इदं पद्यं यथाधिकारं स्वसमीहितं फलं अनतिक्रम्य अर्थसिद्धिः फलसिद्धिः इत्येवं व्याख्यातम् । सर्वप्राणिसमीहितं च मोक्ष एव ।

किं चास्तु वाऽयं श्लोक ऐहिकफलतारतम्यबोधकः । तत्रापि तारतम्यं कुत इति प्रष्टव्यम् । अधिकारसाधनयोस्तारतम्यादिति चेत् हन्त तर्हि तत एव मोक्षेऽपि तारतम्यसिद्धिः ।

अङ्गीकृतश्चायं न्यायस्त्वयाऽपि । तथा हि त्वद्वाक्यंपूर्वपूर्व- पर्यायोक्तेभ्यः उत्तरोत्तरोक्तानां प्रमाणान्तरसिद्धोत्कर्षवतां तत्साम- र्थ्यातिशयलब्धसाधनतारतम्येन फलतारतम्यस्य न्यायतः एव प्राप्तत्वात्इति ।

'मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशा- न्तात्मा' इति भागवते मुक्तशब्दः ईषणात्रयविनिर्मुक्तयतिपरः न मुक्त-परःइति यदुक्तं तदपि स्थवीयः । मुख्यार्थत्यागे बाधकाभावात् । न च मुक्तेष्वेव केषांचित् नारायणपरायणत्वानङ्गीकारे तेषां कामो- पभोगपरायणत्वापत्तिर्बाधिकोक्तेति वाच्यम् । सर्वेषां नारायणायनत्वोपगमेन तादृशापत्तेरनवकाशात् । तथा च परायण इत्यत्र परशब्देन विशेषणात्तारतम्यसिद्धिर्निष्प्रत्यूहा ॥

यच्च “ ‘अम्बुवदग्रहणात्तु' इत्यादिसूत्रार्थानुवर्णनमुपक्रम्यो- दितं 'भक्तिविषये गुणादिषु अधिकविषयिताऽस्ति चेदपि प्रीति

तारतम्याभावेन न भक्तितारतम्यस्य, न तत्कृतमुक्तितारतम्यस्य च संभवः' ” इति तदपि हेयम् । 'यथा भक्तिविशेषोऽत्र दृश्यते पुरुषो- त्तमे । तथा मुक्तिविशेषोऽपि ज्ञानिनां लिङ्गभेदतः । ' इति त्वद- नूदितस्मृतिविरोधात् । अन्यथा परमात्मनि वैषम्यदोषप्रसङ्गः ।

यदपि “ ‘दर्शनाच्च' इति सूत्रभाष्योदाहृते श्रुतिस्मृती न मम संप्रतिपन्ने अतो न मां प्रति तदुदाहरणं युक्तमित्युक्तं तदपि अपह- सनीयम् । एवं हि अन्धोऽपि ब्रूयात् प्रकाशमनङ्गीकुर्वाणं मां प्रति न तत्साधनाय मदनभिमतचाक्षुषप्रत्यक्षोदाहरणं युज्यते इति ।

तस्मादनादिसिद्धजीवस्वरूपयोग्यतानुगुण्येन मुक्ताव-प्यानन्दतारतम्यं निष्प्रत्यूहम् ।

परकालयतिः :

जीवस्वरूपे मुक्तौ अपि निर्निबन्धनतयैव योग्यताभेदमङ्गीकृत्यानन्दतारतम्यमङ्गीकृतम् इति ।

खण्डनम् :

तत्तुच्छम् । योग्यताभेदस्य प्रमितत्वेन सर्वैः अङ्गीकर्तव्य- त्वात् । तथा हि तत्र प्रमाणानि :-

१) एवमेवायमात्मा इदं शरीरं निहत्याविद्यां गमयित्वाऽन्य- न्नवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्त्यं वा ब्राह्मं वाऽन्येषां भूतानाम् । (बृ.)

२) देवमानुषगन्धर्वाः पिशाचासुरराक्षसाः । सर्वे स्वभावतः सृष्टा न क्रियाभ्यो न कारणात् ॥ (म.भा. अश्व. ५२अ)

३) त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्विकी राजसी चैव तामसी चेति तां शृणु ॥ (गी.अ. १७-२)

४) श्रद्धा स्वरूपं जीवस्य तस्माच्छ्रद्धाविभेदतः । उत्तमाधममध्यास्तु जीवा ज्ञेयाः पृथक् पृथक् ॥ (गी.ता.)

