ब्रह्म न जगदुपादानं निर्विकारत्वात्

ब्रह्मणो जगदुपादानत्वभङ्गः

विजयीन्द्र.... विवेचनम् :

ब्रह्म न जगदुपादानं निर्विकारत्वात् । यदि चिदचि- द्विशिष्टमेव ब्रह्मेति तदुपादानमित्यभिमतं तदा विशिष्टं पदा- र्थान्तरं न वा । आद्ये तस्य विशेष्यादप्यतिरिक्ततया न कर्तुरेवोपादानत्वसिद्धिः । त्वया ब्रह्मणोऽभिन्ननिमित्तोपादा- नत्वाभ्युपगमात् । द्वितीयेऽपि चिदचिच्छब्दितजीवाव्यक्तादेः किं ब्रह्मशब्दार्थान्तर्भावोऽभिप्रेतः उत तद्बहिर्भावः । न द्वितीयः । ब्रह्मशब्दार्थस्य जगदुपादानत्वालाभात् । ब्रह्म- स्वरूपस्य विकारमात्रशून्यत्वेन सन्ततैकरूपत्वात् । विका- राश्रयत्वेनैवोपादानत्वस्य वक्तव्यत्वात् अन्यथा परिभाषामात्रत्वापत्तेः । नाद्यः । त्वन्मते जीवाव्यक्तकाला-दीनां ब्रह्मणोऽत्यन्तभिन्नत्वेन तेषां तदन्तर्भावायोगात् । तेषां तच्छरीरत्वव्यपदेशो गौण एव । परमात्मनः शरीरनिषेध- श्रुतीनां त्वयाऽपि प्राकृतशरीरविषयत्वोक्तेः ।

परकालयतिः :

निर्विकारत्वं न विशिष्टोपादानत्वविरोधि प्रधानभूतविशेष्यमात्रवृत्तित्वात् । विशिष्टं तु न पदार्थान्तरम् । अनुपलम्भात् । चिदचितोऽपि ब्रह्मशब्दान्तर्भाव एव । 'स ब्रह्मा स शिवः' इत्यादिश्रुतौ विशेषणभूतशरीरस्य ब्रह्मादिशब्दान्तर्भाववत् इति ।

खण्डनम् :

तदसारम् । एवं हि यन्निर्विकारम् ब्रह्म न तदुपादानम् इत्युक्तं भवति । तथा च दत्तजलाञ्जलिर्ब्रह्मोपादानतावादः । अनेनैव न्यायेन विशेषणान्तर्भूतचितामपि ब्रह्मस्वरूपवत् निर्विकारत्वेन उपादानकोटिप्रवेशासंभव एव । अचिदंशस्योपादानत्वं त्विष्टमेव । विशिष्टं न पदार्थान्तरं अनुपलम्भात् इति यदुक्तं तदप्ययुक्तम् । हेतोरसिद्धेः । पर्वतसद्भावेऽपि अग्निमतोऽभावात् । विशिष्टस्य विशेष्यात्पदार्थान्तरत्वस्य अयावद्द्रव्यभाविविशेषणस्थले सार्व- जनीनोपलम्भविषयत्वात् । चिदचितोऽपि ब्रह्मशब्दान्तर्भाव एवे- त्युक्तिरपहसनीया । अर्थानाम् शब्दान्तर्भावस्यासंभवात् । ब्रह्मशब्दार्थान्तर्भावाभिप्रायोऽपि निर्मूल एव । न हि ब्रह्मादिशब्द- प्रवृत्तिनिमित्तभूता गुणपूर्त्यादयो धर्माः तच्छरीरत्वेन त्वदभिमते प्रपञ्चे संभवन्ति । न हि प्रवृत्तिनिमित्तधर्माभावे तच्छब्दार्थत्वं संभवति । अतिप्रसङ्गात् । यत्र क्वापि या चक्षुरादीनां आत्मशरीर- त्वोक्तिः श्रुतिषु सा तत्प्रेर्यत्वेनैव । प्राकृतशरीरस्य ब्रह्मणि श्रुत्या निरवकाशतया प्रतिषेधात् । न हि पूर्वोत्तरविरुद्धः श्रुत्यर्थो भवति । अन्यथा तत्रैव 'यः चक्षुषि तिष्ठन्' इत्यादिना आपातप्रतीतं आधेयत्वरूपमाश्रितत्वमपि ब्रह्मणोऽभ्युपेयं स्यात् । न हि चक्षु- रादीनांएष ते आत्मान्तर्याम्यमृतः' इत्युक्तममृतत्वं संभवति । 'स ब्रह्मा स शिवः' इति श्रौतदृष्टान्तोक्तिस्त्वसंमतैव ।

