तस्य प्राकृतत्वेन द्रव्यान्तरत्वायोगः

स्वरूपातिरिक्तधर्मभूतज्ञानखण्डनम्

विजयीन्द्र... विवेचनम् :

किं च धर्मभूतज्ञानशब्देन अन्तःकरणपरिणामरूप-वृत्तिज्ञानोक्तौ तस्य प्राकृतत्वेन द्रव्यान्तरत्वायोगः । तद्व्यतिरिक्तं जीवेश्वरस्वरूपातिरिक्तं नित्यज्ञानं नास्त्येव । प्रमाणाभावात् ।

परकालयतिः :

संसृतिमोक्षगतसङ्कोचविकासयोः स्वरूपव्यतिरिक्तनित्य- धर्मज्ञानमन्तरेणानुपपत्तेः । स्वरूपस्यैव सङ्कोचे अन्यप्रकाश- त्वापत्तिः । । स्वरूपस्यैव विकासे तन्नाशोऽप्यवर्जनीय इति मुक्तेरपुरुषार्थता अनित्यता च स्यात् । जीवस्य अणुत्वश्रुतिभङ्गश्च । इति ।

खण्डनम् :

तदसारम् । सङ्कोचविकासाभ्यां आक्षेप्यं नित्यधर्मज्ञानं न तावत्प्राकृतम्। मुक्तावनुवृत्तेः । द्रव्यान्तरत्वायोगेन षाड्विध्य- भङ्गापत्तेश्च । अप्राकृतमपि चेतनं अचेतनं वा । न द्वितीयः । त्वदभि- मतस्वप्रकाशत्वानुपपत्तेः । आद्यं तु स्यात् । न च तथा सति तस्य जीवेश्वरस्वरूपातिरेकः संभवति इति पुनः द्रव्याणां षड्विधत्वा- नुपपत्तिरेव ।

यदत्रोक्तं, :-

न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते अविनाशित्वात्' 'तथा हेयगुणध्वंसादवबोधादयो गुणाः । प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते' इत्यादिकं नित्यधर्मज्ञाने प्रमाणम् ।इति तदपि हेयम्।न हि द्रष्टुर्दृष्टेरिति श्रुतेरीश्वरस्वरूपपरत्वात् । 'तथे 'ति स्मृतेश्च जीवस्वरूपस्य साक्षिताऽऽदिनित्यत्वप्रतिपादनपरत्वमेव ।

परकालयतिः :

'न हि दृष्टेः' इति श्रुतिर्मुक्तपरैव । ईश्वरे तस्य नित्यधर्मज्ञानस्य कदाऽपि विपरिलोपाप्रसक्तेः ।..... । जीवस्य नाशः धर्मभूतज्ञानस्य सम्यक्तिरोधानमेवेति ।

खण्डनम् :

तदसारम् । विपरिलोपशब्दस्य न नाशः अर्थः । किं तु बाध एव । स च ईश्वरदृष्टेः कुसमयादिप्रसक्तः । तवैवाप्रसक्तप्रतिषेधो दोषः । जीवस्य नाशस्य अप्रसक्तेः । भिन्नस्य धर्मस्य तिरोधानेन जीवस्य नाशोक्तिः असङ्गतैव । अभिन्नत्वे तन्नाशेन तन्नाशो दुष्परि- हरः । त्वयैवचिद्गुणस्य स्वरूपत्वात्' इति स्कान्दवचनं, 'प्रभावतः प्रभेव चिगुणाख्यं धर्मज्ञानं धर्मिणः स्वरूपं वक्ती 'ति कथितत्वेन, श्रुत्यन्यथाऽर्थवर्णनमयुक्तमनुपयुक्तं च ।

या तुअविरोधश्चन्दनवदिति सूत्रस्य वस्तुस्थित्यननुगुणत्वोक्तिः सा परतत्त्वप्रद्वेषस्वभावविजृम्भितेति तिरस्कार्यैव । न खलु 'गुणाद्वाऽलोकः' इति उत्तरसूत्रस्थः पक्षान्तरसमुच्चयपरः वाशब्दः पूर्वसूत्रस्य सूत्रकृदनभिप्रेतार्थपरतां सहते । मनोवृत्तिज्ञानस्वरूप-निराकरणं 'सर्वं मन एव' इति श्रुतिविरुद्धम् ।एवकारेण त्वदभिमतनित्यधर्मज्ञानस्य निराकरणात् ।