५) मन्दमध्योत्तमत्वेन त्रिविधा ह्यधिकारिणः । तत्र मन्दा मनुष्येषु य उत्तमगणा मताः । मध्यमा ऋषिगन्धर्वाः देवास्तत्रोत्तमा मताः ॥ (भाग. तन्त्रे)

६) परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति । अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरतस्तर्तरीति । (श्रुतिः)

७) द्विविधो भूतसर्गोऽत्र दैव आसुर एव च । विष्णुभक्तिपरो दैवो विपरीतस्तथाऽसुरः । (विष्णुधर्मे)

द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च ॥ (गी. अ. १६)

८) य एष राजन्नपि काल ईशिता सत्त्वं सुरानीकमिवेधयत्यजः । तत्प्रत्यनीकानसुरान्सुरद्विषो रजस्तमस्कान्त्रमिणोत्युरुश्रवाः ॥ ( भाग. स. १)

९) ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । अन्ये सांख्येन योगेन कर्मयोगेन चापरे ॥ इत्यादि (गी)

एवमन्यानि अन्यानि च ।

न चेयं योग्यता न अनादिः इति युक्तम् । आकस्मिकत्वे अतिप्रसङ्गात् । न च पूर्वादृष्टहेतुका । तदेव कुत इत्यनुयोगस्य नान्यदुत्तरम् अनादेर्विशिष्टस्वभावात् । तत्तत्फलप्राप्त्युपाययोः प्रयत्नादृष्टयोरागन्तुकयोर्बीजभूतोऽनागन्तुकस्वभावविशेष एवा- नादियोग्यतोच्यते । अतः सिद्धा जीवेष्वनादियोग्यता ।

किं च त्वन्मतेऽपि अधिकारे फले च तारतम्यमङ्गीकृतमेवेति न तन्निराकरणं साम्प्रतम् ।

सत्कर्मनिरताः शुद्धाः सांख्ययोगविदस्तथा । नार्हन्ति शरण- स्थस्य कलां कोटितमीमपि' इत्यधिकारतारतम्यमुक्त्वा यस्य यावांश्च विश्वासः तस्य सिद्धिश्च तादृशी' इति नारदादिपरमर्षिवच- नस्य फलतारतम्ये त्वयैव प्रमाणतयोदाहरणात् (प. २०२) । किं च, 'मुमुक्षवो द्विविधाः कैवल्यपराः मोक्षपराश्चेति' यतीन्द्रदीपिकायां प्रभेदः उक्तः । मोक्षपरेष्वपि भक्ताः प्रपन्नाश्चेति । भक्तावधिकारः त्रैवर्णिकानामेव न शूद्राणां इति । भक्तिनिष्ठा द्विविधाः साधन- भक्तिनिष्ठाः साध्यभक्तिनिष्ठाश्चेति ।

प्रपन्नोऽपि द्विविधः । त्रैवर्गिको मोक्षपरश्चेति । मोक्षपरश्च द्विविधः । एकान्ती परमैकान्ती चेति । परमैकान्ती च द्विविधः । दृप्तः आर्तश्चेति । इत्येवमादिः त्वयोक्तः अधिकारप्रपञ्चः साधनप्रपञ्चश्च न आगन्तुकः। अनवस्थानादित्युक्तत्वात् । तस्मादकामेनाप्यनादिरेवेष्टव्यः । तस्य च स्वभावभूतस्य मुक्तावप्यनुवृत्तिः अपरि- हार्या । स्वभावहानौ स्वरूपहानिप्रसङ्गात् । अत आनन्दवल्ल्यामुक्तस्य संसारिषु मुक्तेषु च तारतम्यस्य निराकरणं तव न केवलं प्रमाणविरुद्धं किं तु स्वव्याहतमपि ।

परकालयतिः

मुक्तवाचकपदाभावात् युवत्वस्य न नित्यत्वकल्पनसंभवः । अतो युवशब्दो न मुक्तपरः इति ।

खण्डनम्:

तत्तुच्छम् । 'सोऽश्रुते सर्वान्कामान्' इति मुक्तमुपक्रम्य 'एष ह्येवानन्दयाति' इति तस्यैवानन्दप्राप्ति अभिदधत्या श्रुत्या प्रकरणा- नुगुण्यात् आनन्दवल्ल्यां मुख्यतः मुक्तप्रतिपादनमेव न्याय्यम् । न च मुक्तवाचकपदाभावः। युवादिशब्दानामेव तद्वाचकत्वात् । मुख्यामुख्ययोरिति न्यायेन तेषां नित्ययुवादिपरत्वात् ।

यदुक्तं, साधुशब्दस्य विष्ण्वर्थकत्वं मृग्यमिति तदपि मन्दम् । 'सद्भावे साधुभावे च सदित्येव प्रयुज्यते' इति सच्छब्दपर्यायसाधु- पदस्य विष्ण्वर्थकत्वस्य प्रसिद्धत्वात् । त्वयैव साधुना विष्णुना सामीप्यवत्त्वात्साधुयुवा ब्रह्मविदिति निर्बुवता तत्पदस्य विष्ण्वर्थ- कत्वं स्वीकृतं च ।

त्वदुक्तेनैव हेतुना साधुयुवशब्दस्य मुक्तार्थकत्वे सिध्यति सति पुनस्तदर्थत्वनिराकरणं व्याहतम् ।