यदपि लोकशास्त्रयोः शरीरसंबन्धिन्येव आत्मशब्दस्य मुख्यत्वमित्युक्तिः साऽपि कुकल्पनामात्रमूला । 'द्युभ्वाद्यायतनं स्वशब्दात्' इति सूत्रे खलु जीवप्रकृतिव्यावृत्तये आत्मशब्दो हेतू- कृतः। स कथं त्वदभिमतजीवप्रकृत्यात्मकशरीरे मुख्यः स्यात् । हेतोर्विरुद्धताऽऽपातात् ।

यच्चात्र पृष्टं, वाय्वादिजीवेषु 'गौणश्चेदित्यादिसूत्रोक्तं नित्यत्वशुद्धत्वादिलक्षणं आत्मशब्दमुख्यार्थत्वं अस्ति न वा इत्यादि । तत्र प्रश्न एवासंबद्धः । सूत्र एव तेषां तन्निषेधेन प्रश्नस्यैवा- नुत्थानात् । संसारिषु मुक्तेषु वा जीवेषु चतुर्विधनाशराहित्य- लक्षणनित्यत्वं बन्धात्यन्ताभावलक्षणं शुद्धत्वं च नास्त्येवेति तत्सूत्रभाष्योदाहृतप्रमाणेषु सुस्पष्टं उक्तेः ।

यदत्रोक्तम्, वनिताद्यनुभवसुखादिष्वेव तव सुखादिशब्दादि-प्रसिद्धेः सुखादिशब्दानां ब्रह्मणि गौणता स्यात् आकाशप्राणादि-शब्दानां भूताकाशादिष्वेव मुख्यत्वात् ब्रह्मणि समन्वयो न सिद्ध्ये- दित्यादिकं तदयुक्तम् । आनुकूल्येन वेदनीयत्वस्यैव मया सुख- लक्षणत्वेनाङ्गीकारात्। अज्ञव्युत्पत्तिमवधीर्य परममुख्यवृत्त्यैव आकाशादिवैदिकशब्दानां ब्रह्मणि समन्वयाङ्गीकाराच्च । एवमीदृशं छलप्रजल्पादिकं उपेक्षणीयमेव । यच्चात्र विश्वस्य ब्रह्मशरीरत्वं वक्तुं शरीरलक्षणं त्रेधा परिष्कृतम्, यदवस्थं द्रव्यं यस्य चेतनस्य नियमेन विधेयं तत्तस्य शरीरमिति, यद्यस्याधेयं तत्तस्य शरीरमिति यद्यस्य शेषभूतं तत्तस्य शरीरमिति च तदप्यसारम् । आद्यस्य प्रसिद्धजीवशरीरे असंभवात् । न हि जीवशरीरं जीवस्य नियमेन विधेयम् । जरामरणाद्यनुपपत्तेः । अत एव न द्वितीयः । न हि शरीरं जीवस्याधेयं किं तु जीव एव शरीरस्य आधेयः । भूतले आधेयस्य घटादिकस्य भूतलशरीर- त्वापत्तेश्च । न तृतीयः। मृदाद्याहरणे कुलालाङ्गभूतस्य रासभस्य कुलालशरीरत्वापत्तेः ।

किं च 'एतस्यैव सर्वे रूपमभवन्' इत्यत्र त्वद्भाष्ये 'शरीर- मभवन्' तदधीनप्रवृत्तयोऽभवन् इति व्याख्याय इन्द्रियाणां मुख्य- प्राणशरीरत्वं श्रुत्युक्तं औपचारिकमेवेति समर्थितम् । तेनैव न्यायेन चिदचितोर्ब्रह्मशरीरत्वमपि तथैवाङ्गीकार्यम् । न च वाच्यं तत्र अचेतनत्वेन तदधीनप्रवृत्तिमत्त्वस्येन्द्रियेष्वसंभवेन अमुख्यशरीरत्वं व्याख्यातमित्युक्तमिति । सत्यमुक्तं दुरुक्तं तत् । तत्र प्राणशब्दः चेतनपर एव । इन्द्रियप्रवृत्तेरचेतनप्राणाधीनत्वा- संभवात् ।अयं वै न श्रेष्ठः' इति वाक्यशेषोक्तेन्द्रियप्रेरकदेवोत्तम-प्राणस्य त्वस्याचेतने प्राणेऽसंभवाच्च । अत उभयत्र शरीरत्वव्यपदेश उपचार एव । अर्धजरतीयानुपपत्तेः ।

