यश्चिदानन्दसच्छक्तिसम्पूर्णो भगवान् परः
अन्तिमं मङ्गलाचरणम्
भाष्यम्
यश्चिदानन्दसच्छक्तिसम्पूर्णो भगवान् परः ।
नमोऽस्तु विष्णवे तस्मै प्रेयसे मे परात्मने ॥
।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं
तलवकारोपनिषद्भाप्यं सम्पूर्णम् ||
श्रीव्यासतीर्थविरचितंविवरणम्
व्यासतीर्थीयम्- मङ्गलावसानस्य शास्त्रस्य प्रचयादिहेतुत्वात् भाष्यं समाप्यान्तंऽपि स्वेष्टदेवतास्तुतिनमनरूपं मङ्गलमाचरति - य इति ॥
यत्पदं मुनिभिर्ध्यातं वेदान्तश्रान्तमानसैः ।
तं वन्दे परमात्मानं विष्णुं श्रीमध्ववल्लभम् ॥ १ ॥
।। इतिश्रीमदानन्दतीर्थभगवत्पादविरचिततलवकारोपनिषद्भाष्यस्य विवरणं श्रीमज्जयतीर्थपूज्यचरणशिष्यव्यासतीर्थविरचितं सम्पूर्णम् ॥
श्रीवामनपण्डितविरचिताटीका
वामनटीका— अथेदानीमेतद्भाष्यकारभट्टारको भगवान् गुरूणामपि गुरुतमः
सुरवरपुरःसरसज्जननिकरनिरन्तराराधितचरणसरोरुहो ग्रन्थावसाने स्वस्वामिने विष्णवे स्वकृतसमर्पणबुद्धया नमस्करोति-
‘यश्चिदानन्दसच्छक्तिसम्पूर्णो भगवान् परः ।
नमोऽस्तु विष्णवे तस्मै प्रेयसे मे परात्मने' इति ॥
सृष्टिसंहारसच्छक्तिसुखज्ञानादिसद्गुणैः ।
पूर्णात्मने मध्वदेवप्रेयसे विष्णवे नमः ॥
यस्य त्रिरूपाण्युदितानि वायोर्वेदे वलज्ञानवतो बळादौ ।
दशप्रमत्याख्यतृतीयरूपी भाष्यं चकारेदमचिन्त्यशक्तौ ।।
टीकां तलवकारोपनिषद्भाष्यस्य लेशतः ।
त्रैविक्रमार्यानुचरः कृत्वेमां प्रार्पयद्धरौ ॥
नमस्ते श्रीशास्तु प्रियतम समस्तादपि सदा
नमस्ते प्राणेश प्रणतसुरसङ्गेष्टसुखद ।
नमो वस्तद्दासाः परमगुरवस्तत्वमतिदा
नमो वस्तद्दासाः पुनरपि गुरुभ्यो मुहुरपि ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादविरचितस्य श्रीतलवकारोपनिपद्भाप्यस्य टीका
त्रैविक्रमार्यदासविरचिता समाप्ता ॥
श्रीवेदेशतीर्थविरचितंविवरणम्
वे. विवरणम् – एवं समापितभाष्यो भगवानाचार्योऽन्तेऽपि भगवत्स्तुतिनतिरूपं मङ्गलमाचरति - य इति ॥
श्रीमदानन्दतीर्थार्यहृत्सरोजे व्यवस्थितः ।
आनन्दादिगुणोद्रिक्तः प्रीयतां कमलापतिः ।।
।। इति श्रीमदान्दतीर्थभगवत्पादाचार्यविरचितस्य तलवकारोपनिषद्भाष्यस्य विवरणं वेदेशतीर्थभिक्षुर्विरचितं समाप्तम् ।।
श्रीसत्यप्रियतीर्थविरचिताभाष्यविवृतिः
स. भाष्यविवृतिः - अन्तेऽपि मङ्गलमाचरति - य इति ।। मे प्रेष्ठाय इत्यशेषमतिमङ्गलम् ।।
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य तलवकारोपनिषद्भाष्यस्य विवरणम् ॥
॥ श्रीमत्सत्यविजयपूज्यपादशिष्यसत्यप्रियतीर्थयतिना कृतं समानोत् ॥ वरदतीर्थीयम् - श्रुतिवाक्यस्य कार्यावसानेऽपि मङ्गलमाचरति - य इति ।
रमाकरवराम्भोजसमाराध्योऽपिमाधवः ।
पूजितोऽस्तु शतप्रीतिं मया वाक्पुष्पमालया ॥
।। इति वरदतीर्थविरचिता तलवकारोपनिषद्भाष्यटीका समाप्ता ॥
॥ श्रीकृष्णार्पणमस्तु ॥
॥ हरिः ॐ ॥
आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदम् । माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोत् । अनिराकरणमस्त्वनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