एवं आध्यायक इत्यत्र आडुपसर्गः समीचीनार्थकः । सम्यक्त्वं च मुक्त्याख्याध्ययनफलवत्त्वं इति हेतोः प्रकरणवशाच्च स शब्दो मुक्तपरः स्वरसत एव ।

परकालयतिः :

आशिष्ठ इत्यत्र शमित्यव्ययस्यान्तलोपे मानाभावः । डप्रत्य- येन निर्वाहः विध्यदर्शनादयुक्तः इति ।

खण्डनम् :

तदेतद्व्याकरणाज्ञानविजृम्भितम् । अत्र हि सुखवाची ''- शब्दः कोशेषु प्रसिद्धः । 'शं सुखं शरणं वपुः । शः प्रागुक्तः... इति सौभरिकृतायां अक्षरमालायाम् । तथा 'शं सुखं' इति पुरुषो- त्तमकृताक्षरमालायाम् । शं क्लीबे शास्त्रे श्रेयसि मङ्गले इति नानार्थरत्नमालायां च ।किमपि शं पुष्णाति' इति भर्तृहरिप्रयोगेण चशब्दः सिद्धः । तस्यैवात्र प्रयोग इति न काऽप्यनुपपत्तिः ॥

एवं लब्धात्म-अकारान्त ''रूपनामशब्दान्यथानुपपत्त्या शीधातोः डप्रत्यये ''शब्दस्य निष्पत्तिः ।

मकारान्ताव्ययस्यापि अन्त्यस्य मकारस्य लोपः 'चिरपरि- चितास्ते ते भावाः' इति लोके 'चिरलोकलोकानां' इत्यत्रैवोपनिषदि दृष्टः इति न तत्राप्यनुपपत्तिः ।

यदत्र युवशब्दस्य आध्यायकशब्दस्याप्रसिद्धार्थकल्पनादोष उक्तः सोऽपास्तो ज्ञेयः । उभयत्र शब्दवृत्तेः प्रसिद्धाया एवोपदर्शितत्वात् ।

प्रत्युत त्वत्पक्ष एव 'साधुयुवाध्यापकः' इत्येकं पदमङ्गीकृत्य युवशब्दस्य प्रत्यग्रत्वार्थं अप्रसिद्धमेव विवक्षित्वा रङ्गरामानुजोक्त एवार्थः अलौकिकः रथकाराधिकरणविरुद्धश्च ।

परकालयतिः :

स एको मानुष आनन्द' इत्यन्तेन मुक्तामुक्तोभयोद्देश्यक- विलक्षणानन्दद्वये प्रतिपाद्ये वाक्यभेदश्च । इति ।

खण्डनम् :

तदसारम् । एक एव चेतनो युवादिशब्दैः प्रतिपाद्यते । तस्य चावस्थाभेदेन विशेषणानि व्यवस्थाप्यन्ते । अतो न वाक्यभेददोषः न वैकविषयताप्रतिभासामुपपत्तिः ।

एतेन, प्रक्रमस्यैवानुपपत्त्या 'ते ये शतमित्यादिषु त्वदभिम- तोभयानन्दानुवादकतायाः का वार्ता' इत्युक्तमपास्तम् । प्रक्रमपरि- शुद्ध्या मानुषानन्दे मुक्तामुक्तोभयविषयकतायाः प्रदर्शितत्वात् ।

परकालयतिः :

एकैकस्मिन् पर्याये मुक्तामुक्तौ द्वौ प्रतिपाद्याविति वाक्यभेदो दोषः । एकधर्मिनिष्ठतया एकवचनानुपपत्तिश्चेति ।

खण्डनम् :

तदपि तुच्छम् । अवृजिनत्वाकामहतत्वादिः मुक्त एव संभवति न तु संसारिणि । अतः एकवाक्यत्वाश्रयणमत्र नोपपद्यते । अतोऽन्यथानुपपत्त्या वाक्यभेदः समाश्रयणीयः । संभवत्येक- वाक्यत्वे हि वाक्यभेदो दूषणम् । अत्र च तदसंभवान्न स दोषः ।

ज्ञापकश्चात्र वाक्यभेदस्य 'श्रोत्रियश्च' इत्यत्र चशब्दः । चशब्दो ह्ययं समुच्चयस्य द्योतकः प्रतीयते । देवदत्तो धनिको यज्ञदत्तश्चेति यथा। न चैकविषयतायामेवं युज्यते ॥न हि भवति 'वसिष्ट्ये ब्रह्मिष्ठोऽरुन्धतीपतिश्च तथे 'ति प्रयोगः ।

एकवचनं चात्रैवोत्तरत्र पर्यायेषु इन्द्रबृहस्पतिब्रह्मशब्दाना- मेकवचनान्तत्वेन तदन्वयोपपत्त्यर्थं साधारण्येन वा 'तत्र भवः' इति सूत्रे वन्या इति अपि रूपसिद्ध्यर्थमविवक्षितत्वाद्वा मुक्तानामेवायं नियमेन शतगुणोद्रेक अन्यदा तु कदाचिद्भवति कदाचिद्व्याकुल- तया न भवतीति निदर्शयितुं वेति विभावनीयम् ।