यच्चात्र विशिष्टस्य ब्रह्मण उपादानत्वे दृष्टान्तोक्तिः जीवोऽपि स्तनन्धयो बालं प्रति स चार्भकं प्रतीत्यादि तदप्यसङ्गतम् ।

पूर्वपूर्वावस्थशरीराण्येव उत्तरोत्तरावस्थशरीराणि प्रत्युपादा- नानि न त्वेव चेतन इति तद्दृष्टान्तेन ब्रह्मण उपादानत्वोक्तिरसङ्गतैव ॥

यदपि ब्रह्मण उपादानत्वेयद्भूतयोनिं परिपश्यन्ति' इत्यादिकं प्रमाणमुपन्यस्तं तदसङ्गतम् । तत्र सर्वत्र योनिशब्दः कारणमात्रपरः । 'मम योनिरप्स्वन्तः समुद्रे' 'मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम्' 'स्त्री योनिः कलहस्य' इत्यादिषु लोकशास्त्रयोः कारणमात्रे व्यवहारात् । यद्भूतयोनिमिति योनिशब्दस्स्तु 'योनिष्ठ इन्द्रसदने' इत्यादिप्रयोगान्नोपादानत्वे नियत इति परैरप्यङ्गीकृतम् । परमात्मनि च निर्विकारत्वेन श्रुत्यादिसिद्धे स शब्दः निमित्तकारणत्व एव पर्य- वस्यति । 'निमित्तमात्रं तत्रात्मा' इत्यादिकानि प्रमाणानि उपादानतां व्यवच्छिन्दन्ति ।यत्र भ्रमति लोहवत्' इत्युक्तायस्कान्तदृष्टान्तोऽपि उपादानत्वं न सहते ॥तत्सृष्ट्वा तदनुप्रविश्ये 'त्युक्तसर्जनानुप्रवेशौ उपादाने दुर्घटौ । न हि मृत्तिका घटं सृष्ट्वा तमनुप्रविशतीति संभ- वति । यच्च 'यतो वा इमानि भूतानि' इत्यत्र यत इति पञ्चमी 'जनि- कर्तुःप्रकृतिः' इति सूत्रेणोपादानतां प्रतिपादयतीत्युक्तं तदप्यसारम् । इदं खलु सूत्रं उपादानत्वेन प्राक् सिद्धमनूद्य तस्यापादानत्वं विधत्ते । न त्विदंप्रथमतयोपादानत्वम् इति वृत्तिकाराणां कल्पनामूलः आशयः ।

'आकाशाद्वायुरित्यादावपि न एतत्सूत्रोक्तपञ्चमीबलादा- काशादेरुपादानत्वसिद्धिः । किं तु निरवकाशमानान्तरादेव । ब्रह्म-वत्तेषां आकाशादीनां निर्विकारतया प्रमाणाप्रतिपन्नत्वेन तत्रोपादानत्वाङ्गीकारे प्रमाणविरोधाप्रसराच्च । सूत्रार्थस्तु वास्तवोऽग्रे विवरिष्यते ।

यच्चोक्तं 'बहु स्यामि'त्यत्र नियामकबहुरूपग्रहणं न सङ्कल्पयोग्यं व्यर्थत्वादिति तत्तुच्छम् । प्रमितस्य सङ्कल्पस्य प्रयोजनाक्षेपेण त्वया नियन्तुमशक्यत्वात् ।

