'देवादयो मानुषादिभ्योऽधिकमौत्तफलभाजः तदपेक्षयाऽ-धिकतत्साधनवत्त्वात्
मुक्ततारतम्ये सुधाद्युक्तानुमानसमर्थनम्
'देवादयो मानुषादिभ्योऽधिकमौत्तफलभाजः तदपेक्षयाऽ-धिकतत्साधनवत्त्वात् ।' इत्येवमाद्यनुमानानां ये दोषा उक्तास्ते सर्वे पूर्वोक्तप्रमाणैरेव निःशेषनिरस्ताः । तथा हि :- अपवर्गे अखण्डब्रह्मानुभव एव सुखं न तदतिरिक्तो भोगोऽस्ति इति यदुक्तं तत् 'लेशतः क्वचित् । बहिष्ठान्भुञ्जते नित्यं नानन्दादीन्कथञ्चन' 'सङ्कल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतः' इत्यादिप्रमाणैरपाकृतम् । ब्रह्मव्यतिरिक्ततया मुक्तस्य सुखगन्धाभाव इति तु बहिष्ठा- नित्युक्त्या प्रत्याख्यातम् । परमात्मनः स्थूलभोगाप्रसक्तिरिति प्रलापः 'शुभं पिबत्यसौ नित्यं' 'अश्नामि प्रयतात्मनः' इत्यादि- प्रमाणैर्निरस्तः । भक्त्यादिसाधने तरतमभावाभाववचनं स्वव्याह- तम् । ‘प्रपत्तिरेव भक्तेर्गुरुभूततरा' (प. २०२) इति स्वयमेव साधने तारतम्याभिधानात् । अभिहितं असंबद्धं त्वित्यन्यदेतत् ।
साधनतारतम्यं च ‘दशकल्पं तपश्चीर्णं रुद्रेण', 'ध्यानेनात्मनि पश्यन्ति केचित्’,‘सति हि गुणे प्रवदन्त्यतुल्यताम्', 'ब्रह्मादीनां तु मुक्तानां तारतम्ये तु कारणम् । तारतम्यस्थितानादिनित्या भक्तिर्न चेतरत्’,‘ब्रह्मणः परमा भक्तिः सर्वेभ्यः परमस्ततः' इत्यादिपरःसहस्रैः प्रमाणैः प्रमितम् । यावद्ब्रह्मगुणानां त्वन्मते ब्रह्माभिन्नतया कथं कृत्स्नैकदेशविषयत्वकृतमुपासनतारतम्यम् इत्याक्षेपः तुच्छः । मन्मते सकलप्रमाणप्रमितविशेषाङ्गीकारेणोक्ततारतम्यं श्लिष्ट- तरम् । विशदीकरिष्यते चैतदग्रे विशेषसमर्थनेन ।
यच्चोक्तम् ‘यज्ञदानादिविधुरसन्न्यस्तत्वद्गुरुपङ्किषु साधनतारतम्यस्य त्वयाऽपि दुरुपपादत्वात् इति तन्महोन्मत्तप्रलपितम् । तेषामपि ज्ञानयज्ञे विद्याऽऽदिदानादौ चाधिकारसद्भावात् । मद्गुरूणां देवांशत्वेन प्रमितानां 'कृत्स्ना ह्येते गृहिणो देवाः कृत्स्ना ह्येते यतयः' इत्यादिश्रुत्या मूलरूपेषु सर्वाश्रमधर्मेष्वधिकारवत्त्वेन त्वत्कुचोद्यानवकाशात् ।
यदप्युक्तम् ‘बह्वल्पायाससाध्यसुखत्वेन न तारतम्यसिद्धिः तत्तच्छक्त्यनुगुणायासेषु सर्वेष्वपि बहुत्वपौष्कल्यात् स्वस्वशक्त्य-नुगुणमल्पत्वमप्यविशिष्टमिति तदपि दुरुक्तम् । मोक्षसाधनत्वा-विशेषेऽपि भक्तिप्रपत्त्योः आयासे बहुत्वाल्पत्वयोस्त्वयैवाङ्गीकारात् । तथाहि त्वद्गुरुवरवचनम् 'विश्वासायासभूम्नोर्न्यसनभजनयोरित्यादि । (प.२०३) । किं च अलौकिकमिदं भाषणं यत्स्वस्वशक्त्यायासेन समानं फलमिति । न खलु स्वशक्त्योत्प-तन्ती मक्षिका विष्णुपदे गरुत्मता समानं स्थानमश्नुते । अशास्त्रीयं च । न हि स्वशक्त्या पतन् क्षुद्रमर्कटो मारुतिरिव शतयोजनसमुद्रोल्लङ्घनस्येष्टे ।