प्रत्युत तवैव सर्वत्र पर्यायेषु मुक्तानामानन्दे संसार्यानन्दस्यान्तर्भावं वदत एकवचनेन मुक्तानां निर्देशोऽनुपपन्नः ।

किं च त्वत्पक्षे 'स एष ब्रह्मण आनन्द' इत्यत्र ब्रह्मशब्देन परमात्मैव विवक्षितः। तथा च अन्तर्भावपक्षे तस्याप्यानन्दस्य मुक्तानामानन्दे अन्तर्भावो वक्तव्यः । एवं च तदानन्दस्यांपरिमितत्व- हानिप्रसङ्गः । ब्रह्मण आनन्दस्योपजीव्यत्वं मुक्तानामानन्दस्य तदुप- जीवकत्वमिति त्वदभ्युपगमविरोधश्च ।

किं च वेदान्तदेशिककृतगीताभाष्यतात्पर्यचन्द्रिकायां सालोक्यसारूप्यसामीप्यादिवर्णनेन मोक्षे तारतम्यं वर्णितम् । एवं 'एतद्धि दुर्लभतरं लोके जन्म यदीदृशम्' इति श्लोकव्याख्यानावसरे यादवप्रकाशैरपि, योगसिद्धौ तारतम्यं, फले मोक्षे च तदानुरूप्यं उक्तम् ।

न च वाच्यं उभयेषां मते सायुज्यमेव मोक्षः मोक्षशब्दः सालो- क्यादिषु तु उपचारेणैवेति । 'मोक्षं सालोक्यसारूप्यं प्रार्थये न कदाचन । इच्छाम्यहं महाभागकारुण्यं तव सुव्रत' इति पञ्चरात्रागमे सालोक्यादीनामपि मोक्षत्वस्मरणात् तत्र उपचारकल्पनस्या- योगात् । 'मोक्षं नेच्छामीति वर्णितं तु एकान्तभक्तविवक्षया ।

' एवं गजेन्द्रो भगवत्स्पर्शाद्विमुक्तोऽज्ञानबन्धनात् । प्राप्तो भगवतो रूपं पीतवासाश्चतुर्भुजः ।' इति भागवते सारूप्यस्यापि सुस्पष्टं मोक्षत्वाभिधानात् ।

एतेन युवादिशब्दार्थानां अप्रसिद्धार्थवर्णनं इति यदुक्तं तन्निरस्तम् । समाख्यावाक्यैः प्रकरणानुगुण्येन च विद्वत्प्रसिद्धेरुप-दर्शितत्वात् । शास्त्रार्थोक्तौ शास्त्रीयप्रसिद्धेरेव सर्वमीमांसकैरादरणीयत्वात् ।

प्रत्युत रामानुजाचार्यैः एव गीताभाष्ये 'वेदान्तकृत्' इत्यत्र अन्तशब्दस्य फलमिति 'पदमयं' इत्यस्य अनवच्छिन्नज्ञानाकारं इति । एवं तत्र तत्राप्रसिद्धार्थवर्णनानि कृतानि दरीदृश्यन्ते । आपातप्रतीत एव सर्वत्र शब्दार्थ इत्यङ्गीकारे निगमनिरुक्त- व्याकरणानि वेदाङ्गानि मोघानि स्युः । मीमांसोन्मूलिता स्यात् । साम्प्रदायिकगुरूपदेशश्च विफल एव स्यात् ।

एतेन युवा स्यादित्यादेः प्रसिद्धार्थत्यागे रथकाराधिकरण- विरोधोऽपि भवेदित्युक्तं परास्तम् । प्रसिद्धार्थत्यागस्त्वत्पक्षे एव न मत्पक्षे इत्युक्तत्वात् । यदुक्तम् 'स एक' इति प्रत्यक्षैकश्रुतिबाधेन आनन्दद्वित्वकल्पनं न युक्तम् । श्रुतिलिङ्गाधिकरणविरोधात्' इति तदप्यसङ्गतम् । न ह्यत्र लिङ्गविरोधेन एकश्रुतेः द्वित्वार्थत्वमुक्तम् । किं तु संसारिमुक्तपरतया योजनाभेद एव कथितः । उभयत्रैक- शब्दस्य एकत्वमेवार्थ उक्तः । किञ्च अनेकार्थत्वं तु शास्त्राणां भूषण- मेव । तदुक्तमभियुक्तैः 'त्र्यर्थतां श्रुतिषु वित्त दशार्थम् । भारतं ननु शतार्थमपि स्याद्वैष्णवं पदसहस्रतयं हि' इति । एवंभूते त्वया विरम्यव्यापार इत्युक्तदोषः अपहसनीयः । चक्षुषा घटद्वयस्येव युगपदेकेन शब्देन अर्थद्वयबोधनस्योपपत्तेः । मुख्यवृत्तावेव योग- रूढ्योरिव तारतम्यं च युक्तम् । 'अद्यतेऽत्ति च भूतानि तस्मादन्नं' इति श्रुत्यैवान्नशब्दस्यानेकार्थत्वं प्रदर्शितमत्रानुसन्धेयम्। एवंयच्चाप्नोति यदादत्ते' इत्यादिस्मृत्याऽपि आत्मशब्दस्य बह्वर्थत्वं वर्णितम् ।