न चैवं प्रजायेयेत्यस्य वैयर्थ्यम् । बहुभावसङ्कल्पस्य त्वदभि- मतोत्पत्तिविषयकत्वं विनिवार्य प्रादुर्भावार्थकत्वस्थापनार्थत्वेन सार्थक्यात् । तदुक्तं परमश्रुतौ 'उत्पत्तिर्वासुदेवस्य प्रादुर्भावो न चापरः । देहोत्पत्तिस्तदन्येषां ब्रह्मादीनां तदीरणात् । देहोऽनादि- हरेर्नित्यो ब्रह्मादीनामनित्यकाः । मुख्योत्पत्तिस्तदन्येषां प्रादुर्भावो हरेर्जनिरि'ति । तेजोबन्नरूपेण समष्टिरूपेण प्रजायेयेति त्वदुक्तार्थ एवोक्तश्रुतिविरुद्धोऽनादरणीयः । परमात्मनो देहस्यानादिनित्य- त्वात् तेजोबन्नानामतथात्वात् । 'रूपं रूपं बहु रूपो बभूवे 'ति श्रुत्यैव बहुरूपभवनस्य निर्णीतत्वेन 'संदिग्धे तु वाक्यशेषादि'ति त्वदुक्तन्यायस्यात्राप्रसरात् ।

यच्च उक्तं “ ‘जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि' इति वाक्ये तृतीया तव व्यर्था । स्वानन्वितानुप्रवेशकव्याकरणयोः सर्वशक्तस्य किं तेन करणेनेति तत्स्थवीयः । न ह्यत्र जीवशब्देन प्रसिद्धः अल्पशक्तिर्जीवो विवक्षितः । न वा तस्य परमात्मानं प्रति करणत्वम् । किं तु जीवयतीति जीव इति व्युत्पत्त्या 'जीवो विनयिता साक्षी' इति सहस्रनामपठितो विष्णुरेव । 'जीव इति भगवतो ह्यनिरुद्धस्याख्या' इति श्रुतेः । 'विष्णुर्जीव इति प्रोक्तः सततं प्राणधारणात्' इति च ।
यदप्युक्तं न च 'यदधीना यस्य सत्ता तत्तदित्येव भण्यते' इति स्मृतेः सच्च त्यच्चाभवदिति सामानाधिकरण्येन निर्देशोपपत्तिः । तर्हि स्थूणाद्यधीनसत्ताकेषु गुरुतरशिलामन्दिरादिष्वपि अभेद- निर्देशापत्तेःइति । तदतितुच्छम् । किमेवं वदतः उदाहृत- स्मृतेरप्रामाण्यं अभिप्रेतं उत तन्नियमस्य व्यभिचारप्रदर्शनेनान्यथाऽर्थवर्णनम्। आद्ये साधु समर्थितं स्मृत्यपलापिन आत्मन आस्तिकत्वम् ॥ न द्वितीयः । व्यभि- चाराभावादेव ॥ न ह्यत्राधीनसत्ताकत्वं नाम बहिरेवाश्रितत्वं घटस्य भूतल इव विवक्षितम् । किं नाम 'यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया' इति श्रुत्या 'यद्यस्य जन्म निधनं स्मृतिरीक्षणं च तद्वै तदेवे'ति स्मृत्या चोक्तं सत्ताप्रतीतिप्रवृत्तिषु तदधीनत्वम् । न ह्ये-वंविधं स्थूणाधीनत्वं मन्दिरेऽस्ति येन व्यभिचारचोदनावकाशः । न च निरवकाशस्मृतेरर्थान्तरेऽवकाशोऽस्ति । राजा राष्ट्रमिति लोके तत्त्वमसीत्यादौ वेदे स्वातन्त्र्यविशिष्टत्वस्थानमत्यैक्याभिप्रायेण सामानाधिकरण्यनिर्देशानां सुबहुलमुपलम्भात् ।

एतेन 'यन्मयं जगदित्युक्तसामानाधिकरण्यानुपपत्त्या उपा- दानत्वसिद्धिरिति परास्तम् । 'मयं प्रधानमुद्दिष्टमिति निर्वचना- नुरोधेन ब्रह्मप्रधानकं जगदित्यर्थोपपत्तेः । कृष्णभीतः कंसः 'अपश्यत्तन्मयं जगत्' इति स्मृत्युक्तदिशा 'सर्वं समाप्नोषि ततोऽसि सर्वः' इति गीतानुरोधेन च व्याप्त्यैक्यपरत्वोपपत्तेः । न च व्याप्त्यु- क्तिमात्रेण शरीरित्वम् । कालाकाशयोरपि तद्भावापत्तेः । 'यतश्च' 'यतो वा' इत्यादौ पञ्चमी निमित्तकारणत्वमात्रपरेत्युक्तम् । 'जनि-कर्तुः प्रकृतिरिति सूत्रमपि नैवोपादानतां विधत्ते । किं नाम जनेः कर्तुर्जायमानस्य या प्रकृतिः उपादानसंसृष्टमपायेऽवधिभूतं द्रव्यं तत्कारकमपादानसंज्ञं भवतीति । उदाहरणेष्वपि यच्छृङ्गादीनां शरा- दीन्प्रति उपादानभूतः एकदेशः तत्संसृष्टं शृङ्गाद्येकदेशान्तरं तदेव शराद्यापायावधितया कारकं भवति । प्रकृतेर्महान् महतोऽहङ्कार इत्यादिप्रयोगेष्वपि इयमेव गतिः ।