यदुक्तम्, श्रोत्रियपदस्यासर्वनामत्वेन पूर्वपदोपस्थापित- विशेषपर्यवसानमित्यप्ययुक्तमिति, तदप्यसारम् । अक्ताधिकरण- न्यायेन सामान्यशब्दस्य सन्निहितविशेषपरत्वस्यैव वक्तव्यत्वात् । अत एव 'ब्रह्मविदाप्नोति परम्' इत्यत्र ब्रह्मशब्दस्य परब्रह्मार्थकत्व- मेवाश्रितम् । एतेन श्रोत्रियशब्दः न सामान्यशब्दः इत्युक्तिरपि परास्ता । ब्रह्मशब्देऽपि तथात्वापत्तेः ।

एतेन प्रयाजानुयाजोदाहरणमपि समाहितम् । यच्चात्रोक्तम्नात्र आनन्दतारतम्यस्य अनुवादो, वैयर्थ्यात् । न विधानं, 'परमं साम्यमुपैति' इत्युपक्रमविरोधादिति तदपि तुच्छम् । पक्षद्वयस्यापि निर्दोषत्वात् । अनुवादस्य दादहेतुत्वात् । अन्यथा 'तत्त्वमसि' इत्यस्य नवकृत्वः अभ्यासोऽपि व्यर्थः स्यात् । 'परमं साम्यं' इति उपक्रमस्य, निरवकाशप्रमाणानां 'जगद्व्यापारवर्जं' 'न ते महित्व- मन्वनुवन्ति' इत्यादीनां चानुगुण्याय सङ्कोचेनैव व्याख्यानस्य सम- र्थितत्वेन नोपक्रमविरोधोऽपि ।

'सोऽश्नुते सर्वान्कामान् सह ब्रह्मणा' इत्यत्र भोक्तृसाहित्यमे-वोच्यते न भोग्यसाहित्यमिति समर्थितम् । पुत्रेण सह ओदनं भुंक्ते इत्यत्र भोक्तृसाहित्यमेव प्रतीयते न भोगसाहित्यम् । न च तथा सति 'सहयुक्तेऽप्रधाने' इति सूत्रेण ब्रह्मणोऽप्राधान्यं स्यादिति शङ्क्यम्। भोगसाहित्यपक्षेऽपि तद्दोषप्रसरात् । एतत्सूत्रोक्त-मप्राधान्यं पारिभाषिकमिति शेखरादिग्रन्थेषु व्याख्यातत्वान्न स दोष इति चेत्समं भोक्तृसाहित्यपक्षेऽपि । उभयसाहित्योक्तौ वाक्य- भेदः स्फुटः।पूर्णो देवो जीवसङ्घस्त्वपूर्णः' इत्यपूर्णत्वेन श्रुति- सिद्धस्य जीवस्य न त्वदुक्तं व्यापकावधि ब्रह्मदर्शित्वं, न वा व्यापकावधिब्रह्मकल्याणगुणानुभवः संभवति ।

यदुक्तं प्रतिपर्यायं श्रोत्रियमनुष्यगन्धर्वाणामित्यादिनिर्देशः स्यात् इति तन्न । सन्निधानादेव मनुष्यगन्धर्वादिविशेषलाभेन विशिष्य निर्देशानपेक्षणात् । अत एव मनुष्यगन्धर्वादिपदानां श्रोत्रियांशे अध्याहारो लक्षणा वा दोष इत्यपि निरस्तम् । अक्ता- धिकरणन्यायेन सन्निधानादेव तदर्थलाभेन अध्याहाराद्यभावात् ॥

ते ये शतं मुक्तमानुषाणामानन्दा इत्यादिनिर्देशापादनं त्वयुक्तम् । अत्र हि प्रकरणपरिशुद्ध्या संसार्यानन्दतारतम्यं दृष्टान्तीकृत्य मुक्तानन्दतारतम्यं प्रतिपर्यायं अतिदिश्यते । तेन दृष्टान्तपरपूर्वभागेषु मुक्तेतिविशेषणमनपेक्षितमेव । श्रोत्रियादि- शब्दानां सर्वत्र मुक्तरूपैकार्थत्वेन अर्थवैरूप्यं तु नास्त्येव । तत्त- न्मुक्तपरत्वं तु सन्निधानबलादेवेत्युक्तम् । मुक्तामुक्तोभयानन्दस्य पूर्वं प्रस्तुतत्वेऽपि 'ते ये शतं ' इति यत्तच्छब्दाभ्यां उत्तरत्र संसार्या- नन्दमात्रस्य परामर्शो दृष्टान्ताभिधानोद्देशेनेति युक्त एव ।

'श्रोत्रियश्च' इत्यादौ एकवचनं तु प्रागेव समाहितम्। इन्द्रबृहस्पत्यादीनामेकत्वेन तत्राप्यैकरूप्येणान्वयोपपत्तिलाभार्थं च ।

यदत्र विकल्पितं एकशब्दः एकदेशवाची वा एकत्वसंख्यावाची वेति तदसङ्गतम् । एकदेशवाचित्वेऽभिधानाद्यभावेन विक- ल्पाप्रसरात् । एकत्वसंख्यावाचित्वे मुक्त्यभिलाषाद्यनुदय इति तु कथनं बालिशम् । दुःखहेत्वावरणाभिभवार्थं स्वस्वयोग्यस्वरूप- सुखाविर्भावार्थं च अभिलाषाद्युपपत्तेः ॥

एतेन मनुष्याणां मनुष्यगन्धर्वानन्दप्राप्तिः फलमिति स्वयं परिकल्प्य तत्पक्षे या दूषणोक्तिः सा 'अबद्धं पठित्वा कुचोद्यं करोति' इत्याभाणकविषयमात्मानं तनोति ।

यत्तूक्तं प्रथमपर्याये 'श्रोत्रियस्य चाकामहतस्येति वाक्य- कल्पनाक्लेश इति तदपि तस्य मुक्तामुक्तोभयपरतायाः प्रागेव समर्थनात्परास्तम् ।

एवं ब्रह्मपर्याये श्रोत्रियान्तरकल्पनाक्लेश इति यदुक्तं तदपि न । वाजसनेयके 'यश्च श्रोत्रियो वृजिनोऽकामहत' इति श्रवणात् । अन्यत्रापि तदनुसन्धानोपपत्तेः ।

यच्चोक्तं प्रजापतिशब्दस्य दक्षादिपरत्वं अप्रसिद्धमिति तन्न । प्रजापतिशब्दस्य दक्षादिष्वपि प्रसिद्धिसद्भावात् । यथोक्तं भागवते 'यदाऽभिषिक्तो दक्षस्तु ब्रह्मणा परमेष्ठिना । प्रजापतीनां सर्वेषां आधिपत्ये स्मयोऽभवत् ।' इत्यादि । प्रकरणाद्यनुरोधेनात्र तदर्थ- ग्रहणस्य श्लिष्टत्वात् । रामानुजाचार्यैरपि 'यो ब्रह्माणं विदधाति पूर्वं' इत्यत्र ब्रह्मशब्दस्य परब्रह्मार्थकत्वत्यागेन हिरण्यगर्भार्थकत्वं व्याख्यातम् । एवंमम योनिर्महद्ब्रह्म' इत्यत्र ब्रह्मशब्दः अचेतन- प्रकृतिपर इत्युक्तम्। अतो बाधकसद्भावे शब्दानाममुख्यार्थ- परिग्रहोऽपि समुचित एव । सर्वसंप्रतिपत्तेः ।

यच्च 'विकल्पो विशिष्टफलत्वादिति सूत्रस्य अविशिष्टेति पदच्छेदमाश्रित्यापार्थवर्णनं तदपि भाष्योदहृतेन,

नृसिंहादिकमन्यच्च दुरितादिनिवृत्तये । उपास्यते यथायोगं न वा फलविभेदतः ॥

इति ब्रह्मतर्कवचनेनैव दूषितम् ॥ व्यवस्थितविकल्पनस्य निर्निबन्धनत्वोक्तिरत एव पराकृता ।

विघ्ननिरासरूपफलस्यैकत्वेन विकल्पोपपत्तेर्न जैमिनिसूत्रविरोधः । हृद्यपेक्षयेति सूत्रं तु न त्वदुक्तरीत्या मनुष्याणां न सर्वोपा- सनाऽधिकारमाह किं तु पश्वादीनामनधिकारमात्रम् । अन्यथा शूद्राणामुपासनाऽधिकाराभावप्रतिपादकत्वत्सिद्धान्तविरोधः ।

'न तत्सम' इति श्रुतिः तु सुस्पष्टम् भगवतः लोकत्रयेऽ- प्यप्रतिमप्रभावत्वं प्रतिपादयन्ती त्वद्दुरभिलषितं भोगसाम्यं प्रतिषेधत्येव ॥ त्वयाऽपि धर्मभूतनित्यानन्द एव साम्यं न स्वरूपानन्दे इत्यभ्युपगमेन समशब्दस्य सङ्कुचितार्थकत्वं समा- श्रितमेव ।

परकालयतिः :