किं च भाष्यकारेण 'अयमपि योगः शक्योऽवक्तुमिति प्रत्या-चक्षाणेनायमेवार्थः सूचितः । अन्यथा गतार्थत्वं नावक्ष्यत् । तथा सूत्रं समादधानानां वृत्तिकाराणामप्ययमेवार्थः संमत इति गम्यते । वृत्तौ पुत्रात्प्रमोदो जायते इत्यस्याप्युदाहृतत्वात् । एवं न्यासेऽपि प्रकृतिपदं 'पुत्रात्प्रमोदो जायते' इत्यादौ अनुपादानेऽप्यपादान-संज्ञार्थमित्युक्तत्वात् । अतः सौत्रः प्रकृतिशब्दो नोपादानार्थक इति निष्टङ्कितम् ।

किं च, कुतश्च यत इत्यत्र पञ्चमीत्यवधृतम्। तसेः सार्व- विभक्तिकत्वात् । आत्मन आकाशादित्यनेनैकार्थत्वादिति चेन्न । तस्याः पञ्चम्या 'भुवः प्रभव' इति विशेषविहिताभिव्यक्त्यवधितार्थत्वात् ।

यदप्युक्तं योनिशब्दस्यानेकार्थकत्वेऽपि यथोर्णनाभिरित्या- दिदृष्टान्तैरेव अस्य स्वमुख्यार्थोपादानार्थकत्वस्फोरणादिति । तन्न । स्यादेवं कथञ्चिद्यदि दृष्टान्ता अप्युपादानार्थकाः स्युः । नैवमस्ति । तत्राप्यूर्णनाभ्यादिभिरुपभुक्तमन्नं तन्त्वादिकार्यरूपेण परिणतं भवेदित्येवार्थः। योनिशब्दः उपादानमुख्यार्थ इति च निर्मूलम् । एतेन प्रपञ्चस्य ब्रह्मणि लयोक्त्योपादानत्वसिद्धिरिति प्रत्युक्तम् । महा- प्रलये परमेश्वरेण निगीर्णं महदादिकार्यं प्रधानतां गच्छति इत्येव तदर्थत्वात् ।

एतेनैव ब्रह्म वनं ब्रह्म स वृक्ष आसीत् इत्यादि प्रतिवचनो-क्त्योपादानत्वसिद्धिरिति कण्ठकोलाहला निरस्ताः । परब्रह्मणः स्रष्टृत्वादिना पृथगुपात्ततया तत्र ब्रह्मशब्दस्य प्रकृत्यर्थत्वात् ॥

यच्वोक्तं महदाद्युपादानत्वं स्वशरीरद्वारकतामात्रेण न अमुख्यं निर्वाहकव्यवहितत्वादित्यादि तच्च जल्पमात्रम् । उपादानत्वमेव नास्ति दूरे तस्य शरीरद्वारकत्वं इत्युक्तत्वात् । उपादाने द्वैविध्य-कल्पनं तु कपोणिगुडायितम् ।

ब्रह्म अचिच्छरीरविशिष्टं इति अत्र परस्परमत्यन्तभिन्ने द्वे वस्तुनी । तत्रैकं ब्रह्म निर्विकारं जगन्निमित्तमेव । अपरं तु अचेतनं परिणामि जगदुपादानमेव इत्यङ्गीकारे नेश्वरस्य केवलनिमित्तत्व- वादिनामस्माकं कश्चिद्विवादः । उपादानत्वं तु ब्रह्मणः सर्व- प्रमाणप्रतिहतं तिरस्करणीयमेव । प्रकृत्यधिकरणसूत्राणां कुकल्पनामात्रमूलमन्यथाऽर्थवर्णनं पूर्वोक्तेनैव निपुणतया निरस्त- मिति, अलं विस्तरेण निर्दलदुर्मतविशसनेन ।