भोगसाम्यमेव 'भोगमात्रसाम्यलिङ्गाच्च' इति सूत्रितम् । 'स्थितिमाह दर्शयतश्चैवं प्रत्यक्षानुमाने' इति पूर्वसूत्रं नानन्दादीनां वृद्धिह्रासनिषेधार्थकम् । मुक्तस्य ब्रह्मव्यतिरिक्तविषयानुभवा- भावात् । ब्रह्मानुभवे निरतिशयविपुलसुखात्मके वृद्धिहासा- प्रसक्तेः । उपासनं तु मुक्तानां नास्त्येव । तारतम्यदर्शनादिव वृद्धिहासाभ्यामपि दुःखाद्यप्रसक्त्या तन्निषेधस्य च अप्रसक्तिरेवेति ।

खण्डनम् :

तत्तुच्छम्।न ते महित्वमन्वनुवन्ति' इत्यादिमानैर्भोग-साम्यस्य श्रुतिनिषिद्धत्वेन तस्य न सूत्रार्थत्वम् । पूर्वसूत्रस्य वृद्धि-ह्रासभाक्त्वनिषेधपरत्वं भाष्योदाहृतजाबालश्रुतिब्रह्मवैवर्त- मोक्षधर्मवचनैः सिद्धम्। ब्रह्मव्यतिरिक्तविषयानुभवः 'गन्धमाल्ये समुत्तिष्ठतः' इत्यादिश्रुतिभिः 'मुक्ताः प्राप्य परं विष्णुं तद्भोगाँ- ल्लेशतः क्वचित् । बहिष्ठान्भुञ्जते नित्यं नानन्दादीन् कथञ्चन' इत्यादिस्मृतिभिश्च प्रागेव निपुणतरं समर्थितम् । ब्रह्मानुभवस्तु नास्त्येवेति च ।

'हरेरुपासना चात्र सदैव सुखरूपिणी ।

न तु साधनभूता सा सिद्धिरेवात्र सा यतः ॥'

इति स्मृत्या मुक्तावपि उपासनासद्भावः तस्याः सिद्धिरूपता च सिद्धा ।

लोके सच्छिष्याणामपि स्वोत्तमगुरुदर्शनेन न दुःखादिकं किमुत निरस्तसमस्तदोषाणां मुक्तानां इति स्वोत्तमानन्दाधिक्य- दर्शनाद्दुःखाभावः स्वस्मिन्नेव आनन्दवृद्धिहासौ तु विकारहेतू इति अनुभवसिद्धौ इति तन्निरासो युक्त एव ।

न च भाष्योदाहृतकूर्मवचनेन कादाचित्कविशेषाभिधायिना विरोधः।प्रवाहतस्तु वृद्धिर्वा ह्रासो वा नैव कुत्रचित्' इति तत्रैवोदाहृतनारायणतन्त्रवचनेन तत्परिहारात् । वृद्धिह्रासाभावोक्तिः अपरोक्षज्ञानव्यङ्ग्यस्य प्रचुरतरानन्दस्यैव । ज्ञानोत्तरभाविसत्कर्म- व्यङ्ग्यानन्दवैचित्र्यं तु अङ्गीकार्यमित्याशयः । अलंबुद्धिगोचरानन्दस्य सदा विद्यमानत्वेन एवंविधो विशेषो न संसारसमानधर्मताऽऽपादकः इति न तन्निरासः ।

यदत्रोक्तम् “ ‘भोगमात्रसाम्यलिङ्गादि' त्यनेनैव स्वाधिकारा- धिकभोगनिषेधेन जगद्व्यापारवर्जमिति सूत्रं तव व्यर्थमिति तन्न । भोगमात्रेति सूत्रं वृद्धिह्रासाभावं समर्थयति । जगद्व्यापारेति सूत्रं तु 'सर्वान्कामानाप्त्वा' इति श्रुतिप्राप्तसत्यकामत्वस्य सङ्कोचेनार्थ- समर्थनपरं सत् जन्मादिहेतुत्वलक्षणस्य मुक्तेऽतिव्याप्तिं निवारयतीति न वैयर्थ्यशङ्कालेशोऽपि ।

प्रत्युत जगद्व्यापारनिमित्तकानन्दाभावं मुक्तस्य समर्थ्य तेन आनन्दसाम्यवादभञ्जकं तत्सूत्रं तवैव प्रतिकूलम् ।

या तु, मुक्तस्य निरतिशयानन्दत्वे आनन्दमयशब्दस्य मुक्ते समन्वयापत्तिरित्याशङ्क्य निरतिशयत्वसाम्येऽपि ब्रह्मण आन- न्दस्य निरुपाधिकत्वेन न तद्दोष इति तत्परिहारोक्तिः साऽपि तुच्छा । मुक्तानन्दस्य विप्लुण्मात्रत्वाभिधायकप्रमाणविरोधेन निरतिशयत्वस्यैवाभावेन उक्तशङ्कापरिहारयोरकाण्डताण्डवायितत्वात् ॥

यच्चोक्तं, समग्राया आनन्दवल्ल्या ब्रह्मानन्दमात्रपरत्वे एक-वाक्यता । अन्यत्सर्वमर्थवादः । मुक्तामुक्तानन्दविधायकविधि- प्रत्ययादर्शनादिति, तद्बालिशम् । तथा सति सर्वस्य प्रकरणस्य बद्धानन्दरूपस्यैकस्यैवार्थस्य प्रतिपादकत्वमस्तु । सुतरामेक- वाक्यतासंभवात्। मुक्तानन्दे अन्तर्भाववाचकपदानां प्रकरणे क्वाप्यश्रवणाच्च । तत्प्रतिपादने प्रतिपर्यायं वाक्यभेदापादात् ।

बद्धानन्दपरत्वे 'यतो वाचो निवर्तन्ते' इत्युक्तनिरतिशयत्वा- नुपपत्तिरिति चेत्तन्मुक्तानन्देऽपि समम् । 'मात्रामुपजीवन्ती 'ति तस्य सातिशयत्वोक्तेः ।यतो वाचः' इति श्रुतेर्ब्रह्मपरत्वेन निरतिशयत्वानुपपत्तेरभावात् ।

विधिप्रत्ययाभावान्नानन्दतारतम्यविधिरिति चेत् तर्हि तत एव मुक्तानन्दनिरतिशयत्वादीनां अपि असिद्धिः । 'विज्ञानमानन्दं ब्रह्म' इत्यादिष्वपि तत्प्रत्ययाभावात् ब्रह्मण आनन्दाद्यसिद्धिश्चेति यत्किञ्चिदेतत् ।

स्वकुकल्पितार्थे मीमांसासंमत्युदाहरणदुरुपक्रमोऽबद्धं पठित्वेति न्यायमनुकरोति ॥ प्रमाणबाधिते आनन्दसाम्ये न्याया- नवतारादेव ।

यच्चोक्तं साधनतारतम्येन फलतारतम्यस्य न्यायत एव सिद्धत्वान्न तत्र विधेस्तात्पर्यमिति तत्तुच्छम् । न्यायसिद्धस्य त्वयाऽपलापायोगात् । त्वत्कुमतनिरासकत्वेन विधेः सार्थक्यम् । प्रमाणसंप्लवस्य दादर्द्यार्थत्वात् । अन्यथा जगच्चेष्टकत्वादिना सिद्धे आनन्दमयत्वेऽपि श्रुतीनामतात्पर्यापातात् ।

किं च ब्रह्मानन्दप्रशंसामात्रपरत्वे 'यतो वाचो निवर्तन्ते' इत्ये-तावता पूर्तेः सर्वमन्यद्व्यर्थम् । न च तदर्थत्वेनैव संसार्यानन्दस्य शीकरस्थानीयत्वोक्तिरित्युक्तमिति वाच्यम् । दुरुक्तमेव तत् । न खलु सागरस्य महत्ताप्रशंसार्थं तस्य बिन्दुमात्राधिक्योक्ति-रुपपद्यते ।

अत आनन्दतारतम्यं विधीयत इत्येव युक्ततरम् । यदपि आनन्दमयाधिकरणे वस्त्वपरिच्छेदात्मकमुपादानत्वमुच्यते इत्यादि प्रलपनं तद्ब्रह्मण उपादानत्वनिराकरणादेवापहस्तितम् ।

यच्च सायुज्यसार्ष्टिशब्दयोरन्यूनाधिकभोगपरत्वार्थोपवर्णनं तन्निर्मूलम् 'बहिष्ठान्भुञ्जते भोगान्नानन्दादीन् कदाचन' इत्यादि-प्रमाणविरुद्धं च । यथा राजादिषु मन्त्र्यादयः सामान्यभोगान् गीत-लास्यादीन् एवानुवते न त्वसाधारणान्तःपुरादिभोगान् तथेति- लोकरीतिपराहतं च ॥

यदपि भाष्योदाहृतप्रमाणानामप्रसिद्धत्ववर्णनं निरवकाशा- नामपि तेषामन्यथार्थवर्णनसाहसं तदति तुच्छम् । अत्र प्रष्टव्यम् । कस्य अप्रसिद्धिः । सर्वेषामुत तवैव । नाद्यः । प्राग्भिर्विद्यारण्या- दिभिः सुप्रसिद्धवेदव्याख्यातृभिरपि कैरपि तेषामप्रसिद्ध्यनुक्तेः । अथ ब्रूयाः ममैवाप्रसिद्धेरिति मोच्चैर्वोचः । दिवाकरप्रकाशापलाप- दुर्व्यसनी दिवान्धोऽपि श्रोष्यति । सूर्यप्रकाशप्रसिद्धिमपलप्य सोऽपि आतपमन्धकारात्मना व्याख्यास्यति ।

याऽपि उपक्रमे माध्वानां नित्यसंसारित्वं इति प्रतिज्ञाय उपसंहारे 'अपारं घोरं तमस्समुपयन्ती'ति तमोयोग्यत्वोक्तिः साऽपि अपसिद्धान्तमप्यविगणय्य स्वव्याहतोक्तिपरस्य प्रमाण- प्रद्वेषिणस्तवैव महातमोयोग्यतां सुदृढतया संस्थापयतीत्यलं प्रमृतमारणेन ॥